Ṛk 8.3.20
Saṃhitā
निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इंद्रि॒यो रसः॑ ।
निरं॒तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदिं॑द्र॒ पौंस्यं॑ ॥
निर् अग्नयो रुरुचुर् निर् उ सूर्यो निः सोम इन्द्रियो रसः |
निर् अन्तरिक्षाद् अधमो महाम् अहिं कृषे तद् इन्द्र पौंस्यम् ||
níragnáyo rurucurníru sū́ryo níḥ sóma indriyó rásaḥ ǀ
nírantárikṣādadhamo mahā́máhim kṛṣé tádindra páuṃsyam ǁ
nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ |
nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam ||
Padapāṭha
निः । अ॒ग्नयः॑ । रु॒रु॒चुः॒ । निः । ऊं॒ इति॑ । सूर्यः॑ । निः । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ ।
निः । अ॒न्तरि॑क्षात् । अ॒ध॒मः॒ । म॒हाम् । अहि॑म् । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥
निः । अग्नयः । रुरुचुः । निः । ऊं इति । सूर्यः । निः । सोमः । इन्द्रियः । रसः ।
निः । अन्तरिक्षात् । अधमः । महाम् । अहिम् । कृषे । तत् । इन्द्र । पौंस्यम् ॥
níḥ ǀ agnáyaḥ ǀ rurucuḥ ǀ níḥ ǀ ūṃ íti ǀ sū́ryaḥ ǀ níḥ ǀ sómaḥ ǀ indriyáḥ ǀ rásaḥ ǀ
níḥ ǀ antárikṣāt ǀ adhamaḥ ǀ mahā́m ǀ áhim ǀ kṛṣé ǀ tát ǀ indra ǀ páuṃsyam ǁ
niḥ ǀ agnayaḥ ǀ rurucuḥ ǀ niḥ ǀ ūṃ iti ǀ sūryaḥ ǀ niḥ ǀ somaḥ ǀ indriyaḥ ǀ rasaḥ ǀ
niḥ ǀ antarikṣāt ǀ adhamaḥ ǀ mahām ǀ ahim ǀ kṛṣe ǀ tat ǀ indra ǀ pauṃsyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.003.20
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.7.28.05
- Maṇḍala · Anuvāka · Ṛk
- 08.01.096
- Devatā देवता
- 1-20: Indra; 21-24: Kaurayāṇa’s Dānastuti
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Gāyatrī, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.