Sūkta 64
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kaśyapa Mārīca
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (2, 5, 6, 8-11, 14, 16, 20, 23, 25, 29); gāyatrī (1, 3, 4, 7, 12, 13, 15, 17, 19, 22, 24, 26); virāḍgāyatrī (18, 21, 27, 28); yavamadhyāgāyatrī (30)
2nd set of styles gāyatrī
-
Ṛk 1
वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः ।
वृषा॒ धर्मा॑णि दधिषे ॥वृषा सोम द्युमां असि वृषा देव वृषव्रतः |
वृषा धर्माणि दधिषे ||vṛ́ṣā soma dyumā́m̐ asi vṛ́ṣā deva vṛ́ṣavrataḥ ǀ
vṛ́ṣā dhármāṇi dadhiṣe ǁvṛṣā soma dyumāṃ asi vṛṣā deva vṛṣavrataḥ |
vṛṣā dharmāṇi dadhiṣe ||वृषा॑ । सो॒म॒ । द्यु॒ऽमान् । अ॒सि॒ । वृषा॑ । दे॒व॒ । वृष॑ऽव्रतः ।
वृषा॑ । धर्मा॑णि । द॒धि॒षे॒ ॥वृषा । सोम । द्युऽमान् । असि । वृषा । देव । वृषऽव्रतः ।
वृषा । धर्माणि । दधिषे ॥vṛ́ṣā ǀ soma ǀ dyu-mā́n ǀ asi ǀ vṛ́ṣā ǀ deva ǀ vṛ́ṣa-vrataḥ ǀ
vṛ́ṣā ǀ dhármāṇi ǀ dadhiṣe ǁvṛṣā ǀ soma ǀ dyu-mān ǀ asi ǀ vṛṣā ǀ deva ǀ vṛṣa-vrataḥ ǀ
vṛṣā ǀ dharmāṇi ǀ dadhiṣe ǁ9.64.1 Aṣṭaka 7.1.36.1Anuvāka 9.3.91
-
Ṛk 2
वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ ।
स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥वृष्णस् ते वृष्ण्यं शवो वृषा वनं वृषा मदः |
सत्यं वृषन् वृषेद् असि ||vṛ́ṣṇaste vṛ́ṣṇyam śávo vṛ́ṣā vánam vṛ́ṣā mádaḥ ǀ
satyám vṛṣanvṛ́ṣédasi ǁvṛṣṇas te vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ |
satyaṃ vṛṣan vṛṣed asi ||वृष्णः॑ । ते॒ । वृष्ण्य॑म् । शवः॑ । वृषा॑ । वन॑म् । वृषा॑ । मदः॑ ।
स॒त्यम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥वृष्णः । ते । वृष्ण्यम् । शवः । वृषा । वनम् । वृषा । मदः ।
सत्यम् । वृषन् । वृषा । इत् । असि ॥vṛ́ṣṇaḥ ǀ te ǀ vṛ́ṣṇyam ǀ śávaḥ ǀ vṛ́ṣā ǀ vánam ǀ vṛ́ṣā ǀ mádaḥ ǀ
satyám ǀ vṛṣan ǀ vṛ́ṣā ǀ ít ǀ asi ǁvṛṣṇaḥ ǀ te ǀ vṛṣṇyam ǀ śavaḥ ǀ vṛṣā ǀ vanam ǀ vṛṣā ǀ madaḥ ǀ
satyam ǀ vṛṣan ǀ vṛṣā ǀ it ǀ asi ǁ9.64.2 Aṣṭaka 7.1.36.2Anuvāka 9.3.92
-
Ṛk 3
अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इं॑दो॒ समर्व॑तः ।
वि नो॑ रा॒ये दुरो॑ वृधि ॥अश्वो न चक्रदो वृषा सं गा इन्दो सम् अर्वतः |
वि नो राये दुरो वृधि ||áśvo ná cakrado vṛ́ṣā sám gā́ indo sámárvataḥ ǀ
ví no rāyé dúro vṛdhi ǁaśvo na cakrado vṛṣā saṃ gā indo sam arvataḥ |
vi no rāye duro vṛdhi ||अश्वः॑ । न । च॒क्र॒दः॒ । वृषा॑ । सम् । गाः । इ॒न्दो॒ इति॑ । सम् । अर्व॑तः ।
वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥अश्वः । न । चक्रदः । वृषा । सम् । गाः । इन्दो इति । सम् । अर्वतः ।
वि । नः । राये । दुरः । वृधि ॥áśvaḥ ǀ ná ǀ cakradaḥ ǀ vṛ́ṣā ǀ sám ǀ gā́ḥ ǀ indo íti ǀ sám ǀ árvataḥ ǀ
ví ǀ naḥ ǀ rāyé ǀ dúraḥ ǀ vṛdhi ǁaśvaḥ ǀ na ǀ cakradaḥ ǀ vṛṣā ǀ sam ǀ gāḥ ǀ indo iti ǀ sam ǀ arvataḥ ǀ
vi ǀ naḥ ǀ rāye ǀ duraḥ ǀ vṛdhi ǁ9.64.3 Aṣṭaka 7.1.36.3Anuvāka 9.3.93
-
Ṛk 4
असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या ।
शु॒क्रासो॑ वीर॒याशवः॑ ॥असृक्षत प्र वाजिनो गव्या सोमासो अश्वया |
शुक्रासो वीरयाशवः ||ásṛkṣata prá vājíno gavyā́ sómāso aśvayā́ ǀ
śukrā́so vīrayā́śávaḥ ǁasṛkṣata pra vājino gavyā somāso aśvayā |
śukrāso vīrayāśavaḥ ||असृ॑क्षत । प्र । वा॒जिनः॑ । ग॒व्या । सोमा॑सः । अ॒श्व॒ऽया ।
शु॒क्रासः॑ । वी॒र॒ऽया । आ॒शवः॑ ॥असृक्षत । प्र । वाजिनः । गव्या । सोमासः । अश्वऽया ।
शुक्रासः । वीरऽया । आशवः ॥ásṛkṣata ǀ prá ǀ vājínaḥ ǀ gavyā́ ǀ sómāsaḥ ǀ aśva-yā́ ǀ
śukrā́saḥ ǀ vīra-yā́ ǀ āśávaḥ ǁasṛkṣata ǀ pra ǀ vājinaḥ ǀ gavyā ǀ somāsaḥ ǀ aśva-yā ǀ
śukrāsaḥ ǀ vīra-yā ǀ āśavaḥ ǁ9.64.4 Aṣṭaka 7.1.36.4Anuvāka 9.3.94
-
Ṛk 5
शुं॒भमा॑ना ऋता॒युभि॑र्मृ॒ज्यमा॑ना॒ गभ॑स्त्योः ।
पवं॑ते॒ वारे॑ अ॒व्यये॑ ॥शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः |
पवन्ते वारे अव्यये ||śumbhámānā ṛtāyúbhirmṛjyámānā gábhastyoḥ ǀ
pávante vā́re avyáye ǁśumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ |
pavante vāre avyaye ||शु॒म्भमा॑नाः । ऋ॒त॒युऽभिः॑ । मृ॒ज्यमा॑नाः । गभ॑स्त्योः ।
पव॑न्ते । वारे॑ । अ॒व्यये॑ ॥शुम्भमानाः । ऋतयुऽभिः । मृज्यमानाः । गभस्त्योः ।
पवन्ते । वारे । अव्यये ॥śumbhámānāḥ ǀ ṛtayú-bhiḥ ǀ mṛjyámānāḥ ǀ gábhastyoḥ ǀ
pávante ǀ vā́re ǀ avyáye ǁśumbhamānāḥ ǀ ṛtayu-bhiḥ ǀ mṛjyamānāḥ ǀ gabhastyoḥ ǀ
pavante ǀ vāre ǀ avyaye ǁ9.64.5 Aṣṭaka 7.1.36.5Anuvāka 9.3.95
-
Ṛk 6
ते विश्वा॑ दा॒शुषे॒ वसु॒ सोमा॑ दि॒व्यानि॒ पार्थि॑वा ।
पवं॑ता॒मांतरि॑क्ष्या ॥ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा |
पवन्ताम् आन्तरिक्ष्या ||té víśvā dāśúṣe vásu sómā divyā́ni pā́rthivā ǀ
pávantāmā́ntárikṣyā ǁte viśvā dāśuṣe vasu somā divyāni pārthivā |
pavantām āntarikṣyā ||ते । विश्वा॑ । दा॒शुषे॑ । वसु॑ । सोमाः॑ । दि॒व्यानि॑ । पार्थि॑वा ।
पव॑न्ताम् । आ । अ॒न्तरि॑क्ष्या ॥ते । विश्वा । दाशुषे । वसु । सोमाः । दिव्यानि । पार्थिवा ।
पवन्ताम् । आ । अन्तरिक्ष्या ॥té ǀ víśvā ǀ dāśúṣe ǀ vásu ǀ sómāḥ ǀ divyā́ni ǀ pā́rthivā ǀ
pávantām ǀ ā́ ǀ antárikṣyā ǁte ǀ viśvā ǀ dāśuṣe ǀ vasu ǀ somāḥ ǀ divyāni ǀ pārthivā ǀ
pavantām ǀ ā ǀ antarikṣyā ǁ9.64.6 Aṣṭaka 7.1.37.1Anuvāka 9.3.96
-
Ṛk 7
पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा॑ असृक्षत ।
सूर्य॑स्येव॒ न र॒श्मयः॑ ॥पवमानस्य विश्ववित् प्र ते सर्गा असृक्षत |
सूर्यस्येव न रश्मयः ||pávamānasya viśvavitprá te sárgā asṛkṣata ǀ
sū́ryasyeva ná raśmáyaḥ ǁpavamānasya viśvavit pra te sargā asṛkṣata |
sūryasyeva na raśmayaḥ ||पव॑मानस्य । वि॒श्व॒ऽवि॒त् । प्र । ते॒ । सर्गाः॑ । अ॒सृ॒क्ष॒त॒ ।
सूर्य॑स्यऽइव । न । र॒श्मयः॑ ॥पवमानस्य । विश्वऽवित् । प्र । ते । सर्गाः । असृक्षत ।
सूर्यस्यऽइव । न । रश्मयः ॥pávamānasya ǀ viśva-vit ǀ prá ǀ te ǀ sárgāḥ ǀ asṛkṣata ǀ
sū́ryasya-iva ǀ ná ǀ raśmáyaḥ ǁpavamānasya ǀ viśva-vit ǀ pra ǀ te ǀ sargāḥ ǀ asṛkṣata ǀ
sūryasya-iva ǀ na ǀ raśmayaḥ ǁ9.64.7 Aṣṭaka 7.1.37.2Anuvāka 9.3.97
-
Ṛk 8
के॒तुं कृ॒ण्वंदि॒वस्परि॒ विश्वा॑ रू॒पाभ्य॑र्षसि ।
स॒मु॒द्रः सो॑म पिन्वसे ॥केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसि |
समुद्रः सोम पिन्वसे ||ketúm kṛṇvándiváspári víśvā rūpā́bhyárṣasi ǀ
samudráḥ soma pinvase ǁketuṃ kṛṇvan divas pari viśvā rūpābhy arṣasi |
samudraḥ soma pinvase ||के॒तुम् । कृ॒ण्वन् । दि॒वः । परि॑ । विश्वा॑ । रू॒पा । अ॒भि । अ॒र्ष॒सि॒ ।
स॒मु॒द्रः । सो॒म॒ । पि॒न्व॒से॒ ॥केतुम् । कृण्वन् । दिवः । परि । विश्वा । रूपा । अभि । अर्षसि ।
समुद्रः । सोम । पिन्वसे ॥ketúm ǀ kṛṇván ǀ diváḥ ǀ pári ǀ víśvā ǀ rūpā́ ǀ abhí ǀ arṣasi ǀ
samudráḥ ǀ soma ǀ pinvase ǁketum ǀ kṛṇvan ǀ divaḥ ǀ pari ǀ viśvā ǀ rūpā ǀ abhi ǀ arṣasi ǀ
samudraḥ ǀ soma ǀ pinvase ǁ9.64.8 Aṣṭaka 7.1.37.3Anuvāka 9.3.98
-
Ṛk 9
हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध॑र्मणि ।
अक्रां॑दे॒वो न सूर्यः॑ ॥हिन्वानो वाचम् इष्यसि पवमान विधर्मणि |
अक्रान् देवो न सूर्यः ||hinvānó vā́camiṣyasi pávamāna vídharmaṇi ǀ
ákrāndevó ná sū́ryaḥ ǁhinvāno vācam iṣyasi pavamāna vidharmaṇi |
akrān devo na sūryaḥ ||हि॒न्वा॒नः । वाच॑म् । इ॒ष्य॒सि॒ । पव॑मान । विऽध॑र्मणि ।
अक्रा॑न् । दे॒वः । न । सूर्यः॑ ॥हिन्वानः । वाचम् । इष्यसि । पवमान । विऽधर्मणि ।
अक्रान् । देवः । न । सूर्यः ॥hinvānáḥ ǀ vā́cam ǀ iṣyasi ǀ pávamāna ǀ ví-dharmaṇi ǀ
ákrān ǀ deváḥ ǀ ná ǀ sū́ryaḥ ǁhinvānaḥ ǀ vācam ǀ iṣyasi ǀ pavamāna ǀ vi-dharmaṇi ǀ
akrān ǀ devaḥ ǀ na ǀ sūryaḥ ǁ9.64.9 Aṣṭaka 7.1.37.4Anuvāka 9.3.99
-
Ṛk 10
इंदुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती ।
सृ॒जदश्वं॑ र॒थीरि॑व ॥इन्दुः पविष्ट चेतनः प्रियः कवीनाम् मती |
सृजद् अश्वं रथीर् इव ||índuḥ paviṣṭa cétanaḥ priyáḥ kavīnā́m matī́ ǀ
sṛjádáśvam rathī́riva ǁinduḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī |
sṛjad aśvaṃ rathīr iva ||इन्दुः॑ । प॒वि॒ष्ट॒ । चेत॑नः । प्रि॒यः । क॒वी॒नाम् । म॒ती ।
सृ॒जत् । अश्व॑म् । र॒थीःऽइ॑व ॥इन्दुः । पविष्ट । चेतनः । प्रियः । कवीनाम् । मती ।
सृजत् । अश्वम् । रथीःऽइव ॥índuḥ ǀ paviṣṭa ǀ cétanaḥ ǀ priyáḥ ǀ kavīnā́m ǀ matī́ ǀ
sṛját ǀ áśvam ǀ rathī́ḥ-iva ǁinduḥ ǀ paviṣṭa ǀ cetanaḥ ǀ priyaḥ ǀ kavīnām ǀ matī ǀ
sṛjat ǀ aśvam ǀ rathīḥ-iva ǁ9.64.10 Aṣṭaka 7.1.37.5Anuvāka 9.3.100
-
Ṛk 11
ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् ।
सीद॑न्नृ॒तस्य॒ योनि॒मा ॥ऊर्मिर् यस् ते पवित्र आ देवावीः पर्यक्षरत् |
सीदन्न् ऋतस्य योनिम् आ ||ūrmíryáste pavítra ā́ devāvī́ḥ paryákṣarat ǀ
sī́dannṛtásya yónimā́ ǁūrmir yas te pavitra ā devāvīḥ paryakṣarat |
sīdann ṛtasya yonim ā ||ऊ॒र्मिः । यः । ते॒ । प॒वित्रे॑ । आ । दे॒व॒ऽअ॒वीः । प॒रि॒ऽअक्ष॑रत् ।
सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥ऊर्मिः । यः । ते । पवित्रे । आ । देवऽअवीः । परिऽअक्षरत् ।
सीदन् । ऋतस्य । योनिम् । आ ॥ūrmíḥ ǀ yáḥ ǀ te ǀ pavítre ǀ ā́ ǀ deva-avī́ḥ ǀ pari-ákṣarat ǀ
sī́dan ǀ ṛtásya ǀ yónim ǀ ā́ ǁūrmiḥ ǀ yaḥ ǀ te ǀ pavitre ǀ ā ǀ deva-avīḥ ǀ pari-akṣarat ǀ
sīdan ǀ ṛtasya ǀ yonim ǀ ā ǁ9.64.11 Aṣṭaka 7.1.38.1Anuvāka 9.3.101
-
Ṛk 12
स नो॑ अर्ष प॒वित्र॒ आ मदो॒ यो दे॑व॒वीत॑मः ।
इंद॒विंद्रा॑य पी॒तये॑ ॥स नो अर्ष पवित्र आ मदो यो देववीतमः |
इन्दव् इन्द्राय पीतये ||sá no arṣa pavítra ā́ mádo yó devavī́tamaḥ ǀ
índavíndrāya pītáye ǁsa no arṣa pavitra ā mado yo devavītamaḥ |
indav indrāya pītaye ||सः । नः॒ । अ॒र्ष॒ । प॒वित्रे॑ । आ । मदः॑ । यः । दे॒व॒ऽवीत॑मः ।
इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥सः । नः । अर्ष । पवित्रे । आ । मदः । यः । देवऽवीतमः ।
इन्दो इति । इन्द्राय । पीतये ॥sáḥ ǀ naḥ ǀ arṣa ǀ pavítre ǀ ā́ ǀ mádaḥ ǀ yáḥ ǀ deva-vī́tamaḥ ǀ
índo íti ǀ índrāya ǀ pītáye ǁsaḥ ǀ naḥ ǀ arṣa ǀ pavitre ǀ ā ǀ madaḥ ǀ yaḥ ǀ deva-vītamaḥ ǀ
indo iti ǀ indrāya ǀ pītaye ǁ9.64.12 Aṣṭaka 7.1.38.2Anuvāka 9.3.102
-
Ṛk 13
इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा॑नो मनी॒षिभिः॑ ।
इंदो॑ रु॒चाभि गा इ॑हि ॥इषे पवस्व धारया मृज्यमानो मनीषिभिः |
इन्दो रुचाभि गा इहि ||iṣé pavasva dhā́rayā mṛjyámāno manīṣíbhiḥ ǀ
índo rucā́bhí gā́ ihi ǁiṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ |
indo rucābhi gā ihi ||इ॒षे । प॒व॒स्व॒ । धार॑या । मृ॒ज्यमा॑नः । म॒नी॒षिऽभिः॑ ।
इन्दो॒ इति॑ । रु॒चा । अ॒भि । गाः । इ॒हि॒ ॥इषे । पवस्व । धारया । मृज्यमानः । मनीषिऽभिः ।
इन्दो इति । रुचा । अभि । गाः । इहि ॥iṣé ǀ pavasva ǀ dhā́rayā ǀ mṛjyámānaḥ ǀ manīṣí-bhiḥ ǀ
índo íti ǀ rucā́ ǀ abhí ǀ gā́ḥ ǀ ihi ǁiṣe ǀ pavasva ǀ dhārayā ǀ mṛjyamānaḥ ǀ manīṣi-bhiḥ ǀ
indo iti ǀ rucā ǀ abhi ǀ gāḥ ǀ ihi ǁ9.64.13 Aṣṭaka 7.1.38.3Anuvāka 9.3.103
-
Ṛk 14
पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना॑य गिर्वणः ।
हरे॑ सृजा॒न आ॒शिरं॑ ॥पुनानो वरिवस् कृध्य् ऊर्जं जनाय गिर्वणः |
हरे सृजान आशिरम् ||punānó várivaskṛdhyū́rjam jánāya girvaṇaḥ ǀ
háre sṛjāná āśíram ǁpunāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ |
hare sṛjāna āśiram ||पु॒ना॒नः । वरि॑वः । कृ॒धि॒ । ऊर्ज॑म् । जना॑य । गि॒र्व॒णः॒ ।
हरे॑ । सृ॒जा॒नः । आ॒ऽशिर॑म् ॥पुनानः । वरिवः । कृधि । ऊर्जम् । जनाय । गिर्वणः ।
हरे । सृजानः । आऽशिरम् ॥punānáḥ ǀ várivaḥ ǀ kṛdhi ǀ ū́rjam ǀ jánāya ǀ girvaṇaḥ ǀ
háre ǀ sṛjānáḥ ǀ ā-śíram ǁpunānaḥ ǀ varivaḥ ǀ kṛdhi ǀ ūrjam ǀ janāya ǀ girvaṇaḥ ǀ
hare ǀ sṛjānaḥ ǀ ā-śiram ǁ9.64.14 Aṣṭaka 7.1.38.4Anuvāka 9.3.104
-
Ṛk 15
पु॒ना॒नो दे॒ववी॑तय॒ इंद्र॑स्य याहि निष्कृ॒तं ।
द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् |
द्युतानो वाजिभिर् यतः ||punānó devávītaya índrasya yāhi niṣkṛtám ǀ
dyutānó vājíbhiryatáḥ ǁpunāno devavītaya indrasya yāhi niṣkṛtam |
dyutāno vājibhir yataḥ ||पु॒ना॒नः । दे॒वऽवी॑तये । इन्द्र॑स्य । या॒हि॒ । निः॒ऽकृ॒तम् ।
द्यु॒ता॒नः । वा॒जिऽभिः॑ । य॒तः ॥पुनानः । देवऽवीतये । इन्द्रस्य । याहि । निःऽकृतम् ।
द्युतानः । वाजिऽभिः । यतः ॥punānáḥ ǀ devá-vītaye ǀ índrasya ǀ yāhi ǀ niḥ-kṛtám ǀ
dyutānáḥ ǀ vājí-bhiḥ ǀ yatáḥ ǁpunānaḥ ǀ deva-vītaye ǀ indrasya ǀ yāhi ǀ niḥ-kṛtam ǀ
dyutānaḥ ǀ vāji-bhiḥ ǀ yataḥ ǁ9.64.15 Aṣṭaka 7.1.38.5Anuvāka 9.3.105
-
Ṛk 16
प्र हि॑न्वा॒नास॒ इंद॒वोऽच्छा॑ समु॒द्रमा॒शवः॑ ।
धि॒या जू॒ता अ॑सृक्षत ॥प्र हिन्वानास इन्दवो ऽच्छा समुद्रम् आशवः |
धिया जूता असृक्षत ||prá hinvānā́sa índavó’cchā samudrámāśávaḥ ǀ
dhiyā́ jūtā́ asṛkṣata ǁpra hinvānāsa indavo 'cchā samudram āśavaḥ |
dhiyā jūtā asṛkṣata ||प्र । हि॒न्वा॒नासः॑ । इन्द॑वः । अच्छ॑ । स॒मु॒द्रम् । आ॒शवः॑ ।
धि॒या । जू॒ताः । अ॒सृ॒क्ष॒त॒ ॥प्र । हिन्वानासः । इन्दवः । अच्छ । समुद्रम् । आशवः ।
धिया । जूताः । असृक्षत ॥prá ǀ hinvānā́saḥ ǀ índavaḥ ǀ áccha ǀ samudrám ǀ āśávaḥ ǀ
dhiyā́ ǀ jūtā́ḥ ǀ asṛkṣata ǁpra ǀ hinvānāsaḥ ǀ indavaḥ ǀ accha ǀ samudram ǀ āśavaḥ ǀ
dhiyā ǀ jūtāḥ ǀ asṛkṣata ǁ9.64.16 Aṣṭaka 7.1.39.1Anuvāka 9.3.106
-
Ṛk 17
म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिंद॑वः ।
अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥मर्मृजानास आयवो वृथा समुद्रम् इन्दवः |
अग्मन्न् ऋतस्य योनिम् आ ||marmṛjānā́sa āyávo vṛ́thā samudrámíndavaḥ ǀ
ágmannṛtásya yónimā́ ǁmarmṛjānāsa āyavo vṛthā samudram indavaḥ |
agmann ṛtasya yonim ā ||म॒र्मृ॒जा॒नासः॑ । आ॒यवः॑ । वृथा॑ । स॒मु॒द्रम् । इन्द॑वः ।
अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥मर्मृजानासः । आयवः । वृथा । समुद्रम् । इन्दवः ।
अग्मन् । ऋतस्य । योनिम् । आ ॥marmṛjānā́saḥ ǀ āyávaḥ ǀ vṛ́thā ǀ samudrám ǀ índavaḥ ǀ
ágman ǀ ṛtásya ǀ yónim ǀ ā́ ǁmarmṛjānāsaḥ ǀ āyavaḥ ǀ vṛthā ǀ samudram ǀ indavaḥ ǀ
agman ǀ ṛtasya ǀ yonim ǀ ā ǁ9.64.17 Aṣṭaka 7.1.39.2Anuvāka 9.3.107
-
Ṛk 18
परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा ।
पा॒हि नः॒ शर्म॑ वी॒रव॑त् ॥परि णो याह्य् अस्मयुर् विश्वा वसून्य् ओजसा |
पाहि नः शर्म वीरवत् ||pári ṇo yāhyasmayúrvíśvā vásūnyójasā ǀ
pāhí naḥ śárma vīrávat ǁpari ṇo yāhy asmayur viśvā vasūny ojasā |
pāhi naḥ śarma vīravat ||परि॑ । नः॒ । या॒हि॒ । अ॒स्म॒ऽयुः । विश्वा॑ । वसू॑नि । ओज॑सा ।
पा॒हि । नः॒ । शर्म॑ । वी॒रऽव॑त् ॥परि । नः । याहि । अस्मऽयुः । विश्वा । वसूनि । ओजसा ।
पाहि । नः । शर्म । वीरऽवत् ॥pári ǀ naḥ ǀ yāhi ǀ asma-yúḥ ǀ víśvā ǀ vásūni ǀ ójasā ǀ
pāhí ǀ naḥ ǀ śárma ǀ vīrá-vat ǁpari ǀ naḥ ǀ yāhi ǀ asma-yuḥ ǀ viśvā ǀ vasūni ǀ ojasā ǀ
pāhi ǀ naḥ ǀ śarma ǀ vīra-vat ǁ9.64.18 Aṣṭaka 7.1.39.3Anuvāka 9.3.108
-
Ṛk 19
मिमा॑ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः ।
प्र यत्स॑मु॒द्र आहि॑तः ॥मिमाति वह्निर् एतशः पदं युजान ऋक्वभिः |
प्र यत् समुद्र आहितः ||mímāti váhnirétaśaḥ padám yujāná ṛ́kvabhiḥ ǀ
prá yátsamudrá ā́hitaḥ ǁmimāti vahnir etaśaḥ padaṃ yujāna ṛkvabhiḥ |
pra yat samudra āhitaḥ ||मिमा॑ति । वह्निः॑ । एत॑शः । प॒दम् । यु॒जा॒नः । ऋक्व॑ऽभिः ।
प्र । यत् । स॒मु॒द्रे । आऽहि॑तः ॥मिमाति । वह्निः । एतशः । पदम् । युजानः । ऋक्वऽभिः ।
प्र । यत् । समुद्रे । आऽहितः ॥mímāti ǀ váhniḥ ǀ étaśaḥ ǀ padám ǀ yujānáḥ ǀ ṛ́kva-bhiḥ ǀ
prá ǀ yát ǀ samudré ǀ ā́-hitaḥ ǁmimāti ǀ vahniḥ ǀ etaśaḥ ǀ padam ǀ yujānaḥ ǀ ṛkva-bhiḥ ǀ
pra ǀ yat ǀ samudre ǀ ā-hitaḥ ǁ9.64.19 Aṣṭaka 7.1.39.4Anuvāka 9.3.109
-
Ṛk 20
आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुर्ऋ॒तस्य॒ सीद॑ति ।
जहा॒त्यप्र॑चेतसः ॥आ यद् योनिं हिरण्ययम् आशुर् ऋतस्य सीदति |
जहात्य् अप्रचेतसः ||ā́ yádyónim hiraṇyáyamāśúrṛtásya sī́dati ǀ
jáhātyápracetasaḥ ǁā yad yoniṃ hiraṇyayam āśur ṛtasya sīdati |
jahāty apracetasaḥ ||आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । आ॒शुः । ऋ॒तस्य॑ । सीद॑ति ।
जहा॑ति । अप्र॑ऽचेतसः ॥आ । यत् । योनिम् । हिरण्ययम् । आशुः । ऋतस्य । सीदति ।
जहाति । अप्रऽचेतसः ॥ā́ ǀ yát ǀ yónim ǀ hiraṇyáyam ǀ āśúḥ ǀ ṛtásya ǀ sī́dati ǀ
jáhāti ǀ ápra-cetasaḥ ǁā ǀ yat ǀ yonim ǀ hiraṇyayam ǀ āśuḥ ǀ ṛtasya ǀ sīdati ǀ
jahāti ǀ apra-cetasaḥ ǁ9.64.20 Aṣṭaka 7.1.39.5Anuvāka 9.3.110
-
Ṛk 21
अ॒भि वे॒ना अ॑नूष॒तेय॑क्षंति॒ प्रचे॑तसः ।
मज्जं॒त्यवि॑चेतसः ॥अभि वेना अनूषतेयक्षन्ति प्रचेतसः |
मज्जन्त्य् अविचेतसः ||abhí venā́ anūṣatéyakṣanti prácetasaḥ ǀ
májjantyávicetasaḥ ǁabhi venā anūṣateyakṣanti pracetasaḥ |
majjanty avicetasaḥ ||अ॒भि । वे॒नाः । अ॒नू॒ष॒त॒ । इय॑क्षन्ति । प्रऽचे॑तसः ।
मज्ज॑न्ति । अवि॑ऽचेतसः ॥अभि । वेनाः । अनूषत । इयक्षन्ति । प्रऽचेतसः ।
मज्जन्ति । अविऽचेतसः ॥abhí ǀ venā́ḥ ǀ anūṣata ǀ íyakṣanti ǀ prá-cetasaḥ ǀ
májjanti ǀ ávi-cetasaḥ ǁabhi ǀ venāḥ ǀ anūṣata ǀ iyakṣanti ǀ pra-cetasaḥ ǀ
majjanti ǀ avi-cetasaḥ ǁ9.64.21 Aṣṭaka 7.1.40.1Anuvāka 9.3.111
-
Ṛk 22
इंद्रा॑येंदो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः ।
ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः |
ऋतस्य योनिम् आसदम् ||índrāyendo marútvate pávasva mádhumattamaḥ ǀ
ṛtásya yónimāsádam ǁindrāyendo marutvate pavasva madhumattamaḥ |
ṛtasya yonim āsadam ||इन्द्रा॑य । इ॒न्दो॒ इति॑ । म॒रुत्व॑ते । पव॑स्व । मधु॑मत्ऽतमः ।
ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥इन्द्राय । इन्दो इति । मरुत्वते । पवस्व । मधुमत्ऽतमः ।
ऋतस्य । योनिम् । आऽसदम् ॥índrāya ǀ indo íti ǀ marútvate ǀ pávasva ǀ mádhumat-tamaḥ ǀ
ṛtásya ǀ yónim ǀ ā-sádam ǁindrāya ǀ indo iti ǀ marutvate ǀ pavasva ǀ madhumat-tamaḥ ǀ
ṛtasya ǀ yonim ǀ ā-sadam ǁ9.64.22 Aṣṭaka 7.1.40.2Anuvāka 9.3.112
-
Ṛk 23
तं त्वा॒ विप्रा॑ वचो॒विदः॒ परि॑ ष्कृण्वंति वे॒धसः॑ ।
सं त्वा॑ मृजंत्या॒यवः॑ ॥तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः |
सं त्वा मृजन्त्य् आयवः ||tám tvā víprā vacovídaḥ pári ṣkṛṇvanti vedhásaḥ ǀ
sám tvā mṛjantyāyávaḥ ǁtaṃ tvā viprā vacovidaḥ pari ṣkṛṇvanti vedhasaḥ |
saṃ tvā mṛjanty āyavaḥ ||तम् । त्वा॒ । विप्राः॑ । व॒चः॒ऽविदः॑ । परि॑ । कृ॒ण्व॒न्ति॒ । वे॒धसः॑ ।
सम् । त्वा॒ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥तम् । त्वा । विप्राः । वचःऽविदः । परि । कृण्वन्ति । वेधसः ।
सम् । त्वा । मृजन्ति । आयवः ॥tám ǀ tvā ǀ víprāḥ ǀ vacaḥ-vídaḥ ǀ pári ǀ kṛṇvanti ǀ vedhásaḥ ǀ
sám ǀ tvā ǀ mṛjanti ǀ āyávaḥ ǁtam ǀ tvā ǀ viprāḥ ǀ vacaḥ-vidaḥ ǀ pari ǀ kṛṇvanti ǀ vedhasaḥ ǀ
sam ǀ tvā ǀ mṛjanti ǀ āyavaḥ ǁ9.64.23 Aṣṭaka 7.1.40.3Anuvāka 9.3.113
-
Ṛk 24
रसं॑ ते मि॒त्रो अ॑र्य॒मा पिबं॑ति॒ वरु॑णः कवे ।
पव॑मानस्य म॒रुतः॑ ॥रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे |
पवमानस्य मरुतः ||rásam te mitró aryamā́ píbanti váruṇaḥ kave ǀ
pávamānasya marútaḥ ǁrasaṃ te mitro aryamā pibanti varuṇaḥ kave |
pavamānasya marutaḥ ||रस॑म् । ते॒ । मि॒त्रः । अ॒र्य॒मा । पिब॑न्ति । वरु॑णः । क॒वे॒ ।
पव॑मानस्य । म॒रुतः॑ ॥रसम् । ते । मित्रः । अर्यमा । पिबन्ति । वरुणः । कवे ।
पवमानस्य । मरुतः ॥rásam ǀ te ǀ mitráḥ ǀ aryamā́ ǀ píbanti ǀ váruṇaḥ ǀ kave ǀ
pávamānasya ǀ marútaḥ ǁrasam ǀ te ǀ mitraḥ ǀ aryamā ǀ pibanti ǀ varuṇaḥ ǀ kave ǀ
pavamānasya ǀ marutaḥ ǁ9.64.24 Aṣṭaka 7.1.40.4Anuvāka 9.3.114
-
Ṛk 25
त्वं सो॑म विप॒श्चितं॑ पुना॒नो वाच॑मिष्यसि ।
इंदो॑ स॒हस्र॑भर्णसं ॥त्वं सोम विपश्चितम् पुनानो वाचम् इष्यसि |
इन्दो सहस्रभर्णसम् ||tvám soma vipaścítam punānó vā́camiṣyasi ǀ
índo sahásrabharṇasam ǁtvaṃ soma vipaścitam punāno vācam iṣyasi |
indo sahasrabharṇasam ||त्वम् । सो॒म॒ । वि॒पः॒ऽचित॑म् । पु॒ना॒नः । वाच॑म् । इ॒ष्य॒सि॒ ।
इन्दो॒ इति॑ । स॒हस्र॑ऽभर्णसम् ॥त्वम् । सोम । विपःऽचितम् । पुनानः । वाचम् । इष्यसि ।
इन्दो इति । सहस्रऽभर्णसम् ॥tvám ǀ soma ǀ vipaḥ-cítam ǀ punānáḥ ǀ vā́cam ǀ iṣyasi ǀ
índo íti ǀ sahásra-bharṇasam ǁtvam ǀ soma ǀ vipaḥ-citam ǀ punānaḥ ǀ vācam ǀ iṣyasi ǀ
indo iti ǀ sahasra-bharṇasam ǁ9.64.25 Aṣṭaka 7.1.40.5Anuvāka 9.3.115
-
Ṛk 26
उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युवं॑ ।
पु॒ना॒न इं॑द॒वा भ॑र ॥उतो सहस्रभर्णसं वाचं सोम मखस्युवम् |
पुनान इन्दव् आ भर ||utó sahásrabharṇasam vā́cam soma makhasyúvam ǀ
punāná indavā́ bhara ǁuto sahasrabharṇasaṃ vācaṃ soma makhasyuvam |
punāna indav ā bhara ||उ॒तो इति॑ । स॒हस्र॑ऽभर्णसम् । वाच॑म् । सो॒म॒ । म॒ख॒स्युव॑म् ।
पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥उतो इति । सहस्रऽभर्णसम् । वाचम् । सोम । मखस्युवम् ।
पुनानः । इन्दो इति । आ । भर ॥utó íti ǀ sahásra-bharṇasam ǀ vā́cam ǀ soma ǀ makhasyúvam ǀ
punānáḥ ǀ indo íti ǀ ā́ ǀ bhara ǁuto iti ǀ sahasra-bharṇasam ǀ vācam ǀ soma ǀ makhasyuvam ǀ
punānaḥ ǀ indo iti ǀ ā ǀ bhara ǁ9.64.26 Aṣṭaka 7.1.41.1Anuvāka 9.3.116
-
Ṛk 27
पु॒ना॒न इं॑दवेषां॒ पुरु॑हूत॒ जना॑नां ।
प्रि॒यः स॑मु॒द्रमा वि॑श ॥पुनान इन्दव् एषाम् पुरुहूत जनानाम् |
प्रियः समुद्रम् आ विश ||punāná indaveṣām púruhūta jánānām ǀ
priyáḥ samudrámā́ viśa ǁpunāna indav eṣām puruhūta janānām |
priyaḥ samudram ā viśa ||पु॒ना॒नः । इ॒न्दो॒ इति॑ । ए॒षा॒म् । पुरु॑ऽहूत । जना॑नाम् ।
प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥पुनानः । इन्दो इति । एषाम् । पुरुऽहूत । जनानाम् ।
प्रियः । समुद्रम् । आ । विश ॥punānáḥ ǀ indo íti ǀ eṣām ǀ púru-hūta ǀ jánānām ǀ
priyáḥ ǀ samudrám ǀ ā́ ǀ viśa ǁpunānaḥ ǀ indo iti ǀ eṣām ǀ puru-hūta ǀ janānām ǀ
priyaḥ ǀ samudram ǀ ā ǀ viśa ǁ9.64.27 Aṣṭaka 7.1.41.2Anuvāka 9.3.117
-
Ṛk 28
दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभं॑त्या कृ॒पा ।
सोमाः॑ शु॒क्रा गवा॑शिरः ॥दविद्युतत्या रुचा परिष्टोभन्त्या कृपा |
सोमाः शुक्रा गवाशिरः ||dávidyutatyā rucā́ pariṣṭóbhantyā kṛpā́ ǀ
sómāḥ śukrā́ gávāśiraḥ ǁdavidyutatyā rucā pariṣṭobhantyā kṛpā |
somāḥ śukrā gavāśiraḥ ||दवि॑द्युतत्या । रु॒चा । प॒रि॒ऽस्तोभ॑न्त्या । कृ॒पा ।
सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥दविद्युतत्या । रुचा । परिऽस्तोभन्त्या । कृपा ।
सोमाः । शुक्राः । गोऽआशिरः ॥dávidyutatyā ǀ rucā́ ǀ pari-stóbhantyā ǀ kṛpā́ ǀ
sómāḥ ǀ śukrā́ḥ ǀ gó-āśiraḥ ǁdavidyutatyā ǀ rucā ǀ pari-stobhantyā ǀ kṛpā ǀ
somāḥ ǀ śukrāḥ ǀ go-āśiraḥ ǁ9.64.28 Aṣṭaka 7.1.41.3Anuvāka 9.3.118
-
Ṛk 29
हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं॑ वा॒ज्य॑क्रमीत् ।
सीदं॑तो व॒नुषो॑ यथा ॥हिन्वानो हेतृभिर् यत आ वाजं वाज्य् अक्रमीत् |
सीदन्तो वनुषो यथा ||hinvānó hetṛ́bhiryatá ā́ vā́jam vājyákramīt ǀ
sī́danto vanúṣo yathā ǁhinvāno hetṛbhir yata ā vājaṃ vājy akramīt |
sīdanto vanuṣo yathā ||हि॒न्वा॒नः । हे॒तृऽभिः॑ । य॒तः । आ । वाज॑म् । वा॒जी । अ॒क्र॒मी॒त् ।
सीद॑न्तः । व॒नुषः॑ । य॒था॒ ॥हिन्वानः । हेतृऽभिः । यतः । आ । वाजम् । वाजी । अक्रमीत् ।
सीदन्तः । वनुषः । यथा ॥hinvānáḥ ǀ hetṛ́-bhiḥ ǀ yatáḥ ǀ ā́ ǀ vā́jam ǀ vājī́ ǀ akramīt ǀ
sī́dantaḥ ǀ vanúṣaḥ ǀ yathā ǁhinvānaḥ ǀ hetṛ-bhiḥ ǀ yataḥ ǀ ā ǀ vājam ǀ vājī ǀ akramīt ǀ
sīdantaḥ ǀ vanuṣaḥ ǀ yathā ǁ9.64.29 Aṣṭaka 7.1.41.4Anuvāka 9.3.119
-
Ṛk 30
ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः ।
पव॑स्व॒ सूर्यो॑ दृ॒शे ॥ऋधक् सोम स्वस्तये संजग्मानो दिवः कविः |
पवस्व सूर्यो दृशे ||ṛdháksoma svastáye saṃjagmānó diváḥ kavíḥ ǀ
pávasva sū́ryo dṛśé ǁṛdhak soma svastaye saṃjagmāno divaḥ kaviḥ |
pavasva sūryo dṛśe ||ऋ॒धक् । सो॒म॒ । स्व॒स्तये॑ । स॒म्ऽज॒ग्मा॒नः । दि॒वः । क॒विः ।
पव॑स्व । सूर्यः॑ । दृ॒शे ॥ऋधक् । सोम । स्वस्तये । सम्ऽजग्मानः । दिवः । कविः ।
पवस्व । सूर्यः । दृशे ॥ṛdhák ǀ soma ǀ svastáye ǀ sam-jagmānáḥ ǀ diváḥ ǀ kavíḥ ǀ
pávasva ǀ sū́ryaḥ ǀ dṛśé ǁṛdhak ǀ soma ǀ svastaye ǀ sam-jagmānaḥ ǀ divaḥ ǀ kaviḥ ǀ
pavasva ǀ sūryaḥ ǀ dṛśe ǁ9.64.30 Aṣṭaka 7.1.41.5Anuvāka 9.3.120
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.