Sūkta 63
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Nidhruvi Kāśyapa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 2, 4, 12, 17, 20, 22, 23, 25, 27, 28, 30); gāyatrī (3, 7-11, 16, 18, 19, 21, 24, 26); virāḍgāyatrī (5, 13, 15); kakummatīgāyatrī (6, 14, 29)
2nd set of styles gāyatrī
-
Ṛk 1
आ प॑वस्व सह॒स्रिणं॑ र॒यिं सो॑म सु॒वीर्यं॑ ।
अ॒स्मे श्रवां॑सि धारय ॥आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् |
अस्मे श्रवांसि धारय ||ā́ pavasva sahasríṇam rayím soma suvī́ryam ǀ
asmé śrávāṃsi dhāraya ǁā pavasva sahasriṇaṃ rayiṃ soma suvīryam |
asme śravāṃsi dhāraya ||आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । सो॒म॒ । सु॒ऽवीर्य॑म् ।
अ॒स्मे इति॑ । श्रवां॑सि । धा॒र॒य॒ ॥आ । पवस्व । सहस्रिणम् । रयिम् । सोम । सुऽवीर्यम् ।
अस्मे इति । श्रवांसि । धारय ॥ā́ ǀ pavasva ǀ sahasríṇam ǀ rayím ǀ soma ǀ su-vī́ryam ǀ
asmé íti ǀ śrávāṃsi ǀ dhāraya ǁā ǀ pavasva ǀ sahasriṇam ǀ rayim ǀ soma ǀ su-vīryam ǀ
asme iti ǀ śravāṃsi ǀ dhāraya ǁ9.63.1 Aṣṭaka 7.1.30.1Anuvāka 9.3.61
-
Ṛk 2
इष॒मूर्जं॑ च पिन्वस॒ इंद्रा॑य मत्स॒रिंत॑मः ।
च॒मूष्वा नि षी॑दसि ॥इषम् ऊर्जं च पिन्वस इन्द्राय मत्सरिन्तमः |
चमूष्व् आ नि षीदसि ||íṣamū́rjam ca pinvasa índrāya matsaríntamaḥ ǀ
camū́ṣvā́ ní ṣīdasi ǁiṣam ūrjaṃ ca pinvasa indrāya matsarintamaḥ |
camūṣv ā ni ṣīdasi ||इष॑म् । ऊर्ज॑म् । च॒ । पि॒न्व॒से॒ । इन्द्रा॑य । म॒त्स॒रिन्ऽत॑मः ।
च॒मूषु॑ । आ । नि । सी॒द॒सि॒ ॥इषम् । ऊर्जम् । च । पिन्वसे । इन्द्राय । मत्सरिन्ऽतमः ।
चमूषु । आ । नि । सीदसि ॥íṣam ǀ ū́rjam ǀ ca ǀ pinvase ǀ índrāya ǀ matsarín-tamaḥ ǀ
camū́ṣu ǀ ā́ ǀ ní ǀ sīdasi ǁiṣam ǀ ūrjam ǀ ca ǀ pinvase ǀ indrāya ǀ matsarin-tamaḥ ǀ
camūṣu ǀ ā ǀ ni ǀ sīdasi ǁ9.63.2 Aṣṭaka 7.1.30.2Anuvāka 9.3.62
-
Ṛk 3
सु॒त इंद्रा॑य॒ विष्ण॑वे॒ सोमः॑ क॒लशे॑ अक्षरत् ।
मधु॑माँ अस्तु वा॒यवे॑ ॥सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् |
मधुमां अस्तु वायवे ||sutá índrāya víṣṇave sómaḥ kaláśe akṣarat ǀ
mádhumām̐ astu vāyáve ǁsuta indrāya viṣṇave somaḥ kalaśe akṣarat |
madhumāṃ astu vāyave ||सु॒तः । इन्द्रा॑य । विष्ण॑वे । सोमः॑ । क॒लशे॑ । अ॒क्ष॒र॒त् ।
मधु॑ऽमान् । अ॒स्तु॒ । वा॒यवे॑ ॥सुतः । इन्द्राय । विष्णवे । सोमः । कलशे । अक्षरत् ।
मधुऽमान् । अस्तु । वायवे ॥sutáḥ ǀ índrāya ǀ víṣṇave ǀ sómaḥ ǀ kaláśe ǀ akṣarat ǀ
mádhu-mān ǀ astu ǀ vāyáve ǁsutaḥ ǀ indrāya ǀ viṣṇave ǀ somaḥ ǀ kalaśe ǀ akṣarat ǀ
madhu-mān ǀ astu ǀ vāyave ǁ9.63.3 Aṣṭaka 7.1.30.3Anuvāka 9.3.63
-
Ṛk 4
ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रवः॑ ।
सोमा॑ ऋ॒तस्य॒ धार॑या ॥एते असृग्रम् आशवो ऽति ह्वरांसि बभ्रवः |
सोमा ऋतस्य धारया ||eté asṛgramāśávó’ti hvárāṃsi babhrávaḥ ǀ
sómā ṛtásya dhā́rayā ǁete asṛgram āśavo 'ti hvarāṃsi babhravaḥ |
somā ṛtasya dhārayā ||ए॒ते । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । अति॑ । ह्वरां॑सि । ब॒भ्रवः॑ ।
सोमाः॑ । ऋ॒तस्य॑ । धार॑या ॥एते । असृग्रम् । आशवः । अति । ह्वरांसि । बभ्रवः ।
सोमाः । ऋतस्य । धारया ॥eté ǀ asṛgram ǀ āśávaḥ ǀ áti ǀ hvárāṃsi ǀ babhrávaḥ ǀ
sómāḥ ǀ ṛtásya ǀ dhā́rayā ǁete ǀ asṛgram ǀ āśavaḥ ǀ ati ǀ hvarāṃsi ǀ babhravaḥ ǀ
somāḥ ǀ ṛtasya ǀ dhārayā ǁ9.63.4 Aṣṭaka 7.1.30.4Anuvāka 9.3.64
-
Ṛk 5
इंद्रं॒ वर्धं॑तो अ॒प्तुरः॑ कृ॒ण्वंतो॒ विश्व॒मार्यं॑ ।
अ॒प॒घ्नंतो॒ अरा॑व्णः ॥इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वम् आर्यम् |
अपघ्नन्तो अराव्णः ||índram várdhanto aptúraḥ kṛṇvánto víśvamā́ryam ǀ
apaghnánto árāvṇaḥ ǁindraṃ vardhanto apturaḥ kṛṇvanto viśvam āryam |
apaghnanto arāvṇaḥ ||इन्द्र॑म् । वर्ध॑न्तः । अ॒प्ऽतुरः॑ । कृ॒ण्वन्तः॑ । विश्व॑म् । आर्य॑म् ।
अ॒प॒ऽघ्नन्तः॑ । अरा॑व्णः ॥इन्द्रम् । वर्धन्तः । अप्ऽतुरः । कृण्वन्तः । विश्वम् । आर्यम् ।
अपऽघ्नन्तः । अराव्णः ॥índram ǀ várdhantaḥ ǀ ap-túraḥ ǀ kṛṇvántaḥ ǀ víśvam ǀ ā́ryam ǀ
apa-ghnántaḥ ǀ árāvṇaḥ ǁindram ǀ vardhantaḥ ǀ ap-turaḥ ǀ kṛṇvantaḥ ǀ viśvam ǀ āryam ǀ
apa-ghnantaḥ ǀ arāvṇaḥ ǁ9.63.5 Aṣṭaka 7.1.30.5Anuvāka 9.3.65
-
Ṛk 6
सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षंति ब॒भ्रवः॑ ।
इंद्रं॒ गच्छं॑त॒ इंद॑वः ॥सुता अनु स्वम् आ रजो ऽभ्य् अर्षन्ति बभ्रवः |
इन्द्रं गच्छन्त इन्दवः ||sutā́ ánu svámā́ rájo’bhyárṣanti babhrávaḥ ǀ
índram gácchanta índavaḥ ǁsutā anu svam ā rajo 'bhy arṣanti babhravaḥ |
indraṃ gacchanta indavaḥ ||सु॒ताः । अनु॑ । स्वम् । आ । रजः॑ । अ॒भि । अ॒र्ष॒न्ति॒ । ब॒भ्रवः॑ ।
इन्द्र॑म् । गच्छ॑न्तः । इन्द॑वः ॥सुताः । अनु । स्वम् । आ । रजः । अभि । अर्षन्ति । बभ्रवः ।
इन्द्रम् । गच्छन्तः । इन्दवः ॥sutā́ḥ ǀ ánu ǀ svám ǀ ā́ ǀ rájaḥ ǀ abhí ǀ arṣanti ǀ babhrávaḥ ǀ
índram ǀ gácchantaḥ ǀ índavaḥ ǁsutāḥ ǀ anu ǀ svam ǀ ā ǀ rajaḥ ǀ abhi ǀ arṣanti ǀ babhravaḥ ǀ
indram ǀ gacchantaḥ ǀ indavaḥ ǁ9.63.6 Aṣṭaka 7.1.31.1Anuvāka 9.3.66
-
Ṛk 7
अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः ।
हि॒न्वा॒नो मानु॑षीर॒पः ॥अया पवस्व धारया यया सूर्यम् अरोचयः |
हिन्वानो मानुषीर् अपः ||ayā́ pavasva dhā́rayā yáyā sū́ryamárocayaḥ ǀ
hinvānó mā́nuṣīrapáḥ ǁayā pavasva dhārayā yayā sūryam arocayaḥ |
hinvāno mānuṣīr apaḥ ||अ॒या । प॒व॒स्व॒ । धार॑या । यया॑ । सूर्य॑म् । अरो॑चयः ।
हि॒न्वा॒नः । मानु॑षीः । अ॒पः ॥अया । पवस्व । धारया । यया । सूर्यम् । अरोचयः ।
हिन्वानः । मानुषीः । अपः ॥ayā́ ǀ pavasva ǀ dhā́rayā ǀ yáyā ǀ sū́ryam ǀ árocayaḥ ǀ
hinvānáḥ ǀ mā́nuṣīḥ ǀ apáḥ ǁayā ǀ pavasva ǀ dhārayā ǀ yayā ǀ sūryam ǀ arocayaḥ ǀ
hinvānaḥ ǀ mānuṣīḥ ǀ apaḥ ǁ9.63.7 Aṣṭaka 7.1.31.2Anuvāka 9.3.67
-
Ṛk 8
अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ ।
अं॒तरि॑क्षेण॒ यात॑वे ॥अयुक्त सूर एतशम् पवमानो मनाव् अधि |
अन्तरिक्षेण यातवे ||áyukta sū́ra étaśam pávamāno manā́vádhi ǀ
antárikṣeṇa yā́tave ǁayukta sūra etaśam pavamāno manāv adhi |
antarikṣeṇa yātave ||अयु॑क्त । सूरः॑ । एत॑शम् । पव॑मानः । म॒नौ । अधि॑ ।
अ॒न्तरि॑क्षेण । यात॑वे ॥अयुक्त । सूरः । एतशम् । पवमानः । मनौ । अधि ।
अन्तरिक्षेण । यातवे ॥áyukta ǀ sū́raḥ ǀ étaśam ǀ pávamānaḥ ǀ manáu ǀ ádhi ǀ
antárikṣeṇa ǀ yā́tave ǁayukta ǀ sūraḥ ǀ etaśam ǀ pavamānaḥ ǀ manau ǀ adhi ǀ
antarikṣeṇa ǀ yātave ǁ9.63.8 Aṣṭaka 7.1.31.3Anuvāka 9.3.68
-
Ṛk 9
उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे ।
इंदु॒रिंद्र॒ इति॑ ब्रु॒वन् ॥उत त्या हरितो दश सूरो अयुक्त यातवे |
इन्दुर् इन्द्र इति ब्रुवन् ||utá tyā́ haríto dáśa sū́ro ayukta yā́tave ǀ
índuríndra íti bruván ǁuta tyā harito daśa sūro ayukta yātave |
indur indra iti bruvan ||उ॒त । त्याः । ह॒रितः॑ । दश॑ । सूरः॑ । अ॒यु॒क्त॒ । यात॑वे ।
इन्दुः॑ । इन्द्रः॑ । इति॑ । ब्रु॒वन् ॥उत । त्याः । हरितः । दश । सूरः । अयुक्त । यातवे ।
इन्दुः । इन्द्रः । इति । ब्रुवन् ॥utá ǀ tyā́ḥ ǀ harítaḥ ǀ dáśa ǀ sū́raḥ ǀ ayukta ǀ yā́tave ǀ
índuḥ ǀ índraḥ ǀ íti ǀ bruván ǁuta ǀ tyāḥ ǀ haritaḥ ǀ daśa ǀ sūraḥ ǀ ayukta ǀ yātave ǀ
induḥ ǀ indraḥ ǀ iti ǀ bruvan ǁ9.63.9 Aṣṭaka 7.1.31.4Anuvāka 9.3.69
-
Ṛk 10
परी॒तो वा॒यवे॑ सु॒तं गिर॒ इंद्रा॑य मत्स॒रं ।
अव्यो॒ वारे॑षु सिंचत ॥परीतो वायवे सुतं गिर इन्द्राय मत्सरम् |
अव्यो वारेषु सिञ्चत ||párītó vāyáve sutám gíra índrāya matsarám ǀ
ávyo vā́reṣu siñcata ǁparīto vāyave sutaṃ gira indrāya matsaram |
avyo vāreṣu siñcata ||परि॑ । इ॒तः । वा॒यवे॑ । सु॒तम् । गिरः॑ । इन्द्रा॑य । म॒त्स॒रम् ।
अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ ॥परि । इतः । वायवे । सुतम् । गिरः । इन्द्राय । मत्सरम् ।
अव्यः । वारेषु । सिञ्चत ॥pári ǀ itáḥ ǀ vāyáve ǀ sutám ǀ gíraḥ ǀ índrāya ǀ matsarám ǀ
ávyaḥ ǀ vā́reṣu ǀ siñcata ǁpari ǀ itaḥ ǀ vāyave ǀ sutam ǀ giraḥ ǀ indrāya ǀ matsaram ǀ
avyaḥ ǀ vāreṣu ǀ siñcata ǁ9.63.10 Aṣṭaka 7.1.31.5Anuvāka 9.3.70
-
Ṛk 11
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टरं॑ ।
यो दू॒णाशो॑ वनुष्य॒ता ॥पवमान विदा रयिम् अस्मभ्यं सोम दुष्टरम् |
यो दूणाशो वनुष्यता ||pávamāna vidā́ rayímasmábhyam soma duṣṭáram ǀ
yó dūṇā́śo vanuṣyatā́ ǁpavamāna vidā rayim asmabhyaṃ soma duṣṭaram |
yo dūṇāśo vanuṣyatā ||पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । दु॒स्तर॑म् ।
यः । दुः॒ऽनशः॑ । व॒नु॒ष्य॒ता ॥पवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । दुस्तरम् ।
यः । दुःऽनशः । वनुष्यता ॥pávamāna ǀ vidā́ḥ ǀ rayím ǀ asmábhyam ǀ soma ǀ dustáram ǀ
yáḥ ǀ duḥ-náśaḥ ǀ vanuṣyatā́ ǁpavamāna ǀ vidāḥ ǀ rayim ǀ asmabhyam ǀ soma ǀ dustaram ǀ
yaḥ ǀ duḥ-naśaḥ ǀ vanuṣyatā ǁ9.63.11 Aṣṭaka 7.1.32.1Anuvāka 9.3.71
-
Ṛk 12
अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोमं॑तम॒श्विनं॑ ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥अभ्य् अर्ष सहस्रिणं रयिं गोमन्तम् अश्विनम् |
अभि वाजम् उत श्रवः ||abhyárṣa sahasríṇam rayím gómantamaśvínam ǀ
abhí vā́jamutá śrávaḥ ǁabhy arṣa sahasriṇaṃ rayiṃ gomantam aśvinam |
abhi vājam uta śravaḥ ||अ॒भि । अ॒र्ष॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥अभि । अर्ष । सहस्रिणम् । रयिम् । गोऽमन्तम् । अश्विनम् ।
अभि । वाजम् । उत । श्रवः ॥abhí ǀ arṣa ǀ sahasríṇam ǀ rayím ǀ gó-mantam ǀ aśvínam ǀ
abhí ǀ vā́jam ǀ utá ǀ śrávaḥ ǁabhi ǀ arṣa ǀ sahasriṇam ǀ rayim ǀ go-mantam ǀ aśvinam ǀ
abhi ǀ vājam ǀ uta ǀ śravaḥ ǁ9.63.12 Aṣṭaka 7.1.32.2Anuvāka 9.3.72
-
Ṛk 13
सोमो॑ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः ।
दधा॑नः क॒लशे॒ रसं॑ ॥सोमो देवो न सूर्यो ऽद्रिभिः पवते सुतः |
दधानः कलशे रसम् ||sómo devó ná sū́ryó’dribhiḥ pavate sutáḥ ǀ
dádhānaḥ kaláśe rásam ǁsomo devo na sūryo 'dribhiḥ pavate sutaḥ |
dadhānaḥ kalaśe rasam ||सोमः॑ । दे॒वः । न । सूर्यः॑ । अद्रि॑ऽभिः । प॒व॒ते॒ । सु॒तः ।
दधा॑नः । क॒लशे॑ । रस॑म् ॥सोमः । देवः । न । सूर्यः । अद्रिऽभिः । पवते । सुतः ।
दधानः । कलशे । रसम् ॥sómaḥ ǀ deváḥ ǀ ná ǀ sū́ryaḥ ǀ ádri-bhiḥ ǀ pavate ǀ sutáḥ ǀ
dádhānaḥ ǀ kaláśe ǀ rásam ǁsomaḥ ǀ devaḥ ǀ na ǀ sūryaḥ ǀ adri-bhiḥ ǀ pavate ǀ sutaḥ ǀ
dadhānaḥ ǀ kalaśe ǀ rasam ǁ9.63.13 Aṣṭaka 7.1.32.3Anuvāka 9.3.73
-
Ṛk 14
ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
वाजं॒ गोमं॑तमक्षरन् ॥एते धामान्य् आर्या शुक्रा ऋतस्य धारया |
वाजं गोमन्तम् अक्षरन् ||eté dhā́mānyā́ryā śukrā́ ṛtásya dhā́rayā ǀ
vā́jam gómantamakṣaran ǁete dhāmāny āryā śukrā ṛtasya dhārayā |
vājaṃ gomantam akṣaran ||ए॒ते । धामा॑नि । आर्या॑ । शु॒क्राः । ऋ॒तस्य॑ । धार॑या ।
वाज॑म् । गोऽम॑न्तम् । अ॒क्ष॒र॒न् ॥एते । धामानि । आर्या । शुक्राः । ऋतस्य । धारया ।
वाजम् । गोऽमन्तम् । अक्षरन् ॥eté ǀ dhā́māni ǀ ā́ryā ǀ śukrā́ḥ ǀ ṛtásya ǀ dhā́rayā ǀ
vā́jam ǀ gó-mantam ǀ akṣaran ǁete ǀ dhāmāni ǀ āryā ǀ śukrāḥ ǀ ṛtasya ǀ dhārayā ǀ
vājam ǀ go-mantam ǀ akṣaran ǁ9.63.14 Aṣṭaka 7.1.32.4Anuvāka 9.3.74
-
Ṛk 15
सु॒ता इंद्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः ।
प॒वित्र॒मत्य॑क्षरन् ॥सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः |
पवित्रम् अत्य् अक्षरन् ||sutā́ índrāya vajríṇe sómāso dádhyāśiraḥ ǀ
pavítramátyakṣaran ǁsutā indrāya vajriṇe somāso dadhyāśiraḥ |
pavitram aty akṣaran ||सु॒ताः । इन्द्रा॑य । व॒ज्रिणे॑ । सोमा॑सः । दधि॑ऽआशिरः ।
प॒वित्र॑म् । अति॑ । अ॒क्ष॒र॒न् ॥सुताः । इन्द्राय । वज्रिणे । सोमासः । दधिऽआशिरः ।
पवित्रम् । अति । अक्षरन् ॥sutā́ḥ ǀ índrāya ǀ vajríṇe ǀ sómāsaḥ ǀ dádhi-āśiraḥ ǀ
pavítram ǀ áti ǀ akṣaran ǁsutāḥ ǀ indrāya ǀ vajriṇe ǀ somāsaḥ ǀ dadhi-āśiraḥ ǀ
pavitram ǀ ati ǀ akṣaran ǁ9.63.15 Aṣṭaka 7.1.32.5Anuvāka 9.3.75
-
Ṛk 16
प्र सो॑म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ ।
मदो॒ यो दे॑व॒वीत॑मः ॥प्र सोम मधुमत्तमो राये अर्ष पवित्र आ |
मदो यो देववीतमः ||prá soma mádhumattamo rāyé arṣa pavítra ā́ ǀ
mádo yó devavī́tamaḥ ǁpra soma madhumattamo rāye arṣa pavitra ā |
mado yo devavītamaḥ ||प्र । सो॒म॒ । मधु॑मत्ऽतमः । रा॒ये । अ॒र्ष॒ । प॒वित्रे॑ । आ ।
मदः॑ । यः । दे॒व॒ऽवीत॑मः ॥प्र । सोम । मधुमत्ऽतमः । राये । अर्ष । पवित्रे । आ ।
मदः । यः । देवऽवीतमः ॥prá ǀ soma ǀ mádhumat-tamaḥ ǀ rāyé ǀ arṣa ǀ pavítre ǀ ā́ ǀ
mádaḥ ǀ yáḥ ǀ deva-vī́tamaḥ ǁpra ǀ soma ǀ madhumat-tamaḥ ǀ rāye ǀ arṣa ǀ pavitre ǀ ā ǀ
madaḥ ǀ yaḥ ǀ deva-vītamaḥ ǁ9.63.16 Aṣṭaka 7.1.33.1Anuvāka 9.3.76
-
Ṛk 17
तमी॑ मृजंत्या॒यवो॒ हरिं॑ न॒दीषु॑ वा॒जिनं॑ ।
इंदु॒मिंद्रा॑य मत्स॒रं ॥तम् ई मृजन्त्य् आयवो हरिं नदीषु वाजिनम् |
इन्दुम् इन्द्राय मत्सरम् ||támī mṛjantyāyávo hárim nadī́ṣu vājínam ǀ
índumíndrāya matsarám ǁtam ī mṛjanty āyavo hariṃ nadīṣu vājinam |
indum indrāya matsaram ||तम् । ई॒मिति॑ । मृ॒ज॒न्ति॒ । आ॒यवः॑ । हरि॑म् । न॒दीषु॑ । वा॒जिन॑म् ।
इन्दु॑म् । इन्द्रा॑य । म॒त्स॒रम् ॥तम् । ईमिति । मृजन्ति । आयवः । हरिम् । नदीषु । वाजिनम् ।
इन्दुम् । इन्द्राय । मत्सरम् ॥tám ǀ īmíti ǀ mṛjanti ǀ āyávaḥ ǀ hárim ǀ nadī́ṣu ǀ vājínam ǀ
índum ǀ índrāya ǀ matsarám ǁtam ǀ īmiti ǀ mṛjanti ǀ āyavaḥ ǀ harim ǀ nadīṣu ǀ vājinam ǀ
indum ǀ indrāya ǀ matsaram ǁ9.63.17 Aṣṭaka 7.1.33.2Anuvāka 9.3.77
-
Ṛk 18
आ प॑वस्व॒ हिर॑ण्यव॒दश्वा॑वत्सोम वी॒रव॑त् ।
वाजं॒ गोमं॑त॒मा भ॑र ॥आ पवस्व हिरण्यवद् अश्वावत् सोम वीरवत् |
वाजं गोमन्तम् आ भर ||ā́ pavasva híraṇyavadáśvāvatsoma vīrávat ǀ
vā́jam gómantamā́ bhara ǁā pavasva hiraṇyavad aśvāvat soma vīravat |
vājaṃ gomantam ā bhara ||आ । प॒व॒स्व॒ । हिर॑ण्यऽवत् । अश्व॑ऽवत् । सो॒म॒ । वी॒रऽव॑त् ।
वाज॑म् । गोऽम॑न्तम् । आ । भ॒र॒ ॥आ । पवस्व । हिरण्यऽवत् । अश्वऽवत् । सोम । वीरऽवत् ।
वाजम् । गोऽमन्तम् । आ । भर ॥ā́ ǀ pavasva ǀ híraṇya-vat ǀ áśva-vat ǀ soma ǀ vīrá-vat ǀ
vā́jam ǀ gó-mantam ǀ ā́ ǀ bhara ǁā ǀ pavasva ǀ hiraṇya-vat ǀ aśva-vat ǀ soma ǀ vīra-vat ǀ
vājam ǀ go-mantam ǀ ā ǀ bhara ǁ9.63.18 Aṣṭaka 7.1.33.3Anuvāka 9.3.78
-
Ṛk 19
परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिंचत ।
इंद्रा॑य॒ मधु॑मत्तमं ॥परि वाजे न वाजयुम् अव्यो वारेषु सिञ्चत |
इन्द्राय मधुमत्तमम् ||pári vā́je ná vājayúmávyo vā́reṣu siñcata ǀ
índrāya mádhumattamam ǁpari vāje na vājayum avyo vāreṣu siñcata |
indrāya madhumattamam ||परि॑ । वाजे॑ । न । वा॒ज॒ऽयुम् । अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ ।
इन्द्रा॑य । मधु॑मत्ऽतमम् ॥परि । वाजे । न । वाजऽयुम् । अव्यः । वारेषु । सिञ्चत ।
इन्द्राय । मधुमत्ऽतमम् ॥pári ǀ vā́je ǀ ná ǀ vāja-yúm ǀ ávyaḥ ǀ vā́reṣu ǀ siñcata ǀ
índrāya ǀ mádhumat-tamam ǁpari ǀ vāje ǀ na ǀ vāja-yum ǀ avyaḥ ǀ vāreṣu ǀ siñcata ǀ
indrāya ǀ madhumat-tamam ǁ9.63.19 Aṣṭaka 7.1.33.4Anuvāka 9.3.79
-
Ṛk 20
क॒विं मृ॑जंति॒ मर्ज्यं॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।
वृषा॒ कनि॑क्रदर्षति ॥कविम् मृजन्ति मर्ज्यं धीभिर् विप्रा अवस्यवः |
वृषा कनिक्रद् अर्षति ||kavím mṛjanti márjyam dhībhírvíprā avasyávaḥ ǀ
vṛ́ṣā kánikradarṣati ǁkavim mṛjanti marjyaṃ dhībhir viprā avasyavaḥ |
vṛṣā kanikrad arṣati ||क॒विम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । धी॒भिः । विप्राः॑ । अ॒व॒स्यवः॑ ।
वृषा॑ । कनि॑क्रत् । अ॒र्ष॒ति॒ ॥कविम् । मृजन्ति । मर्ज्यम् । धीभिः । विप्राः । अवस्यवः ।
वृषा । कनिक्रत् । अर्षति ॥kavím ǀ mṛjanti ǀ márjyam ǀ dhībhíḥ ǀ víprāḥ ǀ avasyávaḥ ǀ
vṛ́ṣā ǀ kánikrat ǀ arṣati ǁkavim ǀ mṛjanti ǀ marjyam ǀ dhībhiḥ ǀ viprāḥ ǀ avasyavaḥ ǀ
vṛṣā ǀ kanikrat ǀ arṣati ǁ9.63.20 Aṣṭaka 7.1.33.5Anuvāka 9.3.80
-
Ṛk 21
वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या ।
म॒ती विप्राः॒ सम॑स्वरन् ॥वृषणं धीभिर् अप्तुरं सोमम् ऋतस्य धारया |
मती विप्राः सम् अस्वरन् ||vṛ́ṣaṇam dhībhíraptúram sómamṛtásya dhā́rayā ǀ
matī́ víprāḥ sámasvaran ǁvṛṣaṇaṃ dhībhir apturaṃ somam ṛtasya dhārayā |
matī viprāḥ sam asvaran ||वृष॑णम् । धी॒भिः । अ॒प्ऽतुर॑म् । सोम॑म् । ऋ॒तस्य॑ । धार॑या ।
म॒ती । विप्राः॑ । सम् । अ॒स्व॒र॒न् ॥वृषणम् । धीभिः । अप्ऽतुरम् । सोमम् । ऋतस्य । धारया ।
मती । विप्राः । सम् । अस्वरन् ॥vṛ́ṣaṇam ǀ dhībhíḥ ǀ ap-túram ǀ sómam ǀ ṛtásya ǀ dhā́rayā ǀ
matī́ ǀ víprāḥ ǀ sám ǀ asvaran ǁvṛṣaṇam ǀ dhībhiḥ ǀ ap-turam ǀ somam ǀ ṛtasya ǀ dhārayā ǀ
matī ǀ viprāḥ ǀ sam ǀ asvaran ǁ9.63.21 Aṣṭaka 7.1.34.1Anuvāka 9.3.81
-
Ṛk 22
पव॑स्व देवायु॒षगिंद्रं॑ गच्छतु ते॒ मदः॑ ।
वा॒युमा रो॑ह॒ धर्म॑णा ॥पवस्व देवायुषग् इन्द्रं गच्छतु ते मदः |
वायुम् आ रोह धर्मणा ||pávasva devāyuṣágíndram gacchatu te mádaḥ ǀ
vāyúmā́ roha dhármaṇā ǁpavasva devāyuṣag indraṃ gacchatu te madaḥ |
vāyum ā roha dharmaṇā ||पव॑स्व । दे॒व॒ । आ॒यु॒षक् । इन्द्र॑म् । ग॒च्छ॒तु॒ । ते॒ । मदः॑ ।
वा॒युम् । आ । रो॒ह॒ । धर्म॑णा ॥पवस्व । देव । आयुषक् । इन्द्रम् । गच्छतु । ते । मदः ।
वायुम् । आ । रोह । धर्मणा ॥pávasva ǀ deva ǀ āyuṣák ǀ índram ǀ gacchatu ǀ te ǀ mádaḥ ǀ
vāyúm ǀ ā́ ǀ roha ǀ dhármaṇā ǁpavasva ǀ deva ǀ āyuṣak ǀ indram ǀ gacchatu ǀ te ǀ madaḥ ǀ
vāyum ǀ ā ǀ roha ǀ dharmaṇā ǁ9.63.22 Aṣṭaka 7.1.34.2Anuvāka 9.3.82
-
Ṛk 23
पव॑मान॒ नि तो॑शसे र॒यिं सो॑म श्र॒वाय्यं॑ ।
प्रि॒यः स॑मु॒द्रमा वि॑श ॥पवमान नि तोशसे रयिं सोम श्रवाय्यम् |
प्रियः समुद्रम् आ विश ||pávamāna ní tośase rayím soma śravā́yyam ǀ
priyáḥ samudrámā́ viśa ǁpavamāna ni tośase rayiṃ soma śravāyyam |
priyaḥ samudram ā viśa ||पव॑मान । नि । तो॒श॒से॒ । र॒यिम् । सो॒म॒ । श्र॒वाय्य॑म् ।
प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥पवमान । नि । तोशसे । रयिम् । सोम । श्रवाय्यम् ।
प्रियः । समुद्रम् । आ । विश ॥pávamāna ǀ ní ǀ tośase ǀ rayím ǀ soma ǀ śravā́yyam ǀ
priyáḥ ǀ samudrám ǀ ā́ ǀ viśa ǁpavamāna ǀ ni ǀ tośase ǀ rayim ǀ soma ǀ śravāyyam ǀ
priyaḥ ǀ samudram ǀ ā ǀ viśa ǁ9.63.23 Aṣṭaka 7.1.34.3Anuvāka 9.3.83
-
Ṛk 24
अ॒प॒घ्नन्प॑वसे॒ मृधः॑ क्रतु॒वित्सो॑म मत्स॒रः ।
नु॒दस्वादे॑वयुं॒ जनं॑ ॥अपघ्नन् पवसे मृधः क्रतुवित् सोम मत्सरः |
नुदस्वादेवयुं जनम् ||apaghnánpavase mṛ́dhaḥ kratuvítsoma matsaráḥ ǀ
nudásvā́devayum jánam ǁapaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ |
nudasvādevayuṃ janam ||अ॒प॒ऽघ्नन् । प॒व॒से॒ । मृधः॑ । क्र॒तु॒ऽवित् । सो॒म॒ । म॒त्स॒रः ।
नु॒दस्व॑ । अदे॑वऽयुम् । जन॑म् ॥अपऽघ्नन् । पवसे । मृधः । क्रतुऽवित् । सोम । मत्सरः ।
नुदस्व । अदेवऽयुम् । जनम् ॥apa-ghnán ǀ pavase ǀ mṛ́dhaḥ ǀ kratu-vít ǀ soma ǀ matsaráḥ ǀ
nudásva ǀ ádeva-yum ǀ jánam ǁapa-ghnan ǀ pavase ǀ mṛdhaḥ ǀ kratu-vit ǀ soma ǀ matsaraḥ ǀ
nudasva ǀ adeva-yum ǀ janam ǁ9.63.24 Aṣṭaka 7.1.34.4Anuvāka 9.3.84
-
Ṛk 25
पव॑माना असृक्षत॒ सोमाः॑ शु॒क्रास॒ इंद॑वः ।
अ॒भि विश्वा॑नि॒ काव्या॑ ॥पवमाना असृक्षत सोमाः शुक्रास इन्दवः |
अभि विश्वानि काव्या ||pávamānā asṛkṣata sómāḥ śukrā́sa índavaḥ ǀ
abhí víśvāni kā́vyā ǁpavamānā asṛkṣata somāḥ śukrāsa indavaḥ |
abhi viśvāni kāvyā ||पव॑मानाः । अ॒सृ॒क्ष॒त॒ । सोमाः॑ । शु॒क्रासः॑ । इन्द॑वः ।
अ॒भि । विश्वा॑नि । काव्या॑ ॥पवमानाः । असृक्षत । सोमाः । शुक्रासः । इन्दवः ।
अभि । विश्वानि । काव्या ॥pávamānāḥ ǀ asṛkṣata ǀ sómāḥ ǀ śukrā́saḥ ǀ índavaḥ ǀ
abhí ǀ víśvāni ǀ kā́vyā ǁpavamānāḥ ǀ asṛkṣata ǀ somāḥ ǀ śukrāsaḥ ǀ indavaḥ ǀ
abhi ǀ viśvāni ǀ kāvyā ǁ9.63.25 Aṣṭaka 7.1.34.5Anuvāka 9.3.85
-
Ṛk 26
पव॑मानास आ॒शवः॑ शु॒भ्रा अ॑सृग्र॒मिंद॑वः ।
घ्नंतो॒ विश्वा॒ अप॒ द्विषः॑ ॥पवमानास आशवः शुभ्रा असृग्रम् इन्दवः |
घ्नन्तो विश्वा अप द्विषः ||pávamānāsa āśávaḥ śubhrā́ asṛgramíndavaḥ ǀ
ghnánto víśvā ápa dvíṣaḥ ǁpavamānāsa āśavaḥ śubhrā asṛgram indavaḥ |
ghnanto viśvā apa dviṣaḥ ||पव॑मानासः । आ॒शवः॑ । शु॒भ्राः । अ॒सृ॒ग्र॒म् । इन्द॑वः ।
घ्नन्तः॑ । विश्वाः॑ । अप॑ । द्विषः॑ ॥पवमानासः । आशवः । शुभ्राः । असृग्रम् । इन्दवः ।
घ्नन्तः । विश्वाः । अप । द्विषः ॥pávamānāsaḥ ǀ āśávaḥ ǀ śubhrā́ḥ ǀ asṛgram ǀ índavaḥ ǀ
ghnántaḥ ǀ víśvāḥ ǀ ápa ǀ dvíṣaḥ ǁpavamānāsaḥ ǀ āśavaḥ ǀ śubhrāḥ ǀ asṛgram ǀ indavaḥ ǀ
ghnantaḥ ǀ viśvāḥ ǀ apa ǀ dviṣaḥ ǁ9.63.26 Aṣṭaka 7.1.35.1Anuvāka 9.3.86
-
Ṛk 27
पव॑माना दि॒वस्पर्यं॒तरि॑क्षादसृक्षत ।
पृ॒थि॒व्या अधि॒ सान॑वि ॥पवमाना दिवस् पर्य् अन्तरिक्षाद् असृक्षत |
पृथिव्या अधि सानवि ||pávamānā diváspáryantárikṣādasṛkṣata ǀ
pṛthivyā́ ádhi sā́navi ǁpavamānā divas pary antarikṣād asṛkṣata |
pṛthivyā adhi sānavi ||पव॑मानाः । दि॒वः । परि॑ । अ॒न्तरि॑क्षात् । अ॒सृ॒क्ष॒त॒ ।
पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥पवमानाः । दिवः । परि । अन्तरिक्षात् । असृक्षत ।
पृथिव्याः । अधि । सानवि ॥pávamānāḥ ǀ diváḥ ǀ pári ǀ antárikṣāt ǀ asṛkṣata ǀ
pṛthivyā́ḥ ǀ ádhi ǀ sā́navi ǁpavamānāḥ ǀ divaḥ ǀ pari ǀ antarikṣāt ǀ asṛkṣata ǀ
pṛthivyāḥ ǀ adhi ǀ sānavi ǁ9.63.27 Aṣṭaka 7.1.35.2Anuvāka 9.3.87
-
Ṛk 28
पु॒ना॒नः सो॑म॒ धार॒येंदो॒ विश्वा॒ अप॒ स्रिधः॑ ।
ज॒हि रक्षां॑सि सुक्रतो ॥पुनानः सोम धारयेन्दो विश्वा अप स्रिधः |
जहि रक्षांसि सुक्रतो ||punānáḥ soma dhā́rayéndo víśvā ápa srídhaḥ ǀ
jahí rákṣāṃsi sukrato ǁpunānaḥ soma dhārayendo viśvā apa sridhaḥ |
jahi rakṣāṃsi sukrato ||पु॒ना॒नः । सो॒म॒ । धार॑या । इन्दो॒ इति॑ । विश्वा॑ । अप॑ । स्रिधः॑ ।
ज॒हि । रक्षां॑सि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥पुनानः । सोम । धारया । इन्दो इति । विश्वा । अप । स्रिधः ।
जहि । रक्षांसि । सुक्रतो इति सुऽक्रतो ॥punānáḥ ǀ soma ǀ dhā́rayā ǀ índo íti ǀ víśvā ǀ ápa ǀ srídhaḥ ǀ
jahí ǀ rákṣāṃsi ǀ sukrato íti su-krato ǁpunānaḥ ǀ soma ǀ dhārayā ǀ indo iti ǀ viśvā ǀ apa ǀ sridhaḥ ǀ
jahi ǀ rakṣāṃsi ǀ sukrato iti su-krato ǁ9.63.28 Aṣṭaka 7.1.35.3Anuvāka 9.3.88
-
Ṛk 29
अ॒प॒घ्नन्त्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् ।
द्यु॒मंतं॒ शुष्म॑मुत्त॒मं ॥अपघ्नन् सोम रक्षसो ऽभ्य् अर्ष कनिक्रदत् |
द्युमन्तं शुष्मम् उत्तमम् ||apaghnántsoma rakṣáso’bhyárṣa kánikradat ǀ
dyumántam śúṣmamuttamám ǁapaghnan soma rakṣaso 'bhy arṣa kanikradat |
dyumantaṃ śuṣmam uttamam ||अ॒प॒ऽघ्नन् । सो॒म॒ । र॒क्षसः॑ । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् ।
द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥अपऽघ्नन् । सोम । रक्षसः । अभि । अर्ष । कनिक्रदत् ।
द्युऽमन्तम् । शुष्मम् । उत्ऽतमम् ॥apa-ghnán ǀ soma ǀ rakṣásaḥ ǀ abhí ǀ arṣa ǀ kánikradat ǀ
dyu-mántam ǀ śúṣmam ǀ ut-tamám ǁapa-ghnan ǀ soma ǀ rakṣasaḥ ǀ abhi ǀ arṣa ǀ kanikradat ǀ
dyu-mantam ǀ śuṣmam ǀ ut-tamam ǁ9.63.29 Aṣṭaka 7.1.35.4Anuvāka 9.3.89
-
Ṛk 30
अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा ।
इंदो॒ विश्वा॑नि॒ वार्या॑ ॥अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा |
इन्दो विश्वानि वार्या ||asmé vásūni dhāraya sóma divyā́ni pā́rthivā ǀ
índo víśvāni vā́ryā ǁasme vasūni dhāraya soma divyāni pārthivā |
indo viśvāni vāryā ||अ॒स्मे इति॑ । वसू॑नि । धा॒र॒य॒ । सोम॑ । दि॒व्यानि॑ । पार्थि॑वा ।
इन्दो॒ इति॑ । विश्वा॑नि । वार्या॑ ॥अस्मे इति । वसूनि । धारय । सोम । दिव्यानि । पार्थिवा ।
इन्दो इति । विश्वानि । वार्या ॥asmé íti ǀ vásūni ǀ dhāraya ǀ sóma ǀ divyā́ni ǀ pā́rthivā ǀ
índo íti ǀ víśvāni ǀ vā́ryā ǁasme iti ǀ vasūni ǀ dhāraya ǀ soma ǀ divyāni ǀ pārthivā ǀ
indo iti ǀ viśvāni ǀ vāryā ǁ9.63.30 Aṣṭaka 7.1.35.5Anuvāka 9.3.90
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.