Sūkta 87
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Dyumnīka Vāsiṣṭha Or Priyamedha Āṅgirasa Or Kṛṣṇa Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles nicṛtpaṅkti (2, 4, 6); bṛhatī (1, 3); nicṛdbṛhatī (5)
2nd set of styles bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6)
-
Ṛk 1
द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तं ।
मध्वः॑ सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥द्युम्नी वां स्तोमो अश्विना क्रिविर् न सेक आ गतम् |
मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराव् इवेरिणे ||dyumnī́ vām stómo aśvinā krívirná séka ā́ gatam ǀ
mádhvaḥ sutásya sá diví priyó narā pātám gaurā́vivériṇe ǁdyumnī vāṃ stomo aśvinā krivir na seka ā gatam |
madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe ||द्यु॒म्नी । वा॒म् । स्तोमः॑ । अ॒श्वि॒ना॒ । क्रिविः॑ । न । सेके॑ । आ । ग॒त॒म् ।
मध्वः॑ । सु॒तस्य॑ । सः । दि॒वि । प्रि॒यः । न॒रा॒ । पा॒तम् । गौ॒रौऽइ॑व । इरि॑णे ॥द्युम्नी । वाम् । स्तोमः । अश्विना । क्रिविः । न । सेके । आ । गतम् ।
मध्वः । सुतस्य । सः । दिवि । प्रियः । नरा । पातम् । गौरौऽइव । इरिणे ॥dyumnī́ ǀ vām ǀ stómaḥ ǀ aśvinā ǀ kríviḥ ǀ ná ǀ séke ǀ ā́ ǀ gatam ǀ
mádhvaḥ ǀ sutásya ǀ sáḥ ǀ diví ǀ priyáḥ ǀ narā ǀ pātám ǀ gauráu-iva ǀ íriṇe ǁdyumnī ǀ vām ǀ stomaḥ ǀ aśvinā ǀ kriviḥ ǀ na ǀ seke ǀ ā ǀ gatam ǀ
madhvaḥ ǀ sutasya ǀ saḥ ǀ divi ǀ priyaḥ ǀ narā ǀ pātam ǀ gaurau-iva ǀ iriṇe ǁ8.87.1 Aṣṭaka 6.6.10.1Anuvāka 8.9.51
-
Ṛk 2
पिब॑तं घ॒र्मं मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं नरा ।
ता मं॑दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वयः॑ ॥पिबतं घर्मम् मधुमन्तम् अश्विना बर्हिः सीदतं नरा |
ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ||píbatam gharmám mádhumantamaśvinā́ barhíḥ sīdatam narā ǀ
tā́ mandasānā́ mánuṣo duroṇá ā́ ní pātam védasā váyaḥ ǁpibataṃ gharmam madhumantam aśvinā barhiḥ sīdataṃ narā |
tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ ||पिब॑तम् । घ॒र्मम् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । न॒रा॒ ।
ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । नि । पा॒त॒म् । वेद॑सा । वयः॑ ॥पिबतम् । घर्मम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । नरा ।
ता । मन्दसाना । मनुषः । दुरोणे । आ । नि । पातम् । वेदसा । वयः ॥píbatam ǀ gharmám ǀ mádhu-mantam ǀ aśvinā ǀ ā́ ǀ barhíḥ ǀ sīdatam ǀ narā ǀ
tā́ ǀ mandasānā́ ǀ mánuṣaḥ ǀ duroṇé ǀ ā́ ǀ ní ǀ pātam ǀ védasā ǀ váyaḥ ǁpibatam ǀ gharmam ǀ madhu-mantam ǀ aśvinā ǀ ā ǀ barhiḥ ǀ sīdatam ǀ narā ǀ
tā ǀ mandasānā ǀ manuṣaḥ ǀ duroṇe ǀ ā ǀ ni ǀ pātam ǀ vedasā ǀ vayaḥ ǁ8.87.2 Aṣṭaka 6.6.10.2Anuvāka 8.9.52
-
Ṛk 3
आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।
ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत |
ता वर्तिर् यातम् उप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ||ā́ vām víśvābhirūtíbhiḥ priyámedhā ahūṣata ǀ
tā́ vartíryātamúpa vṛktábarhiṣo júṣṭam yajñám díviṣṭiṣu ǁā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata |
tā vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu ||आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।
ता । व॒र्तिः । या॒त॒म् । उप॑ । वृ॒क्तऽब॑र्हिषः । जुष्ट॑म् । य॒ज्ञम् । दिवि॑ष्टिषु ॥आ । वाम् । विश्वाभिः । ऊतिऽभिः । प्रियऽमेधाः । अहूषत ।
ता । वर्तिः । यातम् । उप । वृक्तऽबर्हिषः । जुष्टम् । यज्ञम् । दिविष्टिषु ॥ā́ ǀ vām ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ priyá-medhāḥ ǀ ahūṣata ǀ
tā́ ǀ vartíḥ ǀ yātam ǀ úpa ǀ vṛktá-barhiṣaḥ ǀ júṣṭam ǀ yajñám ǀ díviṣṭiṣu ǁā ǀ vām ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ priya-medhāḥ ǀ ahūṣata ǀ
tā ǀ vartiḥ ǀ yātam ǀ upa ǀ vṛkta-barhiṣaḥ ǀ juṣṭam ǀ yajñam ǀ diviṣṭiṣu ǁ8.87.3 Aṣṭaka 6.6.10.3Anuvāka 8.9.53
-
Ṛk 4
पिब॑तं॒ सोमं॒ मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् ।
ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो गं॒तं गौ॒रावि॒वेरि॑णं ॥पिबतं सोमम् मधुमन्तम् अश्विना बर्हिः सीदतं सुमत् |
ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराव् इवेरिणम् ||píbatam sómam mádhumantamaśvinā́ barhíḥ sīdatam sumát ǀ
tā́ vāvṛdhānā́ úpa suṣṭutím divó gantám gaurā́vivériṇam ǁpibataṃ somam madhumantam aśvinā barhiḥ sīdataṃ sumat |
tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam ||पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । सु॒ऽमत् ।
ता । व॒वृ॒धा॒नौ । उप॑ । सु॒ऽस्तु॒तिम् । दि॒वः । ग॒न्तम् । गौ॒रौऽइ॑व । इरि॑णम् ॥पिबतम् । सोमम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । सुऽमत् ।
ता । ववृधानौ । उप । सुऽस्तुतिम् । दिवः । गन्तम् । गौरौऽइव । इरिणम् ॥píbatam ǀ sómam ǀ mádhu-mantam ǀ aśvinā ǀ ā́ ǀ barhíḥ ǀ sīdatam ǀ su-mát ǀ
tā́ ǀ vavṛdhānáu ǀ úpa ǀ su-stutím ǀ diváḥ ǀ gantám ǀ gauráu-iva ǀ íriṇam ǁpibatam ǀ somam ǀ madhu-mantam ǀ aśvinā ǀ ā ǀ barhiḥ ǀ sīdatam ǀ su-mat ǀ
tā ǀ vavṛdhānau ǀ upa ǀ su-stutim ǀ divaḥ ǀ gantam ǀ gaurau-iva ǀ iriṇam ǁ8.87.4 Aṣṭaka 6.6.10.4Anuvāka 8.9.54
-
Ṛk 5
आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः ।
दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥आ नूनं यातम् अश्विनाश्वेभिः प्रुषितप्सुभिः |
दस्रा हिरण्यवर्तनी शुभस् पती पातं सोमम् ऋतावृधा ||ā́ nūnám yātamaśvinā́śvebhiḥ pruṣitápsubhiḥ ǀ
dásrā híraṇyavartanī śubhaspatī pātám sómamṛtāvṛdhā ǁā nūnaṃ yātam aśvināśvebhiḥ pruṣitapsubhiḥ |
dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā ||आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः ।
दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥आ । नूनम् । यातम् । अश्विना । अश्वेभिः । प्रुषितप्सुऽभिः ।
दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । शुभः । पती इति । पातम् । सोमम् । ऋतऽवृधा ॥ā́ ǀ nūnám ǀ yātam ǀ aśvinā ǀ áśvebhiḥ ǀ pruṣitápsu-bhiḥ ǀ
dásrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ śubhaḥ ǀ patī íti ǀ pātám ǀ sómam ǀ ṛta-vṛdhā ǁā ǀ nūnam ǀ yātam ǀ aśvinā ǀ aśvebhiḥ ǀ pruṣitapsu-bhiḥ ǀ
dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ śubhaḥ ǀ patī iti ǀ pātam ǀ somam ǀ ṛta-vṛdhā ǁ8.87.5 Aṣṭaka 6.6.10.5Anuvāka 8.9.55
-
Ṛk 6
व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये ।
ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तं ॥वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये |
ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्य् आ गतम् ||vayám hí vām hávāmahe vipanyávo víprāso vā́jasātaye ǀ
tā́ valgū́ dasrā́ purudáṃsasā dhiyā́śvinā śruṣṭyā́ gatam ǁvayaṃ hi vāṃ havāmahe vipanyavo viprāso vājasātaye |
tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam ||व॒यम् । हि । वा॒म् । हवा॑महे । वि॒प॒न्यवः॑ । विप्रा॑सः । वाज॑ऽसातये ।
ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒ऽदंस॑सा । धि॒या । अश्वि॑ना । श्रु॒ष्टी । आ । ग॒त॒म् ॥वयम् । हि । वाम् । हवामहे । विपन्यवः । विप्रासः । वाजऽसातये ।
ता । वल्गू इति । दस्रा । पुरुऽदंससा । धिया । अश्विना । श्रुष्टी । आ । गतम् ॥vayám ǀ hí ǀ vām ǀ hávāmahe ǀ vipanyávaḥ ǀ víprāsaḥ ǀ vā́ja-sātaye ǀ
tā́ ǀ valgū́ íti ǀ dasrā́ ǀ puru-dáṃsasā ǀ dhiyā́ ǀ áśvinā ǀ śruṣṭī́ ǀ ā́ ǀ gatam ǁvayam ǀ hi ǀ vām ǀ havāmahe ǀ vipanyavaḥ ǀ viprāsaḥ ǀ vāja-sātaye ǀ
tā ǀ valgū iti ǀ dasrā ǀ puru-daṃsasā ǀ dhiyā ǀ aśvinā ǀ śruṣṭī ǀ ā ǀ gatam ǁ8.87.6 Aṣṭaka 6.6.10.6Anuvāka 8.9.56
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.