Sūkta 38
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 2, 4, 6, 9); nicṛdgāyatrī (3, 5, 7, 10); virāḍgāyatrī (8)
2nd set of styles gāyatrī
-
Ṛk 1
य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु ।
इंद्रा॑ग्नी॒ तस्य॑ बोधतं ॥यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु |
इन्द्राग्नी तस्य बोधतम् ||yajñásya hí sthá ṛtvíjā sásnī vā́jeṣu kármasu ǀ
índrāgnī tásya bodhatam ǁyajñasya hi stha ṛtvijā sasnī vājeṣu karmasu |
indrāgnī tasya bodhatam ||य॒ज्ञस्य॑ । हि । स्थः । ऋ॒त्विजा॑ । सस्नी॒ इति॑ । वाजे॑षु । कर्म॑ऽसु ।
इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥यज्ञस्य । हि । स्थः । ऋत्विजा । सस्नी इति । वाजेषु । कर्मऽसु ।
इन्द्राग्नी इति । तस्य । बोधतम् ॥yajñásya ǀ hí ǀ stháḥ ǀ ṛtvíjā ǀ sásnī íti ǀ vā́jeṣu ǀ kárma-su ǀ
índrāgnī íti ǀ tásya ǀ bodhatam ǁyajñasya ǀ hi ǀ sthaḥ ǀ ṛtvijā ǀ sasnī iti ǀ vājeṣu ǀ karma-su ǀ
indrāgnī iti ǀ tasya ǀ bodhatam ǁ8.38.1 Aṣṭaka 6.3.20.1Anuvāka 8.5.124
-
Ṛk 2
तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता ।
इंद्रा॑ग्नी॒ तस्य॑ बोधतं ॥तोशासा रथयावाना वृत्रहणापराजिता |
इन्द्राग्नी तस्य बोधतम् ||tośā́sā rathayā́vānā vṛtraháṇā́parājitā ǀ
índrāgnī tásya bodhatam ǁtośāsā rathayāvānā vṛtrahaṇāparājitā |
indrāgnī tasya bodhatam ||तो॒शासा॑ । र॒थ॒ऽयावा॑ना । वृ॒त्र॒ऽहना॑ । अप॑राऽजिता ।
इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥तोशासा । रथऽयावाना । वृत्रऽहना । अपराऽजिता ।
इन्द्राग्नी इति । तस्य । बोधतम् ॥tośā́sā ǀ ratha-yā́vānā ǀ vṛtra-hánā ǀ áparā-jitā ǀ
índrāgnī íti ǀ tásya ǀ bodhatam ǁtośāsā ǀ ratha-yāvānā ǀ vṛtra-hanā ǀ aparā-jitā ǀ
indrāgnī iti ǀ tasya ǀ bodhatam ǁ8.38.2 Aṣṭaka 6.3.20.2Anuvāka 8.5.125
-
Ṛk 3
इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।
इंद्रा॑ग्नी॒ तस्य॑ बोधतं ॥इदं वाम् मदिरम् मध्व् अधुक्षन्न् अद्रिभिर् नरः |
इन्द्राग्नी तस्य बोधतम् ||idám vām madirám mádhvádhukṣannádribhirnáraḥ ǀ
índrāgnī tásya bodhatam ǁidaṃ vām madiram madhv adhukṣann adribhir naraḥ |
indrāgnī tasya bodhatam ||इ॒दम् । वा॒म् । म॒दि॒रम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ ।
इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥इदम् । वाम् । मदिरम् । मधु । अधुक्षन् । अद्रिऽभिः । नरः ।
इन्द्राग्नी इति । तस्य । बोधतम् ॥idám ǀ vām ǀ madirám ǀ mádhu ǀ ádhukṣan ǀ ádri-bhiḥ ǀ náraḥ ǀ
índrāgnī íti ǀ tásya ǀ bodhatam ǁidam ǀ vām ǀ madiram ǀ madhu ǀ adhukṣan ǀ adri-bhiḥ ǀ naraḥ ǀ
indrāgnī iti ǀ tasya ǀ bodhatam ǁ8.38.3 Aṣṭaka 6.3.20.3Anuvāka 8.5.126
-
Ṛk 4
जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती ।
इंद्रा॑ग्नी॒ आ ग॑तं नरा ॥जुषेथां यज्ञम् इष्टये सुतं सोमं सधस्तुती |
इन्द्राग्नी आ गतं नरा ||juṣéthām yajñámiṣṭáye sutám sómam sadhastutī ǀ
índrāgnī ā́ gatam narā ǁjuṣethāṃ yajñam iṣṭaye sutaṃ somaṃ sadhastutī |
indrāgnī ā gataṃ narā ||जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ । सु॒तम् । सोम॑म् । स॒ध॒स्तु॒ती॒ इति॑ सधऽस्तुती ।
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥जुषेथाम् । यज्ञम् । इष्टये । सुतम् । सोमम् । सधस्तुती इति सधऽस्तुती ।
इन्द्राग्नी इति । आ । गतम् । नरा ॥juṣéthām ǀ yajñám ǀ iṣṭáye ǀ sutám ǀ sómam ǀ sadhastutī íti sadha-stutī ǀ
índrāgnī íti ǀ ā́ ǀ gatam ǀ narā ǁjuṣethām ǀ yajñam ǀ iṣṭaye ǀ sutam ǀ somam ǀ sadhastutī iti sadha-stutī ǀ
indrāgnī iti ǀ ā ǀ gatam ǀ narā ǁ8.38.4 Aṣṭaka 6.3.20.4Anuvāka 8.5.127
-
Ṛk 5
इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथुः॑ ।
इंद्रा॑ग्नी॒ आ ग॑तं नरा ॥इमा जुषेथां सवना येभिर् हव्यान्य् ऊहथुः |
इन्द्राग्नी आ गतं नरा ||imā́ juṣethām sávanā yébhirhavyā́nyūháthuḥ ǀ
índrāgnī ā́ gatam narā ǁimā juṣethāṃ savanā yebhir havyāny ūhathuḥ |
indrāgnī ā gataṃ narā ||इ॒मा । जु॒षे॒था॒म् । सव॑ना । येभिः॑ । ह॒व्यानि॑ । ऊ॒हथुः॑ ।
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥इमा । जुषेथाम् । सवना । येभिः । हव्यानि । ऊहथुः ।
इन्द्राग्नी इति । आ । गतम् । नरा ॥imā́ ǀ juṣethām ǀ sávanā ǀ yébhiḥ ǀ havyā́ni ǀ ūháthuḥ ǀ
índrāgnī íti ǀ ā́ ǀ gatam ǀ narā ǁimā ǀ juṣethām ǀ savanā ǀ yebhiḥ ǀ havyāni ǀ ūhathuḥ ǀ
indrāgnī iti ǀ ā ǀ gatam ǀ narā ǁ8.38.5 Aṣṭaka 6.3.20.5Anuvāka 8.5.128
-
Ṛk 6
इ॒मां गा॑य॒त्रव॑र्तनिं जु॒षेथां॑ सुष्टु॒तिं मम॑ ।
इंद्रा॑ग्नी॒ आ ग॑तं नरा ॥इमां गायत्रवर्तनिं जुषेथां सुष्टुतिम् मम |
इन्द्राग्नी आ गतं नरा ||imā́m gāyatrávartanim juṣéthām suṣṭutím máma ǀ
índrāgnī ā́ gatam narā ǁimāṃ gāyatravartaniṃ juṣethāṃ suṣṭutim mama |
indrāgnī ā gataṃ narā ||इ॒माम् । गा॒य॒त्रऽव॑र्तनिम् । जु॒षेथा॑म् । सु॒ऽस्तु॒तिम् । मम॑ ।
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥इमाम् । गायत्रऽवर्तनिम् । जुषेथाम् । सुऽस्तुतिम् । मम ।
इन्द्राग्नी इति । आ । गतम् । नरा ॥imā́m ǀ gāyatrá-vartanim ǀ juṣéthām ǀ su-stutím ǀ máma ǀ
índrāgnī íti ǀ ā́ ǀ gatam ǀ narā ǁimām ǀ gāyatra-vartanim ǀ juṣethām ǀ su-stutim ǀ mama ǀ
indrāgnī iti ǀ ā ǀ gatam ǀ narā ǁ8.38.6 Aṣṭaka 6.3.20.6Anuvāka 8.5.129
-
Ṛk 7
प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू ।
इंद्रा॑ग्नी॒ सोम॑पीतये ॥प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू |
इन्द्राग्नी सोमपीतये ||prātaryā́vabhirā́ gatam devébhirjenyāvasū ǀ
índrāgnī sómapītaye ǁprātaryāvabhir ā gataṃ devebhir jenyāvasū |
indrāgnī somapītaye ||प्रा॒त॒र्याव॑ऽभिः । आ । ग॒त॒म् । दे॒वेभिः॑ । जे॒न्या॒व॒सू॒ इति॑ ।
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥प्रातर्यावऽभिः । आ । गतम् । देवेभिः । जेन्यावसू इति ।
इन्द्राग्नी इति । सोमऽपीतये ॥prātaryā́va-bhiḥ ǀ ā́ ǀ gatam ǀ devébhiḥ ǀ jenyāvasū íti ǀ
índrāgnī íti ǀ sóma-pītaye ǁprātaryāva-bhiḥ ǀ ā ǀ gatam ǀ devebhiḥ ǀ jenyāvasū iti ǀ
indrāgnī iti ǀ soma-pītaye ǁ8.38.7 Aṣṭaka 6.3.21.1Anuvāka 8.5.130
-
Ṛk 8
श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हवं॑ ।
इंद्रा॑ग्नी॒ सोम॑पीतये ॥श्यावाश्वस्य सुन्वतो ऽत्रीणां शृणुतं हवम् |
इन्द्राग्नी सोमपीतये ||śyāvā́śvasya sunvató’trīṇām śṛṇutam hávam ǀ
índrāgnī sómapītaye ǁśyāvāśvasya sunvato 'trīṇāṃ śṛṇutaṃ havam |
indrāgnī somapītaye ||श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् ।
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥श्यावऽअश्वस्य । सुन्वतः । अत्रीणाम् । शृणुतम् । हवम् ।
इन्द्राग्नी इति । सोमऽपीतये ॥śyāvá-aśvasya ǀ sunvatáḥ ǀ átrīṇām ǀ śṛṇutam ǀ hávam ǀ
índrāgnī íti ǀ sóma-pītaye ǁśyāva-aśvasya ǀ sunvataḥ ǀ atrīṇām ǀ śṛṇutam ǀ havam ǀ
indrāgnī iti ǀ soma-pītaye ǁ8.38.8 Aṣṭaka 6.3.21.2Anuvāka 8.5.131
-
Ṛk 9
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वंत॒ मेधि॑राः ।
इंद्रा॑ग्नी॒ सोम॑पीतये ॥एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः |
इन्द्राग्नी सोमपीतये ||evā́ vāmahva ūtáye yáthā́huvanta médhirāḥ ǀ
índrāgnī sómapītaye ǁevā vām ahva ūtaye yathāhuvanta medhirāḥ |
indrāgnī somapītaye ||ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः ।
इन्द्राग्नी इति । सोमऽपीतये ॥evá ǀ vām ǀ ahve ǀ ūtáye ǀ yáthā ǀ áhuvanta ǀ médhirāḥ ǀ
índrāgnī íti ǀ sóma-pītaye ǁeva ǀ vām ǀ ahve ǀ ūtaye ǀ yathā ǀ ahuvanta ǀ medhirāḥ ǀ
indrāgnī iti ǀ soma-pītaye ǁ8.38.9 Aṣṭaka 6.3.21.3Anuvāka 8.5.132
-
Ṛk 10
आहं सर॑स्वतीवतोरिंद्रा॒ग्न्योरवो॑ वृणे ।
याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥आहं सरस्वतीवतोर् इन्द्राग्न्योर् अवो वृणे |
याभ्यां गायत्रम् ऋच्यते ||ā́hám sárasvatīvatorindrāgnyórávo vṛṇe ǀ
yā́bhyām gāyatrámṛcyáte ǁāhaṃ sarasvatīvator indrāgnyor avo vṛṇe |
yābhyāṃ gāyatram ṛcyate ||आ । अ॒हम् । सर॑स्वतीऽवतोः । इ॒न्द्रा॒ग्न्योः । अवः॑ । वृ॒णे॒ ।
याभ्या॑म् । गा॒य॒त्रम् । ऋ॒च्यते॑ ॥आ । अहम् । सरस्वतीऽवतोः । इन्द्राग्न्योः । अवः । वृणे ।
याभ्याम् । गायत्रम् । ऋच्यते ॥ā́ ǀ ahám ǀ sárasvatī-vatoḥ ǀ indrāgnyóḥ ǀ ávaḥ ǀ vṛṇe ǀ
yā́bhyām ǀ gāyatrám ǀ ṛcyáte ǁā ǀ aham ǀ sarasvatī-vatoḥ ǀ indrāgnyoḥ ǀ avaḥ ǀ vṛṇe ǀ
yābhyām ǀ gāyatram ǀ ṛcyate ǁ8.38.10 Aṣṭaka 6.3.21.4Anuvāka 8.5.133
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.