Sūkta 27
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Nṛmedha Āṅgirasa
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 2, 6); gāyatrī (3-5)
2nd set of styles gāyatrī
-
Ṛk 1
ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते ।
पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥एष कविर् अभिष्टुतः पवित्रे अधि तोशते |
पुनानो घ्नन्न् अप स्रिधः ||eṣá kavírabhíṣṭutaḥ pavítre ádhi tośate ǀ
punānó ghnánnápa srídhaḥ ǁeṣa kavir abhiṣṭutaḥ pavitre adhi tośate |
punāno ghnann apa sridhaḥ ||ए॒षः । क॒विः । अ॒भिऽस्तु॑तः । प॒वित्रे॑ । अधि॑ । तो॒श॒ते॒ ।
पु॒ना॒नः । घ्नन् । अप॑ । स्रिधः॑ ॥एषः । कविः । अभिऽस्तुतः । पवित्रे । अधि । तोशते ।
पुनानः । घ्नन् । अप । स्रिधः ॥eṣáḥ ǀ kavíḥ ǀ abhí-stutaḥ ǀ pavítre ǀ ádhi ǀ tośate ǀ
punānáḥ ǀ ghnán ǀ ápa ǀ srídhaḥ ǁeṣaḥ ǀ kaviḥ ǀ abhi-stutaḥ ǀ pavitre ǀ adhi ǀ tośate ǀ
punānaḥ ǀ ghnan ǀ apa ǀ sridhaḥ ǁ9.27.1 Aṣṭaka 6.8.17.1Anuvāka 9.2.13
-
Ṛk 2
ए॒ष इंद्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते ।
प॒वित्रे॑ दक्ष॒साध॑नः ॥एष इन्द्राय वायवे स्वर्जित् परि षिच्यते |
पवित्रे दक्षसाधनः ||eṣá índrāya vāyáve svarjítpári ṣicyate ǀ
pavítre dakṣasā́dhanaḥ ǁeṣa indrāya vāyave svarjit pari ṣicyate |
pavitre dakṣasādhanaḥ ||ए॒षः । इन्द्रा॑य । वा॒यवे॑ । स्वः॒ऽजित् । परि॑ । सि॒च्य॒ते॒ ।
प॒वित्रे॑ । द॒क्ष॒ऽसाध॑नः ॥एषः । इन्द्राय । वायवे । स्वःऽजित् । परि । सिच्यते ।
पवित्रे । दक्षऽसाधनः ॥eṣáḥ ǀ índrāya ǀ vāyáve ǀ svaḥ-jít ǀ pári ǀ sicyate ǀ
pavítre ǀ dakṣa-sā́dhanaḥ ǁeṣaḥ ǀ indrāya ǀ vāyave ǀ svaḥ-jit ǀ pari ǀ sicyate ǀ
pavitre ǀ dakṣa-sādhanaḥ ǁ9.27.2 Aṣṭaka 6.8.17.2Anuvāka 9.2.14
-
Ṛk 3
ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः ।
सोमो॒ वने॑षु विश्व॒वित् ॥एष नृभिर् वि नीयते दिवो मूर्धा वृषा सुतः |
सोमो वनेषु विश्ववित् ||eṣá nṛ́bhirví nīyate divó mūrdhā́ vṛ́ṣā sutáḥ ǀ
sómo váneṣu viśvavít ǁeṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ |
somo vaneṣu viśvavit ||ए॒षः । नृऽभिः॑ । वि । नी॒य॒ते॒ । दि॒वः । मू॒र्धा । वृषा॑ । सु॒तः ।
सोमः॑ । वने॑षु । वि॒श्व॒ऽवित् ॥एषः । नृऽभिः । वि । नीयते । दिवः । मूर्धा । वृषा । सुतः ।
सोमः । वनेषु । विश्वऽवित् ॥eṣáḥ ǀ nṛ́-bhiḥ ǀ ví ǀ nīyate ǀ diváḥ ǀ mūrdhā́ ǀ vṛ́ṣā ǀ sutáḥ ǀ
sómaḥ ǀ váneṣu ǀ viśva-vít ǁeṣaḥ ǀ nṛ-bhiḥ ǀ vi ǀ nīyate ǀ divaḥ ǀ mūrdhā ǀ vṛṣā ǀ sutaḥ ǀ
somaḥ ǀ vaneṣu ǀ viśva-vit ǁ9.27.3 Aṣṭaka 6.8.17.3Anuvāka 9.2.15
-
Ṛk 4
ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः ।
इंदुः॑ सत्रा॒जिदस्तृ॑तः ॥एष गव्युर् अचिक्रदत् पवमानो हिरण्ययुः |
इन्दुः सत्राजिद् अस्तृतः ||eṣá gavyúracikradatpávamāno hiraṇyayúḥ ǀ
índuḥ satrājídástṛtaḥ ǁeṣa gavyur acikradat pavamāno hiraṇyayuḥ |
induḥ satrājid astṛtaḥ ||ए॒षः । ग॒व्युः । अ॒चि॒क्र॒द॒त् । पव॑मानः । हि॒र॒ण्य॒ऽयुः ।
इन्दुः॑ । स॒त्रा॒ऽजित् । अस्तृ॑तः ॥एषः । गव्युः । अचिक्रदत् । पवमानः । हिरण्यऽयुः ।
इन्दुः । सत्राऽजित् । अस्तृतः ॥eṣáḥ ǀ gavyúḥ ǀ acikradat ǀ pávamānaḥ ǀ hiraṇya-yúḥ ǀ
índuḥ ǀ satrā-jít ǀ ástṛtaḥ ǁeṣaḥ ǀ gavyuḥ ǀ acikradat ǀ pavamānaḥ ǀ hiraṇya-yuḥ ǀ
induḥ ǀ satrā-jit ǀ astṛtaḥ ǁ9.27.4 Aṣṭaka 6.8.17.4Anuvāka 9.2.16
-
Ṛk 5
ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ ।
प॒वित्रे॑ मत्स॒रो मदः॑ ॥एष सूर्येण हासते पवमानो अधि द्यवि |
पवित्रे मत्सरो मदः ||eṣá sū́ryeṇa hāsate pávamāno ádhi dyávi ǀ
pavítre matsaró mádaḥ ǁeṣa sūryeṇa hāsate pavamāno adhi dyavi |
pavitre matsaro madaḥ ||ए॒षः । सूर्ये॑ण । हा॒स॒ते॒ । पव॑मानः । अधि॑ । द्यवि॑ ।
प॒वित्रे॑ । म॒त्स॒रः । मदः॑ ॥एषः । सूर्येण । हासते । पवमानः । अधि । द्यवि ।
पवित्रे । मत्सरः । मदः ॥eṣáḥ ǀ sū́ryeṇa ǀ hāsate ǀ pávamānaḥ ǀ ádhi ǀ dyávi ǀ
pavítre ǀ matsaráḥ ǀ mádaḥ ǁeṣaḥ ǀ sūryeṇa ǀ hāsate ǀ pavamānaḥ ǀ adhi ǀ dyavi ǀ
pavitre ǀ matsaraḥ ǀ madaḥ ǁ9.27.5 Aṣṭaka 6.8.17.5Anuvāka 9.2.17
-
Ṛk 6
ए॒ष शु॒ष्म्य॑सिष्यददं॒तरि॑क्षे॒ वृषा॒ हरिः॑ ।
पु॒ना॒न इंदु॒रिंद्र॒मा ॥एष शुष्म्य् असिष्यदद् अन्तरिक्षे वृषा हरिः |
पुनान इन्दुर् इन्द्रम् आ ||eṣá śuṣmyásiṣyadadantárikṣe vṛ́ṣā háriḥ ǀ
punāná índuríndramā́ ǁeṣa śuṣmy asiṣyadad antarikṣe vṛṣā hariḥ |
punāna indur indram ā ||ए॒षः । शु॒ष्मी । अ॒सि॒स्य॒द॒त् । अ॒न्तरि॑क्षे । वृषा॑ । हरिः॑ ।
पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥एषः । शुष्मी । असिस्यदत् । अन्तरिक्षे । वृषा । हरिः ।
पुनानः । इन्दुः । इन्द्रम् । आ ॥eṣáḥ ǀ śuṣmī́ ǀ asisyadat ǀ antárikṣe ǀ vṛ́ṣā ǀ háriḥ ǀ
punānáḥ ǀ índuḥ ǀ índram ǀ ā́ ǁeṣaḥ ǀ śuṣmī ǀ asisyadat ǀ antarikṣe ǀ vṛṣā ǀ hariḥ ǀ
punānaḥ ǀ induḥ ǀ indram ǀ ā ǁ9.27.6 Aṣṭaka 6.8.17.6Anuvāka 9.2.18
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.