Sūkta 73
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Pavitra Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (2-7); virāḍjagatī (8, 9); jagatī (1)
2nd set of styles jagatī (1-7, 9); triṣṭubh (8)
-
Ṛk 1
स्रक्वे॑ द्र॒प्सस्य॒ धम॑तः॒ सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रंत॒ नाभ॑यः ।
त्रीन्त्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नावः॑ सु॒कृत॑मपीपरन् ॥स्रक्वे द्रप्सस्य धमतः सम् अस्वरन्न् ऋतस्य योना सम् अरन्त नाभयः |
त्रीन् स मूर्ध्नो असुरश् चक्र आरभे सत्यस्य नावः सुकृतम् अपीपरन् ||srákve drapsásya dhámataḥ sámasvarannṛtásya yónā sámaranta nā́bhayaḥ ǀ
trī́ntsá mūrdhnó ásuraścakra ārábhe satyásya nā́vaḥ sukṛ́tamapīparan ǁsrakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ |
trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan ||स्रक्वे॑ । द्र॒प्सस्य॑ । धम॑तः । सम् । अ॒स्व॒र॒न् । ऋ॒तस्य॑ । योना॑ । सम् । अ॒र॒न्त॒ । नाभ॑यः ।
त्रीन् । सः । मू॒र्ध्नः । असु॑रः । च॒क्रे॒ । आ॒ऽरभे॑ । स॒त्यस्य॑ । नावः॑ । सु॒ऽकृत॑म् । अ॒पी॒प॒र॒न् ॥स्रक्वे । द्रप्सस्य । धमतः । सम् । अस्वरन् । ऋतस्य । योना । सम् । अरन्त । नाभयः ।
त्रीन् । सः । मूर्ध्नः । असुरः । चक्रे । आऽरभे । सत्यस्य । नावः । सुऽकृतम् । अपीपरन् ॥srákve ǀ drapsásya ǀ dhámataḥ ǀ sám ǀ asvaran ǀ ṛtásya ǀ yónā ǀ sám ǀ aranta ǀ nā́bhayaḥ ǀ
trī́n ǀ sáḥ ǀ mūrdhnáḥ ǀ ásuraḥ ǀ cakre ǀ ā-rábhe ǀ satyásya ǀ nā́vaḥ ǀ su-kṛ́tam ǀ apīparan ǁsrakve ǀ drapsasya ǀ dhamataḥ ǀ sam ǀ asvaran ǀ ṛtasya ǀ yonā ǀ sam ǀ aranta ǀ nābhayaḥ ǀ
trīn ǀ saḥ ǀ mūrdhnaḥ ǀ asuraḥ ǀ cakre ǀ ā-rabhe ǀ satyasya ǀ nāvaḥ ǀ su-kṛtam ǀ apīparan ǁ9.73.1 Aṣṭaka 7.2.29.1Anuvāka 9.4.49
-
Ṛk 2
स॒म्यक्स॒म्यंचो॑ महि॒षा अ॑हेषत॒ सिंधो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् ।
मधो॒र्धारा॑भिर्ज॒नयं॑तो अ॒र्कमित्प्रि॒यामिंद्र॑स्य त॒न्व॑मवीवृधन् ॥सम्यक् सम्यञ्चो महिषा अहेषत सिन्धोर् ऊर्माव् अधि वेना अवीविपन् |
मधोर् धाराभिर् जनयन्तो अर्कम् इत् प्रियाम् इन्द्रस्य तन्वम् अवीवृधन् ||samyáksamyáñco mahiṣā́ aheṣata síndhorūrmā́vádhi venā́ avīvipan ǀ
mádhordhā́rābhirjanáyanto arkámítpriyā́míndrasya tanvámavīvṛdhan ǁsamyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan |
madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan ||स॒म्यक् । स॒म्यञ्चः॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । वे॒नाः । अ॒वी॒वि॒प॒न् ।
मधोः॑ । धारा॑भिः । ज॒नय॑न्तः । अ॒र्कम् । इत् । प्रि॒याम् । इन्द्र॑स्य । त॒न्व॑म् । अ॒वी॒वृ॒ध॒न् ॥सम्यक् । सम्यञ्चः । महिषाः । अहेषत । सिन्धोः । ऊर्मौ । अधि । वेनाः । अवीविपन् ।
मधोः । धाराभिः । जनयन्तः । अर्कम् । इत् । प्रियाम् । इन्द्रस्य । तन्वम् । अवीवृधन् ॥samyák ǀ samyáñcaḥ ǀ mahiṣā́ḥ ǀ aheṣata ǀ síndhoḥ ǀ ūrmáu ǀ ádhi ǀ venā́ḥ ǀ avīvipan ǀ
mádhoḥ ǀ dhā́rābhiḥ ǀ janáyantaḥ ǀ arkám ǀ ít ǀ priyā́m ǀ índrasya ǀ tanvám ǀ avīvṛdhan ǁsamyak ǀ samyañcaḥ ǀ mahiṣāḥ ǀ aheṣata ǀ sindhoḥ ǀ ūrmau ǀ adhi ǀ venāḥ ǀ avīvipan ǀ
madhoḥ ǀ dhārābhiḥ ǀ janayantaḥ ǀ arkam ǀ it ǀ priyām ǀ indrasya ǀ tanvam ǀ avīvṛdhan ǁ9.73.2 Aṣṭaka 7.2.29.2Anuvāka 9.4.50
-
Ṛk 3
प॒वित्र॑वंतः॒ परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तं ।
म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभं॑ ॥पवित्रवन्तः परि वाचम् आसते पितैषाम् प्रत्नो अभि रक्षति व्रतम् |
महः समुद्रं वरुणस् तिरो दधे धीरा इच् छेकुर् धरुणेष्व् आरभम् ||pavítravantaḥ pári vā́camāsate pitáiṣām pratnó abhí rakṣati vratám ǀ
maháḥ samudrám váruṇastiró dadhe dhī́rā ícchekurdharúṇeṣvārábham ǁpavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam |
mahaḥ samudraṃ varuṇas tiro dadhe dhīrā ic chekur dharuṇeṣv ārabham ||प॒वित्र॑ऽवन्तः । परि॑ । वाच॑म् । आ॒स॒ते॒ । पि॒ता । ए॒षा॒म् । प्र॒त्नः । अ॒भि । र॒क्ष॒ति॒ । व्र॒तम् ।
म॒हः । स॒मु॒द्रम् । वरु॑णः । ति॒रः । द॒धे॒ । धीराः॑ । इत् । शे॒कुः॒ । ध॒रुणे॑षु । आ॒ऽरभ॑म् ॥पवित्रऽवन्तः । परि । वाचम् । आसते । पिता । एषाम् । प्रत्नः । अभि । रक्षति । व्रतम् ।
महः । समुद्रम् । वरुणः । तिरः । दधे । धीराः । इत् । शेकुः । धरुणेषु । आऽरभम् ॥pavítra-vantaḥ ǀ pári ǀ vā́cam ǀ āsate ǀ pitā́ ǀ eṣām ǀ pratnáḥ ǀ abhí ǀ rakṣati ǀ vratám ǀ
maháḥ ǀ samudrám ǀ váruṇaḥ ǀ tiráḥ ǀ dadhe ǀ dhī́rāḥ ǀ ít ǀ śekuḥ ǀ dharúṇeṣu ǀ ā-rábham ǁpavitra-vantaḥ ǀ pari ǀ vācam ǀ āsate ǀ pitā ǀ eṣām ǀ pratnaḥ ǀ abhi ǀ rakṣati ǀ vratam ǀ
mahaḥ ǀ samudram ǀ varuṇaḥ ǀ tiraḥ ǀ dadhe ǀ dhīrāḥ ǀ it ǀ śekuḥ ǀ dharuṇeṣu ǀ ā-rabham ǁ9.73.3 Aṣṭaka 7.2.29.3Anuvāka 9.4.51
-
Ṛk 4
स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरंदि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतः॑ ।
अस्य॒ स्पशो॒ न नि मि॑षंति॒ भूर्ण॑यः प॒देप॑दे पा॒शिनः॑ संति॒ सेत॑वः ॥सहस्रधारे ऽव ते सम् अस्वरन् दिवो नाके मधुजिह्वा असश्चतः |
अस्य स्पशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः ||sahásradhāré’va té sámasvarandivó nā́ke mádhujihvā asaścátaḥ ǀ
ásya spáśo ná ní miṣanti bhū́rṇayaḥ padépade pāśínaḥ santi sétavaḥ ǁsahasradhāre 'va te sam asvaran divo nāke madhujihvā asaścataḥ |
asya spaśo na ni miṣanti bhūrṇayaḥ pade-pade pāśinaḥ santi setavaḥ ||स॒हस्र॑ऽधारे । अव॑ । ते । सम् । अ॒स॒र॒न् । दि॒वः । नाके॑ । मधु॑ऽजिह्वाः । अ॒स॒श्चतः॑ ।
अस्य॑ । स्पशः॑ । न । नि । मि॒ष॒न्ति॒ । भूर्ण॑यः । प॒देऽप॑दे । पा॒शिनः॑ । स॒न्ति॒ । सेत॑वः ॥सहस्रऽधारे । अव । ते । सम् । असरन् । दिवः । नाके । मधुऽजिह्वाः । असश्चतः ।
अस्य । स्पशः । न । नि । मिषन्ति । भूर्णयः । पदेऽपदे । पाशिनः । सन्ति । सेतवः ॥sahásra-dhāre ǀ áva ǀ té ǀ sám ǀ asaran ǀ diváḥ ǀ nā́ke ǀ mádhu-jihvāḥ ǀ asaścátaḥ ǀ
ásya ǀ spáśaḥ ǀ ná ǀ ní ǀ miṣanti ǀ bhū́rṇayaḥ ǀ padé-pade ǀ pāśínaḥ ǀ santi ǀ sétavaḥ ǁsahasra-dhāre ǀ ava ǀ te ǀ sam ǀ asaran ǀ divaḥ ǀ nāke ǀ madhu-jihvāḥ ǀ asaścataḥ ǀ
asya ǀ spaśaḥ ǀ na ǀ ni ǀ miṣanti ǀ bhūrṇayaḥ ǀ pade-pade ǀ pāśinaḥ ǀ santi ǀ setavaḥ ǁ9.73.4 Aṣṭaka 7.2.29.4Anuvāka 9.4.52
-
Ṛk 5
पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोचं॑तः सं॒दहं॑तो अव्र॒तान् ।
इंद्र॑द्विष्टा॒मप॑ धमंति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥पितुर् मातुर् अध्य् आ ये समस्वरन्न् ऋचा शोचन्तः संदहन्तो अव्रतान् |
इन्द्रद्विष्टाम् अप धमन्ति मायया त्वचम् असिक्नीम् भूमनो दिवस् परि ||pitúrmātúrádhyā́ yé samásvarannṛcā́ śócantaḥ saṃdáhanto avratā́n ǀ
índradviṣṭāmápa dhamanti māyáyā tvácamásiknīm bhū́mano diváspári ǁpitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān |
indradviṣṭām apa dhamanti māyayā tvacam asiknīm bhūmano divas pari ||पि॒तुः । मा॒तुः । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । ऋ॒चा । शोच॑न्तः । स॒म्ऽदह॑न्तः । अ॒व्र॒तान् ।
इन्द्र॑ऽद्विष्टाम् । अप॑ । ध॒म॒न्ति॒ । मा॒यया॑ । त्वच॑म् । असि॑क्नीम् । भूम॑नः । दि॒वः । परि॑ ॥पितुः । मातुः । अधि । आ । ये । सम्ऽअस्वरन् । ऋचा । शोचन्तः । सम्ऽदहन्तः । अव्रतान् ।
इन्द्रऽद्विष्टाम् । अप । धमन्ति । मायया । त्वचम् । असिक्नीम् । भूमनः । दिवः । परि ॥pitúḥ ǀ mātúḥ ǀ ádhi ǀ ā́ ǀ yé ǀ sam-ásvaran ǀ ṛcā́ ǀ śócantaḥ ǀ sam-dáhantaḥ ǀ avratā́n ǀ
índra-dviṣṭām ǀ ápa ǀ dhamanti ǀ māyáyā ǀ tvácam ǀ ásiknīm ǀ bhū́manaḥ ǀ diváḥ ǀ pári ǁpituḥ ǀ mātuḥ ǀ adhi ǀ ā ǀ ye ǀ sam-asvaran ǀ ṛcā ǀ śocantaḥ ǀ sam-dahantaḥ ǀ avratān ǀ
indra-dviṣṭām ǀ apa ǀ dhamanti ǀ māyayā ǀ tvacam ǀ asiknīm ǀ bhūmanaḥ ǀ divaḥ ǀ pari ǁ9.73.5 Aṣṭaka 7.2.29.5Anuvāka 9.4.53
-
Ṛk 6
प्र॒त्नान्माना॒दध्या ये स॒मस्व॑रं॒छ्लोक॑यंत्रासो रभ॒सस्य॒ मंत॑वः ।
अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पंथां॒ न त॑रंति दु॒ष्कृतः॑ ॥प्रत्नान् मानाद् अध्य् आ ये समस्वरञ् छ्लोकयन्त्रासो रभसस्य मन्तवः |
अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ||pratnā́nmā́nādádhyā́ yé samásvarañchlókayantrāso rabhasásya mántavaḥ ǀ
ápānakṣā́so badhirā́ ahāsata ṛtásya pánthām ná taranti duṣkṛ́taḥ ǁpratnān mānād adhy ā ye samasvarañ chlokayantrāso rabhasasya mantavaḥ |
apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ ||प्र॒त्नात् । माना॑त् । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । श्लोक॑ऽयन्त्रासः । र॒भ॒सस्य॑ । मन्त॑वः ।
अप॑ । अ॒न॒क्षासः॑ । ब॒धि॒राः । अ॒हा॒स॒त॒ । ऋ॒तस्य॑ । पन्था॑म् । न । त॒र॒न्ति॒ । दुः॒ऽकृतः॑ ॥प्रत्नात् । मानात् । अधि । आ । ये । सम्ऽअस्वरन् । श्लोकऽयन्त्रासः । रभसस्य । मन्तवः ।
अप । अनक्षासः । बधिराः । अहासत । ऋतस्य । पन्थाम् । न । तरन्ति । दुःऽकृतः ॥pratnā́t ǀ mā́nāt ǀ ádhi ǀ ā́ ǀ yé ǀ sam-ásvaran ǀ ślóka-yantrāsaḥ ǀ rabhasásya ǀ mántavaḥ ǀ
ápa ǀ anakṣā́saḥ ǀ badhirā́ḥ ǀ ahāsata ǀ ṛtásya ǀ pánthām ǀ ná ǀ taranti ǀ duḥ-kṛ́taḥ ǁpratnāt ǀ mānāt ǀ adhi ǀ ā ǀ ye ǀ sam-asvaran ǀ śloka-yantrāsaḥ ǀ rabhasasya ǀ mantavaḥ ǀ
apa ǀ anakṣāsaḥ ǀ badhirāḥ ǀ ahāsata ǀ ṛtasya ǀ panthām ǀ na ǀ taranti ǀ duḥ-kṛtaḥ ǁ9.73.6 Aṣṭaka 7.2.30.1Anuvāka 9.4.54
-
Ṛk 7
स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनंति क॒वयो॑ मनी॒षिणः॑ ।
रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुहः॒ स्पशः॒ स्वंचः॑ सु॒दृशो॑ नृ॒चक्ष॑सः ॥सहस्रधारे वितते पवित्र आ वाचम् पुनन्ति कवयो मनीषिणः |
रुद्रास एषाम् इषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः ||sahásradhāre vítate pavítra ā́ vā́cam punanti kaváyo manīṣíṇaḥ ǀ
rudrā́sa eṣāmiṣirā́so adrúhaḥ spáśaḥ sváñcaḥ sudṛ́śo nṛcákṣasaḥ ǁsahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ |
rudrāsa eṣām iṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ ||स॒हस्र॑ऽधारे । विऽत॑ते । प॒वित्रे॑ । आ । वाच॑म् । पु॒न॒न्ति॒ । क॒वयः॑ । म॒नी॒षिणः॑ ।
रु॒द्रासः॑ । ए॒षा॒म् । इ॒षि॒रासः॑ । अ॒द्रुहः॑ । स्पशः॑ । सु॒ऽअञ्चः॑ । सु॒ऽदृशः॑ । नृ॒ऽचक्ष॑सः ॥सहस्रऽधारे । विऽतते । पवित्रे । आ । वाचम् । पुनन्ति । कवयः । मनीषिणः ।
रुद्रासः । एषाम् । इषिरासः । अद्रुहः । स्पशः । सुऽअञ्चः । सुऽदृशः । नृऽचक्षसः ॥sahásra-dhāre ǀ ví-tate ǀ pavítre ǀ ā́ ǀ vā́cam ǀ punanti ǀ kaváyaḥ ǀ manīṣíṇaḥ ǀ
rudrā́saḥ ǀ eṣām ǀ iṣirā́saḥ ǀ adrúhaḥ ǀ spáśaḥ ǀ su-áñcaḥ ǀ su-dṛ́śaḥ ǀ nṛ-cákṣasaḥ ǁsahasra-dhāre ǀ vi-tate ǀ pavitre ǀ ā ǀ vācam ǀ punanti ǀ kavayaḥ ǀ manīṣiṇaḥ ǀ
rudrāsaḥ ǀ eṣām ǀ iṣirāsaḥ ǀ adruhaḥ ǀ spaśaḥ ǀ su-añcaḥ ǀ su-dṛśaḥ ǀ nṛ-cakṣasaḥ ǁ9.73.7 Aṣṭaka 7.2.30.2Anuvāka 9.4.55
-
Ṛk 8
ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्यं१॒॑तरा द॑धे ।
वि॒द्वान्त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥ऋतस्य गोपा न दभाय सुक्रतुस् त्री ष पवित्रा हृद्य् अन्तर् आ दधे |
विद्वान् स विश्वा भुवनाभि पश्यत्य् अवाजुष्टान् विध्यति कर्ते अव्रतान् ||ṛtásya gopā́ ná dábhāya sukrátustrī́ ṣá pavítrā hṛdyántárā́ dadhe ǀ
vidvā́ntsá víśvā bhúvanābhí paśyatyávā́juṣṭānvidhyati karté avratā́n ǁṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe |
vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān ||ऋ॒तस्य॑ । गो॒पाः । न । दभा॑य । सु॒ऽक्रतुः॑ । त्री । सः । प॒वित्रा॑ । हृ॒दि । अ॒न्तः । आ । द॒धे॒ ।
वि॒द्वान् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒श्य॒ति॒ । अव॑ । अजु॑ष्टान् । वि॒ध्य॒ति॒ । क॒र्ते । अ॒व्र॒तान् ॥ऋतस्य । गोपाः । न । दभाय । सुऽक्रतुः । त्री । सः । पवित्रा । हृदि । अन्तः । आ । दधे ।
विद्वान् । सः । विश्वा । भुवना । अभि । पश्यति । अव । अजुष्टान् । विध्यति । कर्ते । अव्रतान् ॥ṛtásya ǀ gopā́ḥ ǀ ná ǀ dábhāya ǀ su-krátuḥ ǀ trī́ ǀ sáḥ ǀ pavítrā ǀ hṛdí ǀ antáḥ ǀ ā́ ǀ dadhe ǀ
vidvā́n ǀ sáḥ ǀ víśvā ǀ bhúvanā ǀ abhí ǀ paśyati ǀ áva ǀ ájuṣṭān ǀ vidhyati ǀ karté ǀ avratā́n ǁṛtasya ǀ gopāḥ ǀ na ǀ dabhāya ǀ su-kratuḥ ǀ trī ǀ saḥ ǀ pavitrā ǀ hṛdi ǀ antaḥ ǀ ā ǀ dadhe ǀ
vidvān ǀ saḥ ǀ viśvā ǀ bhuvanā ǀ abhi ǀ paśyati ǀ ava ǀ ajuṣṭān ǀ vidhyati ǀ karte ǀ avratān ǁ9.73.8 Aṣṭaka 7.2.30.3Anuvāka 9.4.56
-
Ṛk 9
ऋ॒तस्य॒ तंतु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ ।
धीरा॑श्चि॒त्तत्स॒मिन॑क्षंत आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥ऋतस्य तन्तुर् विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया |
धीराश् चित् तत् समिनक्षन्त आशतात्रा कर्तम् अव पदात्य् अप्रभुः ||ṛtásya tánturvítataḥ pavítra ā́ jihvā́yā ágre váruṇasya māyáyā ǀ
dhī́rāścittátsamínakṣanta āśatā́trā kartámáva padātyáprabhuḥ ǁṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā |
dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ ||ऋ॒तस्य॑ । तन्तुः॑ । विऽत॑तः । प॒वित्रे॑ । आ । जि॒ह्वायाः॑ । अग्रे॑ । वरु॑णस्य । मा॒यया॑ ।
धीराः॑ । चि॒त् । तत् । स॒म्ऽइन॑क्षन्तः । आ॒श॒त॒ । अत्र॑ । क॒र्तम् । अव॑ । प॒दा॒ति॒ । अप्र॑ऽभुः ॥ऋतस्य । तन्तुः । विऽततः । पवित्रे । आ । जिह्वायाः । अग्रे । वरुणस्य । मायया ।
धीराः । चित् । तत् । सम्ऽइनक्षन्तः । आशत । अत्र । कर्तम् । अव । पदाति । अप्रऽभुः ॥ṛtásya ǀ tántuḥ ǀ ví-tataḥ ǀ pavítre ǀ ā́ ǀ jihvā́yāḥ ǀ ágre ǀ váruṇasya ǀ māyáyā ǀ
dhī́rāḥ ǀ cit ǀ tát ǀ sam-ínakṣantaḥ ǀ āśata ǀ átra ǀ kartám ǀ áva ǀ padāti ǀ ápra-bhuḥ ǁṛtasya ǀ tantuḥ ǀ vi-tataḥ ǀ pavitre ǀ ā ǀ jihvāyāḥ ǀ agre ǀ varuṇasya ǀ māyayā ǀ
dhīrāḥ ǀ cit ǀ tat ǀ sam-inakṣantaḥ ǀ āśata ǀ atra ǀ kartam ǀ ava ǀ padāti ǀ apra-bhuḥ ǁ9.73.9 Aṣṭaka 7.2.30.4Anuvāka 9.4.57
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.