Sūkta 32
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (3-6); nicṛdgāyatrī (1, 2)
2nd set of styles gāyatrī
-
Ṛk 1
प्र सोमा॑सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ ।
सु॒ता वि॒दथे॑ अक्रमुः ॥प्र सोमासो मदच्युतः श्रवसे नो मघोनः |
सुता विदथे अक्रमुः ||prá sómāso madacyútaḥ śrávase no maghónaḥ ǀ
sutā́ vidáthe akramuḥ ǁpra somāso madacyutaḥ śravase no maghonaḥ |
sutā vidathe akramuḥ ||प्र । सोमा॑सः । म॒द॒ऽच्युतः॑ । श्रव॑से । नः॒ । म॒घोनः॑ ।
सु॒ताः । वि॒दथे॑ । अ॒क्र॒मुः॒ ॥प्र । सोमासः । मदऽच्युतः । श्रवसे । नः । मघोनः ।
सुताः । विदथे । अक्रमुः ॥prá ǀ sómāsaḥ ǀ mada-cyútaḥ ǀ śrávase ǀ naḥ ǀ maghónaḥ ǀ
sutā́ḥ ǀ vidáthe ǀ akramuḥ ǁpra ǀ somāsaḥ ǀ mada-cyutaḥ ǀ śravase ǀ naḥ ǀ maghonaḥ ǀ
sutāḥ ǀ vidathe ǀ akramuḥ ǁ9.32.1 Aṣṭaka 6.8.22.1Anuvāka 9.2.43
-
Ṛk 2
आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।
इंदु॒मिंद्रा॑य पी॒तये॑ ॥आद् ईं त्रितस्य योषणो हरिं हिन्वन्त्य् अद्रिभिः |
इन्दुम् इन्द्राय पीतये ||ā́dīm tritásya yóṣaṇo hárim hinvantyádribhiḥ ǀ
índumíndrāya pītáye ǁād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ |
indum indrāya pītaye ||आत् । ई॒म् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।
इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥आत् । ईम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिऽभिः ।
इन्दुम् । इन्द्राय । पीतये ॥ā́t ǀ īm ǀ tritásya ǀ yóṣaṇaḥ ǀ hárim ǀ hinvanti ǀ ádri-bhiḥ ǀ
índum ǀ índrāya ǀ pītáye ǁāt ǀ īm ǀ tritasya ǀ yoṣaṇaḥ ǀ harim ǀ hinvanti ǀ adri-bhiḥ ǀ
indum ǀ indrāya ǀ pītaye ǁ9.32.2 Aṣṭaka 6.8.22.2Anuvāka 9.2.44
-
Ṛk 3
आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिं ।
अत्यो॒ न गोभि॑रज्यते ॥आद् ईं हंसो यथा गणं विश्वस्यावीवशन् मतिम् |
अत्यो न गोभिर् अज्यते ||ā́dīm haṃsó yáthā gaṇám víśvasyāvīvaśanmatím ǀ
átyo ná góbhirajyate ǁād īṃ haṃso yathā gaṇaṃ viśvasyāvīvaśan matim |
atyo na gobhir ajyate ||आत् । ई॒म् । हं॒सः । यथा॑ । ग॒णम् । विश्व॑स्य । अ॒वी॒व॒श॒त् । म॒तिम् ।
अत्यः॑ । न । गोभिः॑ । अ॒ज्य॒ते॒ ॥आत् । ईम् । हंसः । यथा । गणम् । विश्वस्य । अवीवशत् । मतिम् ।
अत्यः । न । गोभिः । अज्यते ॥ā́t ǀ īm ǀ haṃsáḥ ǀ yáthā ǀ gaṇám ǀ víśvasya ǀ avīvaśat ǀ matím ǀ
átyaḥ ǀ ná ǀ góbhiḥ ǀ ajyate ǁāt ǀ īm ǀ haṃsaḥ ǀ yathā ǀ gaṇam ǀ viśvasya ǀ avīvaśat ǀ matim ǀ
atyaḥ ǀ na ǀ gobhiḥ ǀ ajyate ǁ9.32.3 Aṣṭaka 6.8.22.3Anuvāka 9.2.45
-
Ṛk 4
उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि ।
सीद॑न्नृ॒तस्य॒ योनि॒मा ॥उभे सोमावचाकशन् मृगो न तक्तो अर्षसि |
सीदन्न् ऋतस्य योनिम् आ ||ubhé somāvacā́kaśanmṛgó ná taktó arṣasi ǀ
sī́dannṛtásya yónimā́ ǁubhe somāvacākaśan mṛgo na takto arṣasi |
sīdann ṛtasya yonim ā ||उ॒भे इति॑ । सो॒म॒ । अ॒व॒ऽचाक॑शत् । मृ॒गः । न । त॒क्तः । अ॒र्ष॒सि॒ ।
सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥उभे इति । सोम । अवऽचाकशत् । मृगः । न । तक्तः । अर्षसि ।
सीदन् । ऋतस्य । योनिम् । आ ॥ubhé íti ǀ soma ǀ ava-cā́kaśat ǀ mṛgáḥ ǀ ná ǀ taktáḥ ǀ arṣasi ǀ
sī́dan ǀ ṛtásya ǀ yónim ǀ ā́ ǁubhe iti ǀ soma ǀ ava-cākaśat ǀ mṛgaḥ ǀ na ǀ taktaḥ ǀ arṣasi ǀ
sīdan ǀ ṛtasya ǀ yonim ǀ ā ǁ9.32.4 Aṣṭaka 6.8.22.4Anuvāka 9.2.46
-
Ṛk 5
अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यं ।
अग॑न्ना॒जिं यथा॑ हि॒तं ॥अभि गावो अनूषत योषा जारम् इव प्रियम् |
अगन्न् आजिं यथा हितम् ||abhí gā́vo anūṣata yóṣā jārámiva priyám ǀ
ágannājím yáthā hitám ǁabhi gāvo anūṣata yoṣā jāram iva priyam |
agann ājiṃ yathā hitam ||अ॒भि । गावः॑ । अ॒नू॒ष॒त॒ । योषा॑ । जा॒रम्ऽइ॑व । प्रि॒यम् ।
अग॑न् । आ॒जिम् । यथा॑ । हि॒तम् ॥अभि । गावः । अनूषत । योषा । जारम्ऽइव । प्रियम् ।
अगन् । आजिम् । यथा । हितम् ॥abhí ǀ gā́vaḥ ǀ anūṣata ǀ yóṣā ǀ jārám-iva ǀ priyám ǀ
ágan ǀ ājím ǀ yáthā ǀ hitám ǁabhi ǀ gāvaḥ ǀ anūṣata ǀ yoṣā ǀ jāram-iva ǀ priyam ǀ
agan ǀ ājim ǀ yathā ǀ hitam ǁ9.32.5 Aṣṭaka 6.8.22.5Anuvāka 9.2.47
-
Ṛk 6
अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च ।
स॒निं मे॒धामु॒त श्रवः॑ ॥अस्मे धेहि द्युमद् यशो मघवद्भ्यश् च मह्यं च |
सनिम् मेधाम् उत श्रवः ||asmé dhehi dyumádyáśo maghávadbhyaśca máhyam ca ǀ
saním medhā́mutá śrávaḥ ǁasme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca |
sanim medhām uta śravaḥ ||अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमत् । यशः॑ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ ।
स॒निम् । मे॒धाम् । उ॒त । श्रवः॑ ॥अस्मे इति । धेहि । द्युऽमत् । यशः । मघवत्ऽभ्यः । च । मह्यम् । च ।
सनिम् । मेधाम् । उत । श्रवः ॥asmé íti ǀ dhehi ǀ dyu-mát ǀ yáśaḥ ǀ maghávat-bhyaḥ ǀ ca ǀ máhyam ǀ ca ǀ
saním ǀ medhā́m ǀ utá ǀ śrávaḥ ǁasme iti ǀ dhehi ǀ dyu-mat ǀ yaśaḥ ǀ maghavat-bhyaḥ ǀ ca ǀ mahyam ǀ ca ǀ
sanim ǀ medhām ǀ uta ǀ śravaḥ ǁ9.32.6 Aṣṭaka 6.8.22.6Anuvāka 9.2.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.