Ṛk 8.51.8
Saṃhitā
प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् ।
य॒देदस्तं॑भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥
प्र यो ननक्षे अभ्य् ओजसा क्रिविं वधैः शुष्णं निघोषयन् |
यदेद् अस्तम्भीत् प्रथयन्न् अमूं दिवम् आद् इज् जनिष्ट पार्थिवः ||
prá yó nanakṣé abhyójasā krívim vadháiḥ śúṣṇam nighoṣáyan ǀ
yadédástambhītpratháyannamū́m dívamā́díjjaniṣṭa pā́rthivaḥ ǁ
pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan |
yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ ||
Padapāṭha
प्र । यः । न॒न॒क्षे । अ॒भि । ओज॑सा । क्रिवि॑म् । व॒धैः । शुष्ण॑म् । नि॒ऽघो॒षय॑न् ।
य॒दा । इत् । अस्त॑म्भीत् । प्र॒थय॑न् । अ॒मूम् । दिव॑म् । आत् । इत् । ज॒नि॒ष्ट॒ । पार्थि॑वः ॥
प्र । यः । ननक्षे । अभि । ओजसा । क्रिविम् । वधैः । शुष्णम् । निऽघोषयन् ।
यदा । इत् । अस्तम्भीत् । प्रथयन् । अमूम् । दिवम् । आत् । इत् । जनिष्ट । पार्थिवः ॥
prá ǀ yáḥ ǀ nanakṣé ǀ abhí ǀ ójasā ǀ krívim ǀ vadháiḥ ǀ śúṣṇam ǀ ni-ghoṣáyan ǀ
yadā́ ǀ ít ǀ ástambhīt ǀ pratháyan ǀ amū́m ǀ dívam ǀ ā́t ǀ ít ǀ janiṣṭa ǀ pā́rthivaḥ ǁ
pra ǀ yaḥ ǀ nanakṣe ǀ abhi ǀ ojasā ǀ krivim ǀ vadhaiḥ ǀ śuṣṇam ǀ ni-ghoṣayan ǀ
yadā ǀ it ǀ astambhīt ǀ prathayan ǀ amūm ǀ divam ǀ āt ǀ it ǀ janiṣṭa ǀ pārthivaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.051.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.19.03
- Maṇḍala · Anuvāka · Ṛk
- 08.06.199
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śruṣṭigu Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.