Ṛgveda · Maṇḍala 8

Sūkta 18

Ādityās · Aryaman, Bhaga, Mitra, Varuṇa, Savitṛ · Aditi · Aśvins · Agni, Vāta, Sūrya · Aśvins, Mitra, Varuṇa · Aryaman, Maruts, Mitra, Varuṇa · Irimbiṭhi Kāṇva · 22 ṛks

Link
Devatā देवता
1, 2, 5, 10-19, 22: Ādityās; 3: Aryaman, Bhaga, Mitra, Varuṇa, Savitṛ; 4, 6, 7: Aditi; 8: Aśvins; 9: Agni, Vāta, Sūrya; 20: Aśvins, Mitra, Varuṇa; 21: Aryaman, Maruts, Mitra, Varuṇa
Ṛṣi ऋषि
Irimbiṭhi Kāṇva
Chandas छन्दस्
Uṣṇih
Metres by ṛk

1st set of styles uṣṇik (3, 8, 10, 11, 17, 18, 22); nicṛduṣṇik (5-7, 12, 14, 19, 20); pādanicṛduṣṇik (1, 13, 15, 16); virāḍuṣnik (4, 9, 21); svarāḍārcyuṣnik (2)

2nd set of styles uṣṇih

  1. Ṛk 1

    इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ ।
    आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥

    इदं ह नूनम् एषां सुम्नम् भिक्षेत मर्त्यः |
    आदित्यानाम् अपूर्व्यं सवीमनि ||

    idám ha nūnámeṣām sumnám bhikṣeta mártyaḥ ǀ
    ādityā́nāmápūrvyam sávīmani ǁ

    idaṃ ha nūnam eṣāṃ sumnam bhikṣeta martyaḥ |
    ādityānām apūrvyaṃ savīmani ||

    इ॒दम् । ह॒ । नू॒नम् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ ।
    आ॒दि॒त्याना॑म् । अपू॑र्व्यम् । सवी॑मनि ॥

    इदम् । ह । नूनम् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः ।
    आदित्यानाम् । अपूर्व्यम् । सवीमनि ॥

    idám ǀ ha ǀ nūnám ǀ eṣām ǀ sumnám ǀ bhikṣeta ǀ mártyaḥ ǀ
    ādityā́nām ǀ ápūrvyam ǀ sávīmani ǁ

    idam ǀ ha ǀ nūnam ǀ eṣām ǀ sumnam ǀ bhikṣeta ǀ martyaḥ ǀ
    ādityānām ǀ apūrvyam ǀ savīmani ǁ

    8.18.1 Aṣṭaka 6.1.25.1Anuvāka 8.3.89

  2. Ṛk 2

    अ॒न॒र्वाणो॒ ह्ये॑षां॒ पंथा॑ आदि॒त्यानां॑ ।
    अद॑ब्धाः॒ संति॑ पा॒यवः॑ सुगे॒वृधः॑ ॥

    अनर्वाणो ह्य् एषाम् पन्था आदित्यानाम् |
    अदब्धाः सन्ति पायवः सुगेवृधः ||

    anarvā́ṇo hyéṣām pánthā ādityā́nām ǀ
    ádabdhāḥ sánti pāyávaḥ sugevṛ́dhaḥ ǁ

    anarvāṇo hy eṣām panthā ādityānām |
    adabdhāḥ santi pāyavaḥ sugevṛdhaḥ ||

    अ॒न॒र्वाणः॑ । हि । ए॒षा॒म् । पन्थाः॑ । आ॒दि॒त्याना॑म् ।
    अद॑ब्धाः । सन्ति॑ । पा॒यवः॑ । सु॒गे॒ऽवृधः॑ ॥

    अनर्वाणः । हि । एषाम् । पन्थाः । आदित्यानाम् ।
    अदब्धाः । सन्ति । पायवः । सुगेऽवृधः ॥

    anarvā́ṇaḥ ǀ hí ǀ eṣām ǀ pánthāḥ ǀ ādityā́nām ǀ
    ádabdhāḥ ǀ sánti ǀ pāyávaḥ ǀ suge-vṛ́dhaḥ ǁ

    anarvāṇaḥ ǀ hi ǀ eṣām ǀ panthāḥ ǀ ādityānām ǀ
    adabdhāḥ ǀ santi ǀ pāyavaḥ ǀ suge-vṛdhaḥ ǁ

    8.18.2 Aṣṭaka 6.1.25.2Anuvāka 8.3.90

  3. Ṛk 3

    तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
    शर्म॑ यच्छंतु स॒प्रथो॒ यदीम॑हे ॥

    तत् सु नः सविता भगो वरुणो मित्रो अर्यमा |
    शर्म यच्छन्तु सप्रथो यद् ईमहे ||

    tátsú naḥ savitā́ bhágo váruṇo mitró aryamā́ ǀ
    śárma yacchantu saprátho yádī́mahe ǁ

    tat su naḥ savitā bhago varuṇo mitro aryamā |
    śarma yacchantu sapratho yad īmahe ||

    तत् । सु । नः॒ । स॒वि॒ता । भगः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
    शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । यत् । ईम॑हे ॥

    तत् । सु । नः । सविता । भगः । वरुणः । मित्रः । अर्यमा ।
    शर्म । यच्छन्तु । सऽप्रथः । यत् । ईमहे ॥

    tát ǀ sú ǀ naḥ ǀ savitā́ ǀ bhágaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
    śárma ǀ yacchantu ǀ sa-práthaḥ ǀ yát ǀ ī́mahe ǁ

    tat ǀ su ǀ naḥ ǀ savitā ǀ bhagaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
    śarma ǀ yacchantu ǀ sa-prathaḥ ǀ yat ǀ īmahe ǁ

    8.18.3 Aṣṭaka 6.1.25.3Anuvāka 8.3.91

  4. Ṛk 4

    दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि ।
    स्मत्सू॒रिभिः॑ पुरुप्रिये सु॒शर्म॑भिः ॥

    देवेभिर् देव्य् अदिते ऽरिष्टभर्मन्न् आ गहि |
    स्मत् सूरिभिः पुरुप्रिये सुशर्मभिः ||

    devébhirdevyadité’riṣṭabharmannā́ gahi ǀ
    smátsūríbhiḥ purupriye suśármabhiḥ ǁ

    devebhir devy adite 'riṣṭabharmann ā gahi |
    smat sūribhiḥ purupriye suśarmabhiḥ ||

    दे॒वेभिः॑ । दे॒वि॒ । अ॒दि॒ते॒ । अरि॑ष्टऽभर्मन् । आ । ग॒हि॒ ।
    स्मत् । सू॒रिऽभिः॑ । पु॒रु॒ऽप्रि॒ये॒ । सु॒शर्म॑ऽभिः ॥

    देवेभिः । देवि । अदिते । अरिष्टऽभर्मन् । आ । गहि ।
    स्मत् । सूरिऽभिः । पुरुऽप्रिये । सुशर्मऽभिः ॥

    devébhiḥ ǀ devi ǀ adite ǀ áriṣṭa-bharman ǀ ā́ ǀ gahi ǀ
    smát ǀ sūrí-bhiḥ ǀ puru-priye ǀ suśárma-bhiḥ ǁ

    devebhiḥ ǀ devi ǀ adite ǀ ariṣṭa-bharman ǀ ā ǀ gahi ǀ
    smat ǀ sūri-bhiḥ ǀ puru-priye ǀ suśarma-bhiḥ ǁ

    8.18.4 Aṣṭaka 6.1.25.4Anuvāka 8.3.92

  5. Ṛk 5

    ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे ।
    अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ ॥

    ते हि पुत्रासो अदितेर् विदुर् द्वेषांसि योतवे |
    अंहोश् चिद् उरुचक्रयो ऽनेहसः ||

    té hí putrā́so áditervidúrdvéṣāṃsi yótave ǀ
    aṃhóścidurucákrayo’nehásaḥ ǁ

    te hi putrāso aditer vidur dveṣāṃsi yotave |
    aṃhoś cid urucakrayo 'nehasaḥ ||

    ते । हि । पु॒त्रासः॑ । अदि॑तेः । वि॒दुः । द्वेषां॑सि । योत॑वे ।
    अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः । अ॒ने॒हसः॑ ॥

    ते । हि । पुत्रासः । अदितेः । विदुः । द्वेषांसि । योतवे ।
    अंहोः । चित् । उरुऽचक्रयः । अनेहसः ॥

    té ǀ hí ǀ putrā́saḥ ǀ áditeḥ ǀ vidúḥ ǀ dvéṣāṃsi ǀ yótave ǀ
    aṃhóḥ ǀ cit ǀ uru-cákrayaḥ ǀ anehásaḥ ǁ

    te ǀ hi ǀ putrāsaḥ ǀ aditeḥ ǀ viduḥ ǀ dveṣāṃsi ǀ yotave ǀ
    aṃhoḥ ǀ cit ǀ uru-cakrayaḥ ǀ anehasaḥ ǁ

    8.18.5 Aṣṭaka 6.1.25.5Anuvāka 8.3.93

  6. Ṛk 6

    अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः ।
    अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥

    अदितिर् नो दिवा पशुम् अदितिर् नक्तम् अद्वयाः |
    अदितिः पात्व् अंहसः सदावृधा ||

    áditirno dívā paśúmáditirnáktamádvayāḥ ǀ
    áditiḥ pātváṃhasaḥ sadā́vṛdhā ǁ

    aditir no divā paśum aditir naktam advayāḥ |
    aditiḥ pātv aṃhasaḥ sadāvṛdhā ||

    अदि॑तिः । नः॒ । दिवा॑ । प॒शुम् । अदि॑तिः । नक्त॑म् । अद्व॑याः ।
    अदि॑तिः । पा॒तु॒ । अंह॑सः । स॒दाऽवृ॑धा ॥

    अदितिः । नः । दिवा । पशुम् । अदितिः । नक्तम् । अद्वयाः ।
    अदितिः । पातु । अंहसः । सदाऽवृधा ॥

    áditiḥ ǀ naḥ ǀ dívā ǀ paśúm ǀ áditiḥ ǀ náktam ǀ ádvayāḥ ǀ
    áditiḥ ǀ pātu ǀ áṃhasaḥ ǀ sadā́-vṛdhā ǁ

    aditiḥ ǀ naḥ ǀ divā ǀ paśum ǀ aditiḥ ǀ naktam ǀ advayāḥ ǀ
    aditiḥ ǀ pātu ǀ aṃhasaḥ ǀ sadā-vṛdhā ǁ

    8.18.6 Aṣṭaka 6.1.26.1Anuvāka 8.3.94

  7. Ṛk 7

    उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् ।
    सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ॥

    उत स्या नो दिवा मतिर् अदितिर् ऊत्या गमत् |
    सा शन्ताति मयस् करद् अप स्रिधः ||

    utá syā́ no dívā matíráditirūtyā́ gamat ǀ
    sā́ śáṃtāti máyaskaradápa srídhaḥ ǁ

    uta syā no divā matir aditir ūtyā gamat |
    sā śantāti mayas karad apa sridhaḥ ||

    उ॒त । स्या । नः॒ । दिवा॑ । म॒तिः । अदि॑तिः । ऊ॒त्या । आ । ग॒म॒त् ।
    सा । शम्ऽता॑ति । मयः॑ । क॒र॒त् । अप॑ । स्रिधः॑ ॥

    उत । स्या । नः । दिवा । मतिः । अदितिः । ऊत्या । आ । गमत् ।
    सा । शम्ऽताति । मयः । करत् । अप । स्रिधः ॥

    utá ǀ syā́ ǀ naḥ ǀ dívā ǀ matíḥ ǀ áditiḥ ǀ ūtyā́ ǀ ā́ ǀ gamat ǀ
    sā́ ǀ śám-tāti ǀ máyaḥ ǀ karat ǀ ápa ǀ srídhaḥ ǁ

    uta ǀ syā ǀ naḥ ǀ divā ǀ matiḥ ǀ aditiḥ ǀ ūtyā ǀ ā ǀ gamat ǀ
    sā ǀ śam-tāti ǀ mayaḥ ǀ karat ǀ apa ǀ sridhaḥ ǁ

    8.18.7 Aṣṭaka 6.1.26.2Anuvāka 8.3.95

  8. Ṛk 8

    उ॒त त्या दैव्या॑ भि॒षजा॒ शं नः॑ करतो अ॒श्विना॑ ।
    यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिधः॑ ॥

    उत त्या दैव्या भिषजा शं नः करतो अश्विना |
    युयुयाताम् इतो रपो अप स्रिधः ||

    utá tyā́ dáivyā bhiṣájā śám naḥ karato aśvínā ǀ
    yuyuyā́tāmitó rápo ápa srídhaḥ ǁ

    uta tyā daivyā bhiṣajā śaṃ naḥ karato aśvinā |
    yuyuyātām ito rapo apa sridhaḥ ||

    उ॒त । त्या । दैव्या॑ । भि॒षजा॑ । शम् । नः॒ । क॒र॒तः॒ । अ॒श्विना॑ ।
    यु॒यु॒याता॑म् । इ॒तः । रपः॑ । अप॑ । स्रिधः॑ ॥

    उत । त्या । दैव्या । भिषजा । शम् । नः । करतः । अश्विना ।
    युयुयाताम् । इतः । रपः । अप । स्रिधः ॥

    utá ǀ tyā́ ǀ dáivyā ǀ bhiṣájā ǀ śám ǀ naḥ ǀ karataḥ ǀ aśvínā ǀ
    yuyuyā́tām ǀ itáḥ ǀ rápaḥ ǀ ápa ǀ srídhaḥ ǁ

    uta ǀ tyā ǀ daivyā ǀ bhiṣajā ǀ śam ǀ naḥ ǀ karataḥ ǀ aśvinā ǀ
    yuyuyātām ǀ itaḥ ǀ rapaḥ ǀ apa ǀ sridhaḥ ǁ

    8.18.8 Aṣṭaka 6.1.26.3Anuvāka 8.3.96

  9. Ṛk 9

    शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ ।
    शं वातो॑ वात्वर॒पा अप॒ स्रिधः॑ ॥

    शम् अग्निर् अग्निभिः करच् छं नस् तपतु सूर्यः |
    शं वातो वात्व् अरपा अप स्रिधः ||

    śámagníragníbhiḥ karacchám nastapatu sū́ryaḥ ǀ
    śám vā́to vātvarapā́ ápa srídhaḥ ǁ

    śam agnir agnibhiḥ karac chaṃ nas tapatu sūryaḥ |
    śaṃ vāto vātv arapā apa sridhaḥ ||

    शम् । अ॒ग्निः । अ॒ग्निऽभिः॑ । क॒र॒त् । शम् । नः॒ । त॒प॒तु॒ । सूर्यः॑ ।
    शम् । वातः॑ । वा॒तु॒ । अ॒र॒पाः । अप॑ । स्रिधः॑ ॥

    शम् । अग्निः । अग्निऽभिः । करत् । शम् । नः । तपतु । सूर्यः ।
    शम् । वातः । वातु । अरपाः । अप । स्रिधः ॥

    śám ǀ agníḥ ǀ agní-bhiḥ ǀ karat ǀ śám ǀ naḥ ǀ tapatu ǀ sū́ryaḥ ǀ
    śám ǀ vā́taḥ ǀ vātu ǀ arapā́ḥ ǀ ápa ǀ srídhaḥ ǁ

    śam ǀ agniḥ ǀ agni-bhiḥ ǀ karat ǀ śam ǀ naḥ ǀ tapatu ǀ sūryaḥ ǀ
    śam ǀ vātaḥ ǀ vātu ǀ arapāḥ ǀ apa ǀ sridhaḥ ǁ

    8.18.9 Aṣṭaka 6.1.26.4Anuvāka 8.3.97

  10. Ṛk 10

    अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिं ।
    आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥

    अपामीवाम् अप स्रिधम् अप सेधत दुर्मतिम् |
    आदित्यासो युयोतना नो अंहसः ||

    ápā́mīvāmápa srídhamápa sedhata durmatím ǀ
    ā́dityāso yuyótanā no áṃhasaḥ ǁ

    apāmīvām apa sridham apa sedhata durmatim |
    ādityāso yuyotanā no aṃhasaḥ ||

    अप॑ । अमी॑वाम् । अप॑ । स्रिध॑म् । अप॑ । से॒ध॒त॒ । दुः॒ऽम॒तिम् ।
    आदि॑त्यासः । यु॒योत॑न । नः॒ । अंह॑सः ॥

    अप । अमीवाम् । अप । स्रिधम् । अप । सेधत । दुःऽमतिम् ।
    आदित्यासः । युयोतन । नः । अंहसः ॥

    ápa ǀ ámīvām ǀ ápa ǀ srídham ǀ ápa ǀ sedhata ǀ duḥ-matím ǀ
    ā́dityāsaḥ ǀ yuyótana ǀ naḥ ǀ áṃhasaḥ ǁ

    apa ǀ amīvām ǀ apa ǀ sridham ǀ apa ǀ sedhata ǀ duḥ-matim ǀ
    ādityāsaḥ ǀ yuyotana ǀ naḥ ǀ aṃhasaḥ ǁ

    8.18.10 Aṣṭaka 6.1.26.5Anuvāka 8.3.98

  11. Ṛk 11

    यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिं ।
    ऋध॒ग्द्वेषः॑ कृणुत विश्ववेदसः ॥

    युयोता शरुम् अस्मद् आं आदित्यास उतामतिम् |
    ऋधग् द्वेषः कृणुत विश्ववेदसः ||

    yuyótā śárumasmádā́m̐ ā́dityāsa utā́matim ǀ
    ṛ́dhagdvéṣaḥ kṛṇuta viśvavedasaḥ ǁ

    yuyotā śarum asmad āṃ ādityāsa utāmatim |
    ṛdhag dveṣaḥ kṛṇuta viśvavedasaḥ ||

    यु॒योत॑ । शरु॑म् । अ॒स्मत् । आ । आदि॑त्यासः । उ॒त । अम॑तिम् ।
    ऋध॑क् । द्वेषः॑ । कृ॒णु॒त॒ । वि॒श्व॒ऽवे॒द॒सः॒ ॥

    युयोत । शरुम् । अस्मत् । आ । आदित्यासः । उत । अमतिम् ।
    ऋधक् । द्वेषः । कृणुत । विश्वऽवेदसः ॥

    yuyóta ǀ śárum ǀ asmát ǀ ā́ ǀ ā́dityāsaḥ ǀ utá ǀ ámatim ǀ
    ṛ́dhak ǀ dvéṣaḥ ǀ kṛṇuta ǀ viśva-vedasaḥ ǁ

    yuyota ǀ śarum ǀ asmat ǀ ā ǀ ādityāsaḥ ǀ uta ǀ amatim ǀ
    ṛdhak ǀ dveṣaḥ ǀ kṛṇuta ǀ viśva-vedasaḥ ǁ

    8.18.11 Aṣṭaka 6.1.27.1Anuvāka 8.3.99

  12. Ṛk 12

    तत्सु नः॒ शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो॑चति ।
    एन॑स्वंतं चि॒देन॑सः सुदानवः ॥

    तत् सु नः शर्म यच्छतादित्या यन् मुमोचति |
    एनस्वन्तं चिद् एनसः सुदानवः ||

    tátsú naḥ śárma yacchatā́dityā yánmúmocati ǀ
    énasvantam cidénasaḥ sudānavaḥ ǁ

    tat su naḥ śarma yacchatādityā yan mumocati |
    enasvantaṃ cid enasaḥ sudānavaḥ ||

    तत् । सु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । आदि॑त्याः । यत् । मुमो॑चति ।
    एन॑स्वन्तम् । चि॒त् । एन॑सः । सु॒ऽदा॒न॒वः॒ ॥

    तत् । सु । नः । शर्म । यच्छत । आदित्याः । यत् । मुमोचति ।
    एनस्वन्तम् । चित् । एनसः । सुऽदानवः ॥

    tát ǀ sú ǀ naḥ ǀ śárma ǀ yacchata ǀ ā́dityāḥ ǀ yát ǀ múmocati ǀ
    énasvantam ǀ cit ǀ énasaḥ ǀ su-dānavaḥ ǁ

    tat ǀ su ǀ naḥ ǀ śarma ǀ yacchata ǀ ādityāḥ ǀ yat ǀ mumocati ǀ
    enasvantam ǀ cit ǀ enasaḥ ǀ su-dānavaḥ ǁ

    8.18.12 Aṣṭaka 6.1.27.2Anuvāka 8.3.100

  13. Ṛk 13

    यो नः॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्यः॑ ।
    स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जनः॑ ॥

    यो नः कश् चिद् रिरिक्षति रक्षस्त्वेन मर्त्यः |
    स्वैः ष एवै रिरिषीष्ट युर् जनः ||

    yó naḥ káścidrírikṣati rakṣastvéna mártyaḥ ǀ
    sváiḥ ṣá évai ririṣīṣṭa yúrjánaḥ ǁ

    yo naḥ kaś cid ririkṣati rakṣastvena martyaḥ |
    svaiḥ ṣa evai ririṣīṣṭa yur janaḥ ||

    यः । नः॒ । कः । चि॒त् । रिरि॑क्षति । र॒क्षः॒ऽत्वेन॑ । मर्त्यः॑ ।
    स्वैः । सः । एवैः॑ । रि॒रि॒षी॒ष्ट॒ । युः । जनः॑ ॥

    यः । नः । कः । चित् । रिरिक्षति । रक्षःऽत्वेन । मर्त्यः ।
    स्वैः । सः । एवैः । रिरिषीष्ट । युः । जनः ॥

    yáḥ ǀ naḥ ǀ káḥ ǀ cit ǀ rírikṣati ǀ rakṣaḥ-tvéna ǀ mártyaḥ ǀ
    sváiḥ ǀ sáḥ ǀ évaiḥ ǀ ririṣīṣṭa ǀ yúḥ ǀ jánaḥ ǁ

    yaḥ ǀ naḥ ǀ kaḥ ǀ cit ǀ ririkṣati ǀ rakṣaḥ-tvena ǀ martyaḥ ǀ
    svaiḥ ǀ saḥ ǀ evaiḥ ǀ ririṣīṣṭa ǀ yuḥ ǀ janaḥ ǁ

    8.18.13 Aṣṭaka 6.1.27.3Anuvāka 8.3.101

  14. Ṛk 14

    समित्तम॒घम॑श्नवद्दुः॒शंसं॒ मर्त्यं॑ रि॒पुं ।
    यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः ॥

    सम् इत् तम् अघम् अश्नवद् दुःशंसम् मर्त्यं रिपुम् |
    यो अस्मत्रा दुर्हणावां उप द्वयुः ||

    sámíttámaghámaśnavadduḥśáṃsam mártyam ripúm ǀ
    yó asmatrā́ durháṇāvām̐ úpa dvayúḥ ǁ

    sam it tam agham aśnavad duḥśaṃsam martyaṃ ripum |
    yo asmatrā durhaṇāvāṃ upa dvayuḥ ||

    सम् । इत् । तम् । अ॒घम् । अ॒श्न॒व॒त् । दुः॒ऽशंस॑म् । मर्त्य॑म् । रि॒पुम् ।
    यः । अ॒स्म॒ऽत्रा । दुः॒ऽहना॑वान् । उप॑ । द्व॒युः ॥

    सम् । इत् । तम् । अघम् । अश्नवत् । दुःऽशंसम् । मर्त्यम् । रिपुम् ।
    यः । अस्मऽत्रा । दुःऽहनावान् । उप । द्वयुः ॥

    sám ǀ ít ǀ tám ǀ aghám ǀ aśnavat ǀ duḥ-śáṃsam ǀ mártyam ǀ ripúm ǀ
    yáḥ ǀ asma-trā́ ǀ duḥ-hánāvān ǀ úpa ǀ dvayúḥ ǁ

    sam ǀ it ǀ tam ǀ agham ǀ aśnavat ǀ duḥ-śaṃsam ǀ martyam ǀ ripum ǀ
    yaḥ ǀ asma-trā ǀ duḥ-hanāvān ǀ upa ǀ dvayuḥ ǁ

    8.18.14 Aṣṭaka 6.1.27.4Anuvāka 8.3.102

  15. Ṛk 15

    पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्यं॑ ।
    उप॑ द्व॒युं चाद्व॑युं च वसवः ॥

    पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् |
    उप द्वयुं चाद्वयुं च वसवः ||

    pākatrā́ sthana devā hṛtsú jānītha mártyam ǀ
    úpa dvayúm cā́dvayum ca vasavaḥ ǁ

    pākatrā sthana devā hṛtsu jānītha martyam |
    upa dvayuṃ cādvayuṃ ca vasavaḥ ||

    पा॒क॒ऽत्रा । स्थ॒न॒ । दे॒वाः॒ । हृ॒त्ऽसु । जा॒नी॒थ॒ । मर्त्य॑म् ।
    उप॑ । द्व॒युम् । च॒ । अद्व॑युम् । च॒ । व॒स॒वः॒ ॥

    पाकऽत्रा । स्थन । देवाः । हृत्ऽसु । जानीथ । मर्त्यम् ।
    उप । द्वयुम् । च । अद्वयुम् । च । वसवः ॥

    pāka-trā́ ǀ sthana ǀ devāḥ ǀ hṛt-sú ǀ jānītha ǀ mártyam ǀ
    úpa ǀ dvayúm ǀ ca ǀ ádvayum ǀ ca ǀ vasavaḥ ǁ

    pāka-trā ǀ sthana ǀ devāḥ ǀ hṛt-su ǀ jānītha ǀ martyam ǀ
    upa ǀ dvayum ǀ ca ǀ advayum ǀ ca ǀ vasavaḥ ǁ

    8.18.15 Aṣṭaka 6.1.27.5Anuvāka 8.3.103

  16. Ṛk 16

    आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे ।
    द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतं ॥

    आ शर्म पर्वतानाम् ओतापां वृणीमहे |
    द्यावाक्षामारे अस्मद् रपस् कृतम् ||

    ā́ śárma párvatānāmótā́pā́m vṛṇīmahe ǀ
    dyā́vākṣāmāré asmádrápaskṛtam ǁ

    ā śarma parvatānām otāpāṃ vṛṇīmahe |
    dyāvākṣāmāre asmad rapas kṛtam ||

    आ । शर्म॑ । पर्व॑तानाम् । आ । उ॒त । अ॒पाम् । वृ॒णी॒म॒हे॒ ।
    द्यावा॑क्षामा । आ॒रे । अ॒स्मत् । रपः॑ । कृ॒त॒म् ॥

    आ । शर्म । पर्वतानाम् । आ । उत । अपाम् । वृणीमहे ।
    द्यावाक्षामा । आरे । अस्मत् । रपः । कृतम् ॥

    ā́ ǀ śárma ǀ párvatānām ǀ ā́ ǀ utá ǀ apā́m ǀ vṛṇīmahe ǀ
    dyā́vākṣāmā ǀ āré ǀ asmát ǀ rápaḥ ǀ kṛtam ǁ

    ā ǀ śarma ǀ parvatānām ǀ ā ǀ uta ǀ apām ǀ vṛṇīmahe ǀ
    dyāvākṣāmā ǀ āre ǀ asmat ǀ rapaḥ ǀ kṛtam ǁ

    8.18.16 Aṣṭaka 6.1.28.1Anuvāka 8.3.104

  17. Ṛk 17

    ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः ।
    अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥

    ते नो भद्रेण शर्मणा युष्माकं नावा वसवः |
    अति विश्वानि दुरिता पिपर्तन ||

    té no bhadréṇa śármaṇā yuṣmā́kam nāvā́ vasavaḥ ǀ
    áti víśvāni duritā́ pipartana ǁ

    te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ |
    ati viśvāni duritā pipartana ||

    ते । नः॒ । भ॒द्रेण॑ । शर्म॑णा । यु॒ष्माक॑म् । ना॒वा । व॒स॒वः॒ ।
    अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । पि॒प॒र्त॒न॒ ॥

    ते । नः । भद्रेण । शर्मणा । युष्माकम् । नावा । वसवः ।
    अति । विश्वानि । दुःऽइता । पिपर्तन ॥

    té ǀ naḥ ǀ bhadréṇa ǀ śármaṇā ǀ yuṣmā́kam ǀ nāvā́ ǀ vasavaḥ ǀ
    áti ǀ víśvāni ǀ duḥ-itā́ ǀ pipartana ǁ

    te ǀ naḥ ǀ bhadreṇa ǀ śarmaṇā ǀ yuṣmākam ǀ nāvā ǀ vasavaḥ ǀ
    ati ǀ viśvāni ǀ duḥ-itā ǀ pipartana ǁ

    8.18.17 Aṣṭaka 6.1.28.2Anuvāka 8.3.105

  18. Ṛk 18

    तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ ।
    आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥

    तुचे तनाय तत् सु नो द्राघीय आयुर् जीवसे |
    आदित्यासः सुमहसः कृणोतन ||

    tucé tánāya tátsú no drā́ghīya ā́yurjīváse ǀ
    ā́dityāsaḥ sumahasaḥ kṛṇótana ǁ

    tuce tanāya tat su no drāghīya āyur jīvase |
    ādityāsaḥ sumahasaḥ kṛṇotana ||

    तु॒चे । तना॑य । तत् । सु । नः॒ । द्राघी॑यः । आयुः॑ । जी॒वसे॑ ।
    आदि॑त्यासः । सु॒ऽम॒ह॒सः॒ । कृ॒णोत॑न ॥

    तुचे । तनाय । तत् । सु । नः । द्राघीयः । आयुः । जीवसे ।
    आदित्यासः । सुऽमहसः । कृणोतन ॥

    tucé ǀ tánāya ǀ tát ǀ sú ǀ naḥ ǀ drā́ghīyaḥ ǀ ā́yuḥ ǀ jīváse ǀ
    ā́dityāsaḥ ǀ su-mahasaḥ ǀ kṛṇótana ǁ

    tuce ǀ tanāya ǀ tat ǀ su ǀ naḥ ǀ drāghīyaḥ ǀ āyuḥ ǀ jīvase ǀ
    ādityāsaḥ ǀ su-mahasaḥ ǀ kṛṇotana ǁ

    8.18.18 Aṣṭaka 6.1.28.3Anuvāka 8.3.106

  19. Ṛk 19

    य॒ज्ञो ही॒ळो वो॒ अंत॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ ।
    यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥

    यज्ञो हीऌओ वो अन्तर आदित्या अस्ति मृऌअत |
    युष्मे इद् वो अपि ष्मसि सजात्ये ||

    yajñó hīḷó vo ántara ā́dityā ásti mṛḷáta ǀ
    yuṣmé ídvo ápi ṣmasi sajātyé ǁ

    yajño hīḷo vo antara ādityā asti mṛḷata |
    yuṣme id vo api ṣmasi sajātye ||

    य॒ज्ञः । ही॒ळः । वः॒ । अन्त॑रः । आदि॑त्याः । अस्ति॑ । मृ॒ळत॑ ।
    यु॒ष्मे इति॑ । इत् । वः॒ । अपि॑ । स्म॒सि॒ । स॒ऽजा॒त्ये॑ ॥

    यज्ञः । हीळः । वः । अन्तरः । आदित्याः । अस्ति । मृळत ।
    युष्मे इति । इत् । वः । अपि । स्मसि । सऽजात्ये ॥

    yajñáḥ ǀ hīḷáḥ ǀ vaḥ ǀ ántaraḥ ǀ ā́dityāḥ ǀ ásti ǀ mṛḷáta ǀ
    yuṣmé íti ǀ ít ǀ vaḥ ǀ ápi ǀ smasi ǀ sa-jātyé ǁ

    yajñaḥ ǀ hīḷaḥ ǀ vaḥ ǀ antaraḥ ǀ ādityāḥ ǀ asti ǀ mṛḷata ǀ
    yuṣme iti ǀ it ǀ vaḥ ǀ api ǀ smasi ǀ sa-jātye ǁ

    8.18.19 Aṣṭaka 6.1.28.4Anuvāka 8.3.107

  20. Ṛk 20

    बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ ।
    मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥

    बृहद् वरूथम् मरुतां देवं त्रातारम् अश्विना |
    मित्रम् ईमहे वरुणं स्वस्तये ||

    bṛhádvárūtham marútām devám trātā́ramaśvínā ǀ
    mitrámīmahe váruṇam svastáye ǁ

    bṛhad varūtham marutāṃ devaṃ trātāram aśvinā |
    mitram īmahe varuṇaṃ svastaye ||

    बृ॒हत् । वरू॑थम् । म॒रुता॑म् । दे॒वम् । त्रा॒तार॑म् । अ॒श्विना॑ ।
    मि॒त्रम् । ई॒म॒हे॒ । वरु॑णम् । स्व॒स्तये॑ ॥

    बृहत् । वरूथम् । मरुताम् । देवम् । त्रातारम् । अश्विना ।
    मित्रम् । ईमहे । वरुणम् । स्वस्तये ॥

    bṛhát ǀ várūtham ǀ marútām ǀ devám ǀ trātā́ram ǀ aśvínā ǀ
    mitrám ǀ īmahe ǀ váruṇam ǀ svastáye ǁ

    bṛhat ǀ varūtham ǀ marutām ǀ devam ǀ trātāram ǀ aśvinā ǀ
    mitram ǀ īmahe ǀ varuṇam ǀ svastaye ǁ

    8.18.20 Aṣṭaka 6.1.28.5Anuvāka 8.3.108

  21. Ṛk 21

    अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्यं॑ ।
    त्रि॒वरू॑थं मरुतो यंत नश्छ॒र्दिः ॥

    अनेहो मित्रार्यमन् नृवद् वरुण शंस्यम् |
    त्रिवरूथम् मरुतो यन्त नश् छर्दिः ||

    anehó mitrāryamannṛvádvaruṇa śáṃsyam ǀ
    trivárūtham maruto yanta naśchardíḥ ǁ

    aneho mitrāryaman nṛvad varuṇa śaṃsyam |
    trivarūtham maruto yanta naś chardiḥ ||

    अ॒ने॒हः । मि॒त्र॒ । अ॒र्य॒म॒न् । नृ॒ऽवत् । व॒रु॒ण॒ । शंस्य॑म् ।
    त्रि॒ऽवरू॑थम् । म॒रु॒तः॒ । य॒न्त॒ । नः॒ । छ॒र्दिः ॥

    अनेहः । मित्र । अर्यमन् । नृऽवत् । वरुण । शंस्यम् ।
    त्रिऽवरूथम् । मरुतः । यन्त । नः । छर्दिः ॥

    aneháḥ ǀ mitra ǀ aryaman ǀ nṛ-vát ǀ varuṇa ǀ śáṃsyam ǀ
    tri-várūtham ǀ marutaḥ ǀ yanta ǀ naḥ ǀ chardíḥ ǁ

    anehaḥ ǀ mitra ǀ aryaman ǀ nṛ-vat ǀ varuṇa ǀ śaṃsyam ǀ
    tri-varūtham ǀ marutaḥ ǀ yanta ǀ naḥ ǀ chardiḥ ǁ

    8.18.21 Aṣṭaka 6.1.28.6Anuvāka 8.3.109

  22. Ṛk 22

    ये चि॒द्धि मृ॒त्युबं॑धव॒ आदि॑त्या॒ मन॑वः॒ स्मसि॑ ।
    प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन ॥

    ये चिद् धि मृत्युबन्धव आदित्या मनवः स्मसि |
    प्र सू न आयुर् जीवसे तिरेतन ||

    yé ciddhí mṛtyúbandhava ā́dityā mánavaḥ smási ǀ
    prá sū́ na ā́yurjīváse tiretana ǁ

    ye cid dhi mṛtyubandhava ādityā manavaḥ smasi |
    pra sū na āyur jīvase tiretana ||

    ये । चि॒त् । हि । मृ॒त्युऽब॑न्धवः । आदि॑त्याः । मन॑वः । स्मसि॑ ।
    प्र । सु । नः॒ । आयुः॑ । जी॒वसे॑ । ति॒रे॒त॒न॒ ॥

    ये । चित् । हि । मृत्युऽबन्धवः । आदित्याः । मनवः । स्मसि ।
    प्र । सु । नः । आयुः । जीवसे । तिरेतन ॥

    yé ǀ cit ǀ hí ǀ mṛtyú-bandhavaḥ ǀ ā́dityāḥ ǀ mánavaḥ ǀ smási ǀ
    prá ǀ sú ǀ naḥ ǀ ā́yuḥ ǀ jīváse ǀ tiretana ǁ

    ye ǀ cit ǀ hi ǀ mṛtyu-bandhavaḥ ǀ ādityāḥ ǀ manavaḥ ǀ smasi ǀ
    pra ǀ su ǀ naḥ ǀ āyuḥ ǀ jīvase ǀ tiretana ǁ

    8.18.22 Aṣṭaka 6.1.28.7Anuvāka 8.3.110

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.18 · Ādityās · Aryaman, Bhaga, Mitra, Varuṇa, Savitṛ · Aditi · Aśvins · Agni, Vāta, Sūrya · Aśvins, Mitra, Varuṇa · Aryaman, Maruts, Mitra, Varuṇa

Interpretations

Ralph T. H. Griffith

Ṛk 1

Now let the mortal offer prayer to win the unexampled grace Of these Ādityas and their aid to cherish life.

Ṛk 2

For not an enemy molests the paths which these Ādityas tread: Infallible guards, they strengthen us in happiness.

Ṛk 3

Now soon may Bhaga, Savitar, Varuṇa, Mitra, Aryaman Give us the shelter widely spread which we implore.

Ṛk 4

With Gods come thou whose fostering care none checks, O Goddesss Aditi: Come, dear to many, with the Lords who guard us well.

Ṛk 5

For well these Sons of Aditi know to keep enmities aloof, Unrivalled, giving ample room, they save from woe.

Ṛk 6

Aditi guard our herd by day, Aditi, free from guile, by night, Aditi, ever strengthening, save us from grief!

Ṛk 7

And in the day our hymn is this: May Aditi come nigh to help, With loving-kindness bring us weal and chase our foes.

Ṛk 8

And may the Aśvins, the divine Pair of Physicians, send us health: May they remove iniquity and chase our foes.

Ṛk 9

May Agni bless us with his fires, and Sūrya warm us pleasantly: May the pure Wind breathe sweet on us, and chase our foes.

Ṛk 10

Drive ye disease and strife away, drive ye away malignity: Ādityas, keep us ever far from sore distress.

Ṛk 11

Remove from us the arrow, keep famine, Ādityas! far away: Keep enmities afar from us, Lords of all wealth!

Ṛk 12

Now, O Ādityas, grant to us the shelter that lets man go free, Yea, even the sinner from his sin, ye Bounteous Gods

Ṛk 13

3 Whatever mortal with the powe r of demons fain would injure us, May he, impetuous, suffer harm by his own deeds.

Ṛk 14

May sin o’ertake our human foe, the man who speaketh evil thing, Him who would cause our misery, whose heart is false.

Ṛk 15

Gods, ye are with the simple ones, ye know each mortal in your hearts; Ye, Vasus, well discriminate the false and true.

Ṛk 16

Fain would we have the sheltering aid of mountains and of water-floods: Keep far from us iniquity, O Heaven and Earth.

Ṛk 17

So with auspicious sheltering aid do ye, O Vasus, carry us Beyond all trouble and distress, borne in your ship.

Ṛk 18

Ādityas, ye Most Mighty Ones, grant to our children and their seed Extended term of life that they may live long days.

Ṛk 19

Sacrifice, O Ādityas, is your inward monitor: be kind, For in the bond of kindred we are bound to you.

Ṛk 20

The Maruts’ high protecting aid, the Aśvins, and the God who saves, Mitra and Varuṇa for weal we supplicate.

Ṛk 21

Grant us a home with triple guard, Aryaman, Mitra, Varuṇa! Unthreatened, Maruts! meet for praise, and filled with men.