Ṛk 8.3.13
Saṃhitā
कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्यः॑ ।
न॒ही न्व॑स्य महि॒मान॑मिंद्रि॒यं स्व॑र्गृ॒णंत॑ आन॒शुः ॥
कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः |
नही न्व् अस्य महिमानम् इन्द्रियं स्वर् गृणन्त आनशुः ||
kánnávyo atasī́nām turó gṛṇīta mártyaḥ ǀ
nahī́ nvásya mahimā́namindriyám svárgṛṇánta ānaśúḥ ǁ
kan navyo atasīnāṃ turo gṛṇīta martyaḥ |
nahī nv asya mahimānam indriyaṃ svar gṛṇanta ānaśuḥ ||
Padapāṭha
कत् । नव्यः॑ । अ॒त॒सीना॑म् । तु॒रः । गृ॒णी॒त॒ । मर्त्यः॑ ।
न॒हि । नु । अ॒स्य॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । स्वः॑ । गृ॒णन्तः॑ । आ॒न॒शुः ॥
कत् । नव्यः । अतसीनाम् । तुरः । गृणीत । मर्त्यः ।
नहि । नु । अस्य । महिमानम् । इन्द्रियम् । स्वः । गृणन्तः । आनशुः ॥
kát ǀ návyaḥ ǀ atasī́nām ǀ turáḥ ǀ gṛṇīta ǀ mártyaḥ ǀ
nahí ǀ nú ǀ asya ǀ mahimā́nam ǀ indriyám ǀ sváḥ ǀ gṛṇántaḥ ǀ ānaśúḥ ǁ
kat ǀ navyaḥ ǀ atasīnām ǀ turaḥ ǀ gṛṇīta ǀ martyaḥ ǀ
nahi ǀ nu ǀ asya ǀ mahimānam ǀ indriyam ǀ svaḥ ǀ gṛṇantaḥ ǀ ānaśuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.003.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.7.27.03
- Maṇḍala · Anuvāka · Ṛk
- 08.01.089
- Devatā देवता
- 1-20: Indra; 21-24: Kaurayāṇa’s Dānastuti
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Gāyatrī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.