Sūkta 3
- Devatā देवता
- 1-20: Indra; 21-24: Kaurayāṇa’s Dānastuti
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdbṛhatī (3, 5, 7, 9, 19); nicṛtpaṅkti (4, 12, 16, 18); sataḥpaṅkti (2, 10, 14); bhuriganuṣṭup (11, 21); bṛhatī (15, 24); kakummatībṛhatī (1); bhurikpaṅkti (6); svarāḍbṛhatī (8); anuṣṭup (13); pathyāvṛhatī (17); virāṭpaṅkti (20); virāḍgāyatrī (22); nicṛdgāyatrī (23)
2nd set of styles bṛhatī (1, 3, 5, 7, 9, 11, 13, 15, 17, 19, 24); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20); gāyatrī (22, 23); anuṣṭubh (21)
-
Ṛk 1
पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इंद्र॒ गोम॑तः ।
आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वंतु ते॒ धियः॑ ॥पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः |
आपिर् नो बोधि सधमाद्यो वृधे ऽस्मां अवन्तु ते धियः ||píbā sutásya rasíno mátsvā na indra gómataḥ ǀ
āpírno bodhi sadhamā́dyo vṛdhé’smā́m̐ avantu te dhíyaḥ ǁpibā sutasya rasino matsvā na indra gomataḥ |
āpir no bodhi sadhamādyo vṛdhe 'smāṃ avantu te dhiyaḥ ||पिब॑ । सु॒तस्य॑ । र॒सिनः॑ । मत्स्व॑ । नः॒ । इ॒न्द्र॒ । गोऽम॑तः ।
आ॒पिः । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे । अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । धियः॑ ॥पिब । सुतस्य । रसिनः । मत्स्व । नः । इन्द्र । गोऽमतः ।
आपिः । नः । बोधि । सधऽमाद्यः । वृधे । अस्मान् । अवन्तु । ते । धियः ॥píba ǀ sutásya ǀ rasínaḥ ǀ mátsva ǀ naḥ ǀ indra ǀ gó-mataḥ ǀ
āpíḥ ǀ naḥ ǀ bodhi ǀ sadha-mā́dyaḥ ǀ vṛdhé ǀ asmā́n ǀ avantu ǀ te ǀ dhíyaḥ ǁpiba ǀ sutasya ǀ rasinaḥ ǀ matsva ǀ naḥ ǀ indra ǀ go-mataḥ ǀ
āpiḥ ǀ naḥ ǀ bodhi ǀ sadha-mādyaḥ ǀ vṛdhe ǀ asmān ǀ avantu ǀ te ǀ dhiyaḥ ǁ8.3.1 Aṣṭaka 5.7.25.1Anuvāka 8.1.77
-
Ṛk 2
भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा नः॑ स्तर॒भिमा॑तये ।
अ॒स्मांचि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ॥भूयाम ते सुमतौ वाजिनो वयम् मा न स्तर् अभिमातये |
अस्माञ् चित्राभिर् अवताद् अभिष्टिभिर् आ नः सुम्नेषु यामय ||bhūyā́ma te sumatáu vājíno vayám mā́ naḥ starabhímātaye ǀ
asmā́ñcitrā́bhiravatādabhíṣṭibhirā́ naḥ sumnéṣu yāmaya ǁbhūyāma te sumatau vājino vayam mā na star abhimātaye |
asmāñ citrābhir avatād abhiṣṭibhir ā naḥ sumneṣu yāmaya ||भू॒याम॑ । ते॒ । सु॒ऽम॒तौ । वा॒जिनः॑ । व॒यम् । मा । नः॒ । स्तः॒ । अ॒भिऽमा॑तये ।
अ॒स्मान् । चि॒त्राभिः॑ । अ॒व॒ता॒त् । अ॒भिष्टि॑ऽभिः । आ । नः॒ । सु॒म्नेषु॑ । य॒म॒य॒ ॥भूयाम । ते । सुऽमतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिऽमातये ।
अस्मान् । चित्राभिः । अवतात् । अभिष्टिऽभिः । आ । नः । सुम्नेषु । यमय ॥bhūyā́ma ǀ te ǀ su-matáu ǀ vājínaḥ ǀ vayám ǀ mā́ ǀ naḥ ǀ staḥ ǀ abhí-mātaye ǀ
asmā́n ǀ citrā́bhiḥ ǀ avatāt ǀ abhíṣṭi-bhiḥ ǀ ā́ ǀ naḥ ǀ sumnéṣu ǀ yamaya ǁbhūyāma ǀ te ǀ su-matau ǀ vājinaḥ ǀ vayam ǀ mā ǀ naḥ ǀ staḥ ǀ abhi-mātaye ǀ
asmān ǀ citrābhiḥ ǀ avatāt ǀ abhiṣṭi-bhiḥ ǀ ā ǀ naḥ ǀ sumneṣu ǀ yamaya ǁ8.3.2 Aṣṭaka 5.7.25.2Anuvāka 8.1.78
-
Ṛk 3
इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धंतु॒ या मम॑ ।
पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम |
पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ||imā́ u tvā purūvaso gíro vardhantu yā́ máma ǀ
pāvakávarṇāḥ śúcayo vipaścíto’bhí stómairanūṣata ǁimā u tvā purūvaso giro vardhantu yā mama |
pāvakavarṇāḥ śucayo vipaścito 'bhi stomair anūṣata ||इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । गिरः॑ । व॒र्ध॒न्तु॒ । याः । मम॑ ।
पा॒व॒कऽव॑र्णाः । शुच॑यः । वि॒पः॒ऽचितः॑ । अ॒भि । स्तोमैः॑ । अ॒नू॒ष॒त॒ ॥इमाः । ऊं इति । त्वा । पुरुवसो इति पुरुऽवसो । गिरः । वर्धन्तु । याः । मम ।
पावकऽवर्णाः । शुचयः । विपःऽचितः । अभि । स्तोमैः । अनूषत ॥imā́ḥ ǀ ūṃ íti ǀ tvā ǀ puruvaso íti puru-vaso ǀ gíraḥ ǀ vardhantu ǀ yā́ḥ ǀ máma ǀ
pāvaká-varṇāḥ ǀ śúcayaḥ ǀ vipaḥ-cítaḥ ǀ abhí ǀ stómaiḥ ǀ anūṣata ǁimāḥ ǀ ūṃ iti ǀ tvā ǀ puruvaso iti puru-vaso ǀ giraḥ ǀ vardhantu ǀ yāḥ ǀ mama ǀ
pāvaka-varṇāḥ ǀ śucayaḥ ǀ vipaḥ-citaḥ ǀ abhi ǀ stomaiḥ ǀ anūṣata ǁ8.3.3 Aṣṭaka 5.7.25.3Anuvāka 8.1.79
-
Ṛk 4
अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।
स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥अयं सहस्रम् ऋषिभिः सहस्कृतः समुद्र इव पप्रथे |
सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ||ayám sahásramṛ́ṣibhiḥ sáhaskṛtaḥ samudrá iva paprathe ǀ
satyáḥ só asya mahimā́ gṛṇe śávo yajñéṣu viprarā́jye ǁayaṃ sahasram ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe |
satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye ||अ॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । सहः॑ऽकृतः । स॒मु॒द्रःऽइ॑व । प॒प्र॒थे॒ ।
स॒त्यः । सः । अ॒स्य॒ । म॒हि॒मा । गृ॒णे॒ । शवः॑ । य॒ज्ञेषु॑ । वि॒प्र॒ऽराज्ये॑ ॥अयम् । सहस्रम् । ऋषिऽभिः । सहःऽकृतः । समुद्रःऽइव । पप्रथे ।
सत्यः । सः । अस्य । महिमा । गृणे । शवः । यज्ञेषु । विप्रऽराज्ये ॥ayám ǀ sahásram ǀ ṛ́ṣi-bhiḥ ǀ sáhaḥ-kṛtaḥ ǀ samudráḥ-iva ǀ paprathe ǀ
satyáḥ ǀ sáḥ ǀ asya ǀ mahimā́ ǀ gṛṇe ǀ śávaḥ ǀ yajñéṣu ǀ vipra-rā́jye ǁayam ǀ sahasram ǀ ṛṣi-bhiḥ ǀ sahaḥ-kṛtaḥ ǀ samudraḥ-iva ǀ paprathe ǀ
satyaḥ ǀ saḥ ǀ asya ǀ mahimā ǀ gṛṇe ǀ śavaḥ ǀ yajñeṣu ǀ vipra-rājye ǁ8.3.4 Aṣṭaka 5.7.25.4Anuvāka 8.1.80
-
Ṛk 5
इंद्र॒मिद्दे॒वता॑तय॒ इंद्रं॑ प्रय॒त्य॑ध्व॒रे ।
इंद्रं॑ समी॒के व॒निनो॑ हवामह॒ इंद्रं॒ धन॑स्य सा॒तये॑ ॥इन्द्रम् इद् देवतातय इन्द्रम् प्रयत्य् अध्वरे |
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ||índramíddevátātaya índram prayatyádhvaré ǀ
índram samīké vaníno havāmaha índram dhánasya sātáye ǁindram id devatātaya indram prayaty adhvare |
indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye ||इन्द्र॑म् । इत् । दे॒वऽता॑तये । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
इन्द्र॑म् । स॒म्ऽई॒के । व॒निनः॑ । ह॒वा॒म॒हे॒ । इन्द्र॑म् । धन॑स्य । सा॒तये॑ ॥इन्द्रम् । इत् । देवऽतातये । इन्द्रम् । प्रऽयति । अध्वरे ।
इन्द्रम् । सम्ऽईके । वनिनः । हवामहे । इन्द्रम् । धनस्य । सातये ॥índram ǀ ít ǀ devá-tātaye ǀ índram ǀ pra-yatí ǀ adhvaré ǀ
índram ǀ sam-īké ǀ vanínaḥ ǀ havāmahe ǀ índram ǀ dhánasya ǀ sātáye ǁindram ǀ it ǀ deva-tātaye ǀ indram ǀ pra-yati ǀ adhvare ǀ
indram ǀ sam-īke ǀ vaninaḥ ǀ havāmahe ǀ indram ǀ dhanasya ǀ sātaye ǁ8.3.5 Aṣṭaka 5.7.25.5Anuvāka 8.1.81
-
Ṛk 6
इंद्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इंद्रः॒ सूर्य॑मरोचयत् ।
इंद्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इंद्रे॑ सुवा॒नास॒ इंद॑वः ॥इन्द्रो मह्ना रोदसी पप्रथच् छव इन्द्रः सूर्यम् अरोचयत् |
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ||índro mahnā́ ródasī paprathaccháva índraḥ sū́ryamarocayat ǀ
índre ha víśvā bhúvanāni yemira índre suvānā́sa índavaḥ ǁindro mahnā rodasī paprathac chava indraḥ sūryam arocayat |
indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ ||इन्द्रः॑ । म॒ह्ना । रोद॑सी॒ इति॑ । प॒प्र॒थ॒त् । शवः॑ । इन्द्रः॑ । सूर्य॑म् । अ॒रो॒च॒य॒त् ।
इन्द्रे॑ । ह॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ । इन्द्रे॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥इन्द्रः । मह्ना । रोदसी इति । पप्रथत् । शवः । इन्द्रः । सूर्यम् । अरोचयत् ।
इन्द्रे । ह । विश्वा । भुवनानि । येमिरे । इन्द्रे । सुवानासः । इन्दवः ॥índraḥ ǀ mahnā́ ǀ ródasī íti ǀ paprathat ǀ śávaḥ ǀ índraḥ ǀ sū́ryam ǀ arocayat ǀ
índre ǀ ha ǀ víśvā ǀ bhúvanāni ǀ yemire ǀ índre ǀ suvānā́saḥ ǀ índavaḥ ǁindraḥ ǀ mahnā ǀ rodasī iti ǀ paprathat ǀ śavaḥ ǀ indraḥ ǀ sūryam ǀ arocayat ǀ
indre ǀ ha ǀ viśvā ǀ bhuvanāni ǀ yemire ǀ indre ǀ suvānāsaḥ ǀ indavaḥ ǁ8.3.6 Aṣṭaka 5.7.26.1Anuvāka 8.1.82
-
Ṛk 7
अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इंद्र॒ स्तोमे॑भिरा॒यवः॑ ।
स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णंत॒ पूर्व्यं॑ ॥अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिर् आयवः |
समीचीनास ऋभवः सम् अस्वरन् रुद्रा गृणन्त पूर्व्यम् ||abhí tvā pūrvápītaya índra stómebhirāyávaḥ ǀ
samīcīnā́sa ṛbhávaḥ sámasvaranrudrā́ gṛṇanta pū́rvyam ǁabhi tvā pūrvapītaya indra stomebhir āyavaḥ |
samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam ||अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । इन्द्र॑ । स्तोमे॑भिः । आ॒यवः॑ ।
स॒म्ऽई॒ची॒नासः॑ । ऋ॒भवः॑ । सम् । अ॒स्व॒र॒न् । रु॒द्राः । गृ॒ण॒न्त॒ । पूर्व्य॑म् ॥अभि । त्वा । पूर्वऽपीतये । इन्द्र । स्तोमेभिः । आयवः ।
सम्ऽईचीनासः । ऋभवः । सम् । अस्वरन् । रुद्राः । गृणन्त । पूर्व्यम् ॥abhí ǀ tvā ǀ pūrvá-pītaye ǀ índra ǀ stómebhiḥ ǀ āyávaḥ ǀ
sam-īcīnā́saḥ ǀ ṛbhávaḥ ǀ sám ǀ asvaran ǀ rudrā́ḥ ǀ gṛṇanta ǀ pū́rvyam ǁabhi ǀ tvā ǀ pūrva-pītaye ǀ indra ǀ stomebhiḥ ǀ āyavaḥ ǀ
sam-īcīnāsaḥ ǀ ṛbhavaḥ ǀ sam ǀ asvaran ǀ rudrāḥ ǀ gṛṇanta ǀ pūrvyam ǁ8.3.7 Aṣṭaka 5.7.26.2Anuvāka 8.1.83
-
Ṛk 8
अ॒स्येदिंद्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।
अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवंति पू॒र्वथा॑ ॥अस्येद् इन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि |
अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ||asyédíndro vāvṛdhe vṛ́ṣṇyam śávo máde sutásya víṣṇavi ǀ
adyā́ támasya mahimā́namāyávó’nu ṣṭuvanti pūrváthā ǁasyed indro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi |
adyā tam asya mahimānam āyavo 'nu ṣṭuvanti pūrvathā ||अ॒स्य । इत् । इन्द्रः॑ । व॒वृ॒धे॒ । वृष्ण्य॑म् । शवः॑ । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ।
अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यवः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥अस्य । इत् । इन्द्रः । ववृधे । वृष्ण्यम् । शवः । मदे । सुतस्य । विष्णवि ।
अद्य । तम् । अस्य । महिमानम् । आयवः । अनु । स्तुवन्ति । पूर्वऽथा ॥asyá ǀ ít ǀ índraḥ ǀ vavṛdhe ǀ vṛ́ṣṇyam ǀ śávaḥ ǀ máde ǀ sutásya ǀ víṣṇavi ǀ
adyá ǀ tám ǀ asya ǀ mahimā́nam ǀ āyávaḥ ǀ ánu ǀ stuvanti ǀ pūrvá-thā ǁasya ǀ it ǀ indraḥ ǀ vavṛdhe ǀ vṛṣṇyam ǀ śavaḥ ǀ made ǀ sutasya ǀ viṣṇavi ǀ
adya ǀ tam ǀ asya ǀ mahimānam ǀ āyavaḥ ǀ anu ǀ stuvanti ǀ pūrva-thā ǁ8.3.8 Aṣṭaka 5.7.26.3Anuvāka 8.1.84
-
Ṛk 9
तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये ।
येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये |
येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ||táttvā yāmi suvī́ryam tádbráhma pūrvácittaye ǀ
yénā yátibhyo bhṛ́gave dháne hité yéna práskaṇvamā́vitha ǁtat tvā yāmi suvīryaṃ tad brahma pūrvacittaye |
yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha ||तत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ।
येन॑ । यति॑ऽभ्यः । भृग॑वे । धने॑ । हि॒ते । येन॑ । प्रस्क॑ण्वम् । आवि॑थ ॥तत् । त्वा । यामि । सुऽवीर्यम् । तत् । ब्रह्म । पूर्वऽचित्तये ।
येन । यतिऽभ्यः । भृगवे । धने । हिते । येन । प्रस्कण्वम् । आविथ ॥tát ǀ tvā ǀ yāmi ǀ su-vī́ryam ǀ tát ǀ bráhma ǀ pūrvá-cittaye ǀ
yéna ǀ yáti-bhyaḥ ǀ bhṛ́gave ǀ dháne ǀ hité ǀ yéna ǀ práskaṇvam ǀ ā́vitha ǁtat ǀ tvā ǀ yāmi ǀ su-vīryam ǀ tat ǀ brahma ǀ pūrva-cittaye ǀ
yena ǀ yati-bhyaḥ ǀ bhṛgave ǀ dhane ǀ hite ǀ yena ǀ praskaṇvam ǀ āvitha ǁ8.3.9 Aṣṭaka 5.7.26.4Anuvāka 8.1.85
-
Ṛk 10
येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदिं॑द्र॒ वृष्णि॑ ते॒ शवः॑ ।
स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः |
सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ||yénā samudrámásṛjo mahī́rapástádindra vṛ́ṣṇi te śávaḥ ǀ
sadyáḥ só asya mahimā́ ná saṃnáśe yám kṣoṇī́ranucakradé ǁyenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ |
sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīr anucakrade ||येन॑ । स॒मु॒द्रम् । असृ॑जः । म॒हीः । अ॒पः । तत् । इ॒न्द्र॒ । वृष्णि॑ । ते॒ । शवः॑ ।
स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒म्ऽनशे॑ । यम् । क्षो॒णीः । अ॒नु॒ऽच॒क्र॒दे ॥येन । समुद्रम् । असृजः । महीः । अपः । तत् । इन्द्र । वृष्णि । ते । शवः ।
सद्यः । सः । अस्य । महिमा । न । सम्ऽनशे । यम् । क्षोणीः । अनुऽचक्रदे ॥yéna ǀ samudrám ǀ ásṛjaḥ ǀ mahī́ḥ ǀ apáḥ ǀ tát ǀ indra ǀ vṛ́ṣṇi ǀ te ǀ śávaḥ ǀ
sadyáḥ ǀ sáḥ ǀ asya ǀ mahimā́ ǀ ná ǀ sam-náśe ǀ yám ǀ kṣoṇī́ḥ ǀ anu-cakradé ǁyena ǀ samudram ǀ asṛjaḥ ǀ mahīḥ ǀ apaḥ ǀ tat ǀ indra ǀ vṛṣṇi ǀ te ǀ śavaḥ ǀ
sadyaḥ ǀ saḥ ǀ asya ǀ mahimā ǀ na ǀ sam-naśe ǀ yam ǀ kṣoṇīḥ ǀ anu-cakrade ǁ8.3.10 Aṣṭaka 5.7.26.5Anuvāka 8.1.86
-
Ṛk 11
श॒ग्धी न॑ इंद्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्यं॑ ।
श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥शग्धी न इन्द्र यत् त्वा रयिं यामि सुवीर्यम् |
शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ||śagdhī́ na indra yáttvā rayím yā́mi suvī́ryam ǀ
śagdhí vā́jāya prathamám síṣāsate śagdhí stómāya pūrvya ǁśagdhī na indra yat tvā rayiṃ yāmi suvīryam |
śagdhi vājāya prathamaṃ siṣāsate śagdhi stomāya pūrvya ||श॒ग्धि । नः॒ । इ॒न्द्र॒ । यत् । त्वा॒ । र॒यिम् । यामि॑ । सु॒ऽवीर्य॑म् ।
श॒ग्धि । वाजा॑य । प्र॒थ॒मम् । सिसा॑सते । श॒ग्धि । स्तोमा॑य । पू॒र्व्य॒ ॥शग्धि । नः । इन्द्र । यत् । त्वा । रयिम् । यामि । सुऽवीर्यम् ।
शग्धि । वाजाय । प्रथमम् । सिसासते । शग्धि । स्तोमाय । पूर्व्य ॥śagdhí ǀ naḥ ǀ indra ǀ yát ǀ tvā ǀ rayím ǀ yā́mi ǀ su-vī́ryam ǀ
śagdhí ǀ vā́jāya ǀ prathamám ǀ sísāsate ǀ śagdhí ǀ stómāya ǀ pūrvya ǁśagdhi ǀ naḥ ǀ indra ǀ yat ǀ tvā ǀ rayim ǀ yāmi ǀ su-vīryam ǀ
śagdhi ǀ vājāya ǀ prathamam ǀ sisāsate ǀ śagdhi ǀ stomāya ǀ pūrvya ǁ8.3.11 Aṣṭaka 5.7.27.1Anuvāka 8.1.87
-
Ṛk 12
श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इंद्र॒ सिषा॑सतः ।
श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिंद्र॒ प्रावः॒ स्व॑र्णरं ॥शग्धी नो अस्य यद् ध पौरम् आविथ धिय इन्द्र सिषासतः |
शग्धि यथा रुशमं श्यावकं कृपम् इन्द्र प्रावः स्वर्णरम् ||śagdhī́ no asyá yáddha paurámā́vitha dhíya indra síṣāsataḥ ǀ
śagdhí yáthā rúśamam śyā́vakam kṛ́pamíndra prā́vaḥ svárṇaram ǁśagdhī no asya yad dha pauram āvitha dhiya indra siṣāsataḥ |
śagdhi yathā ruśamaṃ śyāvakaṃ kṛpam indra prāvaḥ svarṇaram ||श॒ग्धि । नः॒ । अ॒स्य । यत् । ह॒ । पौ॒रम् । आवि॑थ । धियः॑ । इ॒न्द्र॒ । सिसा॑सतः ।
श॒ग्धि । यथा॑ । रुश॑मम् । श्याव॑कम् । कृप॑म् । इन्द्र॑ । प्र । आवः॑ । स्वः॑ऽनरम् ॥शग्धि । नः । अस्य । यत् । ह । पौरम् । आविथ । धियः । इन्द्र । सिसासतः ।
शग्धि । यथा । रुशमम् । श्यावकम् । कृपम् । इन्द्र । प्र । आवः । स्वःऽनरम् ॥śagdhí ǀ naḥ ǀ asyá ǀ yát ǀ ha ǀ paurám ǀ ā́vitha ǀ dhíyaḥ ǀ indra ǀ sísāsataḥ ǀ
śagdhí ǀ yáthā ǀ rúśamam ǀ śyā́vakam ǀ kṛ́pam ǀ índra ǀ prá ǀ ā́vaḥ ǀ sváḥ-naram ǁśagdhi ǀ naḥ ǀ asya ǀ yat ǀ ha ǀ pauram ǀ āvitha ǀ dhiyaḥ ǀ indra ǀ sisāsataḥ ǀ
śagdhi ǀ yathā ǀ ruśamam ǀ śyāvakam ǀ kṛpam ǀ indra ǀ pra ǀ āvaḥ ǀ svaḥ-naram ǁ8.3.12 Aṣṭaka 5.7.27.2Anuvāka 8.1.88
-
Ṛk 13
कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्यः॑ ।
न॒ही न्व॑स्य महि॒मान॑मिंद्रि॒यं स्व॑र्गृ॒णंत॑ आन॒शुः ॥कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः |
नही न्व् अस्य महिमानम् इन्द्रियं स्वर् गृणन्त आनशुः ||kánnávyo atasī́nām turó gṛṇīta mártyaḥ ǀ
nahī́ nvásya mahimā́namindriyám svárgṛṇánta ānaśúḥ ǁkan navyo atasīnāṃ turo gṛṇīta martyaḥ |
nahī nv asya mahimānam indriyaṃ svar gṛṇanta ānaśuḥ ||कत् । नव्यः॑ । अ॒त॒सीना॑म् । तु॒रः । गृ॒णी॒त॒ । मर्त्यः॑ ।
न॒हि । नु । अ॒स्य॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । स्वः॑ । गृ॒णन्तः॑ । आ॒न॒शुः ॥कत् । नव्यः । अतसीनाम् । तुरः । गृणीत । मर्त्यः ।
नहि । नु । अस्य । महिमानम् । इन्द्रियम् । स्वः । गृणन्तः । आनशुः ॥kát ǀ návyaḥ ǀ atasī́nām ǀ turáḥ ǀ gṛṇīta ǀ mártyaḥ ǀ
nahí ǀ nú ǀ asya ǀ mahimā́nam ǀ indriyám ǀ sváḥ ǀ gṛṇántaḥ ǀ ānaśúḥ ǁkat ǀ navyaḥ ǀ atasīnām ǀ turaḥ ǀ gṛṇīta ǀ martyaḥ ǀ
nahi ǀ nu ǀ asya ǀ mahimānam ǀ indriyam ǀ svaḥ ǀ gṛṇantaḥ ǀ ānaśuḥ ǁ8.3.13 Aṣṭaka 5.7.27.3Anuvāka 8.1.89
-
Ṛk 14
कदु॑ स्तु॒वंत॑ ऋतयंत दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते ।
क॒दा हवं॑ मघवन्निंद्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥कद् उ स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते |
कदा हवम् मघवन्न् इन्द्र सुन्वतः कद् उ स्तुवत आ गमः ||kádu stuvánta ṛtayanta deváta ṛ́ṣiḥ kó vípra ohate ǀ
kadā́ hávam maghavannindra sunvatáḥ kádu stuvatá ā́ gamaḥ ǁkad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate |
kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ ||कत् । ऊं॒ इति॑ । स्तु॒वन्तः॑ । ऋ॒त॒ऽय॒न्त॒ । दे॒वता॑ । ऋषिः॑ । कः । विप्रः॑ । ओ॒ह॒ते॒ ।
क॒दा । हव॑म् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒तः । कत् । ऊं॒ इति॑ । स्तु॒व॒तः । आ । ग॒मः॒ ॥कत् । ऊं इति । स्तुवन्तः । ऋतऽयन्त । देवता । ऋषिः । कः । विप्रः । ओहते ।
कदा । हवम् । मघऽवन् । इन्द्र । सुन्वतः । कत् । ऊं इति । स्तुवतः । आ । गमः ॥kát ǀ ūṃ íti ǀ stuvántaḥ ǀ ṛta-yanta ǀ devátā ǀ ṛ́ṣiḥ ǀ káḥ ǀ vípraḥ ǀ ohate ǀ
kadā́ ǀ hávam ǀ magha-van ǀ indra ǀ sunvatáḥ ǀ kát ǀ ūṃ íti ǀ stuvatáḥ ǀ ā́ ǀ gamaḥ ǁkat ǀ ūṃ iti ǀ stuvantaḥ ǀ ṛta-yanta ǀ devatā ǀ ṛṣiḥ ǀ kaḥ ǀ vipraḥ ǀ ohate ǀ
kadā ǀ havam ǀ magha-van ǀ indra ǀ sunvataḥ ǀ kat ǀ ūṃ iti ǀ stuvataḥ ǀ ā ǀ gamaḥ ǁ8.3.14 Aṣṭaka 5.7.27.4Anuvāka 8.1.90
-
Ṛk 15
उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा॑स ईरते ।
स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यंतो॒ रथा॑ इव ॥उद् उ त्ये मधुमत्तमा गिर स्तोमास ईरते |
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ||údu tyé mádhumattamā gíraḥ stómāsa īrate ǀ
satrājíto dhanasā́ ákṣitotayo vājayánto ráthā iva ǁud u tye madhumattamā gira stomāsa īrate |
satrājito dhanasā akṣitotayo vājayanto rathā iva ||उत् । ऊं॒ इति॑ । त्ये । मधु॑मत्ऽतमाः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ।
स॒त्रा॒ऽजितः॑ । ध॒न॒ऽसाः । अक्षि॑तऽऊतयः । वा॒ज॒ऽयन्तः॑ । रथाः॑ऽइव ॥उत् । ऊं इति । त्ये । मधुमत्ऽतमाः । गिरः । स्तोमासः । ईरते ।
सत्राऽजितः । धनऽसाः । अक्षितऽऊतयः । वाजऽयन्तः । रथाःऽइव ॥út ǀ ūṃ íti ǀ tyé ǀ mádhumat-tamāḥ ǀ gíraḥ ǀ stómāsaḥ ǀ īrate ǀ
satrā-jítaḥ ǀ dhana-sā́ḥ ǀ ákṣita-ūtayaḥ ǀ vāja-yántaḥ ǀ ráthāḥ-iva ǁut ǀ ūṃ iti ǀ tye ǀ madhumat-tamāḥ ǀ giraḥ ǀ stomāsaḥ ǀ īrate ǀ
satrā-jitaḥ ǀ dhana-sāḥ ǀ akṣita-ūtayaḥ ǀ vāja-yantaḥ ǀ rathāḥ-iva ǁ8.3.15 Aṣṭaka 5.7.27.5Anuvāka 8.1.91
-
Ṛk 16
कण्वा॑ इव॒ भृग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः ।
इंद्रं॒ स्तोमे॑भिर्म॒हयं॑त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥कण्वा इव भृगवः सूर्या इव विश्वम् इद् धीतम् आनशुः |
इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ||káṇvā iva bhṛ́gavaḥ sū́ryā iva víśvamíddhītámānaśuḥ ǀ
índram stómebhirmaháyanta āyávaḥ priyámedhāso asvaran ǁkaṇvā iva bhṛgavaḥ sūryā iva viśvam id dhītam ānaśuḥ |
indraṃ stomebhir mahayanta āyavaḥ priyamedhāso asvaran ||कण्वाः॑ऽइव । भृग॑वः । सूर्याः॑ऽइव । विश्व॑म् । इत् । धी॒तम् । आ॒न॒शुः॒ ।
इन्द्र॑म् । स्तोमे॑भिः । म॒हय॑न्तः । आ॒यवः॑ । प्रि॒यऽमे॑धासः । अ॒स्व॒र॒न् ॥कण्वाःऽइव । भृगवः । सूर्याःऽइव । विश्वम् । इत् । धीतम् । आनशुः ।
इन्द्रम् । स्तोमेभिः । महयन्तः । आयवः । प्रियऽमेधासः । अस्वरन् ॥káṇvāḥ-iva ǀ bhṛ́gavaḥ ǀ sū́ryāḥ-iva ǀ víśvam ǀ ít ǀ dhītám ǀ ānaśuḥ ǀ
índram ǀ stómebhiḥ ǀ maháyantaḥ ǀ āyávaḥ ǀ priyá-medhāsaḥ ǀ asvaran ǁkaṇvāḥ-iva ǀ bhṛgavaḥ ǀ sūryāḥ-iva ǀ viśvam ǀ it ǀ dhītam ǀ ānaśuḥ ǀ
indram ǀ stomebhiḥ ǀ mahayantaḥ ǀ āyavaḥ ǀ priya-medhāsaḥ ǀ asvaran ǁ8.3.16 Aṣṭaka 5.7.28.1Anuvāka 8.1.92
-
Ṛk 17
यु॒क्ष्वा हि वृ॑त्रहंतम॒ हरी॑ इंद्र परा॒वतः॑ ।
अ॒र्वा॒ची॒नो म॑घव॒न्त्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः |
अर्वाचीनो मघवन् सोमपीतय उग्र ऋष्वेभिर् आ गहि ||yukṣvā́ hí vṛtrahantama hárī indra parāvátaḥ ǀ
arvācīnó maghavantsómapītaya ugrá ṛṣvébhirā́ gahi ǁyukṣvā hi vṛtrahantama harī indra parāvataḥ |
arvācīno maghavan somapītaya ugra ṛṣvebhir ā gahi ||यु॒क्ष्व । हि । वृ॒त्र॒ह॒न्ऽत॒म॒ । हरी॒ इति॑ । इ॒न्द्र॒ । प॒रा॒ऽवतः॑ ।
अ॒र्वा॒ची॒नः । म॒घ॒ऽव॒न् । सोम॑ऽपीतये । उ॒ग्रः । ऋ॒ष्वेभिः॑ । आ । ग॒हि॒ ॥युक्ष्व । हि । वृत्रहन्ऽतम । हरी इति । इन्द्र । पराऽवतः ।
अर्वाचीनः । मघऽवन् । सोमऽपीतये । उग्रः । ऋष्वेभिः । आ । गहि ॥yukṣvá ǀ hí ǀ vṛtrahan-tama ǀ hárī íti ǀ indra ǀ parā-vátaḥ ǀ
arvācīnáḥ ǀ magha-van ǀ sóma-pītaye ǀ ugráḥ ǀ ṛṣvébhiḥ ǀ ā́ ǀ gahi ǁyukṣva ǀ hi ǀ vṛtrahan-tama ǀ harī iti ǀ indra ǀ parā-vataḥ ǀ
arvācīnaḥ ǀ magha-van ǀ soma-pītaye ǀ ugraḥ ǀ ṛṣvebhiḥ ǀ ā ǀ gahi ǁ8.3.17 Aṣṭaka 5.7.28.2Anuvāka 8.1.93
-
Ṛk 18
इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये ।
स त्वं नो॑ मघवन्निंद्र गिर्वणो वे॒नो न शृ॑णुधी॒ हवं॑ ॥इमे हि ते कारवो वावशुर् धिया विप्रासो मेधसातये |
स त्वं नो मघवन्न् इन्द्र गिर्वणो वेनो न शृणुधी हवम् ||imé hí te kārávo vāvaśúrdhiyā́ víprāso medhásātaye ǀ
sá tvám no maghavannindra girvaṇo venó ná śṛṇudhī hávam ǁime hi te kāravo vāvaśur dhiyā viprāso medhasātaye |
sa tvaṃ no maghavann indra girvaṇo veno na śṛṇudhī havam ||इ॒मे । हि । ते॒ । का॒रवः॑ । वा॒व॒शुः । धि॒या । विप्रा॑सः । मे॒धऽसा॑तये ।
सः । त्वम् । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । वे॒नः । न । शृ॒णु॒धि॒ । हव॑म् ॥इमे । हि । ते । कारवः । वावशुः । धिया । विप्रासः । मेधऽसातये ।
सः । त्वम् । नः । मघऽवन् । इन्द्र । गिर्वणः । वेनः । न । शृणुधि । हवम् ॥imé ǀ hí ǀ te ǀ kārávaḥ ǀ vāvaśúḥ ǀ dhiyā́ ǀ víprāsaḥ ǀ medhá-sātaye ǀ
sáḥ ǀ tvám ǀ naḥ ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ venáḥ ǀ ná ǀ śṛṇudhi ǀ hávam ǁime ǀ hi ǀ te ǀ kāravaḥ ǀ vāvaśuḥ ǀ dhiyā ǀ viprāsaḥ ǀ medha-sātaye ǀ
saḥ ǀ tvam ǀ naḥ ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ venaḥ ǀ na ǀ śṛṇudhi ǀ havam ǁ8.3.18 Aṣṭaka 5.7.28.3Anuvāka 8.1.94
-
Ṛk 19
निरिं॑द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः ।
निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥निर् इन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः |
निर् अर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ||nírindra bṛhatī́bhyo vṛtrám dhánubhyo asphuraḥ ǀ
nírárbudasya mṛ́gayasya māyíno níḥ párvatasya gā́ ājaḥ ǁnir indra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ |
nir arbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ ||निः । इ॒न्द्र॒ । बृ॒ह॒तीभ्यः॑ । वृ॒त्रम् । धनु॑ऽभ्यः । अ॒स्फु॒रः॒ ।
निः । अर्बु॑दस्य । मृग॑यस्य । मा॒यिनः॑ । निः । पर्व॑तस्य । गाः । आ॒जः॒ ॥निः । इन्द्र । बृहतीभ्यः । वृत्रम् । धनुऽभ्यः । अस्फुरः ।
निः । अर्बुदस्य । मृगयस्य । मायिनः । निः । पर्वतस्य । गाः । आजः ॥níḥ ǀ indra ǀ bṛhatī́bhyaḥ ǀ vṛtrám ǀ dhánu-bhyaḥ ǀ asphuraḥ ǀ
níḥ ǀ árbudasya ǀ mṛ́gayasya ǀ māyínaḥ ǀ níḥ ǀ párvatasya ǀ gā́ḥ ǀ ājaḥ ǁniḥ ǀ indra ǀ bṛhatībhyaḥ ǀ vṛtram ǀ dhanu-bhyaḥ ǀ asphuraḥ ǀ
niḥ ǀ arbudasya ǀ mṛgayasya ǀ māyinaḥ ǀ niḥ ǀ parvatasya ǀ gāḥ ǀ ājaḥ ǁ8.3.19 Aṣṭaka 5.7.28.4Anuvāka 8.1.95
-
Ṛk 20
निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इंद्रि॒यो रसः॑ ।
निरं॒तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदिं॑द्र॒ पौंस्यं॑ ॥निर् अग्नयो रुरुचुर् निर् उ सूर्यो निः सोम इन्द्रियो रसः |
निर् अन्तरिक्षाद् अधमो महाम् अहिं कृषे तद् इन्द्र पौंस्यम् ||níragnáyo rurucurníru sū́ryo níḥ sóma indriyó rásaḥ ǀ
nírantárikṣādadhamo mahā́máhim kṛṣé tádindra páuṃsyam ǁnir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ |
nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam ||निः । अ॒ग्नयः॑ । रु॒रु॒चुः॒ । निः । ऊं॒ इति॑ । सूर्यः॑ । निः । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ ।
निः । अ॒न्तरि॑क्षात् । अ॒ध॒मः॒ । म॒हाम् । अहि॑म् । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥निः । अग्नयः । रुरुचुः । निः । ऊं इति । सूर्यः । निः । सोमः । इन्द्रियः । रसः ।
निः । अन्तरिक्षात् । अधमः । महाम् । अहिम् । कृषे । तत् । इन्द्र । पौंस्यम् ॥níḥ ǀ agnáyaḥ ǀ rurucuḥ ǀ níḥ ǀ ūṃ íti ǀ sū́ryaḥ ǀ níḥ ǀ sómaḥ ǀ indriyáḥ ǀ rásaḥ ǀ
níḥ ǀ antárikṣāt ǀ adhamaḥ ǀ mahā́m ǀ áhim ǀ kṛṣé ǀ tát ǀ indra ǀ páuṃsyam ǁniḥ ǀ agnayaḥ ǀ rurucuḥ ǀ niḥ ǀ ūṃ iti ǀ sūryaḥ ǀ niḥ ǀ somaḥ ǀ indriyaḥ ǀ rasaḥ ǀ
niḥ ǀ antarikṣāt ǀ adhamaḥ ǀ mahām ǀ ahim ǀ kṛṣe ǀ tat ǀ indra ǀ pauṃsyam ǁ8.3.20 Aṣṭaka 5.7.28.5Anuvāka 8.1.96
-
Ṛk 21
यं मे॒ दुरिंद्रो॑ म॒रुतः॒ पाक॑स्थामा॒ कौर॑याणः ।
विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानं ॥यम् मे दुर् इन्द्रो मरुतः पाकस्थामा कौरयाणः |
विश्वेषां त्मना शोभिष्ठम् उपेव दिवि धावमानम् ||yám me dúríndro marútaḥ pā́kasthāmā káurayāṇaḥ ǀ
víśveṣām tmánā śóbhiṣṭhamúpeva diví dhā́vamānam ǁyam me dur indro marutaḥ pākasthāmā kaurayāṇaḥ |
viśveṣāṃ tmanā śobhiṣṭham upeva divi dhāvamānam ||यम् । मे॒ । दुः । इन्द्रः॑ । म॒रुतः॑ । पाक॑ऽस्थामा । कौर॑याणः ।
विश्वे॑षाम् । त्मना॑ । शोभि॑ष्ठम् । उप॑ऽइव । दि॒वि । धाव॑मानम् ॥यम् । मे । दुः । इन्द्रः । मरुतः । पाकऽस्थामा । कौरयाणः ।
विश्वेषाम् । त्मना । शोभिष्ठम् । उपऽइव । दिवि । धावमानम् ॥yám ǀ me ǀ dúḥ ǀ índraḥ ǀ marútaḥ ǀ pā́ka-sthāmā ǀ káurayāṇaḥ ǀ
víśveṣām ǀ tmánā ǀ śóbhiṣṭham ǀ úpa-iva ǀ diví ǀ dhā́vamānam ǁyam ǀ me ǀ duḥ ǀ indraḥ ǀ marutaḥ ǀ pāka-sthāmā ǀ kaurayāṇaḥ ǀ
viśveṣām ǀ tmanā ǀ śobhiṣṭham ǀ upa-iva ǀ divi ǀ dhāvamānam ǁ8.3.21 Aṣṭaka 5.7.29.1Anuvāka 8.1.97
-
Ṛk 22
रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्रां ।
अदा॑द्रा॒यो वि॒बोध॑नं ॥रोहितम् मे पाकस्थामा सुधुरं कक्ष्यप्राम् |
अदाद् रायो विबोधनम् ||róhitam me pā́kasthāmā sudhúram kakṣyaprā́m ǀ
ádādrāyó vibódhanam ǁrohitam me pākasthāmā sudhuraṃ kakṣyaprām |
adād rāyo vibodhanam ||रोहि॑तम् । मे॒ । पाक॑ऽस्थामा । सु॒ऽधुर॑म् । क॒क्ष्य॒ऽप्राम् ।
अदा॑त् । रा॒यः । वि॒ऽबोध॑नम् ॥रोहितम् । मे । पाकऽस्थामा । सुऽधुरम् । कक्ष्यऽप्राम् ।
अदात् । रायः । विऽबोधनम् ॥róhitam ǀ me ǀ pā́ka-sthāmā ǀ su-dhúram ǀ kakṣya-prā́m ǀ
ádāt ǀ rāyáḥ ǀ vi-bódhanam ǁrohitam ǀ me ǀ pāka-sthāmā ǀ su-dhuram ǀ kakṣya-prām ǀ
adāt ǀ rāyaḥ ǀ vi-bodhanam ǁ8.3.22 Aṣṭaka 5.7.29.2Anuvāka 8.1.98
-
Ṛk 23
यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वहं॑ति॒ वह्न॑यः ।
अस्तं॒ वयो॒ न तुग्र्यं॑ ॥यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः |
अस्तं वयो न तुग्र्यम् ||yásmā anyé dáśa práti dhúram váhanti váhnayaḥ ǀ
ástam váyo ná túgryam ǁyasmā anye daśa prati dhuraṃ vahanti vahnayaḥ |
astaṃ vayo na tugryam ||यस्मै॑ । अ॒न्ये । दश॑ । प्रति॑ । धुर॑म् । वह॑न्ति । वह्न॑यः ।
अस्त॑म् । वयः॑ । न । तुग्र्य॑म् ॥यस्मै । अन्ये । दश । प्रति । धुरम् । वहन्ति । वह्नयः ।
अस्तम् । वयः । न । तुग्र्यम् ॥yásmai ǀ anyé ǀ dáśa ǀ práti ǀ dhúram ǀ váhanti ǀ váhnayaḥ ǀ
ástam ǀ váyaḥ ǀ ná ǀ túgryam ǁyasmai ǀ anye ǀ daśa ǀ prati ǀ dhuram ǀ vahanti ǀ vahnayaḥ ǀ
astam ǀ vayaḥ ǀ na ǀ tugryam ǁ8.3.23 Aṣṭaka 5.7.29.3Anuvāka 8.1.99
-
Ṛk 24
आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यंज॑नं ।
तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवं ॥आत्मा पितुस् तनूर् वास ओजोदा अभ्यञ्जनम् |
तुरीयम् इद् रोहितस्य पाकस्थामानम् भोजं दातारम् अब्रवम् ||ātmā́ pitústanū́rvā́sa ojodā́ abhyáñjanam ǀ
turī́yamídróhitasya pā́kasthāmānam bhojám dātā́ramabravam ǁātmā pitus tanūr vāsa ojodā abhyañjanam |
turīyam id rohitasya pākasthāmānam bhojaṃ dātāram abravam ||आ॒त्मा । पि॒तुः । त॒नूः । वासः॑ । ओ॒जः॒ऽदाः । अ॒भि॒ऽअञ्ज॑नम् ।
तु॒रीय॑म् । इत् । रोहि॑तस्य । पाक॑ऽस्थामानम् । भो॒जम् । दा॒तार॑म् । अ॒ब्र॒व॒म् ॥आत्मा । पितुः । तनूः । वासः । ओजःऽदाः । अभिऽअञ्जनम् ।
तुरीयम् । इत् । रोहितस्य । पाकऽस्थामानम् । भोजम् । दातारम् । अब्रवम् ॥ātmā́ ǀ pitúḥ ǀ tanū́ḥ ǀ vā́saḥ ǀ ojaḥ-dā́ḥ ǀ abhi-áñjanam ǀ
turī́yam ǀ ít ǀ róhitasya ǀ pā́ka-sthāmānam ǀ bhojám ǀ dātā́ram ǀ abravam ǁātmā ǀ pituḥ ǀ tanūḥ ǀ vāsaḥ ǀ ojaḥ-dāḥ ǀ abhi-añjanam ǀ
turīyam ǀ it ǀ rohitasya ǀ pāka-sthāmānam ǀ bhojam ǀ dātāram ǀ abravam ǁ8.3.24 Aṣṭaka 5.7.29.4Anuvāka 8.1.100
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.