Ṛk 9.73.2
Saṃhitā
स॒म्यक्स॒म्यंचो॑ महि॒षा अ॑हेषत॒ सिंधो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् ।
मधो॒र्धारा॑भिर्ज॒नयं॑तो अ॒र्कमित्प्रि॒यामिंद्र॑स्य त॒न्व॑मवीवृधन् ॥
सम्यक् सम्यञ्चो महिषा अहेषत सिन्धोर् ऊर्माव् अधि वेना अवीविपन् |
मधोर् धाराभिर् जनयन्तो अर्कम् इत् प्रियाम् इन्द्रस्य तन्वम् अवीवृधन् ||
samyáksamyáñco mahiṣā́ aheṣata síndhorūrmā́vádhi venā́ avīvipan ǀ
mádhordhā́rābhirjanáyanto arkámítpriyā́míndrasya tanvámavīvṛdhan ǁ
samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan |
madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan ||
Padapāṭha
स॒म्यक् । स॒म्यञ्चः॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । वे॒नाः । अ॒वी॒वि॒प॒न् ।
मधोः॑ । धारा॑भिः । ज॒नय॑न्तः । अ॒र्कम् । इत् । प्रि॒याम् । इन्द्र॑स्य । त॒न्व॑म् । अ॒वी॒वृ॒ध॒न् ॥
सम्यक् । सम्यञ्चः । महिषाः । अहेषत । सिन्धोः । ऊर्मौ । अधि । वेनाः । अवीविपन् ।
मधोः । धाराभिः । जनयन्तः । अर्कम् । इत् । प्रियाम् । इन्द्रस्य । तन्वम् । अवीवृधन् ॥
samyák ǀ samyáñcaḥ ǀ mahiṣā́ḥ ǀ aheṣata ǀ síndhoḥ ǀ ūrmáu ǀ ádhi ǀ venā́ḥ ǀ avīvipan ǀ
mádhoḥ ǀ dhā́rābhiḥ ǀ janáyantaḥ ǀ arkám ǀ ít ǀ priyā́m ǀ índrasya ǀ tanvám ǀ avīvṛdhan ǁ
samyak ǀ samyañcaḥ ǀ mahiṣāḥ ǀ aheṣata ǀ sindhoḥ ǀ ūrmau ǀ adhi ǀ venāḥ ǀ avīvipan ǀ
madhoḥ ǀ dhārābhiḥ ǀ janayantaḥ ǀ arkam ǀ it ǀ priyām ǀ indrasya ǀ tanvam ǀ avīvṛdhan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.073.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.2.29.02
- Maṇḍala · Anuvāka · Ṛk
- 09.04.050
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Pavitra Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.