Ṛk 8.87.4
Saṃhitā
पिब॑तं॒ सोमं॒ मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् ।
ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो गं॒तं गौ॒रावि॒वेरि॑णं ॥
पिबतं सोमम् मधुमन्तम् अश्विना बर्हिः सीदतं सुमत् |
ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराव् इवेरिणम् ||
píbatam sómam mádhumantamaśvinā́ barhíḥ sīdatam sumát ǀ
tā́ vāvṛdhānā́ úpa suṣṭutím divó gantám gaurā́vivériṇam ǁ
pibataṃ somam madhumantam aśvinā barhiḥ sīdataṃ sumat |
tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam ||
Padapāṭha
पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । सु॒ऽमत् ।
ता । व॒वृ॒धा॒नौ । उप॑ । सु॒ऽस्तु॒तिम् । दि॒वः । ग॒न्तम् । गौ॒रौऽइ॑व । इरि॑णम् ॥
पिबतम् । सोमम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । सुऽमत् ।
ता । ववृधानौ । उप । सुऽस्तुतिम् । दिवः । गन्तम् । गौरौऽइव । इरिणम् ॥
píbatam ǀ sómam ǀ mádhu-mantam ǀ aśvinā ǀ ā́ ǀ barhíḥ ǀ sīdatam ǀ su-mát ǀ
tā́ ǀ vavṛdhānáu ǀ úpa ǀ su-stutím ǀ diváḥ ǀ gantám ǀ gauráu-iva ǀ íriṇam ǁ
pibatam ǀ somam ǀ madhu-mantam ǀ aśvinā ǀ ā ǀ barhiḥ ǀ sīdatam ǀ su-mat ǀ
tā ǀ vavṛdhānau ǀ upa ǀ su-stutim ǀ divaḥ ǀ gantam ǀ gaurau-iva ǀ iriṇam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.087.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.10.04
- Maṇḍala · Anuvāka · Ṛk
- 08.09.054
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Dyumnīka Vāsiṣṭha Or Priyamedha Āṅgirasa Or Kṛṣṇa Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.