Ṛk 8.51.9
Saṃhitā
यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः ।
ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः |
तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो अज्यते रयिः ||
yásyāyám víśva ā́ryo dā́saḥ śevadhipā́ aríḥ ǀ
tiráścidaryé rúśame párīravi túbhyétsó ajyate rayíḥ ǁ
yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ |
tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ ||
Padapāṭha
यस्य॑ । अ॒यम् । विश्वः॑ । आर्यः॑ । दासः॑ । शे॒व॒धि॒ऽपाः । अ॒रिः ।
ति॒रः । चि॒त् । अ॒र्ये । रुश॑मे । पवी॑रवि । तुभ्य॑ । इत् । सः । अ॒ज्य॒ते॒ । र॒यिः ॥
यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिऽपाः । अरिः ।
तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः ॥
yásya ǀ ayám ǀ víśvaḥ ǀ ā́ryaḥ ǀ dā́saḥ ǀ śevadhi-pā́ḥ ǀ aríḥ ǀ
tiráḥ ǀ cit ǀ aryé ǀ rúśame ǀ pávīravi ǀ túbhya ǀ ít ǀ sáḥ ǀ ajyate ǀ rayíḥ ǁ
yasya ǀ ayam ǀ viśvaḥ ǀ āryaḥ ǀ dāsaḥ ǀ śevadhi-pāḥ ǀ ariḥ ǀ
tiraḥ ǀ cit ǀ arye ǀ ruśame ǀ pavīravi ǀ tubhya ǀ it ǀ saḥ ǀ ajyate ǀ rayiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.051.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.19.04
- Maṇḍala · Anuvāka · Ṛk
- 08.06.200
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śruṣṭigu Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.