Sūkta 102
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Uṣṇih
Metres by ṛk
1st set of styles nicṛduṣṇik (1-4, 8); uṣṇik (5-7)
2nd set of styles uṣṇih
-
Ṛk 1
क्रा॒णा शिशु॑र्म॒हीनां॑ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं ।
विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ॥क्राणा शिशुर् महीनां हिन्वन्न् ऋतस्य दीधितिम् |
विश्वा परि प्रिया भुवद् अध द्विता ||krāṇā́ śíśurmahī́nām hinvánnṛtásya dī́dhitim ǀ
víśvā pári priyā́ bhuvadádha dvitā́ ǁkrāṇā śiśur mahīnāṃ hinvann ṛtasya dīdhitim |
viśvā pari priyā bhuvad adha dvitā ||क्रा॒णा । शिशुः॑ । म॒हीना॑म् । हि॒न्वन् । ऋ॒तस्य॑ । दीधि॑तिम् ।
विश्वा॑ । परि॑ । प्रि॒या । भु॒व॒त् । अध॑ । द्वि॒ता ॥क्राणा । शिशुः । महीनाम् । हिन्वन् । ऋतस्य । दीधितिम् ।
विश्वा । परि । प्रिया । भुवत् । अध । द्विता ॥krāṇā́ ǀ śíśuḥ ǀ mahī́nām ǀ hinván ǀ ṛtásya ǀ dī́dhitim ǀ
víśvā ǀ pári ǀ priyā́ ǀ bhuvat ǀ ádha ǀ dvitā́ ǁkrāṇā ǀ śiśuḥ ǀ mahīnām ǀ hinvan ǀ ṛtasya ǀ dīdhitim ǀ
viśvā ǀ pari ǀ priyā ǀ bhuvat ǀ adha ǀ dvitā ǁ9.102.1 Aṣṭaka 7.5.4.1Anuvāka 9.6.104
-
Ṛk 2
उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॒॑रभ॑क्त॒ यद्गुहा॑ प॒दं ।
य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यं ॥उप त्रितस्य पाष्योर् अभक्त यद् गुहा पदम् |
यज्ञस्य सप्त धामभिर् अध प्रियम् ||úpa tritásya pāṣyórábhakta yádgúhā padám ǀ
yajñásya saptá dhā́mabhirádha priyám ǁupa tritasya pāṣyor abhakta yad guhā padam |
yajñasya sapta dhāmabhir adha priyam ||उप॑ । त्रि॒तस्य॑ । पा॒ष्योः॑ । अभ॑क्त । यत् । गुहा॑ । प॒दम् ।
य॒ज्ञस्य॑ । स॒प्त । धाम॑ऽभिः । अध॑ । प्रि॒यम् ॥उप । त्रितस्य । पाष्योः । अभक्त । यत् । गुहा । पदम् ।
यज्ञस्य । सप्त । धामऽभिः । अध । प्रियम् ॥úpa ǀ tritásya ǀ pāṣyóḥ ǀ ábhakta ǀ yát ǀ gúhā ǀ padám ǀ
yajñásya ǀ saptá ǀ dhā́ma-bhiḥ ǀ ádha ǀ priyám ǁupa ǀ tritasya ǀ pāṣyoḥ ǀ abhakta ǀ yat ǀ guhā ǀ padam ǀ
yajñasya ǀ sapta ǀ dhāma-bhiḥ ǀ adha ǀ priyam ǁ9.102.2 Aṣṭaka 7.5.4.2Anuvāka 9.6.105
-
Ṛk 3
त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिं ।
मिमी॑ते अस्य॒ योज॑ना॒ वि सु॒क्रतुः॑ ॥त्रीणि त्रितस्य धारया पृष्ठेष्व् एरया रयिम् |
मिमीते अस्य योजना वि सुक्रतुः ||trī́ṇi tritásya dhā́rayā pṛṣṭhéṣvérayā rayím ǀ
mímīte asya yójanā ví sukrátuḥ ǁtrīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim |
mimīte asya yojanā vi sukratuḥ ||त्रीणि॑ । त्रि॒तस्य॑ । धार॑या । पृ॒ष्ठेषु॑ । आ । ई॒र॒य॒ । र॒यिम् ।
मिमी॑ते । अ॒स्य॒ । योज॑ना । वि । सु॒ऽक्रतुः॑ ॥त्रीणि । त्रितस्य । धारया । पृष्ठेषु । आ । ईरय । रयिम् ।
मिमीते । अस्य । योजना । वि । सुऽक्रतुः ॥trī́ṇi ǀ tritásya ǀ dhā́rayā ǀ pṛṣṭhéṣu ǀ ā́ ǀ īraya ǀ rayím ǀ
mímīte ǀ asya ǀ yójanā ǀ ví ǀ su-krátuḥ ǁtrīṇi ǀ tritasya ǀ dhārayā ǀ pṛṣṭheṣu ǀ ā ǀ īraya ǀ rayim ǀ
mimīte ǀ asya ǀ yojanā ǀ vi ǀ su-kratuḥ ǁ9.102.3 Aṣṭaka 7.5.4.3Anuvāka 9.6.106
-
Ṛk 4
ज॒ज्ञा॒नं स॒प्त मा॒तरो॑ वे॒धाम॑शासत श्रि॒ये ।
अ॒यं ध्रु॒वो र॑यी॒णां चिके॑त॒ यत् ॥जज्ञानं सप्त मातरो वेधाम् अशासत श्रिये |
अयं ध्रुवो रयीणां चिकेत यत् ||jajñānám saptá mātáro vedhā́maśāsata śriyé ǀ
ayám dhruvó rayīṇā́m cíketa yát ǁjajñānaṃ sapta mātaro vedhām aśāsata śriye |
ayaṃ dhruvo rayīṇāṃ ciketa yat ||ज॒ज्ञा॒नम् । स॒प्त । मा॒तरः॑ । वे॒धाम् । अ॒शा॒स॒त॒ । श्रि॒ये ।
अ॒यम् । ध्रु॒वः । र॒यी॒णाम् । चिके॑त । यत् ॥जज्ञानम् । सप्त । मातरः । वेधाम् । अशासत । श्रिये ।
अयम् । ध्रुवः । रयीणाम् । चिकेत । यत् ॥jajñānám ǀ saptá ǀ mātáraḥ ǀ vedhā́m ǀ aśāsata ǀ śriyé ǀ
ayám ǀ dhruváḥ ǀ rayīṇā́m ǀ cíketa ǀ yát ǁjajñānam ǀ sapta ǀ mātaraḥ ǀ vedhām ǀ aśāsata ǀ śriye ǀ
ayam ǀ dhruvaḥ ǀ rayīṇām ǀ ciketa ǀ yat ǁ9.102.4 Aṣṭaka 7.5.4.4Anuvāka 9.6.107
-
Ṛk 5
अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ ।
स्पा॒र्हा भ॑वंति॒ रंत॑यो जु॒षंत॒ यत् ॥अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः |
स्पार्हा भवन्ति रन्तयो जुषन्त यत् ||asyá vraté sajóṣaso víśve devā́so adrúhaḥ ǀ
spārhā́ bhavanti rántayo juṣánta yát ǁasya vrate sajoṣaso viśve devāso adruhaḥ |
spārhā bhavanti rantayo juṣanta yat ||अ॒स्य । व्र॒ते । स॒ऽजोष॑सः । विश्वे॑ । दे॒वासः॑ । अ॒द्रुहः॑ ।
स्पा॒र्हाः । भ॒व॒न्ति॒ । रन्त॑यः । जु॒षन्त॑ । यत् ॥अस्य । व्रते । सऽजोषसः । विश्वे । देवासः । अद्रुहः ।
स्पार्हाः । भवन्ति । रन्तयः । जुषन्त । यत् ॥asyá ǀ vraté ǀ sa-jóṣasaḥ ǀ víśve ǀ devā́saḥ ǀ adrúhaḥ ǀ
spārhā́ḥ ǀ bhavanti ǀ rántayaḥ ǀ juṣánta ǀ yát ǁasya ǀ vrate ǀ sa-joṣasaḥ ǀ viśve ǀ devāsaḥ ǀ adruhaḥ ǀ
spārhāḥ ǀ bhavanti ǀ rantayaḥ ǀ juṣanta ǀ yat ǁ9.102.5 Aṣṭaka 7.5.4.5Anuvāka 9.6.108
-
Ṛk 6
यमी॒ गर्भ॑मृता॒वृधो॑ दृ॒शे चारु॒मजी॑जनन् ।
क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृहं॑ ॥यम् ई गर्भम् ऋतावृधो दृशे चारुम् अजीजनन् |
कविम् मंहिष्ठम् अध्वरे पुरुस्पृहम् ||yámī gárbhamṛtāvṛ́dho dṛśé cā́rumájījanan ǀ
kavím máṃhiṣṭhamadhvaré puruspṛ́ham ǁyam ī garbham ṛtāvṛdho dṛśe cārum ajījanan |
kavim maṃhiṣṭham adhvare puruspṛham ||यम् । ई॒मिति॑ । गर्भ॑म् । ऋ॒त॒ऽवृधः॑ । दृ॒शे । चारु॑म् । अजी॑जनन् ।
क॒विम् । मंहि॑ष्ठम् । अ॒ध्व॒रे । पु॒रु॒ऽस्पृह॑म् ॥यम् । ईमिति । गर्भम् । ऋतऽवृधः । दृशे । चारुम् । अजीजनन् ।
कविम् । मंहिष्ठम् । अध्वरे । पुरुऽस्पृहम् ॥yám ǀ īmíti ǀ gárbham ǀ ṛta-vṛ́dhaḥ ǀ dṛśé ǀ cā́rum ǀ ájījanan ǀ
kavím ǀ máṃhiṣṭham ǀ adhvaré ǀ puru-spṛ́ham ǁyam ǀ īmiti ǀ garbham ǀ ṛta-vṛdhaḥ ǀ dṛśe ǀ cārum ǀ ajījanan ǀ
kavim ǀ maṃhiṣṭham ǀ adhvare ǀ puru-spṛham ǁ9.102.6 Aṣṭaka 7.5.5.1Anuvāka 9.6.109
-
Ṛk 7
स॒मी॒ची॒ने अ॒भि त्मना॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।
त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यदं॑ज॒ते ॥समीचीने अभि त्मना यह्वी ऋतस्य मातरा |
तन्वाना यज्ञम् आनुषग् यद् अञ्जते ||samīcīné abhí tmánā yahvī́ ṛtásya mātárā ǀ
tanvānā́ yajñámānuṣágyádañjaté ǁsamīcīne abhi tmanā yahvī ṛtasya mātarā |
tanvānā yajñam ānuṣag yad añjate ||स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । अ॒भि । त्मना॑ । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ ।
त॒न्वा॒नाः । य॒ज्ञम् । आ॒नु॒षक् । यत् । अ॒ञ्ज॒ते ॥समीचीने इति सम्ऽईचीने । अभि । त्मना । यह्वी इति । ऋतस्य । मातरा ।
तन्वानाः । यज्ञम् । आनुषक् । यत् । अञ्जते ॥samīcīné íti sam-īcīné ǀ abhí ǀ tmánā ǀ yahvī́ íti ǀ ṛtásya ǀ mātárā ǀ
tanvānā́ḥ ǀ yajñám ǀ ānuṣák ǀ yát ǀ añjaté ǁsamīcīne iti sam-īcīne ǀ abhi ǀ tmanā ǀ yahvī iti ǀ ṛtasya ǀ mātarā ǀ
tanvānāḥ ǀ yajñam ǀ ānuṣak ǀ yat ǀ añjate ǁ9.102.7 Aṣṭaka 7.5.5.2Anuvāka 9.6.110
-
Ṛk 8
क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑र्ऋ॒णोरप॑ व्र॒जं दि॒वः ।
हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ॥क्रत्वा शुक्रेभिर् अक्षभिर् ऋणोर् अप व्रजं दिवः |
हिन्वन्न् ऋतस्य दीधितिम् प्राध्वरे ||krátvā śukrébhirakṣábhirṛṇórápa vrajám diváḥ ǀ
hinvánnṛtásya dī́dhitim prā́dhvaré ǁkratvā śukrebhir akṣabhir ṛṇor apa vrajaṃ divaḥ |
hinvann ṛtasya dīdhitim prādhvare ||क्रत्वा॑ । शु॒क्रेभिः॑ । अ॒क्षऽभिः॑ । ऋ॒णोः । अप॑ । व्र॒जम् । दि॒वः ।
हि॒न्वन् । ऋ॒तस्य॑ । दीधि॑तिम् । प्र । अ॒ध्व॒रे ॥क्रत्वा । शुक्रेभिः । अक्षऽभिः । ऋणोः । अप । व्रजम् । दिवः ।
हिन्वन् । ऋतस्य । दीधितिम् । प्र । अध्वरे ॥krátvā ǀ śukrébhiḥ ǀ akṣá-bhiḥ ǀ ṛṇóḥ ǀ ápa ǀ vrajám ǀ diváḥ ǀ
hinván ǀ ṛtásya ǀ dī́dhitim ǀ prá ǀ adhvaré ǁkratvā ǀ śukrebhiḥ ǀ akṣa-bhiḥ ǀ ṛṇoḥ ǀ apa ǀ vrajam ǀ divaḥ ǀ
hinvan ǀ ṛtasya ǀ dīdhitim ǀ pra ǀ adhvare ǁ9.102.8 Aṣṭaka 7.5.5.3Anuvāka 9.6.111
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.