Ṛgveda · Maṇḍala 8

Sūkta 21

Indra · Indra, Sarasvatī, Citra · Citra’s Dānastuti · Sobhari Kāṇva · 18 ṛks

Link
Devatā देवता
1-16: Indra; 17: Indra, Sarasvatī, Citra; 18: Citra’s Dānastuti
Ṛṣi ऋषि
Sobhari Kāṇva
Chandas छन्दस्
Kakubh, Satobṛhatī
Metres by ṛk

1st set of styles kakubuṣṇik (5, 7, 9, 11); nicṛtpaṅkti (6, 8, 16, 18); virāḍuṣnik (1, 3, 15); pādanicṛtpaṅkti (2, 12, 14); nicṛduṣṇik (13, 17); bhurikpaṅkti (4); virāṭpaṅkti (10)

2nd set of styles kakubh (1, 3, 5, 7, 9, 11, 13, 15, 17); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18)

  1. Ṛk 1

    व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भरं॑तोऽव॒स्यवः॑ ।
    वाजे॑ चि॒त्रं ह॑वामहे ॥

    वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो ऽवस्यवः |
    वाजे चित्रं हवामहे ||

    vayámu tvā́mapūrvya sthūrám ná káccidbháranto’vasyávaḥ ǀ
    vā́je citrám havāmahe ǁ

    vayam u tvām apūrvya sthūraṃ na kac cid bharanto 'vasyavaḥ |
    vāje citraṃ havāmahe ||

    व॒यम् । ऊं॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्तः । अ॒व॒स्यवः॑ ।
    वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥

    वयम् । ऊं इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः ।
    वाजे । चित्रम् । हवामहे ॥

    vayám ǀ ūṃ íti ǀ tvā́m ǀ apūrvya ǀ sthūrám ǀ ná ǀ kát ǀ cit ǀ bhárantaḥ ǀ avasyávaḥ ǀ
    vā́je ǀ citrám ǀ havāmahe ǁ

    vayam ǀ ūṃ iti ǀ tvām ǀ apūrvya ǀ sthūram ǀ na ǀ kat ǀ cit ǀ bharantaḥ ǀ avasyavaḥ ǀ
    vāje ǀ citram ǀ havāmahe ǁ

    8.21.1 Aṣṭaka 6.2.1.1Anuvāka 8.4.1

  2. Ṛk 2

    उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् ।
    त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इंद्र सान॒सिं ॥

    उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् |
    त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ||

    úpa tvā kármannūtáye sá no yúvográścakrāma yó dhṛṣát ǀ
    tvā́míddhyávitā́ram vavṛmáhe sákhāya indra sānasím ǁ

    upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat |
    tvām id dhy avitāraṃ vavṛmahe sakhāya indra sānasim ||

    उप॑ । त्वा॒ । कर्म॑न् । ऊ॒तये॑ । सः । नः॒ । युवा॑ । उ॒ग्रः । च॒क्रा॒म॒ । यः । धृ॒षत् ।
    त्वाम् । इत् । हि । अ॒वि॒तार॑म् । व॒वृ॒महे॑ । सखा॑यः । इ॒न्द्र॒ । सा॒न॒सिम् ॥

    उप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उग्रः । चक्राम । यः । धृषत् ।
    त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । इन्द्र । सानसिम् ॥

    úpa ǀ tvā ǀ kárman ǀ ūtáye ǀ sáḥ ǀ naḥ ǀ yúvā ǀ ugráḥ ǀ cakrāma ǀ yáḥ ǀ dhṛṣát ǀ
    tvā́m ǀ ít ǀ hí ǀ avitā́ram ǀ vavṛmáhe ǀ sákhāyaḥ ǀ indra ǀ sānasím ǁ

    upa ǀ tvā ǀ karman ǀ ūtaye ǀ saḥ ǀ naḥ ǀ yuvā ǀ ugraḥ ǀ cakrāma ǀ yaḥ ǀ dhṛṣat ǀ
    tvām ǀ it ǀ hi ǀ avitāram ǀ vavṛmahe ǀ sakhāyaḥ ǀ indra ǀ sānasim ǁ

    8.21.2 Aṣṭaka 6.2.1.2Anuvāka 8.4.2

  3. Ṛk 3

    आ या॑ही॒म इंद॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते ।
    सोमं॑ सोमपते पिब ॥

    आ याहीम इन्दवो ऽश्वपते गोपत उर्वरापते |
    सोमं सोमपते पिब ||

    ā́ yāhīmá índavó’śvapate gópata úrvarāpate ǀ
    sómam somapate piba ǁ

    ā yāhīma indavo 'śvapate gopata urvarāpate |
    somaṃ somapate piba ||

    आ । या॒हि॒ । इ॒मे । इन्द॑वः । अश्व॑ऽपते । गोऽप॑ते । उर्व॑राऽपते ।
    सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ ॥

    आ । याहि । इमे । इन्दवः । अश्वऽपते । गोऽपते । उर्वराऽपते ।
    सोमम् । सोमऽपते । पिब ॥

    ā́ ǀ yāhi ǀ imé ǀ índavaḥ ǀ áśva-pate ǀ gó-pate ǀ úrvarā-pate ǀ
    sómam ǀ soma-pate ǀ piba ǁ

    ā ǀ yāhi ǀ ime ǀ indavaḥ ǀ aśva-pate ǀ go-pate ǀ urvarā-pate ǀ
    somam ǀ soma-pate ǀ piba ǁ

    8.21.3 Aṣṭaka 6.2.1.3Anuvāka 8.4.3

  4. Ṛk 4

    व॒यं हि त्वा॒ बंधु॑मंतमबं॒धवो॒ विप्रा॑स इंद्र येमि॒म ।
    या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भिः॒ सोम॑पीतये ॥

    वयं हि त्वा बन्धुमन्तम् अबन्धवो विप्रास इन्द्र येमिम |
    या ते धामानि वृषभ तेभिर् आ गहि विश्वेभिः सोमपीतये ||

    vayám hí tvā bándhumantamabandhávo víprāsa indra yemimá ǀ
    yā́ te dhā́māni vṛṣabha tébhirā́ gahi víśvebhiḥ sómapītaye ǁ

    vayaṃ hi tvā bandhumantam abandhavo viprāsa indra yemima |
    yā te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye ||

    व॒यम् । हि । त्वा॒ । बन्धु॑ऽमन्तम् । अ॒ब॒न्धवः॑ । विप्रा॑सः । इ॒न्द्र॒ । ये॒मि॒म ।
    या । ते॒ । धामा॑नि । वृ॒ष॒भ॒ । तेभिः॑ । आ । ग॒हि॒ । विश्वे॑भिः । सोम॑ऽपीतये ॥

    वयम् । हि । त्वा । बन्धुऽमन्तम् । अबन्धवः । विप्रासः । इन्द्र । येमिम ।
    या । ते । धामानि । वृषभ । तेभिः । आ । गहि । विश्वेभिः । सोमऽपीतये ॥

    vayám ǀ hí ǀ tvā ǀ bándhu-mantam ǀ abandhávaḥ ǀ víprāsaḥ ǀ indra ǀ yemimá ǀ
    yā́ ǀ te ǀ dhā́māni ǀ vṛṣabha ǀ tébhiḥ ǀ ā́ ǀ gahi ǀ víśvebhiḥ ǀ sóma-pītaye ǁ

    vayam ǀ hi ǀ tvā ǀ bandhu-mantam ǀ abandhavaḥ ǀ viprāsaḥ ǀ indra ǀ yemima ǀ
    yā ǀ te ǀ dhāmāni ǀ vṛṣabha ǀ tebhiḥ ǀ ā ǀ gahi ǀ viśvebhiḥ ǀ soma-pītaye ǁ

    8.21.4 Aṣṭaka 6.2.1.4Anuvāka 8.4.4

  5. Ṛk 5

    सीदं॑तस्ते॒ वयो॑ यथा॒ गोश्री॑ते॒ मधौ॑ मदि॒रे वि॒वक्ष॑णे ।
    अ॒भि त्वामिं॑द्र नोनुमः ॥

    सीदन्तस् ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे |
    अभि त्वाम् इन्द्र नोनुमः ||

    sī́dantaste váyo yathā góśrīte mádhau madiré vivákṣaṇe ǀ
    abhí tvā́mindra nonumaḥ ǁ

    sīdantas te vayo yathā gośrīte madhau madire vivakṣaṇe |
    abhi tvām indra nonumaḥ ||

    सीद॑न्तः । ते॒ । वयः॑ । य॒था॒ । गोऽश्री॑ते । मधौ॑ । म॒दि॒रे । वि॒वक्ष॑णे ।
    अ॒भि । त्वाम् । इ॒न्द्र॒ । नो॒नु॒मः॒ ॥

    सीदन्तः । ते । वयः । यथा । गोऽश्रीते । मधौ । मदिरे । विवक्षणे ।
    अभि । त्वाम् । इन्द्र । नोनुमः ॥

    sī́dantaḥ ǀ te ǀ váyaḥ ǀ yathā ǀ gó-śrīte ǀ mádhau ǀ madiré ǀ vivákṣaṇe ǀ
    abhí ǀ tvā́m ǀ indra ǀ nonumaḥ ǁ

    sīdantaḥ ǀ te ǀ vayaḥ ǀ yathā ǀ go-śrīte ǀ madhau ǀ madire ǀ vivakṣaṇe ǀ
    abhi ǀ tvām ǀ indra ǀ nonumaḥ ǁ

    8.21.5 Aṣṭaka 6.2.1.5Anuvāka 8.4.5

  6. Ṛk 6

    अच्छा॑ च त्वै॒ना नम॑सा॒ वदा॑मसि॒ किं मुहु॑श्चि॒द्वि दी॑धयः ।
    संति॒ कामा॑सो हरिवो द॒दिष्ट्वं स्मो व॒यं संति॑ नो॒ धियः॑ ॥

    अच्छा च त्वैना नमसा वदामसि किम् मुहुश् चिद् वि दीधयः |
    सन्ति कामासो हरिवो ददिष् ट्वं स्मो वयं सन्ति नो धियः ||

    ácchā ca tvainā́ námasā vádāmasi kím múhuścidví dīdhayaḥ ǀ
    sánti kā́māso harivo dadíṣṭvám smó vayám sánti no dhíyaḥ ǁ

    acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ |
    santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ ||

    अच्छ॑ । च॒ । त्वा॒ । ए॒ना । नम॑सा । वदा॑मसि । किम् । मुहुः॑ । चि॒त् । वि । दी॒ध॒यः॒ ।
    सन्ति॑ । कामा॑सः । ह॒रि॒ऽवः॒ । द॒दिः । त्वम् । स्मः । व॒यम् । सन्ति॑ । नः॒ । धियः॑ ॥

    अच्छ । च । त्वा । एना । नमसा । वदामसि । किम् । मुहुः । चित् । वि । दीधयः ।
    सन्ति । कामासः । हरिऽवः । ददिः । त्वम् । स्मः । वयम् । सन्ति । नः । धियः ॥

    áccha ǀ ca ǀ tvā ǀ enā́ ǀ námasā ǀ vádāmasi ǀ kím ǀ múhuḥ ǀ cit ǀ ví ǀ dīdhayaḥ ǀ
    sánti ǀ kā́māsaḥ ǀ hari-vaḥ ǀ dadíḥ ǀ tvám ǀ smáḥ ǀ vayám ǀ sánti ǀ naḥ ǀ dhíyaḥ ǁ

    accha ǀ ca ǀ tvā ǀ enā ǀ namasā ǀ vadāmasi ǀ kim ǀ muhuḥ ǀ cit ǀ vi ǀ dīdhayaḥ ǀ
    santi ǀ kāmāsaḥ ǀ hari-vaḥ ǀ dadiḥ ǀ tvam ǀ smaḥ ǀ vayam ǀ santi ǀ naḥ ǀ dhiyaḥ ǁ

    8.21.6 Aṣṭaka 6.2.2.1Anuvāka 8.4.6

  7. Ṛk 7

    नूत्ना॒ इदिं॑द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः ।
    वि॒द्मा पु॒रा परी॑णसः ॥

    नूत्ना इद् इन्द्र ते वयम् ऊती अभूम नहि नू ते अद्रिवः |
    विद्मा पुरा परीणसः ||

    nū́tnā ídindra te vayámūtī́ abhūma nahí nū́ te adrivaḥ ǀ
    vidmā́ purā́ párīṇasaḥ ǁ

    nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ |
    vidmā purā parīṇasaḥ ||

    नूत्नाः॑ । इत् । इ॒न्द्र॒ । ते॒ । व॒यम् । ऊ॒ती । अ॒भू॒म॒ । न॒हि । नु । ते॒ । अ॒द्रि॒ऽवः॒ ।
    वि॒द्म । पु॒रा । परी॑णसः ॥

    नूत्नाः । इत् । इन्द्र । ते । वयम् । ऊती । अभूम । नहि । नु । ते । अद्रिऽवः ।
    विद्म । पुरा । परीणसः ॥

    nū́tnāḥ ǀ ít ǀ indra ǀ te ǀ vayám ǀ ūtī́ ǀ abhūma ǀ nahí ǀ nú ǀ te ǀ adri-vaḥ ǀ
    vidmá ǀ purā́ ǀ párīṇasaḥ ǁ

    nūtnāḥ ǀ it ǀ indra ǀ te ǀ vayam ǀ ūtī ǀ abhūma ǀ nahi ǀ nu ǀ te ǀ adri-vaḥ ǀ
    vidma ǀ purā ǀ parīṇasaḥ ǁ

    8.21.7 Aṣṭaka 6.2.2.2Anuvāka 8.4.7

  8. Ṛk 8

    वि॒द्मा स॑खि॒त्वमु॒त शू॑र भो॒ज्य१॒॑मा ते॒ ता व॑ज्रिन्नीमहे ।
    उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे॑ सुशिप्र॒ गोम॑ति ॥

    विद्मा सखित्वम् उत शूर भोज्यम् आ ते ता वज्रिन्न् ईमहे |
    उतो समस्मिन्न् आ शिशीहि नो वसो वाजे सुशिप्र गोमति ||

    vidmā́ sakhitvámutá śūra bhojyámā́ te tā́ vajrinnīmahe ǀ
    utó samasminnā́ śiśīhi no vaso vā́je suśipra gómati ǁ

    vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe |
    uto samasminn ā śiśīhi no vaso vāje suśipra gomati ||

    वि॒द्म । स॒खि॒ऽत्वम् । उ॒त । शू॒र॒ । भो॒ज्य॑म् । आ । ते॒ । ता । व॒ज्रि॒न् । ई॒म॒हे॒ ।
    उ॒तो इति॑ । स॒म॒स्मि॒न् । आ । शि॒शी॒हि॒ । नः॒ । व॒सो॒ इति॑ । वाजे॑ । सु॒ऽशि॒प्र॒ । गोऽम॑ति ॥

    विद्म । सखिऽत्वम् । उत । शूर । भोज्यम् । आ । ते । ता । वज्रिन् । ईमहे ।
    उतो इति । समस्मिन् । आ । शिशीहि । नः । वसो इति । वाजे । सुऽशिप्र । गोऽमति ॥

    vidmá ǀ sakhi-tvám ǀ utá ǀ śūra ǀ bhojyám ǀ ā́ ǀ te ǀ tā́ ǀ vajrin ǀ īmahe ǀ
    utó íti ǀ samasmin ǀ ā́ ǀ śiśīhi ǀ naḥ ǀ vaso íti ǀ vā́je ǀ su-śipra ǀ gó-mati ǁ

    vidma ǀ sakhi-tvam ǀ uta ǀ śūra ǀ bhojyam ǀ ā ǀ te ǀ tā ǀ vajrin ǀ īmahe ǀ
    uto iti ǀ samasmin ǀ ā ǀ śiśīhi ǀ naḥ ǀ vaso iti ǀ vāje ǀ su-śipra ǀ go-mati ǁ

    8.21.8 Aṣṭaka 6.2.2.3Anuvāka 8.4.8

  9. Ṛk 9

    यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे ।
    सखा॑य॒ इंद्र॑मू॒तये॑ ॥

    यो न इदम्-इदम् पुरा प्र वस्य आनिनाय तम् उ व स्तुषे |
    सखाय इन्द्रम् ऊतये ||

    yó na idámidam purā́ prá vásya āninā́ya támu vaḥ stuṣe ǀ
    sákhāya índramūtáye ǁ

    yo na idam-idam purā pra vasya ānināya tam u va stuṣe |
    sakhāya indram ūtaye ||

    यः । नः॒ । इ॒दम्ऽइ॑दम् । पु॒रा । प्र । वस्यः॑ । आ॒ऽनि॒नाय॑ । तम् । ऊं॒ इति॑ । वः॒ । स्तु॒षे॒ ।
    सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥

    यः । नः । इदम्ऽइदम् । पुरा । प्र । वस्यः । आऽनिनाय । तम् । ऊं इति । वः । स्तुषे ।
    सखायः । इन्द्रम् । ऊतये ॥

    yáḥ ǀ naḥ ǀ idám-idam ǀ purā́ ǀ prá ǀ vásyaḥ ǀ ā-ninā́ya ǀ tám ǀ ūṃ íti ǀ vaḥ ǀ stuṣe ǀ
    sákhāyaḥ ǀ índram ǀ ūtáye ǁ

    yaḥ ǀ naḥ ǀ idam-idam ǀ purā ǀ pra ǀ vasyaḥ ǀ ā-nināya ǀ tam ǀ ūṃ iti ǀ vaḥ ǀ stuṣe ǀ
    sakhāyaḥ ǀ indram ǀ ūtaye ǁ

    8.21.9 Aṣṭaka 6.2.2.4Anuvāka 8.4.9

  10. Ṛk 10

    हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अमं॑दत ।
    आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तं ॥

    हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत |
    आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम् ||

    háryaśvam sátpatim carṣaṇīsáham sá hí ṣmā yó ámandata ǀ
    ā́ tú naḥ sá vayati gávyamáśvyam stotṛ́bhyo maghávā śatám ǁ

    haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata |
    ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam ||

    हरि॑ऽअश्वम् । सत्ऽप॑तिम् । च॒र्ष॒णि॒ऽसह॑म् । सः । हि । स्म॒ । यः । अम॑न्दत ।
    आ । तु । नः॒ । सः । व॒य॒ति॒ । गव्य॑म् । अश्व्य॑म् । स्तो॒तृऽभ्यः॑ । म॒घऽवा॑ । श॒तम् ॥

    हरिऽअश्वम् । सत्ऽपतिम् । चर्षणिऽसहम् । सः । हि । स्म । यः । अमन्दत ।
    आ । तु । नः । सः । वयति । गव्यम् । अश्व्यम् । स्तोतृऽभ्यः । मघऽवा । शतम् ॥

    hári-aśvam ǀ sát-patim ǀ carṣaṇi-sáham ǀ sáḥ ǀ hí ǀ sma ǀ yáḥ ǀ ámandata ǀ
    ā́ ǀ tú ǀ naḥ ǀ sáḥ ǀ vayati ǀ gávyam ǀ áśvyam ǀ stotṛ́-bhyaḥ ǀ maghá-vā ǀ śatám ǁ

    hari-aśvam ǀ sat-patim ǀ carṣaṇi-saham ǀ saḥ ǀ hi ǀ sma ǀ yaḥ ǀ amandata ǀ
    ā ǀ tu ǀ naḥ ǀ saḥ ǀ vayati ǀ gavyam ǀ aśvyam ǀ stotṛ-bhyaḥ ǀ magha-vā ǀ śatam ǁ

    8.21.10 Aṣṭaka 6.2.2.5Anuvāka 8.4.10

  11. Ṛk 11

    त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒संतं॑ वृषभ ब्रुवीमहि ।
    सं॒स्थे जन॑स्य॒ गोम॑तः ॥

    त्वया ह स्विद् युजा वयम् प्रति श्वसन्तं वृषभ ब्रुवीमहि |
    संस्थे जनस्य गोमतः ||

    tváyā ha svidyujā́ vayám práti śvasántam vṛṣabha bruvīmahi ǀ
    saṃsthé jánasya gómataḥ ǁ

    tvayā ha svid yujā vayam prati śvasantaṃ vṛṣabha bruvīmahi |
    saṃsthe janasya gomataḥ ||

    त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । प्रति॑ । श्व॒सन्त॑म् । वृ॒ष॒भ॒ । ब्रु॒वी॒म॒हि॒ ।
    स॒म्ऽस्थे । जन॑स्य । गोऽम॑तः ॥

    त्वया । ह । स्वित् । युजा । वयम् । प्रति । श्वसन्तम् । वृषभ । ब्रुवीमहि ।
    सम्ऽस्थे । जनस्य । गोऽमतः ॥

    tváyā ǀ ha ǀ svit ǀ yujā́ ǀ vayám ǀ práti ǀ śvasántam ǀ vṛṣabha ǀ bruvīmahi ǀ
    sam-sthé ǀ jánasya ǀ gó-mataḥ ǁ

    tvayā ǀ ha ǀ svit ǀ yujā ǀ vayam ǀ prati ǀ śvasantam ǀ vṛṣabha ǀ bruvīmahi ǀ
    sam-sthe ǀ janasya ǀ go-mataḥ ǁ

    8.21.11 Aṣṭaka 6.2.3.1Anuvāka 8.4.11

  12. Ṛk 12

    जये॑म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्यः॑ ।
    नृभि॑र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे॑रिंद्र॒ प्र णो॒ धियः॑ ॥

    जयेम कारे पुरुहूत कारिणो ऽभि तिष्ठेम दूढ्यः |
    नृभिर् वृत्रं हन्याम शूशुयाम चावेर् इन्द्र प्र णो धियः ||

    jáyema kāré puruhūta kāríṇo’bhí tiṣṭhema dūḍhyáḥ ǀ
    nṛ́bhirvṛtrám hanyā́ma śūśuyā́ma cā́verindra prá ṇo dhíyaḥ ǁ

    jayema kāre puruhūta kāriṇo 'bhi tiṣṭhema dūḍhyaḥ |
    nṛbhir vṛtraṃ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ ||

    जये॑म । का॒रे । पु॒रु॒ऽहू॒त॒ । का॒रिणः॑ । अ॒भि । ति॒ष्ठे॒म॒ । दुः॒ऽध्यः॑ ।
    नृऽभिः॑ । वृ॒त्रम् । ह॒न्याम॑ । शू॒शु॒याम॑ । च॒ । अवेः॑ । इ॒न्द्र॒ । प्र । नः॒ । धियः॑ ॥

    जयेम । कारे । पुरुऽहूत । कारिणः । अभि । तिष्ठेम । दुःऽध्यः ।
    नृऽभिः । वृत्रम् । हन्याम । शूशुयाम । च । अवेः । इन्द्र । प्र । नः । धियः ॥

    jáyema ǀ kāré ǀ puru-hūta ǀ kāríṇaḥ ǀ abhí ǀ tiṣṭhema ǀ duḥ-dhyáḥ ǀ
    nṛ́-bhiḥ ǀ vṛtrám ǀ hanyā́ma ǀ śūśuyā́ma ǀ ca ǀ áveḥ ǀ indra ǀ prá ǀ naḥ ǀ dhíyaḥ ǁ

    jayema ǀ kāre ǀ puru-hūta ǀ kāriṇaḥ ǀ abhi ǀ tiṣṭhema ǀ duḥ-dhyaḥ ǀ
    nṛ-bhiḥ ǀ vṛtram ǀ hanyāma ǀ śūśuyāma ǀ ca ǀ aveḥ ǀ indra ǀ pra ǀ naḥ ǀ dhiyaḥ ǁ

    8.21.12 Aṣṭaka 6.2.3.2Anuvāka 8.4.12

  13. Ṛk 13

    अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना॑पिरिंद्र ज॒नुषा॑ स॒नाद॑सि ।
    यु॒धेदा॑पि॒त्वमि॑च्छसे ॥

    अभ्रातृव्यो अना त्वम् अनापिर् इन्द्र जनुषा सनाद् असि |
    युधेद् आपित्वम् इच्छसे ||

    abhrātṛvyó anā́ tvámánāpirindra janúṣā sanā́dasi ǀ
    yudhédāpitvámicchase ǁ

    abhrātṛvyo anā tvam anāpir indra januṣā sanād asi |
    yudhed āpitvam icchase ||

    अ॒भ्रा॒तृ॒व्यः । अ॒ना । त्वम् । अना॑पिः । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् । अ॒सि॒ ।
    यु॒धा । इत् । आ॒पि॒ऽत्वम् । इ॒च्छ॒से॒ ॥

    अभ्रातृव्यः । अना । त्वम् । अनापिः । इन्द्र । जनुषा । सनात् । असि ।
    युधा । इत् । आपिऽत्वम् । इच्छसे ॥

    abhrātṛvyáḥ ǀ anā́ ǀ tvám ǀ ánāpiḥ ǀ indra ǀ janúṣā ǀ sanā́t ǀ asi ǀ
    yudhā́ ǀ ít ǀ āpi-tvám ǀ icchase ǁ

    abhrātṛvyaḥ ǀ anā ǀ tvam ǀ anāpiḥ ǀ indra ǀ januṣā ǀ sanāt ǀ asi ǀ
    yudhā ǀ it ǀ āpi-tvam ǀ icchase ǁ

    8.21.13 Aṣṭaka 6.2.3.3Anuvāka 8.4.13

  14. Ṛk 14

    नकी॑ रे॒वंतं॑ स॒ख्याय॑ विंदसे॒ पीयं॑ति ते सुरा॒श्वः॑ ।
    य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥

    नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः |
    यदा कृणोषि नदनुं सम् ऊहस्य् आद् इत् पितेव हूयसे ||

    nákī revántam sakhyā́ya vindase pī́yanti te surāśváḥ ǀ
    yadā́ kṛṇóṣi nadanúm sámūhasyā́dítpitéva hūyase ǁ

    nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ |
    yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase ||

    नकिः॑ । रे॒वन्त॑म् । स॒ख्याय॑ । वि॒न्द॒से॒ । पीय॑न्ति । ते॒ । सु॒रा॒श्वः॑ ।
    य॒दा । कृ॒णोषि॑ । न॒द॒नुम् । सम् । ऊ॒ह॒सि॒ । आत् । इत् । पि॒ताऽइ॑व । हू॒य॒से॒ ॥

    नकिः । रेवन्तम् । सख्याय । विन्दसे । पीयन्ति । ते । सुराश्वः ।
    यदा । कृणोषि । नदनुम् । सम् । ऊहसि । आत् । इत् । पिताऽइव । हूयसे ॥

    nákiḥ ǀ revántam ǀ sakhyā́ya ǀ vindase ǀ pī́yanti ǀ te ǀ surāśváḥ ǀ
    yadā́ ǀ kṛṇóṣi ǀ nadanúm ǀ sám ǀ ūhasi ǀ ā́t ǀ ít ǀ pitā́-iva ǀ hūyase ǁ

    nakiḥ ǀ revantam ǀ sakhyāya ǀ vindase ǀ pīyanti ǀ te ǀ surāśvaḥ ǀ
    yadā ǀ kṛṇoṣi ǀ nadanum ǀ sam ǀ ūhasi ǀ āt ǀ it ǀ pitā-iva ǀ hūyase ǁ

    8.21.14 Aṣṭaka 6.2.3.4Anuvāka 8.4.14

  15. Ṛk 15

    मा ते॑ अमा॒जुरो॑ यथा मू॒रास॑ इंद्र स॒ख्ये त्वाव॑तः ।
    नि ष॑दाम॒ सचा॑ सु॒ते ॥

    मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः |
    नि षदाम सचा सुते ||

    mā́ te amājúro yathā mūrā́sa indra sakhyé tvā́vataḥ ǀ
    ní ṣadāma sácā suté ǁ

    mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ |
    ni ṣadāma sacā sute ||

    मा । ते॒ । अ॒मा॒ऽजुरः॑ । य॒था॒ । मू॒रासः॑ । इ॒न्द्र॒ । स॒ख्ये । त्वाऽव॑तः ।
    नि । स॒दा॒म॒ । सचा॑ । सु॒ते ॥

    मा । ते । अमाऽजुरः । यथा । मूरासः । इन्द्र । सख्ये । त्वाऽवतः ।
    नि । सदाम । सचा । सुते ॥

    mā́ ǀ te ǀ amā-júraḥ ǀ yathā ǀ mūrā́saḥ ǀ indra ǀ sakhyé ǀ tvā́-vataḥ ǀ
    ní ǀ sadāma ǀ sácā ǀ suté ǁ

    mā ǀ te ǀ amā-juraḥ ǀ yathā ǀ mūrāsaḥ ǀ indra ǀ sakhye ǀ tvā-vataḥ ǀ
    ni ǀ sadāma ǀ sacā ǀ sute ǁ

    8.21.15 Aṣṭaka 6.2.3.5Anuvāka 8.4.15

  16. Ṛk 16

    मा ते॑ गोदत्र॒ निर॑राम॒ राध॑स॒ इंद्र॒ मा ते॑ गृहामहि ।
    दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते॑ दा॒मान॑ आ॒दभे॑ ॥

    मा ते गोदत्र निर् अराम राधस इन्द्र मा ते गृहामहि |
    दृऌहा चिद् अर्यः प्र मृशाभ्य् आ भर न ते दामान आदभे ||

    mā́ te godatra nírarāma rā́dhasa índra mā́ te gṛhāmahi ǀ
    dṛḷhā́ cidaryáḥ prá mṛśābhyā́ bhara ná te dāmā́na ādábhe ǁ

    mā te godatra nir arāma rādhasa indra mā te gṛhāmahi |
    dṛḷhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe ||

    मा । ते॒ । गो॒ऽद॒त्र॒ । निः । अ॒रा॒म॒ । राध॑सः । इन्द्र॑ । मा । ते॒ । गृ॒हा॒म॒हि॒ ।
    दृ॒ळ्हा । चि॒त् । अ॒र्यः । प्र । मृ॒श॒ । अ॒भि । आ । भ॒र॒ । न । ते॒ । दा॒मानः॑ । आ॒ऽदभे॑ ॥

    मा । ते । गोऽदत्र । निः । अराम । राधसः । इन्द्र । मा । ते । गृहामहि ।
    दृळ्हा । चित् । अर्यः । प्र । मृश । अभि । आ । भर । न । ते । दामानः । आऽदभे ॥

    mā́ ǀ te ǀ go-datra ǀ níḥ ǀ arāma ǀ rā́dhasaḥ ǀ índra ǀ mā́ ǀ te ǀ gṛhāmahi ǀ
    dṛḷhā́ ǀ cit ǀ aryáḥ ǀ prá ǀ mṛśa ǀ abhí ǀ ā́ ǀ bhara ǀ ná ǀ te ǀ dāmā́naḥ ǀ ā-dábhe ǁ

    mā ǀ te ǀ go-datra ǀ niḥ ǀ arāma ǀ rādhasaḥ ǀ indra ǀ mā ǀ te ǀ gṛhāmahi ǀ
    dṛḷhā ǀ cit ǀ aryaḥ ǀ pra ǀ mṛśa ǀ abhi ǀ ā ǀ bhara ǀ na ǀ te ǀ dāmānaḥ ǀ ā-dabhe ǁ

    8.21.16 Aṣṭaka 6.2.4.1Anuvāka 8.4.16

  17. Ṛk 17

    इंद्रो॑ वा॒ घेदिय॑न्म॒घं सर॑स्वती वा सु॒भगा॑ द॒दिर्वसु॑ ।
    त्वं वा॑ चित्र दा॒शुषे॑ ॥

    इन्द्रो वा घेद् इयन् मघं सरस्वती वा सुभगा ददिर् वसु |
    त्वं वा चित्र दाशुषे ||

    índro vā ghédíyanmaghám sárasvatī vā subhágā dadírvásu ǀ
    tvám vā citra dāśúṣe ǁ

    indro vā ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu |
    tvaṃ vā citra dāśuṣe ||

    इन्द्रः॑ । वा॒ । घ॒ । इत् । इय॑त् । म॒घम् । सर॑स्वती । वा॒ । सु॒ऽभगा॑ । द॒दिः । वसु॑ ।
    त्वम् । वा॒ । चि॒त्र॒ । दा॒शुषे॑ ॥

    इन्द्रः । वा । घ । इत् । इयत् । मघम् । सरस्वती । वा । सुऽभगा । ददिः । वसु ।
    त्वम् । वा । चित्र । दाशुषे ॥

    índraḥ ǀ vā ǀ gha ǀ ít ǀ íyat ǀ maghám ǀ sárasvatī ǀ vā ǀ su-bhágā ǀ dadíḥ ǀ vásu ǀ
    tvám ǀ vā ǀ citra ǀ dāśúṣe ǁ

    indraḥ ǀ vā ǀ gha ǀ it ǀ iyat ǀ magham ǀ sarasvatī ǀ vā ǀ su-bhagā ǀ dadiḥ ǀ vasu ǀ
    tvam ǀ vā ǀ citra ǀ dāśuṣe ǁ

    8.21.17 Aṣṭaka 6.2.4.2Anuvāka 8.4.17

  18. Ṛk 18

    चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ ।
    प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ॥

    चित्र इद् राजा राजका इद् अन्यके यके सरस्वतीम् अनु |
    पर्जन्य इव ततनद् धि वृष्ट्या सहस्रम् अयुता ददत् ||

    cítra ídrā́jā rājakā́ ídanyaké yaké sárasvatīmánu ǀ
    parjánya iva tatánaddhí vṛṣṭyā́ sahásramayútā dádat ǁ

    citra id rājā rājakā id anyake yake sarasvatīm anu |
    parjanya iva tatanad dhi vṛṣṭyā sahasram ayutā dadat ||

    चित्रः॑ । इत् । राजा॑ । रा॒ज॒काः । इत् । अ॒न्य॒के । य॒के । सर॑स्वतीम् । अनु॑ ।
    प॒र्जन्यः॑ऽइव । त॒तन॑त् । हि । वृ॒ष्ट्या । स॒हस्र॑म् । अ॒युता॑ । दद॑त् ॥

    चित्रः । इत् । राजा । राजकाः । इत् । अन्यके । यके । सरस्वतीम् । अनु ।
    पर्जन्यःऽइव । ततनत् । हि । वृष्ट्या । सहस्रम् । अयुता । ददत् ॥

    cítraḥ ǀ ít ǀ rā́jā ǀ rājakā́ḥ ǀ ít ǀ anyaké ǀ yaké ǀ sárasvatīm ǀ ánu ǀ
    parjányaḥ-iva ǀ tatánat ǀ hí ǀ vṛṣṭyā́ ǀ sahásram ǀ ayútā ǀ dádat ǁ

    citraḥ ǀ it ǀ rājā ǀ rājakāḥ ǀ it ǀ anyake ǀ yake ǀ sarasvatīm ǀ anu ǀ
    parjanyaḥ-iva ǀ tatanat ǀ hi ǀ vṛṣṭyā ǀ sahasram ǀ ayutā ǀ dadat ǁ

    8.21.18 Aṣṭaka 6.2.4.3Anuvāka 8.4.18

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.21 · Indra · Indra, Sarasvatī, Citra · Citra’s Dānastuti

Interpretations

Ralph T. H. Griffith

Ṛk 1

WE call on thee, O Matchless One! We seeking help, possessing nothing firm ourselves, Call on thee wonderful in fight

Ṛk 2

On thee for aid in sacrifice. This youth of ours, the bold, the mighty, hath gonse forth. We therefore, we thy friends, Indra, havie chosen thee, free-giver, as our Guardian God.

Ṛk 3

Come hither, for the drops are here, O Lord of corn-lands. Lord of horses, Lord of kine: Drink thou the Soma, Soma's Lord!

Ṛk 4

For we the kinless singers have drawn hither thee, O Indra, who hast numerous kin. With all the forms thou hast, comic thou of bull-like strength, come near to drink the Soma juice.

Ṛk 5

Sitting like birds beside thy meath., mingled with milk, that gladdeneth and exalteth thee, Indra, to thee we sing aloud.

Ṛk 6

We speak to thee with this our reverential prayer. Why art thou pondering yet awhile? Here are our wishes; thou art liberal, Lord of Bays: we and our hymns are present here.

Ṛk 7

For not in recent times alone, O Indra, Thunder-armed, have we obtained thine aid. Of old we knew thy plenteous wealth.

Ṛk 8

Hero, we knew thy friendship and thy rich rewards: these, Thunderer, now we crave of thee. O Vasu, for all wealth that cometh of the kine, sharpen our powers, fair-visored God.

Ṛk 9

Him who of old hath brought to us this and that blessing, him I magnify for you, Even Indra, O my friends, for help

Ṛk 10

Borne by Bay Steeds, the Lord of heroes, ruling men, for it is he who takes; delight. May Maghavan bestow on us his worshippers hundreds of cattle and of steeds.

Ṛk 11

Hero, may we, with thee for Friend, withstand the man who pants against us in his wrath, In fight with people rich in kine.

Ṛk 12

May we be victors in the singer's battlesong, and meet the wicked, Much invoked! With heroes smite the foeman and show forth our strength. O Indra, further thou our thoughts.

Ṛk 13

O Indra, from all ancient time rivalless ever and companionless art thou: Thou seekest comradeship in war.

Ṛk 14

Thou findest not the wealthy man to be thy friend: those scorn thee who are flown with wine. What time thou thunderest and gatherest, then thou, even as a Father, art invoked.

Ṛk 15

O Indra, let us not, like fools who waste their lives at home, with friendship such as thine Sit idly by the poured-out juice.

Ṛk 16

Giver of kine, may we not miss thy gracious gifts: let us not rob thee of thine own. Strip even the strong places of the foe, and bring: thy gifts can never be made vain.

Ṛk 17

Indra or blest Sarasvatī alone bestows such wealth, treasure so great, or thou, O Citra, on the worshipper.