Sūkta 83
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Pavitra Āṅgirasa
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (1, 4); virāḍjagatī (2, 5); jagatī (3)
2nd set of styles jagatī
-
Ṛk 1
प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।
अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वहं॑त॒स्तत्समा॑शत ॥पवित्रं ते विततम् ब्रह्मणस् पते प्रभुर् गात्राणि पर्य् एषि विश्वतः |
अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् तत् सम् आशत ||pavítram te vítatam brahmaṇaspate prabhúrgā́trāṇi páryeṣi viśvátaḥ ǀ
átaptatanūrná tádāmó aśnute śṛtā́sa ídváhantastátsámāśata ǁpavitraṃ te vitatam brahmaṇas pate prabhur gātrāṇi pary eṣi viśvataḥ |
ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata ||प॒वित्र॑म् । ते॒ । विऽत॑तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । प्र॒ऽभुः । गात्रा॑णि । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ।
अत॑प्तऽतनूः । न । तत् । आ॒मः । अ॒श्नु॒ते॒ । शृ॒तासः॑ । इत् । वह॑न्तः । तत् । सम् । आ॒श॒त॒ ॥पवित्रम् । ते । विऽततम् । ब्रह्मणः । पते । प्रऽभुः । गात्राणि । परि । एषि । विश्वतः ।
अतप्तऽतनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । तत् । सम् । आशत ॥pavítram ǀ te ǀ ví-tatam ǀ brahmaṇaḥ ǀ pate ǀ pra-bhúḥ ǀ gā́trāṇi ǀ pári ǀ eṣi ǀ viśvátaḥ ǀ
átapta-tanūḥ ǀ ná ǀ tát ǀ āmáḥ ǀ aśnute ǀ śṛtā́saḥ ǀ ít ǀ váhantaḥ ǀ tát ǀ sám ǀ āśata ǁpavitram ǀ te ǀ vi-tatam ǀ brahmaṇaḥ ǀ pate ǀ pra-bhuḥ ǀ gātrāṇi ǀ pari ǀ eṣi ǀ viśvataḥ ǀ
atapta-tanūḥ ǀ na ǀ tat ǀ āmaḥ ǀ aśnute ǀ śṛtāsaḥ ǀ it ǀ vahantaḥ ǀ tat ǀ sam ǀ āśata ǁ9.83.1 Aṣṭaka 7.3.8.1Anuvāka 9.4.107
-
Ṛk 2
तपो॑ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोचं॑तो अस्य॒ तंत॑वो॒ व्य॑स्थिरन् ।
अवं॑त्यस्य पवी॒तार॑मा॒शवो॑ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठंति॒ चेत॑सा ॥तपोष् पवित्रं विततं दिवस् पदे शोचन्तो अस्य तन्तवो व्य् अस्थिरन् |
अवन्त्य् अस्य पवीतारम् आशवो दिवस् पृष्ठम् अधि तिष्ठन्ति चेतसा ||tápoṣpavítram vítatam diváspadé śócanto asya tántavo vyásthiran ǀ
ávantyasya pavītā́ramāśávo diváspṛṣṭhámádhi tiṣṭhanti cétasā ǁtapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vy asthiran |
avanty asya pavītāram āśavo divas pṛṣṭham adhi tiṣṭhanti cetasā ||तपोः॑ । प॒वित्र॑म् । विऽत॑तम् । दि॒वः । प॒दे । शोच॑न्तः । अ॒स्य॒ । तन्त॑वः । वि । अ॒स्थि॒र॒न् ।
अव॑न्ति । अ॒स्य॒ । प॒वि॒तार॑म् । आ॒शवः॑ । दि॒वः । पृ॒ष्ठम् । अधि॑ । ति॒ष्ठ॒न्ति॒ । चेत॑सा ॥तपोः । पवित्रम् । विऽततम् । दिवः । पदे । शोचन्तः । अस्य । तन्तवः । वि । अस्थिरन् ।
अवन्ति । अस्य । पवितारम् । आशवः । दिवः । पृष्ठम् । अधि । तिष्ठन्ति । चेतसा ॥tápoḥ ǀ pavítram ǀ ví-tatam ǀ diváḥ ǀ padé ǀ śócantaḥ ǀ asya ǀ tántavaḥ ǀ ví ǀ asthiran ǀ
ávanti ǀ asya ǀ pavitā́ram ǀ āśávaḥ ǀ diváḥ ǀ pṛṣṭhám ǀ ádhi ǀ tiṣṭhanti ǀ cétasā ǁtapoḥ ǀ pavitram ǀ vi-tatam ǀ divaḥ ǀ pade ǀ śocantaḥ ǀ asya ǀ tantavaḥ ǀ vi ǀ asthiran ǀ
avanti ǀ asya ǀ pavitāram ǀ āśavaḥ ǀ divaḥ ǀ pṛṣṭham ǀ adhi ǀ tiṣṭhanti ǀ cetasā ǁ9.83.2 Aṣṭaka 7.3.8.2Anuvāka 9.4.108
-
Ṛk 3
अरू॑रुचदु॒षसः॒ पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः ।
मा॒या॒विनो॑ ममिरे अस्य मा॒यया॑ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥अरूरुचद् उषसः पृश्निर् अग्रिय उक्षा बिभर्ति भुवनानि वाजयुः |
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भम् आ दधुः ||árūrucaduṣásaḥ pṛ́śniragriyá ukṣā́ bibharti bhúvanāni vājayúḥ ǀ
māyāvíno mamire asya māyáyā nṛcákṣasaḥ pitáro gárbhamā́ dadhuḥ ǁarūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ |
māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbham ā dadhuḥ ||अरू॑रुचत् । उ॒षसः॑ । पृश्निः॑ । अ॒ग्रि॒यः । उ॒क्षा । बि॒भ॒र्ति॒ । भुव॑नानि । वा॒ज॒ऽयुः ।
मा॒या॒ऽविनः॑ । म॒मि॒रे॒ । अ॒स्य॒ । मा॒यया॑ । नृ॒ऽचक्ष॑सः । पि॒तरः॑ । गर्भ॑म् । आ । द॒धुः॒ ॥अरूरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । बिभर्ति । भुवनानि । वाजऽयुः ।
मायाऽविनः । ममिरे । अस्य । मायया । नृऽचक्षसः । पितरः । गर्भम् । आ । दधुः ॥árūrucat ǀ uṣásaḥ ǀ pṛ́śniḥ ǀ agriyáḥ ǀ ukṣā́ ǀ bibharti ǀ bhúvanāni ǀ vāja-yúḥ ǀ
māyā-vínaḥ ǀ mamire ǀ asya ǀ māyáyā ǀ nṛ-cákṣasaḥ ǀ pitáraḥ ǀ gárbham ǀ ā́ ǀ dadhuḥ ǁarūrucat ǀ uṣasaḥ ǀ pṛśniḥ ǀ agriyaḥ ǀ ukṣā ǀ bibharti ǀ bhuvanāni ǀ vāja-yuḥ ǀ
māyā-vinaḥ ǀ mamire ǀ asya ǀ māyayā ǀ nṛ-cakṣasaḥ ǀ pitaraḥ ǀ garbham ǀ ā ǀ dadhuḥ ǁ9.83.3 Aṣṭaka 7.3.8.3Anuvāka 9.4.109
-
Ṛk 4
गं॒ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः ।
गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥गन्धर्व इत्था पदम् अस्य रक्षति पाति देवानां जनिमान्य् अद्भुतः |
गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षम् आशत ||gandharvá itthā́ padámasya rakṣati pā́ti devā́nām jánimānyádbhutaḥ ǀ
gṛbhṇā́ti ripúm nidháyā nidhā́patiḥ sukṛ́ttamā mádhuno bhakṣámāśata ǁgandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ |
gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata ||ग॒न्ध॒र्वः । इ॒त्था । प॒दम् । अ॒स्य॒ । र॒क्ष॒ति॒ । पाति॑ । दे॒वाना॑म् । जनि॑मानि । अद्भु॑तः ।
गृ॒भ्णाति॑ । रि॒पुम् । नि॒ऽधया॑ । नि॒धाऽप॑तिः । सु॒कृत्ऽत॑माः । मधु॑नः । भ॒क्षम् । आ॒श॒त॒ ॥गन्धर्वः । इत्था । पदम् । अस्य । रक्षति । पाति । देवानाम् । जनिमानि । अद्भुतः ।
गृभ्णाति । रिपुम् । निऽधया । निधाऽपतिः । सुकृत्ऽतमाः । मधुनः । भक्षम् । आशत ॥gandharváḥ ǀ itthā́ ǀ padám ǀ asya ǀ rakṣati ǀ pā́ti ǀ devā́nām ǀ jánimāni ǀ ádbhutaḥ ǀ
gṛbhṇā́ti ǀ ripúm ǀ ni-dháyā ǀ nidhā́-patiḥ ǀ sukṛ́t-tamāḥ ǀ mádhunaḥ ǀ bhakṣám ǀ āśata ǁgandharvaḥ ǀ itthā ǀ padam ǀ asya ǀ rakṣati ǀ pāti ǀ devānām ǀ janimāni ǀ adbhutaḥ ǀ
gṛbhṇāti ǀ ripum ǀ ni-dhayā ǀ nidhā-patiḥ ǀ sukṛt-tamāḥ ǀ madhunaḥ ǀ bhakṣam ǀ āśata ǁ9.83.4 Aṣṭaka 7.3.8.4Anuvāka 9.4.110
-
Ṛk 5
ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा॑नः॒ परि॑ यास्यध्व॒रं ।
राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो॑ बृ॒हत् ॥हविर् हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्य् अध्वरम् |
राजा पवित्ररथो वाजम् आरुहः सहस्रभृष्टिर् जयसि श्रवो बृहत् ||havírhaviṣmo máhi sádma dáivyam nábho vásānaḥ pári yāsyadhvarám ǀ
rā́jā pavítraratho vā́jamā́ruhaḥ sahásrabhṛṣṭirjayasi śrávo bṛhát ǁhavir haviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsy adhvaram |
rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat ||ह॒विः । ह॒वि॒ष्मः॒ । महि॑ । सद्म॑ । दैव्य॑म् । नभः॑ । वसा॑नः । परि॑ । या॒सि॒ । अ॒ध्व॒रम् ।
राजा॑ । प॒वित्र॑ऽरथः । वाज॑म् । आ । अ॒रु॒हः॒ । स॒हस्र॑ऽभृष्टिः । ज॒य॒सि॒ । श्रवः॑ । बृ॒हत् ॥हविः । हविष्मः । महि । सद्म । दैव्यम् । नभः । वसानः । परि । यासि । अध्वरम् ।
राजा । पवित्रऽरथः । वाजम् । आ । अरुहः । सहस्रऽभृष्टिः । जयसि । श्रवः । बृहत् ॥havíḥ ǀ haviṣmaḥ ǀ máhi ǀ sádma ǀ dáivyam ǀ nábhaḥ ǀ vásānaḥ ǀ pári ǀ yāsi ǀ adhvarám ǀ
rā́jā ǀ pavítra-rathaḥ ǀ vā́jam ǀ ā́ ǀ aruhaḥ ǀ sahásra-bhṛṣṭiḥ ǀ jayasi ǀ śrávaḥ ǀ bṛhát ǁhaviḥ ǀ haviṣmaḥ ǀ mahi ǀ sadma ǀ daivyam ǀ nabhaḥ ǀ vasānaḥ ǀ pari ǀ yāsi ǀ adhvaram ǀ
rājā ǀ pavitra-rathaḥ ǀ vājam ǀ ā ǀ aruhaḥ ǀ sahasra-bhṛṣṭiḥ ǀ jayasi ǀ śravaḥ ǀ bṛhat ǁ9.83.5 Aṣṭaka 7.3.8.5Anuvāka 9.4.111
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.