Sūkta 84
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Prajāpati Vācya
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles virāḍjagatī (1, 3); nicṛttriṣṭup (2); jagatī (4); triṣṭup (5)
2nd set of styles jagatī
-
Ṛk 1
पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इंद्रा॑य॒ वरु॑णाय वा॒यवे॑ ।
कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जनं॑ ॥पवस्व देवमादनो विचर्षणिर् अप्सा इन्द्राय वरुणाय वायवे |
कृधी नो अद्य वरिवः स्वस्तिमद् उरुक्षितौ गृणीहि दैव्यं जनम् ||pávasva devamā́dano vícarṣaṇirapsā́ índrāya váruṇāya vāyáve ǀ
kṛdhī́ no adyá várivaḥ svastimádurukṣitáu gṛṇīhi dáivyam jánam ǁpavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave |
kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam ||पव॑स्व । दे॒व॒ऽमाद॑नः । विऽच॑र्षणिः । अ॒प्साः । इन्द्रा॑य । वरु॑णाय । वा॒यवे॑ ।
कृ॒धि । नः॒ । अ॒द्य । वरि॑वः । स्व॒स्ति॒ऽमत् । उ॒रु॒ऽक्षि॒तौ । गृ॒णी॒हि॒ । दैव्य॑म् । जन॑म् ॥पवस्व । देवऽमादनः । विऽचर्षणिः । अप्साः । इन्द्राय । वरुणाय । वायवे ।
कृधि । नः । अद्य । वरिवः । स्वस्तिऽमत् । उरुऽक्षितौ । गृणीहि । दैव्यम् । जनम् ॥pávasva ǀ deva-mā́danaḥ ǀ ví-carṣaṇiḥ ǀ apsā́ḥ ǀ índrāya ǀ váruṇāya ǀ vāyáve ǀ
kṛdhí ǀ naḥ ǀ adyá ǀ várivaḥ ǀ svasti-mát ǀ uru-kṣitáu ǀ gṛṇīhi ǀ dáivyam ǀ jánam ǁpavasva ǀ deva-mādanaḥ ǀ vi-carṣaṇiḥ ǀ apsāḥ ǀ indrāya ǀ varuṇāya ǀ vāyave ǀ
kṛdhi ǀ naḥ ǀ adya ǀ varivaḥ ǀ svasti-mat ǀ uru-kṣitau ǀ gṛṇīhi ǀ daivyam ǀ janam ǁ9.84.1 Aṣṭaka 7.3.9.1Anuvāka 9.4.112
-
Ṛk 2
आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोमः॒ परि॒ तान्य॑र्षति ।
कृ॒ण्वन्त्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इंदुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ॥आ यस् तस्थौ भुवनान्य् अमर्त्यो विश्वानि सोमः परि तान्य् अर्षति |
कृण्वन् संचृतं विचृतम् अभिष्टय इन्दुः सिषक्त्य् उषसं न सूर्यः ||ā́ yástastháu bhúvanānyámartyo víśvāni sómaḥ pári tā́nyarṣati ǀ
kṛṇvántsaṃcṛ́tam vicṛ́tamabhíṣṭaya índuḥ siṣaktyuṣásam ná sū́ryaḥ ǁā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati |
kṛṇvan saṃcṛtaṃ vicṛtam abhiṣṭaya induḥ siṣakty uṣasaṃ na sūryaḥ ||आ । यः । त॒स्थौ । भुव॑नानि । अम॑र्त्यः । विश्वा॑नि । सोमः॑ । परि॑ । तानि॑ । अ॒र्ष॒ति॒ ।
कृ॒ण्वन् । स॒म्ऽचृत॑म् । वि॒ऽचृत॑म् । अ॒भिष्ट॑ये । इन्दुः॑ । सि॒स॒क्ति॒ । उ॒षस॑म् । न । सूर्यः॑ ॥आ । यः । तस्थौ । भुवनानि । अमर्त्यः । विश्वानि । सोमः । परि । तानि । अर्षति ।
कृण्वन् । सम्ऽचृतम् । विऽचृतम् । अभिष्टये । इन्दुः । सिसक्ति । उषसम् । न । सूर्यः ॥ā́ ǀ yáḥ ǀ tastháu ǀ bhúvanāni ǀ ámartyaḥ ǀ víśvāni ǀ sómaḥ ǀ pári ǀ tā́ni ǀ arṣati ǀ
kṛṇván ǀ sam-cṛ́tam ǀ vi-cṛ́tam ǀ abhíṣṭaye ǀ índuḥ ǀ sisakti ǀ uṣásam ǀ ná ǀ sū́ryaḥ ǁā ǀ yaḥ ǀ tasthau ǀ bhuvanāni ǀ amartyaḥ ǀ viśvāni ǀ somaḥ ǀ pari ǀ tāni ǀ arṣati ǀ
kṛṇvan ǀ sam-cṛtam ǀ vi-cṛtam ǀ abhiṣṭaye ǀ induḥ ǀ sisakti ǀ uṣasam ǀ na ǀ sūryaḥ ǁ9.84.2 Aṣṭaka 7.3.9.2Anuvāka 9.4.113
-
Ṛk 3
आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः ।
आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इंद्रं॒ सोमो॑ मा॒दयं॒दैव्यं॒ जनं॑ ॥आ यो गोभिः सृज्यत ओषधीष्व् आ देवानां सुम्न इषयन्न् उपावसुः |
आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन् दैव्यं जनम् ||ā́ yó góbhiḥ sṛjyáta óṣadhīṣvā́ devā́nām sumná iṣáyannúpāvasuḥ ǀ
ā́ vidyútā pavate dhā́rayā sutá índram sómo mādáyandáivyam jánam ǁā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ |
ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam ||आ । यः । गोभिः॑ । सृ॒ज्यते॑ । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒षय॑न् । उप॑ऽवसुः ।
आ । वि॒ऽद्युता॑ । प॒व॒ते॒ । धार॑या । सु॒तः । इन्द्र॑म् । सोमः॑ । मा॒दय॑न् । दैव्य॑म् । जन॑म् ॥आ । यः । गोभिः । सृज्यते । ओषधीषु । आ । देवानाम् । सुम्ने । इषयन् । उपऽवसुः ।
आ । विऽद्युता । पवते । धारया । सुतः । इन्द्रम् । सोमः । मादयन् । दैव्यम् । जनम् ॥ā́ ǀ yáḥ ǀ góbhiḥ ǀ sṛjyáte ǀ óṣadhīṣu ǀ ā́ ǀ devā́nām ǀ sumné ǀ iṣáyan ǀ úpa-vasuḥ ǀ
ā́ ǀ vi-dyútā ǀ pavate ǀ dhā́rayā ǀ sutáḥ ǀ índram ǀ sómaḥ ǀ mādáyan ǀ dáivyam ǀ jánam ǁā ǀ yaḥ ǀ gobhiḥ ǀ sṛjyate ǀ oṣadhīṣu ǀ ā ǀ devānām ǀ sumne ǀ iṣayan ǀ upa-vasuḥ ǀ
ā ǀ vi-dyutā ǀ pavate ǀ dhārayā ǀ sutaḥ ǀ indram ǀ somaḥ ǀ mādayan ǀ daivyam ǀ janam ǁ9.84.3 Aṣṭaka 7.3.9.3Anuvāka 9.4.114
-
Ṛk 4
ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि॑न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुधं॑ ।
इंदुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेंद्र॑स्य॒ हार्दि॑ क॒लशे॑षु सीदति ॥एष स्य सोमः पवते सहस्रजिद् धिन्वानो वाचम् इषिराम् उषर्बुधम् |
इन्दुः समुद्रम् उद् इयर्ति वायुभिर् एन्द्रस्य हार्दि कलशेषु सीदति ||eṣá syá sómaḥ pavate sahasrajíddhinvānó vā́camiṣirā́muṣarbúdham ǀ
índuḥ samudrámúdiyarti vāyúbhiréndrasya hā́rdi kaláśeṣu sīdati ǁeṣa sya somaḥ pavate sahasrajid dhinvāno vācam iṣirām uṣarbudham |
induḥ samudram ud iyarti vāyubhir endrasya hārdi kalaśeṣu sīdati ||ए॒षः । स्यः । सोमः॑ । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । हि॒न्वा॒नः । वाच॑म् । इ॒षि॒राम् । उ॒षः॒ऽबुध॑म् ।
इन्दुः॑ । स॒मु॒द्रम् । उत् । इ॒य॒र्ति॒ । वा॒युऽभिः॑ । आ । इन्द्र॑स्य । हार्दि॑ । क॒लशे॑षु । सी॒द॒ति॒ ॥एषः । स्यः । सोमः । पवते । सहस्रऽजित् । हिन्वानः । वाचम् । इषिराम् । उषःऽबुधम् ।
इन्दुः । समुद्रम् । उत् । इयर्ति । वायुऽभिः । आ । इन्द्रस्य । हार्दि । कलशेषु । सीदति ॥eṣáḥ ǀ syáḥ ǀ sómaḥ ǀ pavate ǀ sahasra-jít ǀ hinvānáḥ ǀ vā́cam ǀ iṣirā́m ǀ uṣaḥ-búdham ǀ
índuḥ ǀ samudrám ǀ út ǀ iyarti ǀ vāyú-bhiḥ ǀ ā́ ǀ índrasya ǀ hā́rdi ǀ kaláśeṣu ǀ sīdati ǁeṣaḥ ǀ syaḥ ǀ somaḥ ǀ pavate ǀ sahasra-jit ǀ hinvānaḥ ǀ vācam ǀ iṣirām ǀ uṣaḥ-budham ǀ
induḥ ǀ samudram ǀ ut ǀ iyarti ǀ vāyu-bhiḥ ǀ ā ǀ indrasya ǀ hārdi ǀ kalaśeṣu ǀ sīdati ǁ9.84.4 Aṣṭaka 7.3.9.4Anuvāka 9.4.115
-
Ṛk 5
अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणंति म॒तिभिः॑ स्व॒र्विदं॑ ।
ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् |
धनञ्जयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ||abhí tyám gā́vaḥ páyasā payovṛ́dham sómam śrīṇanti matíbhiḥ svarvídam ǀ
dhanaṃjayáḥ pavate kṛ́tvyo ráso vípraḥ kavíḥ kā́vyenā svárcanāḥ ǁabhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam |
dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ ||अ॒भि । त्यम् । गावः॑ । पय॑सा । प॒यः॒ऽवृध॑म् । सोम॑म् । श्री॒ण॒न्ति॒ । म॒तिऽभिः॑ । स्वः॒ऽविद॑म् ।
ध॒न॒म्ऽज॒यः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । विप्रः॑ । क॒विः । काव्ये॑न । स्वः॑ऽचनाः ॥अभि । त्यम् । गावः । पयसा । पयःऽवृधम् । सोमम् । श्रीणन्ति । मतिऽभिः । स्वःऽविदम् ।
धनम्ऽजयः । पवते । कृत्व्यः । रसः । विप्रः । कविः । काव्येन । स्वःऽचनाः ॥abhí ǀ tyám ǀ gā́vaḥ ǀ páyasā ǀ payaḥ-vṛ́dham ǀ sómam ǀ śrīṇanti ǀ matí-bhiḥ ǀ svaḥ-vídam ǀ
dhanam-jayáḥ ǀ pavate ǀ kṛ́tvyaḥ ǀ rásaḥ ǀ vípraḥ ǀ kavíḥ ǀ kā́vyena ǀ sváḥ-canāḥ ǁabhi ǀ tyam ǀ gāvaḥ ǀ payasā ǀ payaḥ-vṛdham ǀ somam ǀ śrīṇanti ǀ mati-bhiḥ ǀ svaḥ-vidam ǀ
dhanam-jayaḥ ǀ pavate ǀ kṛtvyaḥ ǀ rasaḥ ǀ vipraḥ ǀ kaviḥ ǀ kāvyena ǀ svaḥ-canāḥ ǁ9.84.5 Aṣṭaka 7.3.9.5Anuvāka 9.4.116
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.