Ṛk 8.3.9
Saṃhitā
तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये ।
येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥
तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये |
येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ||
táttvā yāmi suvī́ryam tádbráhma pūrvácittaye ǀ
yénā yátibhyo bhṛ́gave dháne hité yéna práskaṇvamā́vitha ǁ
tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye |
yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha ||
Padapāṭha
तत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ।
येन॑ । यति॑ऽभ्यः । भृग॑वे । धने॑ । हि॒ते । येन॑ । प्रस्क॑ण्वम् । आवि॑थ ॥
तत् । त्वा । यामि । सुऽवीर्यम् । तत् । ब्रह्म । पूर्वऽचित्तये ।
येन । यतिऽभ्यः । भृगवे । धने । हिते । येन । प्रस्कण्वम् । आविथ ॥
tát ǀ tvā ǀ yāmi ǀ su-vī́ryam ǀ tát ǀ bráhma ǀ pūrvá-cittaye ǀ
yéna ǀ yáti-bhyaḥ ǀ bhṛ́gave ǀ dháne ǀ hité ǀ yéna ǀ práskaṇvam ǀ ā́vitha ǁ
tat ǀ tvā ǀ yāmi ǀ su-vīryam ǀ tat ǀ brahma ǀ pūrva-cittaye ǀ
yena ǀ yati-bhyaḥ ǀ bhṛgave ǀ dhane ǀ hite ǀ yena ǀ praskaṇvam ǀ āvitha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.003.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.7.26.04
- Maṇḍala · Anuvāka · Ṛk
- 08.01.085
- Devatā देवता
- 1-20: Indra; 21-24: Kaurayāṇa’s Dānastuti
- Ṛṣi ऋषि
- Medhyātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Gāyatrī, Anuṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.