Ṛk 9.83.1
Saṃhitā
प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।
अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वहं॑त॒स्तत्समा॑शत ॥
पवित्रं ते विततम् ब्रह्मणस् पते प्रभुर् गात्राणि पर्य् एषि विश्वतः |
अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् तत् सम् आशत ||
pavítram te vítatam brahmaṇaspate prabhúrgā́trāṇi páryeṣi viśvátaḥ ǀ
átaptatanūrná tádāmó aśnute śṛtā́sa ídváhantastátsámāśata ǁ
pavitraṃ te vitatam brahmaṇas pate prabhur gātrāṇi pary eṣi viśvataḥ |
ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata ||
Padapāṭha
प॒वित्र॑म् । ते॒ । विऽत॑तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । प्र॒ऽभुः । गात्रा॑णि । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ।
अत॑प्तऽतनूः । न । तत् । आ॒मः । अ॒श्नु॒ते॒ । शृ॒तासः॑ । इत् । वह॑न्तः । तत् । सम् । आ॒श॒त॒ ॥
पवित्रम् । ते । विऽततम् । ब्रह्मणः । पते । प्रऽभुः । गात्राणि । परि । एषि । विश्वतः ।
अतप्तऽतनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । तत् । सम् । आशत ॥
pavítram ǀ te ǀ ví-tatam ǀ brahmaṇaḥ ǀ pate ǀ pra-bhúḥ ǀ gā́trāṇi ǀ pári ǀ eṣi ǀ viśvátaḥ ǀ
átapta-tanūḥ ǀ ná ǀ tát ǀ āmáḥ ǀ aśnute ǀ śṛtā́saḥ ǀ ít ǀ váhantaḥ ǀ tát ǀ sám ǀ āśata ǁ
pavitram ǀ te ǀ vi-tatam ǀ brahmaṇaḥ ǀ pate ǀ pra-bhuḥ ǀ gātrāṇi ǀ pari ǀ eṣi ǀ viśvataḥ ǀ
atapta-tanūḥ ǀ na ǀ tat ǀ āmaḥ ǀ aśnute ǀ śṛtāsaḥ ǀ it ǀ vahantaḥ ǀ tat ǀ sam ǀ āśata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.083.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.08.01
- Maṇḍala · Anuvāka · Ṛk
- 09.04.107
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Pavitra Āṅgirasa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.