Sūkta 1
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (3, 7-10); gāyatrī (1, 2, 6); virāḍgāyatrī (4, 5)
2nd set of styles gāyatrī
-
Ṛk 1
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।
इंद्रा॑य॒ पात॑वे सु॒तः ॥स्वादिष्ठया मदिष्ठया पवस्व सोम धारया |
इन्द्राय पातवे सुतः ||svā́diṣṭhayā mádiṣṭhayā pávasva soma dhā́rayā ǀ
índrāya pā́tave sutáḥ ǁsvādiṣṭhayā madiṣṭhayā pavasva soma dhārayā |
indrāya pātave sutaḥ ||स्वादि॑ष्ठया । मदि॑ष्ठया । पव॑स्व । सो॒म॒ । धार॑या ।
इन्द्रा॑य । पात॑वे । सु॒तः ॥स्वादिष्ठया । मदिष्ठया । पवस्व । सोम । धारया ।
इन्द्राय । पातवे । सुतः ॥svā́diṣṭhayā ǀ mádiṣṭhayā ǀ pávasva ǀ soma ǀ dhā́rayā ǀ
índrāya ǀ pā́tave ǀ sutáḥ ǁsvādiṣṭhayā ǀ madiṣṭhayā ǀ pavasva ǀ soma ǀ dhārayā ǀ
indrāya ǀ pātave ǀ sutaḥ ǁ9.1.1 Aṣṭaka 6.7.16.1Anuvāka 9.1.1
-
Ṛk 2
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हतं ।
द्रुणा॑ स॒धस्थ॒मास॑दत् ॥रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् |
द्रुणा सधस्थम् आसदत् ||rakṣohā́ viśvácarṣaṇirabhí yónimáyohatam ǀ
drúṇā sadhásthamā́sadat ǁrakṣohā viśvacarṣaṇir abhi yonim ayohatam |
druṇā sadhastham āsadat ||र॒क्षः॒ऽहा । वि॒श्वऽच॑र्षणिः । अ॒भि । योनि॑म् । अयः॑ऽहतम् ।
द्रुणा॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥रक्षःऽहा । विश्वऽचर्षणिः । अभि । योनिम् । अयःऽहतम् ।
द्रुणा । सधऽस्थम् । आ । असदत् ॥rakṣaḥ-hā́ ǀ viśvá-carṣaṇiḥ ǀ abhí ǀ yónim ǀ áyaḥ-hatam ǀ
drúṇā ǀ sadhá-stham ǀ ā́ ǀ asadat ǁrakṣaḥ-hā ǀ viśva-carṣaṇiḥ ǀ abhi ǀ yonim ǀ ayaḥ-hatam ǀ
druṇā ǀ sadha-stham ǀ ā ǀ asadat ǁ9.1.2 Aṣṭaka 6.7.16.2Anuvāka 9.1.2
-
Ṛk 3
व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हंत॑मः ।
पर्षि॒ राधो॑ म॒घोनां॑ ॥वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः |
पर्षि राधो मघोनाम् ||varivodhā́tamo bhava máṃhiṣṭho vṛtrahántamaḥ ǀ
párṣi rā́dho maghónām ǁvarivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ |
parṣi rādho maghonām ||व॒रि॒वः॒ऽधात॑मः । भ॒व॒ । मंहि॑ष्ठः । वृ॒त्र॒हन्ऽत॑मः ।
पर्षि॑ । राधः॑ । म॒घोना॑म् ॥वरिवःऽधातमः । भव । मंहिष्ठः । वृत्रहन्ऽतमः ।
पर्षि । राधः । मघोनाम् ॥varivaḥ-dhā́tamaḥ ǀ bhava ǀ máṃhiṣṭhaḥ ǀ vṛtrahán-tamaḥ ǀ
párṣi ǀ rā́dhaḥ ǀ maghónām ǁvarivaḥ-dhātamaḥ ǀ bhava ǀ maṃhiṣṭhaḥ ǀ vṛtrahan-tamaḥ ǀ
parṣi ǀ rādhaḥ ǀ maghonām ǁ9.1.3 Aṣṭaka 6.7.16.3Anuvāka 9.1.3
-
Ṛk 4
अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमंध॑सा ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥अभ्य् अर्ष महानां देवानां वीतिम् अन्धसा |
अभि वाजम् उत श्रवः ||abhyárṣa mahā́nām devā́nām vītímándhasā ǀ
abhí vā́jamutá śrávaḥ ǁabhy arṣa mahānāṃ devānāṃ vītim andhasā |
abhi vājam uta śravaḥ ||अ॒भि । अ॒र्ष॒ । म॒हाना॑म् । दे॒वाना॑म् । वी॒तिम् । अन्ध॑सा ।
अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥अभि । अर्ष । महानाम् । देवानाम् । वीतिम् । अन्धसा ।
अभि । वाजम् । उत । श्रवः ॥abhí ǀ arṣa ǀ mahā́nām ǀ devā́nām ǀ vītím ǀ ándhasā ǀ
abhí ǀ vā́jam ǀ utá ǀ śrávaḥ ǁabhi ǀ arṣa ǀ mahānām ǀ devānām ǀ vītim ǀ andhasā ǀ
abhi ǀ vājam ǀ uta ǀ śravaḥ ǁ9.1.4 Aṣṭaka 6.7.16.4Anuvāka 9.1.4
-
Ṛk 5
त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे ।
इंदो॒ त्वे न॑ आ॒शसः॑ ॥त्वाम् अच्छा चरामसि तद् इद् अर्थं दिवे-दिवे |
इन्दो त्वे न आशसः ||tvā́mácchā carāmasi tádídártham divédive ǀ
índo tvé na āśásaḥ ǁtvām acchā carāmasi tad id arthaṃ dive-dive |
indo tve na āśasaḥ ||त्वाम् । अच्छ॑ । च॒रा॒म॒सि॒ । तत् । इत् । अर्थ॑म् । दि॒वेऽदि॑वे ।
इन्दो॒ इति॑ । त्वे इति॑ । नः॒ । आ॒ऽशसः॑ ॥त्वाम् । अच्छ । चरामसि । तत् । इत् । अर्थम् । दिवेऽदिवे ।
इन्दो इति । त्वे इति । नः । आऽशसः ॥tvā́m ǀ áccha ǀ carāmasi ǀ tát ǀ ít ǀ ártham ǀ divé-dive ǀ
índo íti ǀ tvé íti ǀ naḥ ǀ ā-śásaḥ ǁtvām ǀ accha ǀ carāmasi ǀ tat ǀ it ǀ artham ǀ dive-dive ǀ
indo iti ǀ tve iti ǀ naḥ ǀ ā-śasaḥ ǁ9.1.5 Aṣṭaka 6.7.16.5Anuvāka 9.1.5
-
Ṛk 6
पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता ।
वारे॑ण॒ शश्व॑ता॒ तना॑ ॥पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता |
वारेण शश्वता तना ||punā́ti te parisrútam sómam sū́ryasya duhitā́ ǀ
vā́reṇa śáśvatā tánā ǁpunāti te parisrutaṃ somaṃ sūryasya duhitā |
vāreṇa śaśvatā tanā ||पु॒नाति॑ । ते॒ । प॒रि॒ऽस्रुत॑म् । सोम॑म् । सूर्य॑स्य । दु॒हि॒ता ।
वारे॑ण । शश्व॑ता । तना॑ ॥पुनाति । ते । परिऽस्रुतम् । सोमम् । सूर्यस्य । दुहिता ।
वारेण । शश्वता । तना ॥punā́ti ǀ te ǀ pari-srútam ǀ sómam ǀ sū́ryasya ǀ duhitā́ ǀ
vā́reṇa ǀ śáśvatā ǀ tánā ǁpunāti ǀ te ǀ pari-srutam ǀ somam ǀ sūryasya ǀ duhitā ǀ
vāreṇa ǀ śaśvatā ǀ tanā ǁ9.1.6 Aṣṭaka 6.7.17.1Anuvāka 9.1.6
-
Ṛk 7
तमी॒मण्वीः॑ सम॒र्य आ गृ॒भ्णंति॒ योष॑णो॒ दश॑ ।
स्वसा॑रः॒ पार्ये॑ दि॒वि ॥तम् ईम् अण्वीः समर्य आ गृभ्णन्ति योषणो दश |
स्वसारः पार्ये दिवि ||támīmáṇvīḥ samaryá ā́ gṛbhṇánti yóṣaṇo dáśa ǀ
svásāraḥ pā́rye diví ǁtam īm aṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa |
svasāraḥ pārye divi ||तम् । ई॒म् । अण्वीः॑ । स॒ऽम॒र्ये । आ । गृ॒भ्णन्ति॑ । योष॑णः । दश॑ ।
स्वसा॑रः । पार्ये॑ । दि॒वि ॥तम् । ईम् । अण्वीः । सऽमर्ये । आ । गृभ्णन्ति । योषणः । दश ।
स्वसारः । पार्ये । दिवि ॥tám ǀ īm ǀ áṇvīḥ ǀ sa-maryé ǀ ā́ ǀ gṛbhṇánti ǀ yóṣaṇaḥ ǀ dáśa ǀ
svásāraḥ ǀ pā́rye ǀ diví ǁtam ǀ īm ǀ aṇvīḥ ǀ sa-marye ǀ ā ǀ gṛbhṇanti ǀ yoṣaṇaḥ ǀ daśa ǀ
svasāraḥ ǀ pārye ǀ divi ǁ9.1.7 Aṣṭaka 6.7.17.2Anuvāka 9.1.7
-
Ṛk 8
तमीं॑ हिन्वंत्य॒ग्रुवो॒ धमं॑ति बाकु॒रं दृतिं॑ ।
त्रि॒धातु॑ वार॒णं मधु॑ ॥तम् ईं हिन्वन्त्य् अग्रुवो धमन्ति बाकुरं दृतिम् |
त्रिधातु वारणम् मधु ||támīm hinvantyagrúvo dhámanti bākurám dṛ́tim ǀ
tridhā́tu vāraṇám mádhu ǁtam īṃ hinvanty agruvo dhamanti bākuraṃ dṛtim |
tridhātu vāraṇam madhu ||तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒ग्रुवः॑ । धम॑न्ति । बा॒कु॒रम् । दृति॑म् ।
त्रि॒ऽधातु॑ । वा॒र॒णम् । मधु॑ ॥तम् । ईम् । हिन्वन्ति । अग्रुवः । धमन्ति । बाकुरम् । दृतिम् ।
त्रिऽधातु । वारणम् । मधु ॥tám ǀ īm ǀ hinvanti ǀ agrúvaḥ ǀ dhámanti ǀ bākurám ǀ dṛ́tim ǀ
tri-dhā́tu ǀ vāraṇám ǀ mádhu ǁtam ǀ īm ǀ hinvanti ǀ agruvaḥ ǀ dhamanti ǀ bākuram ǀ dṛtim ǀ
tri-dhātu ǀ vāraṇam ǀ madhu ǁ9.1.8 Aṣṭaka 6.7.17.3Anuvāka 9.1.8
-
Ṛk 9
अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णंति॑ धे॒नवः॒ शिशुं॑ ।
सोम॒मिंद्रा॑य॒ पात॑वे ॥अभीमम् अघ्न्या उत श्रीणन्ति धेनवः शिशुम् |
सोमम् इन्द्राय पातवे ||abhī́mámághnyā utá śrīṇánti dhenávaḥ śíśum ǀ
sómamíndrāya pā́tave ǁabhīmam aghnyā uta śrīṇanti dhenavaḥ śiśum |
somam indrāya pātave ||अ॒भि । इ॒मम् । अघ्न्याः॑ । उ॒त । श्री॒णन्ति॑ । धे॒नवः॑ । शिशु॑म् ।
सोम॑म् । इन्द्रा॑य । पात॑वे ॥अभि । इमम् । अघ्न्याः । उत । श्रीणन्ति । धेनवः । शिशुम् ।
सोमम् । इन्द्राय । पातवे ॥abhí ǀ imám ǀ ághnyāḥ ǀ utá ǀ śrīṇánti ǀ dhenávaḥ ǀ śíśum ǀ
sómam ǀ índrāya ǀ pā́tave ǁabhi ǀ imam ǀ aghnyāḥ ǀ uta ǀ śrīṇanti ǀ dhenavaḥ ǀ śiśum ǀ
somam ǀ indrāya ǀ pātave ǁ9.1.9 Aṣṭaka 6.7.17.4Anuvāka 9.1.9
-
Ṛk 10
अ॒स्येदिंद्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते ।
शूरो॑ म॒घा च॑ मंहते ॥अस्येद् इन्द्रो मदेष्व् आ विश्वा वृत्राणि जिघ्नते |
शूरो मघा च मंहते ||asyédíndro mádeṣvā́ víśvā vṛtrā́ṇi jighnate ǀ
śū́ro maghā́ ca maṃhate ǁasyed indro madeṣv ā viśvā vṛtrāṇi jighnate |
śūro maghā ca maṃhate ||अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । विश्वा॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ।
शूरः॑ । म॒घा । च॒ । मं॒ह॒ते॒ ॥अस्य । इत् । इन्द्रः । मदेषु । आ । विश्वा । वृत्राणि । जिघ्नते ।
शूरः । मघा । च । मंहते ॥asyá ǀ ít ǀ índraḥ ǀ mádeṣu ǀ ā́ ǀ víśvā ǀ vṛtrā́ṇi ǀ jighnate ǀ
śū́raḥ ǀ maghā́ ǀ ca ǀ maṃhate ǁasya ǀ it ǀ indraḥ ǀ madeṣu ǀ ā ǀ viśvā ǀ vṛtrāṇi ǀ jighnate ǀ
śūraḥ ǀ maghā ǀ ca ǀ maṃhate ǁ9.1.10 Aṣṭaka 6.7.17.5Anuvāka 9.1.10
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.