Ṛk 8.3.10
Saṃhitā
येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदिं॑द्र॒ वृष्णि॑ ते॒ शवः॑ ।
स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥
येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः |
सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ||
yénā samudrámásṛjo mahī́rapástádindra vṛ́ṣṇi te śávaḥ ǀ
sadyáḥ só asya mahimā́ ná saṃnáśe yám kṣoṇī́ranucakradé ǁ
yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ |
sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīr anucakrade ||
Padapāṭha
येन॑ । स॒मु॒द्रम् । असृ॑जः । म॒हीः । अ॒पः । तत् । इ॒न्द्र॒ । वृष्णि॑ । ते॒ । शवः॑ ।
स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒म्ऽनशे॑ । यम् । क्षो॒णीः । अ॒नु॒ऽच॒क्र॒दे ॥
येन । समुद्रम् । असृजः । महीः । अपः । तत् । इन्द्र । वृष्णि । ते । शवः ।
सद्यः । सः । अस्य । महिमा । न । सम्ऽनशे । यम् । क्षोणीः । अनुऽचक्रदे ॥
yéna ǀ samudrám ǀ ásṛjaḥ ǀ mahī́ḥ ǀ apáḥ ǀ tát ǀ indra ǀ vṛ́ṣṇi ǀ te ǀ śávaḥ ǀ
sadyáḥ ǀ sáḥ ǀ asya ǀ mahimā́ ǀ ná ǀ sam-náśe ǀ yám ǀ kṣoṇī́ḥ ǀ anu-cakradé ǁ
yena ǀ samudram ǀ asṛjaḥ ǀ mahīḥ ǀ apaḥ ǀ tat ǀ indra ǀ vṛṣṇi ǀ te ǀ śavaḥ ǀ
sadyaḥ ǀ saḥ ǀ asya ǀ mahimā ǀ na ǀ sam-naśe ǀ yam ǀ kṣoṇīḥ ǀ anu-cakrade ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.003.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.7.26.05
- Maṇḍala · Anuvāka · Ṛk
- 08.01.086
- Devatā देवता
- 1-20: Indra; 21-24: Kaurayāṇa’s Dānastuti
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Gāyatrī, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.