Sūkta 67
- Devatā देवता
- 1-9, 11-22, 28-30: Soma Pavamāna; 10: Pūṣan; 23, 24: Agni; 25: Savitṛ; 26: Agni, Savitṛ; 27: Agni, Viśvedevās; 31, 32: Praise Of The Student Of The Pāvamānī Hymns
- Ṛṣi ऋषि
- 1-3: Bharadvāja Bārhaspatya; 4-6: Kaśyapa Mārīca; 7-9: Gotama Rāhūgaṇa; 10-12: Atri; 13-15: Viśvāmitra; 16-18: Jamadagni Bhārgava; 19-21: Vasiṣṭha Maitrāvaruṇi; 22-32: Pavitra Āṅgirasa Or Vasiṣṭha Maitrāvaruṇi Or Both Together
- Chandas छन्दस्
- Gāyatrī, Dvipadā Gāyatrī, Anuṣṭubh, Pura-Uṣṇih
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 2, 4, 5, 11-13, 15, 19, 23, 25); gāyatrī (6, 7, 9, 14, 20-22, 24, 26, 28, 29); virāḍārcīgāyatrī (16-18); virāḍgāyatrī (3, 8); nicṛdanuṣṭup (31, 32); yavamadhyāgāyatrī (10); anuṣṭup (27); purauṣṇik (30)
2nd set of styles gāyatrī (1-15, 19-26, 28, 29); dvipadā gāyatrī (16-18); anuṣṭubh (27, 31, 32); pura-uṣṇih (30)
-
Ṛk 1
त्वं सो॑मासि धार॒युर्मं॒द्र ओजि॑ष्ठो अध्व॒रे ।
पव॑स्व मंह॒यद्र॑यिः ॥त्वं सोमासि धारयुर् मन्द्र ओजिष्ठो अध्वरे |
पवस्व मंहयद्रयिः ||tvám somāsi dhārayúrmandrá ójiṣṭho adhvaré ǀ
pávasva maṃhayádrayiḥ ǁtvaṃ somāsi dhārayur mandra ojiṣṭho adhvare |
pavasva maṃhayadrayiḥ ||त्वम् । सो॒म॒ । अ॒सि॒ । धा॒र॒युः । म॒न्द्रः । ओजि॑ष्ठः । अ॒ध्व॒रे ।
पव॑स्व । मं॒ह॒यत्ऽर॑यिः ॥त्वम् । सोम । असि । धारयुः । मन्द्रः । ओजिष्ठः । अध्वरे ।
पवस्व । मंहयत्ऽरयिः ॥tvám ǀ soma ǀ asi ǀ dhārayúḥ ǀ mandráḥ ǀ ójiṣṭhaḥ ǀ adhvaré ǀ
pávasva ǀ maṃhayát-rayiḥ ǁtvam ǀ soma ǀ asi ǀ dhārayuḥ ǀ mandraḥ ǀ ojiṣṭhaḥ ǀ adhvare ǀ
pavasva ǀ maṃhayat-rayiḥ ǁ9.67.1 Aṣṭaka 7.2.13.1Anuvāka 9.3.181
-
Ṛk 2
त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिंत॑मः ।
इंद्रा॑य सू॒रिरंध॑सा ॥त्वं सुतो नृमादनो दधन्वान् मत्सरिन्तमः |
इन्द्राय सूरिर् अन्धसा ||tvám sutó nṛmā́dano dadhanvā́nmatsaríntamaḥ ǀ
índrāya sūrírándhasā ǁtvaṃ suto nṛmādano dadhanvān matsarintamaḥ |
indrāya sūrir andhasā ||त्वम् । सु॒तः । नृ॒ऽमाद॑नः । द॒ध॒न्वान् । म॒त्स॒रिन्ऽत॑मः ।
इन्द्रा॑य । सू॒रिः । अन्ध॑सा ॥त्वम् । सुतः । नृऽमादनः । दधन्वान् । मत्सरिन्ऽतमः ।
इन्द्राय । सूरिः । अन्धसा ॥tvám ǀ sutáḥ ǀ nṛ-mā́danaḥ ǀ dadhanvā́n ǀ matsarín-tamaḥ ǀ
índrāya ǀ sūríḥ ǀ ándhasā ǁtvam ǀ sutaḥ ǀ nṛ-mādanaḥ ǀ dadhanvān ǀ matsarin-tamaḥ ǀ
indrāya ǀ sūriḥ ǀ andhasā ǁ9.67.2 Aṣṭaka 7.2.13.2Anuvāka 9.3.182
-
Ṛk 3
त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् ।
द्यु॒मंतं॒ शुष्म॑मुत्त॒मं ॥त्वं सुष्वाणो अद्रिभिर् अभ्य् अर्ष कनिक्रदत् |
द्युमन्तं शुष्मम् उत्तमम् ||tvám suṣvāṇó ádribhirabhyárṣa kánikradat ǀ
dyumántam śúṣmamuttamám ǁtvaṃ suṣvāṇo adribhir abhy arṣa kanikradat |
dyumantaṃ śuṣmam uttamam ||त्वम् । सु॒स्वा॒नः । अद्रि॑ऽभिः । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् ।
द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥त्वम् । सुस्वानः । अद्रिऽभिः । अभि । अर्ष । कनिक्रदत् ।
द्युऽमन्तम् । शुष्मम् । उत्ऽतमम् ॥tvám ǀ susvānáḥ ǀ ádri-bhiḥ ǀ abhí ǀ arṣa ǀ kánikradat ǀ
dyu-mántam ǀ śúṣmam ǀ ut-tamám ǁtvam ǀ susvānaḥ ǀ adri-bhiḥ ǀ abhi ǀ arṣa ǀ kanikradat ǀ
dyu-mantam ǀ śuṣmam ǀ ut-tamam ǁ9.67.3 Aṣṭaka 7.2.13.3Anuvāka 9.3.183
-
Ṛk 4
इंदु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ ।
हरि॒र्वाज॑मचिक्रदत् ॥इन्दुर् हिन्वानो अर्षति तिरो वाराण्य् अव्यया |
हरिर् वाजम् अचिक्रदत् ||índurhinvānó arṣati tiró vā́rāṇyavyáyā ǀ
hárirvā́jamacikradat ǁindur hinvāno arṣati tiro vārāṇy avyayā |
harir vājam acikradat ||इन्दुः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ । ति॒रः । वारा॑णि । अ॒व्यया॑ ।
हरिः॑ । वाज॑म् । अ॒चि॒क्र॒द॒त् ॥इन्दुः । हिन्वानः । अर्षति । तिरः । वाराणि । अव्यया ।
हरिः । वाजम् । अचिक्रदत् ॥índuḥ ǀ hinvānáḥ ǀ arṣati ǀ tiráḥ ǀ vā́rāṇi ǀ avyáyā ǀ
háriḥ ǀ vā́jam ǀ acikradat ǁinduḥ ǀ hinvānaḥ ǀ arṣati ǀ tiraḥ ǀ vārāṇi ǀ avyayā ǀ
hariḥ ǀ vājam ǀ acikradat ǁ9.67.4 Aṣṭaka 7.2.13.4Anuvāka 9.3.184
-
Ṛk 5
इंदो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा ।
वि वाजा॑न्त्सोम॒ गोम॑तः ॥इन्दो व्य् अव्यम् अर्षसि वि श्रवांसि वि सौभगा |
वि वाजान् सोम गोमतः ||índo vyávyamarṣasi ví śrávāṃsi ví sáubhagā ǀ
ví vā́jāntsoma gómataḥ ǁindo vy avyam arṣasi vi śravāṃsi vi saubhagā |
vi vājān soma gomataḥ ||इन्दो॒ इति॑ । वि । अव्य॑म् । अ॒र्ष॒सि॒ । वि । श्रवां॑सि । वि । सौभ॑गा ।
वि । वाजा॑न् । सो॒म॒ । गोऽम॑तः ॥इन्दो इति । वि । अव्यम् । अर्षसि । वि । श्रवांसि । वि । सौभगा ।
वि । वाजान् । सोम । गोऽमतः ॥índo íti ǀ ví ǀ ávyam ǀ arṣasi ǀ ví ǀ śrávāṃsi ǀ ví ǀ sáubhagā ǀ
ví ǀ vā́jān ǀ soma ǀ gó-mataḥ ǁindo iti ǀ vi ǀ avyam ǀ arṣasi ǀ vi ǀ śravāṃsi ǀ vi ǀ saubhagā ǀ
vi ǀ vājān ǀ soma ǀ go-mataḥ ǁ9.67.5 Aṣṭaka 7.2.13.5Anuvāka 9.3.185
-
Ṛk 6
आ न॑ इंदो शत॒ग्विनं॑ र॒यिं गोमं॑तम॒श्विनं॑ ।
भरा॑ सोम सह॒स्रिणं॑ ॥आ न इन्दो शतग्विनं रयिं गोमन्तम् अश्विनम् |
भरा सोम सहस्रिणम् ||ā́ na indo śatagvínam rayím gómantamaśvínam ǀ
bhárā soma sahasríṇam ǁā na indo śatagvinaṃ rayiṃ gomantam aśvinam |
bharā soma sahasriṇam ||आ । नः॒ । इ॒न्दो॒ इति॑ । श॒त॒ऽग्विन॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
भर॑ । सो॒म॒ । स॒ह॒स्रिण॑म् ॥आ । नः । इन्दो इति । शतऽग्विनम् । रयिम् । गोऽमन्तम् । अश्विनम् ।
भर । सोम । सहस्रिणम् ॥ā́ ǀ naḥ ǀ indo íti ǀ śata-gvínam ǀ rayím ǀ gó-mantam ǀ aśvínam ǀ
bhára ǀ soma ǀ sahasríṇam ǁā ǀ naḥ ǀ indo iti ǀ śata-gvinam ǀ rayim ǀ go-mantam ǀ aśvinam ǀ
bhara ǀ soma ǀ sahasriṇam ǁ9.67.6 Aṣṭaka 7.2.14.1Anuvāka 9.3.186
-
Ṛk 7
पव॑मानास॒ इंद॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
इंद्रं॒ यामे॑भिराशत ॥पवमानास इन्दवस् तिरः पवित्रम् आशवः |
इन्द्रं यामेभिर् आशत ||pávamānāsa índavastiráḥ pavítramāśávaḥ ǀ
índram yā́mebhirāśata ǁpavamānāsa indavas tiraḥ pavitram āśavaḥ |
indraṃ yāmebhir āśata ||पव॑मानासः । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ ।
इन्द्र॑म् । यामे॑भिः । आ॒श॒त॒ ॥पवमानासः । इन्दवः । तिरः । पवित्रम् । आशवः ।
इन्द्रम् । यामेभिः । आशत ॥pávamānāsaḥ ǀ índavaḥ ǀ tiráḥ ǀ pavítram ǀ āśávaḥ ǀ
índram ǀ yā́mebhiḥ ǀ āśata ǁpavamānāsaḥ ǀ indavaḥ ǀ tiraḥ ǀ pavitram ǀ āśavaḥ ǀ
indram ǀ yāmebhiḥ ǀ āśata ǁ9.67.7 Aṣṭaka 7.2.14.2Anuvāka 9.3.187
-
Ṛk 8
क॒कु॒हः सो॒म्यो रस॒ इंदु॒रिंद्रा॑य पू॒र्व्यः ।
आ॒युः प॑वत आ॒यवे॑ ॥ककुहः सोम्यो रस इन्दुर् इन्द्राय पूर्व्यः |
आयुः पवत आयवे ||kakuháḥ somyó rása índuríndrāya pūrvyáḥ ǀ
āyúḥ pavata āyáve ǁkakuhaḥ somyo rasa indur indrāya pūrvyaḥ |
āyuḥ pavata āyave ||क॒कु॒हः । सो॒म्यः । रसः॑ । इन्दुः॑ । इन्द्रा॑य । पू॒र्व्यः ।
आ॒युः । प॒व॒ते॒ । आ॒यवे॑ ॥ककुहः । सोम्यः । रसः । इन्दुः । इन्द्राय । पूर्व्यः ।
आयुः । पवते । आयवे ॥kakuháḥ ǀ somyáḥ ǀ rásaḥ ǀ índuḥ ǀ índrāya ǀ pūrvyáḥ ǀ
āyúḥ ǀ pavate ǀ āyáve ǁkakuhaḥ ǀ somyaḥ ǀ rasaḥ ǀ induḥ ǀ indrāya ǀ pūrvyaḥ ǀ
āyuḥ ǀ pavate ǀ āyave ǁ9.67.8 Aṣṭaka 7.2.14.3Anuvāka 9.3.188
-
Ṛk 9
हि॒न्वंति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुतं॑ ।
अ॒भि गि॒रा सम॑स्वरन् ॥हिन्वन्ति सूरम् उस्रयः पवमानम् मधुश्चुतम् |
अभि गिरा सम् अस्वरन् ||hinvánti sū́ramúsrayaḥ pávamānam madhuścútam ǀ
abhí girā́ sámasvaran ǁhinvanti sūram usrayaḥ pavamānam madhuścutam |
abhi girā sam asvaran ||हि॒न्वन्ति॑ । सूर॑म् । उस्र॑यः । पव॑मानम् । म॒धु॒ऽश्चुत॑म् ।
अ॒भि । गि॒रा । सम् । अ॒स्व॒र॒न् ॥हिन्वन्ति । सूरम् । उस्रयः । पवमानम् । मधुऽश्चुतम् ।
अभि । गिरा । सम् । अस्वरन् ॥hinvánti ǀ sū́ram ǀ úsrayaḥ ǀ pávamānam ǀ madhu-ścútam ǀ
abhí ǀ girā́ ǀ sám ǀ asvaran ǁhinvanti ǀ sūram ǀ usrayaḥ ǀ pavamānam ǀ madhu-ścutam ǀ
abhi ǀ girā ǀ sam ǀ asvaran ǁ9.67.9 Aṣṭaka 7.2.14.4Anuvāka 9.3.189
-
Ṛk 10
अ॒वि॒ता नो॑ अ॒जाश्वः॑ पू॒षा याम॑नियामनि ।
आ भ॑क्षत्क॒न्या॑सु नः ॥अविता नो अजाश्वः पूषा यामनि-यामनि |
आ भक्षत् कन्यासु नः ||avitā́ no ajā́śvaḥ pūṣā́ yā́maniyāmani ǀ
ā́ bhakṣatkanyā́su naḥ ǁavitā no ajāśvaḥ pūṣā yāmani-yāmani |
ā bhakṣat kanyāsu naḥ ||अ॒वि॒ता । नः॒ । अ॒जऽअ॑श्वः । पू॒षा । याम॑निऽयामनि ।
आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥अविता । नः । अजऽअश्वः । पूषा । यामनिऽयामनि ।
आ । भक्षत् । कन्यासु । नः ॥avitā́ ǀ naḥ ǀ ajá-aśvaḥ ǀ pūṣā́ ǀ yā́mani-yāmani ǀ
ā́ ǀ bhakṣat ǀ kanyā́su ǀ naḥ ǁavitā ǀ naḥ ǀ aja-aśvaḥ ǀ pūṣā ǀ yāmani-yāmani ǀ
ā ǀ bhakṣat ǀ kanyāsu ǀ naḥ ǁ9.67.10 Aṣṭaka 7.2.14.5Anuvāka 9.3.190
-
Ṛk 11
अ॒यं सोमः॑ कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ ।
आ भ॑क्षत्क॒न्या॑सु नः ॥अयं सोमः कपर्दिने घृतं न पवते मधु |
आ भक्षत् कन्यासु नः ||ayám sómaḥ kapardíne ghṛtám ná pavate mádhu ǀ
ā́ bhakṣatkanyā́su naḥ ǁayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu |
ā bhakṣat kanyāsu naḥ ||अ॒यम् । सोमः॑ । क॒प॒र्दिने॑ । घृ॒तम् । न । प॒व॒ते॒ । मधु॑ ।
आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥अयम् । सोमः । कपर्दिने । घृतम् । न । पवते । मधु ।
आ । भक्षत् । कन्यासु । नः ॥ayám ǀ sómaḥ ǀ kapardíne ǀ ghṛtám ǀ ná ǀ pavate ǀ mádhu ǀ
ā́ ǀ bhakṣat ǀ kanyā́su ǀ naḥ ǁayam ǀ somaḥ ǀ kapardine ǀ ghṛtam ǀ na ǀ pavate ǀ madhu ǀ
ā ǀ bhakṣat ǀ kanyāsu ǀ naḥ ǁ9.67.11 Aṣṭaka 7.2.15.1Anuvāka 9.3.191
-
Ṛk 12
अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ ।
आ भ॑क्षत्क॒न्या॑सु नः ॥अयं त आघृणे सुतो घृतं न पवते शुचि |
आ भक्षत् कन्यासु नः ||ayám ta āghṛṇe sutó ghṛtám ná pavate śúci ǀ
ā́ bhakṣatkanyā́su naḥ ǁayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci |
ā bhakṣat kanyāsu naḥ ||अ॒यम् । ते॒ । आ॒घृ॒णे॒ । सु॒तः । घृ॒तम् । न । प॒व॒ते॒ । शुचि॑ ।
आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥अयम् । ते । आघृणे । सुतः । घृतम् । न । पवते । शुचि ।
आ । भक्षत् । कन्यासु । नः ॥ayám ǀ te ǀ āghṛṇe ǀ sutáḥ ǀ ghṛtám ǀ ná ǀ pavate ǀ śúci ǀ
ā́ ǀ bhakṣat ǀ kanyā́su ǀ naḥ ǁayam ǀ te ǀ āghṛṇe ǀ sutaḥ ǀ ghṛtam ǀ na ǀ pavate ǀ śuci ǀ
ā ǀ bhakṣat ǀ kanyāsu ǀ naḥ ǁ9.67.12 Aṣṭaka 7.2.15.2Anuvāka 9.3.192
-
Ṛk 13
वा॒चो जं॒तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या ।
दे॒वेषु॑ रत्न॒धा अ॑सि ॥वाचो जन्तुः कवीनाम् पवस्व सोम धारया |
देवेषु रत्नधा असि ||vācó jantúḥ kavīnā́m pávasva soma dhā́rayā ǀ
devéṣu ratnadhā́ asi ǁvāco jantuḥ kavīnām pavasva soma dhārayā |
deveṣu ratnadhā asi ||वा॒चः । ज॒न्तुः । क॒वी॒नाम् । पव॑स्व । सो॒म॒ । धार॑या ।
दे॒वेषु॑ । र॒त्न॒ऽधाः । अ॒सि॒ ॥वाचः । जन्तुः । कवीनाम् । पवस्व । सोम । धारया ।
देवेषु । रत्नऽधाः । असि ॥vācáḥ ǀ jantúḥ ǀ kavīnā́m ǀ pávasva ǀ soma ǀ dhā́rayā ǀ
devéṣu ǀ ratna-dhā́ḥ ǀ asi ǁvācaḥ ǀ jantuḥ ǀ kavīnām ǀ pavasva ǀ soma ǀ dhārayā ǀ
deveṣu ǀ ratna-dhāḥ ǀ asi ǁ9.67.13 Aṣṭaka 7.2.15.3Anuvāka 9.3.193
-
Ṛk 14
आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।
अ॒भि द्रोणा॒ कनि॑क्रदत् ॥आ कलशेषु धावति श्येनो वर्म वि गाहते |
अभि द्रोणा कनिक्रदत् ||ā́ kaláśeṣu dhāvati śyenó várma ví gāhate ǀ
abhí dróṇā kánikradat ǁā kalaśeṣu dhāvati śyeno varma vi gāhate |
abhi droṇā kanikradat ||आ । क॒लशे॑षु । धा॒व॒ति॒ । श्ये॒नः । वर्म॑ । वि । गा॒ह॒ते॒ ।
अ॒भि । द्रोणा॑ । कनि॑क्रदत् ॥आ । कलशेषु । धावति । श्येनः । वर्म । वि । गाहते ।
अभि । द्रोणा । कनिक्रदत् ॥ā́ ǀ kaláśeṣu ǀ dhāvati ǀ śyenáḥ ǀ várma ǀ ví ǀ gāhate ǀ
abhí ǀ dróṇā ǀ kánikradat ǁā ǀ kalaśeṣu ǀ dhāvati ǀ śyenaḥ ǀ varma ǀ vi ǀ gāhate ǀ
abhi ǀ droṇā ǀ kanikradat ǁ9.67.14 Aṣṭaka 7.2.15.4Anuvāka 9.3.194
-
Ṛk 15
परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः ।
श्ये॒नो न त॒क्तो अ॑र्षति ॥परि प्र सोम ते रसो ऽसर्जि कलशे सुतः |
श्येनो न तक्तो अर्षति ||pári prá soma te rásó’sarji kaláśe sutáḥ ǀ
śyenó ná taktó arṣati ǁpari pra soma te raso 'sarji kalaśe sutaḥ |
śyeno na takto arṣati ||परि॑ । प्र । सो॒म॒ । ते॒ । रसः॑ । अस॑र्जि । क॒लशे॑ । सु॒तः ।
श्ये॒नः । न । त॒क्तः । अ॒र्ष॒ति॒ ॥परि । प्र । सोम । ते । रसः । असर्जि । कलशे । सुतः ।
श्येनः । न । तक्तः । अर्षति ॥pári ǀ prá ǀ soma ǀ te ǀ rásaḥ ǀ ásarji ǀ kaláśe ǀ sutáḥ ǀ
śyenáḥ ǀ ná ǀ taktáḥ ǀ arṣati ǁpari ǀ pra ǀ soma ǀ te ǀ rasaḥ ǀ asarji ǀ kalaśe ǀ sutaḥ ǀ
śyenaḥ ǀ na ǀ taktaḥ ǀ arṣati ǁ9.67.15 Aṣṭaka 7.2.15.5Anuvāka 9.3.195
-
Ṛk 16
पव॑स्व सोम मं॒दय॒न्निंद्रा॑य॒ मधु॑मत्तमः ॥
पवस्व सोम मन्दयन्न् इन्द्राय मधुमत्तमः ||
pávasva soma mandáyanníndrāya mádhumattamaḥ ǁ
pavasva soma mandayann indrāya madhumattamaḥ ||
पव॑स्व । सो॒म॒ । म॒न्दय॑न् । इन्द्रा॑य । मधु॑मत्ऽतमः ॥
पवस्व । सोम । मन्दयन् । इन्द्राय । मधुमत्ऽतमः ॥
pávasva ǀ soma ǀ mandáyan ǀ índrāya ǀ mádhumat-tamaḥ ǁ
pavasva ǀ soma ǀ mandayan ǀ indrāya ǀ madhumat-tamaḥ ǁ
9.67.16 Aṣṭaka 7.2.16.1Anuvāka 9.3.196
-
Ṛk 17
असृ॑ग्रंदे॒ववी॑तये वाज॒यंतो॒ रथा॑ इव ॥
असृग्रन् देववीतये वाजयन्तो रथा इव ||
ásṛgrandevávītaye vājayánto ráthā iva ǁ
asṛgran devavītaye vājayanto rathā iva ||
असृ॑ग्रन् । दे॒वऽवी॑तये । वा॒ज॒ऽयन्तः॑ । रथाः॑ऽइव ॥
असृग्रन् । देवऽवीतये । वाजऽयन्तः । रथाःऽइव ॥
ásṛgran ǀ devá-vītaye ǀ vāja-yántaḥ ǀ ráthāḥ-iva ǁ
asṛgran ǀ deva-vītaye ǀ vāja-yantaḥ ǀ rathāḥ-iva ǁ
9.67.17 Aṣṭaka 7.2.16.2Anuvāka 9.3.197
-
Ṛk 18
ते सु॒तासो॑ म॒दिंत॑माः शु॒क्रा वा॒युम॑सृक्षत ॥
ते सुतासो मदिन्तमाः शुक्रा वायुम् असृक्षत ||
té sutā́so madíntamāḥ śukrā́ vāyúmasṛkṣata ǁ
te sutāso madintamāḥ śukrā vāyum asṛkṣata ||
ते । सु॒तासः॑ । म॒दिन्ऽत॑माः । शु॒क्राः । वा॒युम् । अ॒सृ॒क्ष॒त॒ ॥
ते । सुतासः । मदिन्ऽतमाः । शुक्राः । वायुम् । असृक्षत ॥
té ǀ sutā́saḥ ǀ madín-tamāḥ ǀ śukrā́ḥ ǀ vāyúm ǀ asṛkṣata ǁ
te ǀ sutāsaḥ ǀ madin-tamāḥ ǀ śukrāḥ ǀ vāyum ǀ asṛkṣata ǁ
9.67.18 Aṣṭaka 7.2.16.3Anuvāka 9.3.198
-
Ṛk 19
ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि ।
दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि |
दधत् स्तोत्रे सुवीर्यम् ||grā́vṇā tunnó abhíṣṭutaḥ pavítram soma gacchasi ǀ
dádhatstotré suvī́ryam ǁgrāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gacchasi |
dadhat stotre suvīryam ||ग्राव्णा॑ । तु॒न्नः । अ॒भिऽस्तु॑तः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ ।
दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥ग्राव्णा । तुन्नः । अभिऽस्तुतः । पवित्रम् । सोम । गच्छसि ।
दधत् । स्तोत्रे । सुऽवीर्यम् ॥grā́vṇā ǀ tunnáḥ ǀ abhí-stutaḥ ǀ pavítram ǀ soma ǀ gacchasi ǀ
dádhat ǀ stotré ǀ su-vī́ryam ǁgrāvṇā ǀ tunnaḥ ǀ abhi-stutaḥ ǀ pavitram ǀ soma ǀ gacchasi ǀ
dadhat ǀ stotre ǀ su-vīryam ǁ9.67.19 Aṣṭaka 7.2.16.4Anuvāka 9.3.199
-
Ṛk 20
ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते ।
र॒क्षो॒हा वार॑म॒व्ययं॑ ॥एष तुन्नो अभिष्टुतः पवित्रम् अति गाहते |
रक्षोहा वारम् अव्ययम् ||eṣá tunnó abhíṣṭutaḥ pavítramáti gāhate ǀ
rakṣohā́ vā́ramavyáyam ǁeṣa tunno abhiṣṭutaḥ pavitram ati gāhate |
rakṣohā vāram avyayam ||ए॒षः । तु॒न्नः । अ॒भिऽस्तु॑तः । प॒वित्र॑म् । अति॑ । गा॒ह॒ते॒ ।
र॒क्षः॒ऽहा । वार॑म् । अ॒व्यय॑म् ॥एषः । तुन्नः । अभिऽस्तुतः । पवित्रम् । अति । गाहते ।
रक्षःऽहा । वारम् । अव्ययम् ॥eṣáḥ ǀ tunnáḥ ǀ abhí-stutaḥ ǀ pavítram ǀ áti ǀ gāhate ǀ
rakṣaḥ-hā́ ǀ vā́ram ǀ avyáyam ǁeṣaḥ ǀ tunnaḥ ǀ abhi-stutaḥ ǀ pavitram ǀ ati ǀ gāhate ǀ
rakṣaḥ-hā ǀ vāram ǀ avyayam ǁ9.67.20 Aṣṭaka 7.2.16.5Anuvāka 9.3.200
-
Ṛk 21
यदंति॒ यच्च॑ दूर॒के भ॒यं विं॒दति॒ मामि॒ह ।
पव॑मान॒ वि तज्ज॑हि ॥यद् अन्ति यच् च दूरके भयं विन्दति माम् इह |
पवमान वि तज् जहि ||yádánti yácca dūraké bhayám vindáti mā́mihá ǀ
pávamāna ví tájjahi ǁyad anti yac ca dūrake bhayaṃ vindati mām iha |
pavamāna vi taj jahi ||यत् । अन्ति॑ । यत् । च॒ । दू॒र॒के । भ॒यम् । वि॒न्दति॑ । माम् । इ॒ह ।
पव॑मान । वि । तत् । ज॒हि॒ ॥यत् । अन्ति । यत् । च । दूरके । भयम् । विन्दति । माम् । इह ।
पवमान । वि । तत् । जहि ॥yát ǀ ánti ǀ yát ǀ ca ǀ dūraké ǀ bhayám ǀ vindáti ǀ mā́m ǀ ihá ǀ
pávamāna ǀ ví ǀ tát ǀ jahi ǁyat ǀ anti ǀ yat ǀ ca ǀ dūrake ǀ bhayam ǀ vindati ǀ mām ǀ iha ǀ
pavamāna ǀ vi ǀ tat ǀ jahi ǁ9.67.21 Aṣṭaka 7.2.17.1Anuvāka 9.3.201
-
Ṛk 22
पव॑मानः॒ सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पो॒ता स पु॑नातु नः ॥पवमानः सो अद्य नः पवित्रेण विचर्षणिः |
यः पोता स पुनातु नः ||pávamānaḥ só adyá naḥ pavítreṇa vícarṣaṇiḥ ǀ
yáḥ potā́ sá punātu naḥ ǁpavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ |
yaḥ potā sa punātu naḥ ||पव॑मानः । सः । अ॒द्य । नः॒ । प॒वित्रे॑ण । विऽच॑र्षणिः ।
यः । पो॒ता । सः । पु॒ना॒तु॒ । नः॒ ॥पवमानः । सः । अद्य । नः । पवित्रेण । विऽचर्षणिः ।
यः । पोता । सः । पुनातु । नः ॥pávamānaḥ ǀ sáḥ ǀ adyá ǀ naḥ ǀ pavítreṇa ǀ ví-carṣaṇiḥ ǀ
yáḥ ǀ potā́ ǀ sáḥ ǀ punātu ǀ naḥ ǁpavamānaḥ ǀ saḥ ǀ adya ǀ naḥ ǀ pavitreṇa ǀ vi-carṣaṇiḥ ǀ
yaḥ ǀ potā ǀ saḥ ǀ punātu ǀ naḥ ǁ9.67.22 Aṣṭaka 7.2.17.2Anuvāka 9.3.202
-
Ṛk 23
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमं॒तरा ।
ब्रह्म॒ तेन॑ पुनीहि नः ॥यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तर् आ |
ब्रह्म तेन पुनीहि नः ||yátte pavítramarcíṣyágne vítatamantárā́ ǀ
bráhma téna punīhi naḥ ǁyat te pavitram arciṣy agne vitatam antar ā |
brahma tena punīhi naḥ ||यत् । ते॒ । प॒वित्र॑म् । अ॒र्चिषि॑ । अग्ने॑ । विऽत॑तम् । अ॒न्तः । आ ।
ब्रह्म॑ । तेन॑ । पु॒नी॒हि॒ । नः॒ ॥यत् । ते । पवित्रम् । अर्चिषि । अग्ने । विऽततम् । अन्तः । आ ।
ब्रह्म । तेन । पुनीहि । नः ॥yát ǀ te ǀ pavítram ǀ arcíṣi ǀ ágne ǀ ví-tatam ǀ antáḥ ǀ ā́ ǀ
bráhma ǀ téna ǀ punīhi ǀ naḥ ǁyat ǀ te ǀ pavitram ǀ arciṣi ǀ agne ǀ vi-tatam ǀ antaḥ ǀ ā ǀ
brahma ǀ tena ǀ punīhi ǀ naḥ ǁ9.67.23 Aṣṭaka 7.2.17.3Anuvāka 9.3.203
-
Ṛk 24
यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः ।
ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥यत् ते पवित्रम् अर्चिवद् अग्ने तेन पुनीहि नः |
ब्रह्मसवैः पुनीहि नः ||yátte pavítramarcivádágne téna punīhi naḥ ǀ
brahmasaváiḥ punīhi naḥ ǁyat te pavitram arcivad agne tena punīhi naḥ |
brahmasavaiḥ punīhi naḥ ||यत् । ते॒ । प॒वित्र॑म् । अ॒र्चि॒ऽवत् । अग्ने॑ । तेन॑ । पु॒नी॒हि॒ । नः॒ ।
ब्र॒ह्म॒ऽस॒वैः । पु॒नी॒हि॒ । नः॒ ॥यत् । ते । पवित्रम् । अर्चिऽवत् । अग्ने । तेन । पुनीहि । नः ।
ब्रह्मऽसवैः । पुनीहि । नः ॥yát ǀ te ǀ pavítram ǀ arci-vát ǀ ágne ǀ téna ǀ punīhi ǀ naḥ ǀ
brahma-saváiḥ ǀ punīhi ǀ naḥ ǁyat ǀ te ǀ pavitram ǀ arci-vat ǀ agne ǀ tena ǀ punīhi ǀ naḥ ǀ
brahma-savaiḥ ǀ punīhi ǀ naḥ ǁ9.67.24 Aṣṭaka 7.2.17.4Anuvāka 9.3.204
-
Ṛk 25
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।
मां पु॑नीहि वि॒श्वतः॑ ॥उभाभ्यां देव सवितः पवित्रेण सवेन च |
माम् पुनीहि विश्वतः ||ubhā́bhyām deva savitaḥ pavítreṇa savéna ca ǀ
mā́m punīhi viśvátaḥ ǁubhābhyāṃ deva savitaḥ pavitreṇa savena ca |
mām punīhi viśvataḥ ||उ॒भाभ्या॑म् । दे॒व॒ । स॒वि॒तः॒ । प॒वित्रे॑ण । स॒वेन॑ । च॒ ।
माम् । पु॒नी॒हि॒ । वि॒श्वतः॑ ॥उभाभ्याम् । देव । सवितः । पवित्रेण । सवेन । च ।
माम् । पुनीहि । विश्वतः ॥ubhā́bhyām ǀ deva ǀ savitaḥ ǀ pavítreṇa ǀ savéna ǀ ca ǀ
mā́m ǀ punīhi ǀ viśvátaḥ ǁubhābhyām ǀ deva ǀ savitaḥ ǀ pavitreṇa ǀ savena ǀ ca ǀ
mām ǀ punīhi ǀ viśvataḥ ǁ9.67.25 Aṣṭaka 7.2.17.5Anuvāka 9.3.205
-
Ṛk 26
त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः ।
अग्ने॒ दक्षैः॑ पुनीहि नः ॥त्रिभिष् ट्वं देव सवितर् वर्षिष्ठैः सोम धामभिः |
अग्ने दक्षैः पुनीहि नः ||tribhíṣṭvám deva savitarvárṣiṣṭhaiḥ soma dhā́mabhiḥ ǀ
ágne dákṣaiḥ punīhi naḥ ǁtribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ |
agne dakṣaiḥ punīhi naḥ ||त्रि॒ऽभिः । त्वम् । दे॒व॒ । स॒वि॒तः॒ । वर्षि॑ष्ठैः । सो॒म॒ । धाम॑ऽभिः ।
अग्ने॑ । दक्षैः॑ । पु॒नी॒हि॒ । नः॒ ॥त्रिऽभिः । त्वम् । देव । सवितः । वर्षिष्ठैः । सोम । धामऽभिः ।
अग्ने । दक्षैः । पुनीहि । नः ॥tri-bhíḥ ǀ tvám ǀ deva ǀ savitaḥ ǀ várṣiṣṭhaiḥ ǀ soma ǀ dhā́ma-bhiḥ ǀ
ágne ǀ dákṣaiḥ ǀ punīhi ǀ naḥ ǁtri-bhiḥ ǀ tvam ǀ deva ǀ savitaḥ ǀ varṣiṣṭhaiḥ ǀ soma ǀ dhāma-bhiḥ ǀ
agne ǀ dakṣaiḥ ǀ punīhi ǀ naḥ ǁ9.67.26 Aṣṭaka 7.2.18.1Anuvāka 9.3.206
-
Ṛk 27
पु॒नंतु॒ मां दे॑वज॒नाः पु॒नंतु॒ वस॑वो धि॒या ।
विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥पुनन्तु मां देवजनाः पुनन्तु वसवो धिया |
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ||punántu mā́m devajanā́ḥ punántu vásavo dhiyā́ ǀ
víśve devāḥ punītá mā jā́tavedaḥ punīhí mā ǁpunantu māṃ devajanāḥ punantu vasavo dhiyā |
viśve devāḥ punīta mā jātavedaḥ punīhi mā ||पु॒नन्तु॑ । माम् । दे॒व॒ऽज॒नाः । पु॒नन्तु॑ । वस॑वः । धि॒या ।
विश्वे॑ । दे॒वाः॒ । पु॒नी॒त । मा॒ । जात॑ऽवेदः । पु॒नी॒हि । मा॒ ॥पुनन्तु । माम् । देवऽजनाः । पुनन्तु । वसवः । धिया ।
विश्वे । देवाः । पुनीत । मा । जातऽवेदः । पुनीहि । मा ॥punántu ǀ mā́m ǀ deva-janā́ḥ ǀ punántu ǀ vásavaḥ ǀ dhiyā́ ǀ
víśve ǀ devāḥ ǀ punītá ǀ mā ǀ jā́ta-vedaḥ ǀ punīhí ǀ mā ǁpunantu ǀ mām ǀ deva-janāḥ ǀ punantu ǀ vasavaḥ ǀ dhiyā ǀ
viśve ǀ devāḥ ǀ punīta ǀ mā ǀ jāta-vedaḥ ǀ punīhi ǀ mā ǁ9.67.27 Aṣṭaka 7.2.18.2Anuvāka 9.3.207
-
Ṛk 28
प्र प्या॑यस्व॒ प्र स्यं॑दस्व॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ ।
दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिर् अंशुभिः |
देवेभ्य उत्तमं हविः ||prá pyāyasva prá syandasva sóma víśvebhiraṃśúbhiḥ ǀ
devébhya uttamám havíḥ ǁpra pyāyasva pra syandasva soma viśvebhir aṃśubhiḥ |
devebhya uttamaṃ haviḥ ||प्र । प्या॒य॒स्व॒ । प्र । स्य॒न्द॒स्व॒ । सोम॑ । विश्वे॑भिः । अं॒शुऽभिः॑ ।
दे॒वेभ्यः॑ । उ॒त्ऽत॒मम् । ह॒विः ॥प्र । प्यायस्व । प्र । स्यन्दस्व । सोम । विश्वेभिः । अंशुऽभिः ।
देवेभ्यः । उत्ऽतमम् । हविः ॥prá ǀ pyāyasva ǀ prá ǀ syandasva ǀ sóma ǀ víśvebhiḥ ǀ aṃśú-bhiḥ ǀ
devébhyaḥ ǀ ut-tamám ǀ havíḥ ǁpra ǀ pyāyasva ǀ pra ǀ syandasva ǀ soma ǀ viśvebhiḥ ǀ aṃśu-bhiḥ ǀ
devebhyaḥ ǀ ut-tamam ǀ haviḥ ǁ9.67.28 Aṣṭaka 7.2.18.3Anuvāka 9.3.208
-
Ṛk 29
उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृधं॑ ।
अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥उप प्रियम् पनिप्नतं युवानम् आहुतीवृधम् |
अगन्म बिभ्रतो नमः ||úpa priyám pánipnatam yúvānamāhutīvṛ́dham ǀ
áganma bíbhrato námaḥ ǁupa priyam panipnataṃ yuvānam āhutīvṛdham |
aganma bibhrato namaḥ ||उप॑ । प्रि॒यम् । पनि॑प्नतम् । युवा॑नम् । आ॒हु॒ति॒ऽवृध॑म् ।
अग॑न्म । बिभ्र॑तः । नमः॑ ॥उप । प्रियम् । पनिप्नतम् । युवानम् । आहुतिऽवृधम् ।
अगन्म । बिभ्रतः । नमः ॥úpa ǀ priyám ǀ pánipnatam ǀ yúvānam ǀ āhuti-vṛ́dham ǀ
áganma ǀ bíbhrataḥ ǀ námaḥ ǁupa ǀ priyam ǀ panipnatam ǀ yuvānam ǀ āhuti-vṛdham ǀ
aganma ǀ bibhrataḥ ǀ namaḥ ǁ9.67.29 Aṣṭaka 7.2.18.4Anuvāka 9.3.209
-
Ṛk 30
अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम ।
आ॒खुं चि॑दे॒व दे॑व सोम ॥अलाय्यस्य परशुर् ननाश तम् आ पवस्व देव सोम |
आखुं चिद् एव देव सोम ||alā́yyasya paraśúrnanāśa támā́ pavasva deva soma ǀ
ākhúm cidevá deva soma ǁalāyyasya paraśur nanāśa tam ā pavasva deva soma |
ākhuṃ cid eva deva soma ||अ॒लाय्य॑स्य । प॒र॒शुः । न॒ना॒श॒ । तम् । आ । प॒व॒स्व॒ । दे॒व॒ । सो॒म॒ ।
आ॒खुम् । चि॒त् । ए॒व । दे॒व॒ । सो॒म॒ ॥अलाय्यस्य । परशुः । ननाश । तम् । आ । पवस्व । देव । सोम ।
आखुम् । चित् । एव । देव । सोम ॥alā́yyasya ǀ paraśúḥ ǀ nanāśa ǀ tám ǀ ā́ ǀ pavasva ǀ deva ǀ soma ǀ
ākhúm ǀ cit ǀ evá ǀ deva ǀ soma ǁalāyyasya ǀ paraśuḥ ǀ nanāśa ǀ tam ǀ ā ǀ pavasva ǀ deva ǀ soma ǀ
ākhum ǀ cit ǀ eva ǀ deva ǀ soma ǁ9.67.30 Aṣṭaka 7.2.18.5Anuvāka 9.3.210
-
Ṛk 31
यः पा॑वमा॒नीर॒ध्येत्यृषि॑भिः॒ संभृ॑तं॒ रसं॑ ।
सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥यः पावमानीर् अध्येत्य् ऋषिभिः सम्भृतं रसम् |
सर्वं स पूतम् अश्नाति स्वदितम् मातरिश्वना ||yáḥ pāvamānī́radhyétyṛ́ṣibhiḥ sámbhṛtam rásam ǀ
sárvam sá pūtámaśnāti svaditám mātaríśvanā ǁyaḥ pāvamānīr adhyety ṛṣibhiḥ sambhṛtaṃ rasam |
sarvaṃ sa pūtam aśnāti svaditam mātariśvanā ||यः । पा॒व॒मा॒नीः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः । सम्ऽभृ॑तम् । रस॑म् ।
सर्व॑म् । सः । पू॒तम् । अ॒श्ना॒ति॒ । स्व॒दि॒तम् । मा॒त॒रिश्व॑ना ॥यः । पावमानीः । अधिऽएति । ऋषिऽभिः । सम्ऽभृतम् । रसम् ।
सर्वम् । सः । पूतम् । अश्नाति । स्वदितम् । मातरिश्वना ॥yáḥ ǀ pāvamānī́ḥ ǀ adhi-éti ǀ ṛ́ṣi-bhiḥ ǀ sám-bhṛtam ǀ rásam ǀ
sárvam ǀ sáḥ ǀ pūtám ǀ aśnāti ǀ svaditám ǀ mātaríśvanā ǁyaḥ ǀ pāvamānīḥ ǀ adhi-eti ǀ ṛṣi-bhiḥ ǀ sam-bhṛtam ǀ rasam ǀ
sarvam ǀ saḥ ǀ pūtam ǀ aśnāti ǀ svaditam ǀ mātariśvanā ǁ9.67.31 Aṣṭaka 7.2.18.6Anuvāka 9.3.211
-
Ṛk 32
पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भिः॒ संभृ॑तं॒ रसं॑ ।
तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कं ॥पावमानीर् यो अध्येत्य् ऋषिभिः सम्भृतं रसम् |
तस्मै सरस्वती दुहे क्षीरं सर्पिर् मधूदकम् ||pāvamānī́ryó adhyétyṛ́ṣibhiḥ sámbhṛtam rásam ǀ
tásmai sárasvatī duhe kṣīrám sarpírmádhūdakám ǁpāvamānīr yo adhyety ṛṣibhiḥ sambhṛtaṃ rasam |
tasmai sarasvatī duhe kṣīraṃ sarpir madhūdakam ||पा॒व॒मा॒नीः । यः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः । सम्ऽभृ॑तम् । रस॑म् ।
तस्मै॑ । सर॑स्वती । दु॒हे॒ । क्षी॒रम् । स॒र्पिः । मधु॑ । उ॒द॒कम् ॥पावमानीः । यः । अधिऽएति । ऋषिऽभिः । सम्ऽभृतम् । रसम् ।
तस्मै । सरस्वती । दुहे । क्षीरम् । सर्पिः । मधु । उदकम् ॥pāvamānī́ḥ ǀ yáḥ ǀ adhi-éti ǀ ṛ́ṣi-bhiḥ ǀ sám-bhṛtam ǀ rásam ǀ
tásmai ǀ sárasvatī ǀ duhe ǀ kṣīrám ǀ sarpíḥ ǀ mádhu ǀ udakám ǁpāvamānīḥ ǀ yaḥ ǀ adhi-eti ǀ ṛṣi-bhiḥ ǀ sam-bhṛtam ǀ rasam ǀ
tasmai ǀ sarasvatī ǀ duhe ǀ kṣīram ǀ sarpiḥ ǀ madhu ǀ udakam ǁ9.67.32 Aṣṭaka 7.2.18.7Anuvāka 9.3.212
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.