Sūkta 110
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Trasadasyu Paurukutsya Sauhotra; Tryaruṇa Traivṛṣṇa
- Chandas छन्दस्
- Ūrdhvabṛhatī, Anuṣṭubh Of Pipīlikamadhyā Order, Virāj
Metres by ṛk
1st set of styles nicṛdanuṣṭup (1, 2, 12); virāḍbṛhatī (4, 7, 8); pādnicṛdbṛhatī (5, 6); anuṣṭup (10, 11); virāḍanuṣṭup (3); bṛhatī (9)
2nd set of styles ūrdhvabṛhatī (4-9); anuṣṭubh of pipīlikamadhyā order (1-3); virāj (10-12)
-
Ṛk 1
पर्यू॒ षु प्र ध॑न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑ ।
द्वि॒षस्त॒रध्या॑ ऋण॒या न॑ ईयसे ॥पर्य् ऊ षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः |
द्विषस् तरध्या ऋणया न ईयसे ||páryū ṣú prá dhanva vā́jasātaye pári vṛtrā́ṇi sakṣáṇiḥ ǀ
dviṣástarádhyā ṛṇayā́ na īyase ǁpary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ |
dviṣas taradhyā ṛṇayā na īyase ||परि॑ । ऊं॒ इति॑ । सु । प्र । ध॒न्व॒ । वाज॑ऽसातये । परि॑ । वृ॒त्राणि॑ । स॒क्षणिः॑ ।
द्वि॒षः । त॒रध्यै॑ । ऋ॒ण॒ऽयाः । नः॒ । ई॒य॒से॒ ॥परि । ऊं इति । सु । प्र । धन्व । वाजऽसातये । परि । वृत्राणि । सक्षणिः ।
द्विषः । तरध्यै । ऋणऽयाः । नः । ईयसे ॥pári ǀ ūṃ íti ǀ sú ǀ prá ǀ dhanva ǀ vā́ja-sātaye ǀ pári ǀ vṛtrā́ṇi ǀ sakṣáṇiḥ ǀ
dviṣáḥ ǀ tarádhyai ǀ ṛṇa-yā́ḥ ǀ naḥ ǀ īyase ǁpari ǀ ūṃ iti ǀ su ǀ pra ǀ dhanva ǀ vāja-sātaye ǀ pari ǀ vṛtrāṇi ǀ sakṣaṇiḥ ǀ
dviṣaḥ ǀ taradhyai ǀ ṛṇa-yāḥ ǀ naḥ ǀ īyase ǁ9.110.1 Aṣṭaka 7.5.22.1Anuvāka 9.7.91
-
Ṛk 2
अनु॒ हि त्वा॑ सु॒तं सो॑म॒ मदा॑मसि म॒हे स॑मर्य॒राज्ये॑ ।
वाजाँ॑ अ॒भि प॑वमान॒ प्र गा॑हसे ॥अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये |
वाजां अभि पवमान प्र गाहसे ||ánu hí tvā sutám soma mádāmasi mahé samaryarā́jye ǀ
vā́jām̐ abhí pavamāna prá gāhase ǁanu hi tvā sutaṃ soma madāmasi mahe samaryarājye |
vājāṃ abhi pavamāna pra gāhase ||अनु॑ । हि । त्वा॒ । सु॒तम् । सो॒म॒ । मदा॑मसि । म॒हे । स॒म॒र्य॒ऽराज्ये॑ ।
वाजा॑न् । अ॒भि । प॒व॒मा॒न॒ । प्र । गा॒ह॒से॒ ॥अनु । हि । त्वा । सुतम् । सोम । मदामसि । महे । समर्यऽराज्ये ।
वाजान् । अभि । पवमान । प्र । गाहसे ॥ánu ǀ hí ǀ tvā ǀ sutám ǀ soma ǀ mádāmasi ǀ mahé ǀ samarya-rā́jye ǀ
vā́jān ǀ abhí ǀ pavamāna ǀ prá ǀ gāhase ǁanu ǀ hi ǀ tvā ǀ sutam ǀ soma ǀ madāmasi ǀ mahe ǀ samarya-rājye ǀ
vājān ǀ abhi ǀ pavamāna ǀ pra ǀ gāhase ǁ9.110.2 Aṣṭaka 7.5.22.2Anuvāka 9.7.92
-
Ṛk 3
अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पयः॑ ।
गोजी॑रया॒ रंह॑माणः॒ पुरं॑ध्या ॥अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः |
गोजीरया रंहमाणः पुरन्ध्या ||ájījano hí pavamāna sū́ryam vidhā́re śákmanā páyaḥ ǀ
gójīrayā ráṃhamāṇaḥ púraṃdhyā ǁajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ |
gojīrayā raṃhamāṇaḥ purandhyā ||अजी॑जनः । हि । प॒व॒मा॒न॒ । सूर्य॑म् । वि॒ऽधारे॑ । शक्म॑ना । पयः॑ ।
गोऽजी॑रया । रंह॑माणः । पुर॑म्ऽध्या ॥अजीजनः । हि । पवमान । सूर्यम् । विऽधारे । शक्मना । पयः ।
गोऽजीरया । रंहमाणः । पुरम्ऽध्या ॥ájījanaḥ ǀ hí ǀ pavamāna ǀ sū́ryam ǀ vi-dhā́re ǀ śákmanā ǀ páyaḥ ǀ
gó-jīrayā ǀ ráṃhamāṇaḥ ǀ púram-dhyā ǁajījanaḥ ǀ hi ǀ pavamāna ǀ sūryam ǀ vi-dhāre ǀ śakmanā ǀ payaḥ ǀ
go-jīrayā ǀ raṃhamāṇaḥ ǀ puram-dhyā ǁ9.110.3 Aṣṭaka 7.5.22.3Anuvāka 9.7.93
-
Ṛk 4
अजी॑जनो अमृत॒ मर्त्ये॒ष्वाँ ऋ॒तस्य॒ धर्म॑न्न॒मृत॑स्य॒ चारु॑णः ।
सदा॑सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ॥अजीजनो अमृत मर्त्येष्व् आं ऋतस्य धर्मन्न् अमृतस्य चारुणः |
सदासरो वाजम् अच्छा सनिष्यदत् ||ájījano amṛta mártyeṣvā́m̐ ṛtásya dhármannamṛ́tasya cā́ruṇaḥ ǀ
sádāsaro vā́jamácchā sániṣyadat ǁajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ |
sadāsaro vājam acchā saniṣyadat ||अजी॑जनः । अ॒मृ॒त॒ । मर्त्ये॑षु । आ । ऋ॒तस्य॑ । धर्म॑न् । अ॒मृत॑स्य । चारु॑णः ।
सदा॑ । अ॒स॒रः॒ । वाज॑म् । अच्छ॑ । सनि॑स्यदत् ॥अजीजनः । अमृत । मर्त्येषु । आ । ऋतस्य । धर्मन् । अमृतस्य । चारुणः ।
सदा । असरः । वाजम् । अच्छ । सनिस्यदत् ॥ájījanaḥ ǀ amṛta ǀ mártyeṣu ǀ ā́ ǀ ṛtásya ǀ dhárman ǀ amṛ́tasya ǀ cā́ruṇaḥ ǀ
sádā ǀ asaraḥ ǀ vā́jam ǀ áccha ǀ sánisyadat ǁajījanaḥ ǀ amṛta ǀ martyeṣu ǀ ā ǀ ṛtasya ǀ dharman ǀ amṛtasya ǀ cāruṇaḥ ǀ
sadā ǀ asaraḥ ǀ vājam ǀ accha ǀ sanisyadat ǁ9.110.4 Aṣṭaka 7.5.22.4Anuvāka 9.7.94
-
Ṛk 5
अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तं ।
शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः ॥अभ्य्-अभि हि श्रवसा ततर्दिथोत्सं न कं चिज् जनपानम् अक्षितम् |
शर्याभिर् न भरमाणो गभस्त्योः ||abhyábhi hí śrávasā tatárdithótsam ná kám cijjanapā́namákṣitam ǀ
śáryābhirná bháramāṇo gábhastyoḥ ǁabhy-abhi hi śravasā tatardithotsaṃ na kaṃ cij janapānam akṣitam |
śaryābhir na bharamāṇo gabhastyoḥ ||अ॒भिऽअ॑भि । हि । श्रव॑सा । त॒तर्दि॑थ । उत्स॑म् । न । कम् । चि॒त् । ज॒न॒ऽपान॑म् । अक्षि॑तम् ।
शर्या॑भिः । न । भर॑माणः । गभ॑स्त्योः ॥अभिऽअभि । हि । श्रवसा । ततर्दिथ । उत्सम् । न । कम् । चित् । जनऽपानम् । अक्षितम् ।
शर्याभिः । न । भरमाणः । गभस्त्योः ॥abhí-abhi ǀ hí ǀ śrávasā ǀ tatárditha ǀ útsam ǀ ná ǀ kám ǀ cit ǀ jana-pā́nam ǀ ákṣitam ǀ
śáryābhiḥ ǀ ná ǀ bháramāṇaḥ ǀ gábhastyoḥ ǁabhi-abhi ǀ hi ǀ śravasā ǀ tatarditha ǀ utsam ǀ na ǀ kam ǀ cit ǀ jana-pānam ǀ akṣitam ǀ
śaryābhiḥ ǀ na ǀ bharamāṇaḥ ǀ gabhastyoḥ ǁ9.110.5 Aṣṭaka 7.5.22.5Anuvāka 9.7.95
-
Ṛk 6
आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं॑ वसु॒रुचो॑ दि॒व्या अ॒भ्य॑नूषत ।
वारं॒ न दे॒वः स॑वि॒ता व्यू॑र्णुते ॥आद् ईं के चित् पश्यमानास आप्यं वसुरुचो दिव्या अभ्य् अनूषत |
वारं न देवः सविता व्य् ऊर्णुते ||ā́dīm ké citpáśyamānāsa ā́pyam vasurúco divyā́ abhyánūṣata ǀ
vā́ram ná deváḥ savitā́ vyū́rṇute ǁād īṃ ke cit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata |
vāraṃ na devaḥ savitā vy ūrṇute ||आत् । ई॒म् । के । चि॒त् । पश्य॑मानासः । आप्य॑म् । व॒सु॒ऽरुचः॑ । दि॒व्याः । अ॒भि । अ॒नू॒ष॒त॒ ।
वार॑म् । न । दे॒वः । स॒वि॒ता । वि । ऊ॒र्णु॒ते॒ ॥आत् । ईम् । के । चित् । पश्यमानासः । आप्यम् । वसुऽरुचः । दिव्याः । अभि । अनूषत ।
वारम् । न । देवः । सविता । वि । ऊर्णुते ॥ā́t ǀ īm ǀ ké ǀ cit ǀ páśyamānāsaḥ ǀ ā́pyam ǀ vasu-rúcaḥ ǀ divyā́ḥ ǀ abhí ǀ anūṣata ǀ
vā́ram ǀ ná ǀ deváḥ ǀ savitā́ ǀ ví ǀ ūrṇute ǁāt ǀ īm ǀ ke ǀ cit ǀ paśyamānāsaḥ ǀ āpyam ǀ vasu-rucaḥ ǀ divyāḥ ǀ abhi ǀ anūṣata ǀ
vāram ǀ na ǀ devaḥ ǀ savitā ǀ vi ǀ ūrṇute ǁ9.110.6 Aṣṭaka 7.5.22.6Anuvāka 9.7.96
-
Ṛk 7
त्वे सो॑म प्रथ॒मा वृ॒क्तब॑र्हिषो म॒हे वाजा॑य॒ श्रव॑से॒ धियं॑ दधुः ।
स त्वं नो॑ वीर वी॒र्या॑य चोदय ॥त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः |
स त्वं नो वीर वीर्याय चोदय ||tvé soma prathamā́ vṛktábarhiṣo mahé vā́jāya śrávase dhíyam dadhuḥ ǀ
sá tvám no vīra vīryā́ya codaya ǁtve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ |
sa tvaṃ no vīra vīryāya codaya ||त्वे इति॑ । सो॒म॒ । प्र॒थ॒माः । वृ॒क्तऽब॑र्हिषः । म॒हे । वाजा॑य । श्रव॑से । धिय॑म् । द॒धुः॒ ।
सः । त्वम् । नः॒ । वी॒र॒ । वी॒र्या॑य । चो॒द॒य॒ ॥त्वे इति । सोम । प्रथमाः । वृक्तऽबर्हिषः । महे । वाजाय । श्रवसे । धियम् । दधुः ।
सः । त्वम् । नः । वीर । वीर्याय । चोदय ॥tvé íti ǀ soma ǀ prathamā́ḥ ǀ vṛktá-barhiṣaḥ ǀ mahé ǀ vā́jāya ǀ śrávase ǀ dhíyam ǀ dadhuḥ ǀ
sáḥ ǀ tvám ǀ naḥ ǀ vīra ǀ vīryā́ya ǀ codaya ǁtve iti ǀ soma ǀ prathamāḥ ǀ vṛkta-barhiṣaḥ ǀ mahe ǀ vājāya ǀ śravase ǀ dhiyam ǀ dadhuḥ ǀ
saḥ ǀ tvam ǀ naḥ ǀ vīra ǀ vīryāya ǀ codaya ǁ9.110.7 Aṣṭaka 7.5.23.1Anuvāka 9.7.97
-
Ṛk 8
दि॒वः पी॒यूषं॑ पू॒र्व्यं यदु॒क्थ्यं॑ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत ।
इंद्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ॥दिवः पीयूषम् पूर्व्यं यद् उक्थ्यम् महो गाहाद् दिव आ निर् अधुक्षत |
इन्द्रम् अभि जायमानं सम् अस्वरन् ||diváḥ pīyū́ṣam pūrvyám yádukthyám mahó gāhā́ddivá ā́ níradhukṣata ǀ
índramabhí jā́yamānam sámasvaran ǁdivaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata |
indram abhi jāyamānaṃ sam asvaran ||दि॒वः । पी॒यूष॑म् । पू॒र्व्यम् । यत् । उ॒क्थ्य॑म् । म॒हः । गा॒हात् । दि॒वः । आ । निः । अ॒धु॒क्ष॒त॒ ।
इन्द्र॑म् । अ॒भि । जाय॑मानम् । सम् । अ॒स्व॒र॒न् ॥दिवः । पीयूषम् । पूर्व्यम् । यत् । उक्थ्यम् । महः । गाहात् । दिवः । आ । निः । अधुक्षत ।
इन्द्रम् । अभि । जायमानम् । सम् । अस्वरन् ॥diváḥ ǀ pīyū́ṣam ǀ pūrvyám ǀ yát ǀ ukthyám ǀ maháḥ ǀ gāhā́t ǀ diváḥ ǀ ā́ ǀ níḥ ǀ adhukṣata ǀ
índram ǀ abhí ǀ jā́yamānam ǀ sám ǀ asvaran ǁdivaḥ ǀ pīyūṣam ǀ pūrvyam ǀ yat ǀ ukthyam ǀ mahaḥ ǀ gāhāt ǀ divaḥ ǀ ā ǀ niḥ ǀ adhukṣata ǀ
indram ǀ abhi ǀ jāyamānam ǀ sam ǀ asvaran ǁ9.110.8 Aṣṭaka 7.5.23.2Anuvāka 9.7.98
-
Ṛk 9
अध॒ यदि॒मे प॑वमान॒ रोद॑सी इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना॑ ।
यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ॥अध यद् इमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना |
यूथे न निष्ठा वृषभो वि तिष्ठसे ||ádha yádimé pavamāna ródasī imā́ ca víśvā bhúvanābhí majmánā ǀ
yūthé ná niṣṭhā́ vṛṣabhó ví tiṣṭhase ǁadha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā |
yūthe na niṣṭhā vṛṣabho vi tiṣṭhase ||अध॑ । यत् । इ॒मे इति॑ । प॒व॒मा॒न॒ । रोद॑सी॒ इति॑ । इ॒मा । च॒ । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ ।
यू॒थे । न । निः॒ऽस्थाः । वृ॒ष॒भः । वि । ति॒ष्ठ॒से॒ ॥अध । यत् । इमे इति । पवमान । रोदसी इति । इमा । च । विश्वा । भुवना । अभि । मज्मना ।
यूथे । न । निःऽस्थाः । वृषभः । वि । तिष्ठसे ॥ádha ǀ yát ǀ imé íti ǀ pavamāna ǀ ródasī íti ǀ imā́ ǀ ca ǀ víśvā ǀ bhúvanā ǀ abhí ǀ majmánā ǀ
yūthé ǀ ná ǀ niḥ-sthā́ḥ ǀ vṛṣabháḥ ǀ ví ǀ tiṣṭhase ǁadha ǀ yat ǀ ime iti ǀ pavamāna ǀ rodasī iti ǀ imā ǀ ca ǀ viśvā ǀ bhuvanā ǀ abhi ǀ majmanā ǀ
yūthe ǀ na ǀ niḥ-sthāḥ ǀ vṛṣabhaḥ ǀ vi ǀ tiṣṭhase ǁ9.110.9 Aṣṭaka 7.5.23.3Anuvāka 9.7.99
-
Ṛk 10
सोमः॑ पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव॑मानो अक्षाः ।
स॒हस्र॑धारः श॒तवा॑ज॒ इंदुः॑ ॥सोमः पुनानो अव्यये वारे शिशुर् न क्रीऌअन् पवमानो अक्षाः |
सहस्रधारः शतवाज इन्दुः ||sómaḥ punānó avyáye vā́re śíśurná krī́ḷanpávamāno akṣāḥ ǀ
sahásradhāraḥ śatávāja índuḥ ǁsomaḥ punāno avyaye vāre śiśur na krīḷan pavamāno akṣāḥ |
sahasradhāraḥ śatavāja induḥ ||सोमः॑ । पु॒ना॒नः । अ॒व्यये॑ । वारे॑ । शिशुः॑ । न । क्रीळ॑न् । पव॑मानः । अ॒क्षा॒रिति॑ ।
स॒हस्र॑ऽधारः । श॒तऽवा॑जः । इन्दुः॑ ॥सोमः । पुनानः । अव्यये । वारे । शिशुः । न । क्रीळन् । पवमानः । अक्षारिति ।
सहस्रऽधारः । शतऽवाजः । इन्दुः ॥sómaḥ ǀ punānáḥ ǀ avyáye ǀ vā́re ǀ śíśuḥ ǀ ná ǀ krī́ḷan ǀ pávamānaḥ ǀ akṣāríti ǀ
sahásra-dhāraḥ ǀ śatá-vājaḥ ǀ índuḥ ǁsomaḥ ǀ punānaḥ ǀ avyaye ǀ vāre ǀ śiśuḥ ǀ na ǀ krīḷan ǀ pavamānaḥ ǀ akṣāriti ǀ
sahasra-dhāraḥ ǀ śata-vājaḥ ǀ induḥ ǁ9.110.10 Aṣṭaka 7.5.23.4Anuvāka 9.7.100
-
Ṛk 11
ए॒ष पु॑ना॒नो मधु॑माँ ऋ॒तावेंद्रा॒येंदुः॑ पवते स्वा॒दुरू॒र्मिः ।
वा॒ज॒सनि॑र्वरिवो॒विद्व॑यो॒धाः ॥एष पुनानो मधुमां ऋतावेन्द्रायेन्दुः पवते स्वादुर् ऊर्मिः |
वाजसनिर् वरिवोविद् वयोधाः ||eṣá punānó mádhumām̐ ṛtā́véndrāyénduḥ pavate svādúrūrmíḥ ǀ
vājasánirvarivovídvayodhā́ḥ ǁeṣa punāno madhumāṃ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ |
vājasanir varivovid vayodhāḥ ||ए॒षः । पु॒ना॒नः । मधु॑ऽमान् । ऋ॒तऽवा॑ । इन्द्रा॑य । इन्दुः॑ । प॒व॒ते॒ । स्वा॒दुः । ऊ॒र्मिः ।
वा॒ज॒ऽसनिः॑ । व॒रि॒वः॒ऽवित् । व॒यः॒ऽधाः ॥एषः । पुनानः । मधुऽमान् । ऋतऽवा । इन्द्राय । इन्दुः । पवते । स्वादुः । ऊर्मिः ।
वाजऽसनिः । वरिवःऽवित् । वयःऽधाः ॥eṣáḥ ǀ punānáḥ ǀ mádhu-mān ǀ ṛtá-vā ǀ índrāya ǀ índuḥ ǀ pavate ǀ svādúḥ ǀ ūrmíḥ ǀ
vāja-sániḥ ǀ varivaḥ-vít ǀ vayaḥ-dhā́ḥ ǁeṣaḥ ǀ punānaḥ ǀ madhu-mān ǀ ṛta-vā ǀ indrāya ǀ induḥ ǀ pavate ǀ svāduḥ ǀ ūrmiḥ ǀ
vāja-saniḥ ǀ varivaḥ-vit ǀ vayaḥ-dhāḥ ǁ9.110.11 Aṣṭaka 7.5.23.5Anuvāka 9.7.101
-
Ṛk 12
स प॑वस्व॒ सह॑मानः पृत॒न्यून्त्सेध॒न्रक्षां॒स्यप॑ दु॒र्गहा॑णि ।
स्वा॒यु॒धः सा॑स॒ह्वान्त्सो॑म॒ शत्रू॑न् ॥स पवस्व सहमानः पृतन्यून् सेधन् रक्षांस्य् अप दुर्गहाणि |
स्वायुधः सासह्वान् सोम शत्रून् ||sá pavasva sáhamānaḥ pṛtanyū́ntsédhanrákṣāṃsyápa durgáhāṇi ǀ
svāyudháḥ sāsahvā́ntsoma śátrūn ǁsa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṃsy apa durgahāṇi |
svāyudhaḥ sāsahvān soma śatrūn ||सः । प॒व॒स्व॒ । सह॑मानः । पृ॒त॒न्यून् । सेध॑न् । रक्षां॑सि । अप॑ । दुः॒ऽगहा॑नि ।
सु॒ऽआ॒यु॒धः । स॒स॒ह्वान् । सो॒म॒ । शत्रू॑न् ॥सः । पवस्व । सहमानः । पृतन्यून् । सेधन् । रक्षांसि । अप । दुःऽगहानि ।
सुऽआयुधः । ससह्वान् । सोम । शत्रून् ॥sáḥ ǀ pavasva ǀ sáhamānaḥ ǀ pṛtanyū́n ǀ sédhan ǀ rákṣāṃsi ǀ ápa ǀ duḥ-gáhāni ǀ
su-āyudháḥ ǀ sasahvā́n ǀ soma ǀ śátrūn ǁsaḥ ǀ pavasva ǀ sahamānaḥ ǀ pṛtanyūn ǀ sedhan ǀ rakṣāṃsi ǀ apa ǀ duḥ-gahāni ǀ
su-āyudhaḥ ǀ sasahvān ǀ soma ǀ śatrūn ǁ9.110.12 Aṣṭaka 7.5.23.6Anuvāka 9.7.102
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.