Sūkta 77
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kavi Bhārgava
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (2, 4, 5); jagatī (1); pādanicṛjjgatī (3)
2nd set of styles jagatī
-
Ṛk 1
ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिंद्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः ।
अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षंति॒ पय॑सेव धे॒नवः॑ ॥एष प्र कोशे मधुमां अचिक्रदद् इन्द्रस्य वज्रो वपुषो वपुष्टरः |
अभीम् ऋतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ||eṣá prá kóśe mádhumām̐ acikradadíndrasya vájro vápuṣo vápuṣṭaraḥ ǀ
abhī́mṛtásya sudúghā ghṛtaścúto vāśrā́ arṣanti páyaseva dhenávaḥ ǁeṣa pra kośe madhumāṃ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ |
abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ ||ए॒षः । प्र । कोशे॑ । मधु॑ऽमान् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । वज्रः॑ । वपु॑षः । वपुः॑ऽतरः ।
अ॒भि । ई॒म् । ऋ॒तस्य॑ । सु॒ऽदुघाः॑ । घृ॒त॒ऽश्चुतः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ॥एषः । प्र । कोशे । मधुऽमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुःऽतरः ।
अभि । ईम् । ऋतस्य । सुऽदुघाः । घृतऽश्चुतः । वाश्राः । अर्षन्ति । पयसाऽइव । धेनवः ॥eṣáḥ ǀ prá ǀ kóśe ǀ mádhu-mān ǀ acikradat ǀ índrasya ǀ vájraḥ ǀ vápuṣaḥ ǀ vápuḥ-taraḥ ǀ
abhí ǀ īm ǀ ṛtásya ǀ su-dúghāḥ ǀ ghṛta-ścútaḥ ǀ vāśrā́ḥ ǀ arṣanti ǀ páyasā-iva ǀ dhenávaḥ ǁeṣaḥ ǀ pra ǀ kośe ǀ madhu-mān ǀ acikradat ǀ indrasya ǀ vajraḥ ǀ vapuṣaḥ ǀ vapuḥ-taraḥ ǀ
abhi ǀ īm ǀ ṛtasya ǀ su-dughāḥ ǀ ghṛta-ścutaḥ ǀ vāśrāḥ ǀ arṣanti ǀ payasā-iva ǀ dhenavaḥ ǁ9.77.1 Aṣṭaka 7.3.2.1Anuvāka 9.4.77
-
Ṛk 2
स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रजः॑ ।
स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥स पूर्व्यः पवते यं दिवस् परि श्येनो मथायद् इषितस् तिरो रजः |
स मध्व आ युवते वेविजान इत् कृशानोर् अस्तुर् मनसाह बिभ्युषा ||sá pūrvyáḥ pavate yám diváspári śyenó mathāyádiṣitástiró rájaḥ ǀ
sá mádhva ā́ yuvate vévijāna ítkṛśā́norásturmánasā́ha bibhyúṣā ǁsa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyad iṣitas tiro rajaḥ |
sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā ||सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि॑ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः॑ ।
सः । मध्वः॑ । आ । यु॒व॒ते॒ । वेवि॑जानः । इत् । कृ॒शानोः॑ । अस्तुः॑ । मन॑सा । अह॑ । बि॒भ्युषा॑ ॥सः । पूर्व्यः । पवते । यम् । दिवः । परि । श्येनः । मथायत् । इषितः । तिरः । रजः ।
सः । मध्वः । आ । युवते । वेविजानः । इत् । कृशानोः । अस्तुः । मनसा । अह । बिभ्युषा ॥sáḥ ǀ pūrvyáḥ ǀ pavate ǀ yám ǀ diváḥ ǀ pári ǀ śyenáḥ ǀ mathāyát ǀ iṣitáḥ ǀ tiráḥ ǀ rájaḥ ǀ
sáḥ ǀ mádhvaḥ ǀ ā́ ǀ yuvate ǀ vévijānaḥ ǀ ít ǀ kṛśā́noḥ ǀ ástuḥ ǀ mánasā ǀ áha ǀ bibhyúṣā ǁsaḥ ǀ pūrvyaḥ ǀ pavate ǀ yam ǀ divaḥ ǀ pari ǀ śyenaḥ ǀ mathāyat ǀ iṣitaḥ ǀ tiraḥ ǀ rajaḥ ǀ
saḥ ǀ madhvaḥ ǀ ā ǀ yuvate ǀ vevijānaḥ ǀ it ǀ kṛśānoḥ ǀ astuḥ ǀ manasā ǀ aha ǀ bibhyuṣā ǁ9.77.2 Aṣṭaka 7.3.2.2Anuvāka 9.4.78
-
Ṛk 3
ते नः॒ पूर्वा॑स॒ उप॑रास॒ इंद॑वो म॒हे वाजा॑य धन्वंतु॒ गोम॑ते ।
ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते |
ईक्षेण्यासो अह्यो न चारवो ब्रह्म-ब्रह्म ये जुजुषुर् हविर्-हविः ||té naḥ pū́rvāsa úparāsa índavo mahé vā́jāya dhanvantu gómate ǀ
īkṣeṇyā́so ahyó ná cā́ravo bráhmabrahma yé jujuṣúrhavírhaviḥ ǁte naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate |
īkṣeṇyāso ahyo na cāravo brahma-brahma ye jujuṣur havir-haviḥ ||ते । नः॒ । पूर्वा॑सः । उप॑रासः । इन्द॑वः । म॒हे । वाजा॑य । ध॒न्व॒न्तु॒ । गोऽम॑ते ।
ई॒क्षे॒ण्या॑सः । अ॒ह्यः॑ । न । चार॑वः । ब्रह्म॑ऽब्रह्म । ये । जु॒जु॒षुः । ह॒विःऽह॑विः ॥ते । नः । पूर्वासः । उपरासः । इन्दवः । महे । वाजाय । धन्वन्तु । गोऽमते ।
ईक्षेण्यासः । अह्यः । न । चारवः । ब्रह्मऽब्रह्म । ये । जुजुषुः । हविःऽहविः ॥té ǀ naḥ ǀ pū́rvāsaḥ ǀ úparāsaḥ ǀ índavaḥ ǀ mahé ǀ vā́jāya ǀ dhanvantu ǀ gó-mate ǀ
īkṣeṇyā́saḥ ǀ ahyáḥ ǀ ná ǀ cā́ravaḥ ǀ bráhma-brahma ǀ yé ǀ jujuṣúḥ ǀ havíḥ-haviḥ ǁte ǀ naḥ ǀ pūrvāsaḥ ǀ uparāsaḥ ǀ indavaḥ ǀ mahe ǀ vājāya ǀ dhanvantu ǀ go-mate ǀ
īkṣeṇyāsaḥ ǀ ahyaḥ ǀ na ǀ cāravaḥ ǀ brahma-brahma ǀ ye ǀ jujuṣuḥ ǀ haviḥ-haviḥ ǁ9.77.3 Aṣṭaka 7.3.2.3Anuvāka 9.4.79
-
Ṛk 4
अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इंदुः॑ स॒त्राचा॒ मन॑सा पुरुष्टु॒तः ।
इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जं ॥अयं नो विद्वान् वनवद् वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः |
इनस्य यः सदने गर्भम् आदधे गवाम् उरुब्जम् अभ्य् अर्षति व्रजम् ||ayám no vidvā́nvanavadvanuṣyatá índuḥ satrā́cā mánasā puruṣṭutáḥ ǀ
inásya yáḥ sádane gárbhamādadhé gávāmurubjámabhyárṣati vrajám ǁayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ |
inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam ||अ॒यम् । नः॒ । वि॒द्वान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । इन्दुः॑ । स॒त्राचा॑ । मन॑सा । पु॒रु॒ऽस्तु॒तः ।
इ॒नस्य॑ । यः । सद॑ने । गर्भ॑म् । आ॒ऽद॒धे । गवा॑म् । उ॒रु॒ब्जम् । अ॒भि । अर्ष॑ति । व्र॒जम् ॥अयम् । नः । विद्वान् । वनवत् । वनुष्यतः । इन्दुः । सत्राचा । मनसा । पुरुऽस्तुतः ।
इनस्य । यः । सदने । गर्भम् । आऽदधे । गवाम् । उरुब्जम् । अभि । अर्षति । व्रजम् ॥ayám ǀ naḥ ǀ vidvā́n ǀ vanavat ǀ vanuṣyatáḥ ǀ índuḥ ǀ satrā́cā ǀ mánasā ǀ puru-stutáḥ ǀ
inásya ǀ yáḥ ǀ sádane ǀ gárbham ǀ ā-dadhé ǀ gávām ǀ urubjám ǀ abhí ǀ árṣati ǀ vrajám ǁayam ǀ naḥ ǀ vidvān ǀ vanavat ǀ vanuṣyataḥ ǀ induḥ ǀ satrācā ǀ manasā ǀ puru-stutaḥ ǀ
inasya ǀ yaḥ ǀ sadane ǀ garbham ǀ ā-dadhe ǀ gavām ǀ urubjam ǀ abhi ǀ arṣati ǀ vrajam ǁ9.77.4 Aṣṭaka 7.3.2.4Anuvāka 9.4.80
-
Ṛk 5
चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते ।
असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥चक्रिर् दिवः पवते कृत्व्यो रसो महां अदब्धो वरुणो हुरुग् यते |
असावि मित्रो वृजनेषु यज्ञियो ऽत्यो न यूथे वृषयुः कनिक्रदत् ||cákrirdiváḥ pavate kṛ́tvyo ráso mahā́m̐ ádabdho váruṇo hurúgyaté ǀ
ásāvi mitró vṛjáneṣu yajñíyó’tyo ná yūthé vṛṣayúḥ kánikradat ǁcakrir divaḥ pavate kṛtvyo raso mahāṃ adabdho varuṇo hurug yate |
asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat ||चक्रिः॑ । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । म॒हान् । अद॑ब्धः । वरु॑णः । हु॒रुक् । य॒ते ।
असा॑वि । मि॒त्रः । वृ॒जने॑षु । य॒ज्ञियः॑ । अत्यः॑ । न । यू॒थे । वृ॒ष॒ऽयुः । कनि॑क्रदत् ॥चक्रिः । दिवः । पवते । कृत्व्यः । रसः । महान् । अदब्धः । वरुणः । हुरुक् । यते ।
असावि । मित्रः । वृजनेषु । यज्ञियः । अत्यः । न । यूथे । वृषऽयुः । कनिक्रदत् ॥cákriḥ ǀ diváḥ ǀ pavate ǀ kṛ́tvyaḥ ǀ rásaḥ ǀ mahā́n ǀ ádabdhaḥ ǀ váruṇaḥ ǀ hurúk ǀ yaté ǀ
ásāvi ǀ mitráḥ ǀ vṛjáneṣu ǀ yajñíyaḥ ǀ átyaḥ ǀ ná ǀ yūthé ǀ vṛṣa-yúḥ ǀ kánikradat ǁcakriḥ ǀ divaḥ ǀ pavate ǀ kṛtvyaḥ ǀ rasaḥ ǀ mahān ǀ adabdhaḥ ǀ varuṇaḥ ǀ huruk ǀ yate ǀ
asāvi ǀ mitraḥ ǀ vṛjaneṣu ǀ yajñiyaḥ ǀ atyaḥ ǀ na ǀ yūthe ǀ vṛṣa-yuḥ ǀ kanikradat ǁ9.77.5 Aṣṭaka 7.3.2.5Anuvāka 9.4.81
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.