Ṛgveda · Maṇḍala 9

Sūkta 107

Soma Pavamāna · Sapta Ṛṣayaḥ · 26 ṛks

Link
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Sapta Ṛṣayaḥ
Chandas छन्दस्
Bṛhatī, Satobṛhatī, Dvipadā Virāj Bhurij, Dvipadā Virāj
Metres by ṛk

1st set of styles virāḍbṛhatī (1, 4, 6, 9, 14, 17, 21); nicṛtpaṅkti (7, 11, 18, 20, 24, 26); bṛhatī (8, 10, 12, 13, 19, 25); bhurigbṛhatī (2, 5); pipīlikāmadhyāgāyatrī (3, 16); paṅktiḥ (15, 22); pādnicṛdbṛhatī (23)

2nd set of styles bṛhatī (1, 4, 6, 8-10, 12, 14, 17, 19, 21, 23, 25); satobṛhatī (2, 5, 7, 11, 13, 15, 18, 20, 22, 24, 26); dvipadā virāj bhurij (3); dvipadā virāj (16)

  1. Ṛk 1

    परी॒तो षिं॑चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः ।
    द॒ध॒न्वाँ यो नर्यो॑ अ॒प्स्वं१॒॑तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥

    परीतो षिञ्चता सुतं सोमो य उत्तमं हविः |
    दधन्वां यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ||

    párītó ṣiñcatā sutám sómo yá uttamám havíḥ ǀ
    dadhanvā́m̐ yó náryo apsvántárā́ suṣā́va sómamádribhiḥ ǁ

    parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ |
    dadhanvāṃ yo naryo apsv antar ā suṣāva somam adribhiḥ ||

    परि॑ । इ॒तः । सि॒ञ्च॒त॒ । सु॒तम् । सोमः॑ । यः । उ॒त्ऽत॒मम् । ह॒विः ।
    द॒ध॒न्वान् । यः । नर्यः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒साव॑ । सोम॑म् । अद्रि॑ऽभिः ॥

    परि । इतः । सिञ्चत । सुतम् । सोमः । यः । उत्ऽतमम् । हविः ।
    दधन्वान् । यः । नर्यः । अप्ऽसु । अन्तः । आ । सुसाव । सोमम् । अद्रिऽभिः ॥

    pári ǀ itáḥ ǀ siñcata ǀ sutám ǀ sómaḥ ǀ yáḥ ǀ ut-tamám ǀ havíḥ ǀ
    dadhanvā́n ǀ yáḥ ǀ náryaḥ ǀ ap-sú ǀ antáḥ ǀ ā́ ǀ susā́va ǀ sómam ǀ ádri-bhiḥ ǁ

    pari ǀ itaḥ ǀ siñcata ǀ sutam ǀ somaḥ ǀ yaḥ ǀ ut-tamam ǀ haviḥ ǀ
    dadhanvān ǀ yaḥ ǀ naryaḥ ǀ ap-su ǀ antaḥ ǀ ā ǀ susāva ǀ somam ǀ adri-bhiḥ ǁ

    9.107.1 Aṣṭaka 7.5.12.1Anuvāka 9.7.27

  2. Ṛk 2

    नू॒नं पु॑ना॒नोऽवि॑भिः॒ परि॑ स्र॒वाद॑ब्धः सुर॒भिंत॑रः ।
    सु॒ते चि॑त्त्वा॒प्सु म॑दामो॒ अंध॑सा श्री॒णंतो॒ गोभि॒रुत्त॑रं ॥

    नूनम् पुनानो ऽविभिः परि स्रवादब्धः सुरभिन्तरः |
    सुते चित् त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिर् उत्तरम् ||

    nūnám punānó’vibhiḥ pári sravā́dabdhaḥ surabhíntaraḥ ǀ
    suté cittvāpsú madāmo ándhasā śrīṇánto góbhirúttaram ǁ

    nūnam punāno 'vibhiḥ pari sravādabdhaḥ surabhintaraḥ |
    sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram ||

    नू॒नम् । पु॒ना॒नः । अवि॑ऽभिः । परि॑ । स्र॒व॒ । अद॑ब्धः । सु॒र॒भिम्ऽत॑रः ।
    सु॒ते । चि॒त् । त्वा॒ । अ॒प्ऽसु । म॒दा॒मः॒ । अन्ध॑सा । श्री॒णन्तः॑ । गोभिः॑ । उत्ऽत॑रम् ॥

    नूनम् । पुनानः । अविऽभिः । परि । स्रव । अदब्धः । सुरभिम्ऽतरः ।
    सुते । चित् । त्वा । अप्ऽसु । मदामः । अन्धसा । श्रीणन्तः । गोभिः । उत्ऽतरम् ॥

    nūnám ǀ punānáḥ ǀ ávi-bhiḥ ǀ pári ǀ srava ǀ ádabdhaḥ ǀ surabhím-taraḥ ǀ
    suté ǀ cit ǀ tvā ǀ ap-sú ǀ madāmaḥ ǀ ándhasā ǀ śrīṇántaḥ ǀ góbhiḥ ǀ út-taram ǁ

    nūnam ǀ punānaḥ ǀ avi-bhiḥ ǀ pari ǀ srava ǀ adabdhaḥ ǀ surabhim-taraḥ ǀ
    sute ǀ cit ǀ tvā ǀ ap-su ǀ madāmaḥ ǀ andhasā ǀ śrīṇantaḥ ǀ gobhiḥ ǀ ut-taram ǁ

    9.107.2 Aṣṭaka 7.5.12.2Anuvāka 9.7.28

  3. Ṛk 3

    परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑नः॒ क्रतु॒रिंदु॑र्विचक्ष॒णः ॥

    परि सुवानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षणः ||

    pári suvānáścákṣase devamā́danaḥ kráturíndurvicakṣaṇáḥ ǁ

    pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ ||

    परि॑ । सु॒वा॒नः । चक्ष॑से । दे॒व॒ऽमाद॑नः । क्रतुः॑ । इन्दुः॑ । वि॒ऽच॒क्ष॒णः ॥

    परि । सुवानः । चक्षसे । देवऽमादनः । क्रतुः । इन्दुः । विऽचक्षणः ॥

    pári ǀ suvānáḥ ǀ cákṣase ǀ deva-mā́danaḥ ǀ krátuḥ ǀ índuḥ ǀ vi-cakṣaṇáḥ ǁ

    pari ǀ suvānaḥ ǀ cakṣase ǀ deva-mādanaḥ ǀ kratuḥ ǀ induḥ ǀ vi-cakṣaṇaḥ ǁ

    9.107.3 Aṣṭaka 7.5.12.3Anuvāka 9.7.29

  4. Ṛk 4

    पु॒ना॒नः सो॑म॒ धार॑या॒पो वसा॑नो अर्षसि ।
    आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो॑ देव हिर॒ण्ययः॑ ॥

    पुनानः सोम धारयापो वसानो अर्षसि |
    आ रत्नधा योनिम् ऋतस्य सीदस्य् उत्सो देव हिरण्ययः ||

    punānáḥ soma dhā́rayāpó vásāno arṣasi ǀ
    ā́ ratnadhā́ yónimṛtásya sīdasyútso deva hiraṇyáyaḥ ǁ

    punānaḥ soma dhārayāpo vasāno arṣasi |
    ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ ||

    पु॒ना॒नः । सो॒म॒ । धार॑या । अ॒पः । वसा॑नः । अ॒र्ष॒सि॒ ।
    आ । र॒त्न॒ऽधाः । योनि॑म् । ऋ॒तस्य॑ । सी॒द॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ ॥

    पुनानः । सोम । धारया । अपः । वसानः । अर्षसि ।
    आ । रत्नऽधाः । योनिम् । ऋतस्य । सीदसि । उत्सः । देव । हिरण्ययः ॥

    punānáḥ ǀ soma ǀ dhā́rayā ǀ apáḥ ǀ vásānaḥ ǀ arṣasi ǀ
    ā́ ǀ ratna-dhā́ḥ ǀ yónim ǀ ṛtásya ǀ sīdasi ǀ útsaḥ ǀ deva ǀ hiraṇyáyaḥ ǁ

    punānaḥ ǀ soma ǀ dhārayā ǀ apaḥ ǀ vasānaḥ ǀ arṣasi ǀ
    ā ǀ ratna-dhāḥ ǀ yonim ǀ ṛtasya ǀ sīdasi ǀ utsaḥ ǀ deva ǀ hiraṇyayaḥ ǁ

    9.107.4 Aṣṭaka 7.5.12.4Anuvāka 9.7.30

  5. Ṛk 5

    दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास॑दत् ।
    आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः ॥

    दुहान ऊधर् दिव्यम् मधु प्रियम् प्रत्नं सधस्थम् आसदत् |
    आपृच्छ्यं धरुणं वाज्य् अर्षति नृभिर् धूतो विचक्षणः ||

    duhāná ū́dhardivyám mádhu priyám pratnám sadhásthamā́sadat ǀ
    āpṛ́cchyam dharúṇam vājyárṣati nṛ́bhirdhūtó vicakṣaṇáḥ ǁ

    duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat |
    āpṛcchyaṃ dharuṇaṃ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ ||

    दु॒हा॒नः । ऊधः॑ । दि॒व्यम् । मधु॑ । प्रि॒यम् । प्र॒त्नम् । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ।
    आ॒ऽपृच्छ्य॑म् । ध॒रुण॑म् । वा॒जी । अ॒र्ष॒ति॒ । नृऽभिः॑ । धू॒तः । वि॒ऽच॒क्ष॒णः ॥

    दुहानः । ऊधः । दिव्यम् । मधु । प्रियम् । प्रत्नम् । सधऽस्थम् । आ । असदत् ।
    आऽपृच्छ्यम् । धरुणम् । वाजी । अर्षति । नृऽभिः । धूतः । विऽचक्षणः ॥

    duhānáḥ ǀ ū́dhaḥ ǀ divyám ǀ mádhu ǀ priyám ǀ pratnám ǀ sadhá-stham ǀ ā́ ǀ asadat ǀ
    ā-pṛ́cchyam ǀ dharúṇam ǀ vājī́ ǀ arṣati ǀ nṛ́-bhiḥ ǀ dhūtáḥ ǀ vi-cakṣaṇáḥ ǁ

    duhānaḥ ǀ ūdhaḥ ǀ divyam ǀ madhu ǀ priyam ǀ pratnam ǀ sadha-stham ǀ ā ǀ asadat ǀ
    ā-pṛcchyam ǀ dharuṇam ǀ vājī ǀ arṣati ǀ nṛ-bhiḥ ǀ dhūtaḥ ǀ vi-cakṣaṇaḥ ǁ

    9.107.5 Aṣṭaka 7.5.12.5Anuvāka 9.7.31

  6. Ṛk 6

    पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
    त्वं विप्रो॑ अभ॒वोऽंगि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥

    पुनानः सोम जागृविर् अव्यो वारे परि प्रियः |
    त्वं विप्रो अभवो ऽङ्गिरस्तमो मध्वा यज्ञम् मिमिक्ष नः ||

    punānáḥ soma jā́gṛvirávyo vā́re pári priyáḥ ǀ
    tvám vípro abhavó’ṅgirastamo mádhvā yajñám mimikṣa naḥ ǁ

    punānaḥ soma jāgṛvir avyo vāre pari priyaḥ |
    tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ ||

    पु॒ना॒नः । सो॒म॒ । जागृ॑विः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः ।
    त्वम् । विप्रः॑ । अ॒भ॒वः॒ । अङ्गि॑रःऽतमः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ । नः॒ ॥

    पुनानः । सोम । जागृविः । अव्यः । वारे । परि । प्रियः ।
    त्वम् । विप्रः । अभवः । अङ्गिरःऽतमः । मध्वा । यज्ञम् । मिमिक्ष । नः ॥

    punānáḥ ǀ soma ǀ jā́gṛviḥ ǀ ávyaḥ ǀ vā́re ǀ pári ǀ priyáḥ ǀ
    tvám ǀ vípraḥ ǀ abhavaḥ ǀ áṅgiraḥ-tamaḥ ǀ mádhvā ǀ yajñám ǀ mimikṣa ǀ naḥ ǁ

    punānaḥ ǀ soma ǀ jāgṛviḥ ǀ avyaḥ ǀ vāre ǀ pari ǀ priyaḥ ǀ
    tvam ǀ vipraḥ ǀ abhavaḥ ǀ aṅgiraḥ-tamaḥ ǀ madhvā ǀ yajñam ǀ mimikṣa ǀ naḥ ǁ

    9.107.6 Aṣṭaka 7.5.13.1Anuvāka 9.7.32

  7. Ṛk 7

    सोमो॑ मी॒ढ्वान्प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो॑ विचक्ष॒णः ।
    त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं॑ रोहयो दि॒वि ॥

    सोमो मीढ्वान् पवते गातुवित्तम ऋषिर् विप्रो विचक्षणः |
    त्वं कविर् अभवो देववीतम आ सूर्यं रोहयो दिवि ||

    sómo mīḍhvā́npavate gātuvíttama ṛ́ṣirvípro vicakṣaṇáḥ ǀ
    tvám kavírabhavo devavī́tama ā́ sū́ryam rohayo diví ǁ

    somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ |
    tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi ||

    सोमः॑ । मी॒ढ्वान् । प॒व॒ते॒ । गा॒तु॒वित्ऽत॑मः । ऋषिः॑ । विप्रः॑ । वि॒ऽच॒क्ष॒णः ।
    त्वम् । क॒विः । अ॒भ॒वः॒ । दे॒व॒ऽवीत॑मः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ॥

    सोमः । मीढ्वान् । पवते । गातुवित्ऽतमः । ऋषिः । विप्रः । विऽचक्षणः ।
    त्वम् । कविः । अभवः । देवऽवीतमः । आ । सूर्यम् । रोहयः । दिवि ॥

    sómaḥ ǀ mīḍhvā́n ǀ pavate ǀ gātuvít-tamaḥ ǀ ṛ́ṣiḥ ǀ vípraḥ ǀ vi-cakṣaṇáḥ ǀ
    tvám ǀ kavíḥ ǀ abhavaḥ ǀ deva-vī́tamaḥ ǀ ā́ ǀ sū́ryam ǀ rohayaḥ ǀ diví ǁ

    somaḥ ǀ mīḍhvān ǀ pavate ǀ gātuvit-tamaḥ ǀ ṛṣiḥ ǀ vipraḥ ǀ vi-cakṣaṇaḥ ǀ
    tvam ǀ kaviḥ ǀ abhavaḥ ǀ deva-vītamaḥ ǀ ā ǀ sūryam ǀ rohayaḥ ǀ divi ǁ

    9.107.7 Aṣṭaka 7.5.13.2Anuvāka 9.7.33

  8. Ṛk 8

    सोम॑ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी॑नां ।
    अश्व॑येव ह॒रिता॑ याति॒ धार॑या मं॒द्रया॑ याति॒ धार॑या ॥

    सोम उ षुवाणः सोतृभिर् अधि ष्णुभिर् अवीनाम् |
    अश्वयेव हरिता याति धारया मन्द्रया याति धारया ||

    sóma u ṣuvāṇáḥ sotṛ́bhirádhi ṣṇúbhirávīnām ǀ
    áśvayeva harítā yāti dhā́rayā mandráyā yāti dhā́rayā ǁ

    soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām |
    aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā ||

    सोमः॑ । ऊं॒ इति॑ । सु॒वा॒नः । सो॒तृऽभिः॑ । अधि॑ । स्नुऽभिः॑ । अवी॑नाम् ।
    अश्व॑याऽइव । ह॒रिता॑ । या॒ति॒ । धार॑या । म॒न्द्रया॑ । या॒ति॒ । धार॑या ॥

    सोमः । ऊं इति । सुवानः । सोतृऽभिः । अधि । स्नुऽभिः । अवीनाम् ।
    अश्वयाऽइव । हरिता । याति । धारया । मन्द्रया । याति । धारया ॥

    sómaḥ ǀ ūṃ íti ǀ suvānáḥ ǀ sotṛ́-bhiḥ ǀ ádhi ǀ snú-bhiḥ ǀ ávīnām ǀ
    áśvayā-iva ǀ harítā ǀ yāti ǀ dhā́rayā ǀ mandráyā ǀ yāti ǀ dhā́rayā ǁ

    somaḥ ǀ ūṃ iti ǀ suvānaḥ ǀ sotṛ-bhiḥ ǀ adhi ǀ snu-bhiḥ ǀ avīnām ǀ
    aśvayā-iva ǀ haritā ǀ yāti ǀ dhārayā ǀ mandrayā ǀ yāti ǀ dhārayā ǁ

    9.107.8 Aṣṭaka 7.5.13.3Anuvāka 9.7.34

  9. Ṛk 9

    अ॒नू॒पे गोमा॒न्गोभि॑रक्षाः॒ सोमो॑ दु॒ग्धाभि॑रक्षाः ।
    स॒मु॒द्रं न सं॒वर॑णान्यग्मन्मं॒दी मदा॑य तोशते ॥

    अनूपे गोमान् गोभिर् अक्षाः सोमो दुग्धाभिर् अक्षाः |
    समुद्रं न संवरणान्य् अग्मन् मन्दी मदाय तोशते ||

    anūpé gómāngóbhirakṣāḥ sómo dugdhā́bhirakṣāḥ ǀ
    samudrám ná saṃváraṇānyagmanmandī́ mádāya tośate ǁ

    anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ |
    samudraṃ na saṃvaraṇāny agman mandī madāya tośate ||

    अ॒नू॒पे । गोऽमा॑न् । गोभिः॑ । अ॒क्षा॒रिति॑ । सोमः॑ । दु॒ग्धाभिः॑ । अ॒क्षा॒रिति॑ ।
    स॒मु॒द्रम् । न । स॒म्ऽवर॑णानि । अ॒ग्म॒न् । म॒न्दी । मदा॑य । तो॒श॒ते॒ ॥

    अनूपे । गोऽमान् । गोभिः । अक्षारिति । सोमः । दुग्धाभिः । अक्षारिति ।
    समुद्रम् । न । सम्ऽवरणानि । अग्मन् । मन्दी । मदाय । तोशते ॥

    anūpé ǀ gó-mān ǀ góbhiḥ ǀ akṣāríti ǀ sómaḥ ǀ dugdhā́bhiḥ ǀ akṣāríti ǀ
    samudrám ǀ ná ǀ sam-váraṇāni ǀ agman ǀ mandī́ ǀ mádāya ǀ tośate ǁ

    anūpe ǀ go-mān ǀ gobhiḥ ǀ akṣāriti ǀ somaḥ ǀ dugdhābhiḥ ǀ akṣāriti ǀ
    samudram ǀ na ǀ sam-varaṇāni ǀ agman ǀ mandī ǀ madāya ǀ tośate ǁ

    9.107.9 Aṣṭaka 7.5.13.4Anuvāka 9.7.35

  10. Ṛk 10

    आ सो॑म सुवा॒नो अद्रि॑भिस्ति॒रो वारा॑ण्य॒व्यया॑ ।
    जनो॒ न पु॒रि च॒म्वो॑र्विश॒द्धरिः॒ सदो॒ वने॑षु दधिषे ॥

    आ सोम सुवानो अद्रिभिस् तिरो वाराण्य् अव्यया |
    जनो न पुरि चम्वोर् विशद् धरिः सदो वनेषु दधिषे ||

    ā́ soma suvānó ádribhistiró vā́rāṇyavyáyā ǀ
    jáno ná purí camvórviśaddháriḥ sádo váneṣu dadhiṣe ǁ

    ā soma suvāno adribhis tiro vārāṇy avyayā |
    jano na puri camvor viśad dhariḥ sado vaneṣu dadhiṣe ||

    आ । सो॒म॒ । सु॒वा॒नः । अद्रि॑ऽभिः । ति॒रः । वारा॑णि । अ॒व्यया॑ ।
    जनः॑ । न । पु॒रि । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ । सदः॑ । वने॑षु । द॒धि॒षे॒ ॥

    आ । सोम । सुवानः । अद्रिऽभिः । तिरः । वाराणि । अव्यया ।
    जनः । न । पुरि । चम्वोः । विशत् । हरिः । सदः । वनेषु । दधिषे ॥

    ā́ ǀ soma ǀ suvānáḥ ǀ ádri-bhiḥ ǀ tiráḥ ǀ vā́rāṇi ǀ avyáyā ǀ
    jánaḥ ǀ ná ǀ purí ǀ camvóḥ ǀ viśat ǀ háriḥ ǀ sádaḥ ǀ váneṣu ǀ dadhiṣe ǁ

    ā ǀ soma ǀ suvānaḥ ǀ adri-bhiḥ ǀ tiraḥ ǀ vārāṇi ǀ avyayā ǀ
    janaḥ ǀ na ǀ puri ǀ camvoḥ ǀ viśat ǀ hariḥ ǀ sadaḥ ǀ vaneṣu ǀ dadhiṣe ǁ

    9.107.10 Aṣṭaka 7.5.13.5Anuvāka 9.7.36

  11. Ṛk 11

    स मा॑मृजे ति॒रो अण्वा॑नि मे॒ष्यो॑ मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।
    अ॒नु॒माद्यः॒ पव॑मानो मनी॒षिभिः॒ सोमो॒ विप्रे॑भि॒र्ऋक्व॑भिः ॥

    स मामृजे तिरो अण्वानि मेष्यो मीऌहे सप्तिर् न वाजयुः |
    अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर् ऋक्वभिः ||

    sá māmṛje tiró áṇvāni meṣyó mīḷhé sáptirná vājayúḥ ǀ
    anumā́dyaḥ pávamāno manīṣíbhiḥ sómo víprebhirṛ́kvabhiḥ ǁ

    sa māmṛje tiro aṇvāni meṣyo mīḷhe saptir na vājayuḥ |
    anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ ||

    सः । म॒मृ॒जे॒ । ति॒रः । अण्वा॑नि । मे॒ष्यः॑ । मी॒ळ्हे । सप्तिः॑ । न । वा॒ज॒ऽयुः ।
    अ॒नु॒ऽमाद्यः॑ । पव॑मानः । म॒नी॒षिऽभिः॑ । सोमः॑ । विप्रे॑भिः । ऋक्व॑ऽभिः ॥

    सः । ममृजे । तिरः । अण्वानि । मेष्यः । मीळ्हे । सप्तिः । न । वाजऽयुः ।
    अनुऽमाद्यः । पवमानः । मनीषिऽभिः । सोमः । विप्रेभिः । ऋक्वऽभिः ॥

    sáḥ ǀ mamṛje ǀ tiráḥ ǀ áṇvāni ǀ meṣyáḥ ǀ mīḷhé ǀ sáptiḥ ǀ ná ǀ vāja-yúḥ ǀ
    anu-mā́dyaḥ ǀ pávamānaḥ ǀ manīṣí-bhiḥ ǀ sómaḥ ǀ víprebhiḥ ǀ ṛ́kva-bhiḥ ǁ

    saḥ ǀ mamṛje ǀ tiraḥ ǀ aṇvāni ǀ meṣyaḥ ǀ mīḷhe ǀ saptiḥ ǀ na ǀ vāja-yuḥ ǀ
    anu-mādyaḥ ǀ pavamānaḥ ǀ manīṣi-bhiḥ ǀ somaḥ ǀ viprebhiḥ ǀ ṛkva-bhiḥ ǁ

    9.107.11 Aṣṭaka 7.5.14.1Anuvāka 9.7.37

  12. Ṛk 12

    प्र सो॑म दे॒ववी॑तये॒ सिंधु॒र्न पि॑प्ये॒ अर्ण॑सा ।
    अं॒शोः पय॑सा मदि॒रो न जागृ॑वि॒रच्छा॒ कोशं॑ मधु॒श्चुतं॑ ॥

    प्र सोम देववीतये सिन्धुर् न पिप्ये अर्णसा |
    अंशोः पयसा मदिरो न जागृविर् अच्छा कोशम् मधुश्चुतम् ||

    prá soma devávītaye síndhurná pipye árṇasā ǀ
    aṃśóḥ páyasā madiró ná jā́gṛvirácchā kóśam madhuścútam ǁ

    pra soma devavītaye sindhur na pipye arṇasā |
    aṃśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam ||

    प्र । सो॒म॒ । दे॒वऽवी॑तये । सिन्धुः॑ । न । पि॒प्ये॒ । अर्ण॑सा ।
    अं॒शोः । पय॑सा । म॒दि॒रः । न । जागृ॑विः । अच्छ॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥

    प्र । सोम । देवऽवीतये । सिन्धुः । न । पिप्ये । अर्णसा ।
    अंशोः । पयसा । मदिरः । न । जागृविः । अच्छ । कोशम् । मधुऽश्चुतम् ॥

    prá ǀ soma ǀ devá-vītaye ǀ síndhuḥ ǀ ná ǀ pipye ǀ árṇasā ǀ
    aṃśóḥ ǀ páyasā ǀ madiráḥ ǀ ná ǀ jā́gṛviḥ ǀ áccha ǀ kóśam ǀ madhu-ścútam ǁ

    pra ǀ soma ǀ deva-vītaye ǀ sindhuḥ ǀ na ǀ pipye ǀ arṇasā ǀ
    aṃśoḥ ǀ payasā ǀ madiraḥ ǀ na ǀ jāgṛviḥ ǀ accha ǀ kośam ǀ madhu-ścutam ǁ

    9.107.12 Aṣṭaka 7.5.14.2Anuvāka 9.7.38

  13. Ṛk 13

    आ ह॑र्य॒तो अर्जु॑ने॒ अत्के॑ अव्यत प्रि॒यः सू॒नुर्न मर्ज्यः॑ ।
    तमीं॑ हिन्वंत्य॒पसो॒ यथा॒ रथं॑ न॒दीष्वा गभ॑स्त्योः ॥

    आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर् न मर्ज्यः |
    तम् ईं हिन्वन्त्य् अपसो यथा रथं नदीष्व् आ गभस्त्योः ||

    ā́ haryató árjune átke avyata priyáḥ sūnúrná márjyaḥ ǀ
    támīm hinvantyapáso yáthā rátham nadī́ṣvā́ gábhastyoḥ ǁ

    ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ |
    tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ ||

    आ । ह॒र्य॒तः । अर्जु॑ने । अत्के॑ । अ॒व्य॒त॒ । प्रि॒यः । सू॒नुः । न । मर्ज्यः॑ ।
    तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒पसः॑ । यथा॑ । रथ॑म् । न॒दीषु॑ । आ । गभ॑स्त्योः ॥

    आ । हर्यतः । अर्जुने । अत्के । अव्यत । प्रियः । सूनुः । न । मर्ज्यः ।
    तम् । ईम् । हिन्वन्ति । अपसः । यथा । रथम् । नदीषु । आ । गभस्त्योः ॥

    ā́ ǀ haryatáḥ ǀ árjune ǀ átke ǀ avyata ǀ priyáḥ ǀ sūnúḥ ǀ ná ǀ márjyaḥ ǀ
    tám ǀ īm ǀ hinvanti ǀ apásaḥ ǀ yáthā ǀ rátham ǀ nadī́ṣu ǀ ā́ ǀ gábhastyoḥ ǁ

    ā ǀ haryataḥ ǀ arjune ǀ atke ǀ avyata ǀ priyaḥ ǀ sūnuḥ ǀ na ǀ marjyaḥ ǀ
    tam ǀ īm ǀ hinvanti ǀ apasaḥ ǀ yathā ǀ ratham ǀ nadīṣu ǀ ā ǀ gabhastyoḥ ǁ

    9.107.13 Aṣṭaka 7.5.14.3Anuvāka 9.7.39

  14. Ṛk 14

    अ॒भि सोमा॑स आ॒यवः॒ पवं॑ते॒ मद्यं॒ मदं॑ ।
    स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒षिणो॑ मत्स॒रासः॑ स्व॒र्विदः॑ ॥

    अभि सोमास आयवः पवन्ते मद्यम् मदम् |
    समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ||

    abhí sómāsa āyávaḥ pávante mádyam mádam ǀ
    samudrásyā́dhi viṣṭápi manīṣíṇo matsarā́saḥ svarvídaḥ ǁ

    abhi somāsa āyavaḥ pavante madyam madam |
    samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ ||

    अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् ।
    स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ । म॒नी॒षिणः॑ । म॒त्स॒रासः॑ । स्वः॒ऽविदः॑ ॥

    अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् ।
    समुद्रस्य । अधि । विष्टपि । मनीषिणः । मत्सरासः । स्वःऽविदः ॥

    abhí ǀ sómāsaḥ ǀ āyávaḥ ǀ pávante ǀ mádyam ǀ mádam ǀ
    samudrásya ǀ ádhi ǀ viṣṭápi ǀ manīṣíṇaḥ ǀ matsarā́saḥ ǀ svaḥ-vídaḥ ǁ

    abhi ǀ somāsaḥ ǀ āyavaḥ ǀ pavante ǀ madyam ǀ madam ǀ
    samudrasya ǀ adhi ǀ viṣṭapi ǀ manīṣiṇaḥ ǀ matsarāsaḥ ǀ svaḥ-vidaḥ ǁ

    9.107.14 Aṣṭaka 7.5.14.4Anuvāka 9.7.40

  15. Ṛk 15

    तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा॑ दे॒व ऋ॒तं बृ॒हत् ।
    अर्ष॑न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि॑न्वा॒न ऋ॒तं बृ॒हत् ॥

    तरत् समुद्रम् पवमान ऊर्मिणा राजा देव ऋतम् बृहत् |
    अर्षन् मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतम् बृहत् ||

    táratsamudrám pávamāna ūrmíṇā rā́jā devá ṛtám bṛhát ǀ
    árṣanmitrásya váruṇasya dhármaṇā prá hinvāná ṛtám bṛhát ǁ

    tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat |
    arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat ||

    तर॑त् । स॒मु॒द्रम् । पव॑मानः । ऊ॒र्मिणा॑ । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् ।
    अर्ष॑त् । मि॒त्रस्य॑ । वरु॑णस्य । धर्म॑णा । प्र । हि॒न्वा॒नः । ऋ॒तम् । बृ॒हत् ॥

    तरत् । समुद्रम् । पवमानः । ऊर्मिणा । राजा । देवः । ऋतम् । बृहत् ।
    अर्षत् । मित्रस्य । वरुणस्य । धर्मणा । प्र । हिन्वानः । ऋतम् । बृहत् ॥

    tárat ǀ samudrám ǀ pávamānaḥ ǀ ūrmíṇā ǀ rā́jā ǀ deváḥ ǀ ṛtám ǀ bṛhát ǀ
    árṣat ǀ mitrásya ǀ váruṇasya ǀ dhármaṇā ǀ prá ǀ hinvānáḥ ǀ ṛtám ǀ bṛhát ǁ

    tarat ǀ samudram ǀ pavamānaḥ ǀ ūrmiṇā ǀ rājā ǀ devaḥ ǀ ṛtam ǀ bṛhat ǀ
    arṣat ǀ mitrasya ǀ varuṇasya ǀ dharmaṇā ǀ pra ǀ hinvānaḥ ǀ ṛtam ǀ bṛhat ǁ

    9.107.15 Aṣṭaka 7.5.14.5Anuvāka 9.7.41

  16. Ṛk 16

    नृभि॑र्येमा॒नो ह॑र्य॒तो वि॑चक्ष॒णो राजा॑ दे॒वः स॑मु॒द्रियः॑ ॥

    नृभिर् येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ||

    nṛ́bhiryemānó haryató vicakṣaṇó rā́jā deváḥ samudríyaḥ ǁ

    nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ ||

    नृऽभिः॑ । ये॒मा॒नः । ह॒र्य॒तः । वि॒ऽच॒क्ष॒णः । राजा॑ । दे॒वः । स॒मु॒द्रियः॑ ॥

    नृऽभिः । येमानः । हर्यतः । विऽचक्षणः । राजा । देवः । समुद्रियः ॥

    nṛ́-bhiḥ ǀ yemānáḥ ǀ haryatáḥ ǀ vi-cakṣaṇáḥ ǀ rā́jā ǀ deváḥ ǀ samudríyaḥ ǁ

    nṛ-bhiḥ ǀ yemānaḥ ǀ haryataḥ ǀ vi-cakṣaṇaḥ ǀ rājā ǀ devaḥ ǀ samudriyaḥ ǁ

    9.107.16 Aṣṭaka 7.5.15.1Anuvāka 9.7.42

  17. Ṛk 17

    इंद्रा॑य पवते॒ मदः॒ सोमो॑ म॒रुत्व॑ते सु॒तः ।
    स॒हस्र॑धारो॒ अत्यव्य॑मर्षति॒ तमी॑ मृजंत्या॒यवः॑ ॥

    इन्द्राय पवते मदः सोमो मरुत्वते सुतः |
    सहस्रधारो अत्य् अव्यम् अर्षति तम् ई मृजन्त्य् आयवः ||

    índrāya pavate mádaḥ sómo marútvate sutáḥ ǀ
    sahásradhāro átyávyamarṣati támī mṛjantyāyávaḥ ǁ

    indrāya pavate madaḥ somo marutvate sutaḥ |
    sahasradhāro aty avyam arṣati tam ī mṛjanty āyavaḥ ||

    इन्द्रा॑य । प॒व॒ते॒ । मदः॑ । सोमः॑ । म॒रुत्व॑ते । सु॒तः ।
    स॒हस्र॑ऽधारः । अति॑ । अव्य॑म् । अ॒र्ष॒ति॒ । तम् । ई॒मिति॑ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥

    इन्द्राय । पवते । मदः । सोमः । मरुत्वते । सुतः ।
    सहस्रऽधारः । अति । अव्यम् । अर्षति । तम् । ईमिति । मृजन्ति । आयवः ॥

    índrāya ǀ pavate ǀ mádaḥ ǀ sómaḥ ǀ marútvate ǀ sutáḥ ǀ
    sahásra-dhāraḥ ǀ áti ǀ ávyam ǀ arṣati ǀ tám ǀ īmíti ǀ mṛjanti ǀ āyávaḥ ǁ

    indrāya ǀ pavate ǀ madaḥ ǀ somaḥ ǀ marutvate ǀ sutaḥ ǀ
    sahasra-dhāraḥ ǀ ati ǀ avyam ǀ arṣati ǀ tam ǀ īmiti ǀ mṛjanti ǀ āyavaḥ ǁ

    9.107.17 Aṣṭaka 7.5.15.2Anuvāka 9.7.43

  18. Ṛk 18

    पु॒ना॒नश्च॒मू ज॒नय॑न्म॒तिं क॒विः सोमो॑ दे॒वेषु॑ रण्यति ।
    अ॒पो वसा॑नः॒ परि॒ गोभि॒रुत्त॑रः॒ सीद॒न्वने॑ष्वव्यत ॥

    पुनानश् चमू जनयन् मतिं कविः सोमो देवेषु रण्यति |
    अपो वसानः परि गोभिर् उत्तरः सीदन् वनेष्व् अव्यत ||

    punānáścamū́ janáyanmatím kavíḥ sómo devéṣu raṇyati ǀ
    apó vásānaḥ pári góbhirúttaraḥ sī́danváneṣvavyata ǁ

    punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati |
    apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata ||

    पु॒ना॒नः । च॒मू इति॑ । ज॒नय॑न् । म॒तिम् । क॒विः । सोमः॑ । दे॒वेषु॑ । र॒ण्य॒ति॒ ।
    अ॒पः । वसा॑नः । परि॑ । गोभिः॑ । उत्ऽत॑रः । सीद॑न् । वने॑षु । अ॒व्य॒त॒ ॥

    पुनानः । चमू इति । जनयन् । मतिम् । कविः । सोमः । देवेषु । रण्यति ।
    अपः । वसानः । परि । गोभिः । उत्ऽतरः । सीदन् । वनेषु । अव्यत ॥

    punānáḥ ǀ camū́ íti ǀ janáyan ǀ matím ǀ kavíḥ ǀ sómaḥ ǀ devéṣu ǀ raṇyati ǀ
    apáḥ ǀ vásānaḥ ǀ pári ǀ góbhiḥ ǀ út-taraḥ ǀ sī́dan ǀ váneṣu ǀ avyata ǁ

    punānaḥ ǀ camū iti ǀ janayan ǀ matim ǀ kaviḥ ǀ somaḥ ǀ deveṣu ǀ raṇyati ǀ
    apaḥ ǀ vasānaḥ ǀ pari ǀ gobhiḥ ǀ ut-taraḥ ǀ sīdan ǀ vaneṣu ǀ avyata ǁ

    9.107.18 Aṣṭaka 7.5.15.3Anuvāka 9.7.44

  19. Ṛk 19

    तवा॒हं सो॑म रारण स॒ख्य इं॑दो दि॒वेदि॑वे ।
    पु॒रूणि॑ बभ्रो॒ नि च॑रंति॒ मामव॑ परि॒धीँरति॒ ताँ इ॑हि ॥

    तवाहं सोम रारण सख्य इन्दो दिवे-दिवे |
    पुरूणि बभ्रो नि चरन्ति माम् अव परिधींर् अति तां इहि ||

    távāhám soma rāraṇa sakhyá indo divédive ǀ
    purū́ṇi babhro ní caranti mā́máva paridhī́m̐ráti tā́m̐ ihi ǁ

    tavāhaṃ soma rāraṇa sakhya indo dive-dive |
    purūṇi babhro ni caranti mām ava paridhīṃr ati tāṃ ihi ||

    तव॑ । अ॒हम् । सो॒म॒ । र॒र॒ण॒ । स॒ख्ये । इ॒न्दो॒ इति॑ । दि॒वेऽदि॑वे ।
    पु॒रूणि॑ । ब॒भ्रो॒ इति॑ । नि । च॒र॒न्ति॒ । माम् । अव॑ । प॒रि॒ऽधीन् । अति॑ । तान् । इ॒हि॒ ॥

    तव । अहम् । सोम । ररण । सख्ये । इन्दो इति । दिवेऽदिवे ।
    पुरूणि । बभ्रो इति । नि । चरन्ति । माम् । अव । परिऽधीन् । अति । तान् । इहि ॥

    táva ǀ ahám ǀ soma ǀ raraṇa ǀ sakhyé ǀ indo íti ǀ divé-dive ǀ
    purū́ṇi ǀ babhro íti ǀ ní ǀ caranti ǀ mā́m ǀ áva ǀ pari-dhī́n ǀ áti ǀ tā́n ǀ ihi ǁ

    tava ǀ aham ǀ soma ǀ raraṇa ǀ sakhye ǀ indo iti ǀ dive-dive ǀ
    purūṇi ǀ babhro iti ǀ ni ǀ caranti ǀ mām ǀ ava ǀ pari-dhīn ǀ ati ǀ tān ǀ ihi ǁ

    9.107.19 Aṣṭaka 7.5.15.4Anuvāka 9.7.45

  20. Ṛk 20

    उ॒ताहं नक्त॑मु॒त सो॑म ते॒ दिवा॑ स॒ख्याय॑ बभ्र॒ ऊध॑नि ।
    घृ॒णा तपं॑त॒मति॒ सूर्यं॑ प॒रः श॑कु॒ना इ॑व पप्तिम ॥

    उताहं नक्तम् उत सोम ते दिवा सख्याय बभ्र ऊधनि |
    घृणा तपन्तम् अति सूर्यम् परः शकुना इव पप्तिम ||

    utā́hám náktamutá soma te dívā sakhyā́ya babhra ū́dhani ǀ
    ghṛṇā́ tápantamáti sū́ryam paráḥ śakunā́ iva paptima ǁ

    utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani |
    ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima ||

    उ॒त । अ॒हम् । नक्त॑म् । उ॒त । सो॒म॒ । ते॒ । दिवा॑ । स॒ख्याय॑ । ब॒भ्रो॒ इति॑ । ऊध॑नि ।
    घृ॒णा । तप॑न्तम् । अति॑ । सूर्य॑म् । प॒रः । श॒कु॒नाःऽइ॑व । प॒प्ति॒म॒ ॥

    उत । अहम् । नक्तम् । उत । सोम । ते । दिवा । सख्याय । बभ्रो इति । ऊधनि ।
    घृणा । तपन्तम् । अति । सूर्यम् । परः । शकुनाःऽइव । पप्तिम ॥

    utá ǀ ahám ǀ náktam ǀ utá ǀ soma ǀ te ǀ dívā ǀ sakhyā́ya ǀ babhro íti ǀ ū́dhani ǀ
    ghṛṇā́ ǀ tápantam ǀ áti ǀ sū́ryam ǀ paráḥ ǀ śakunā́ḥ-iva ǀ paptima ǁ

    uta ǀ aham ǀ naktam ǀ uta ǀ soma ǀ te ǀ divā ǀ sakhyāya ǀ babhro iti ǀ ūdhani ǀ
    ghṛṇā ǀ tapantam ǀ ati ǀ sūryam ǀ paraḥ ǀ śakunāḥ-iva ǀ paptima ǁ

    9.107.20 Aṣṭaka 7.5.15.5Anuvāka 9.7.46

  21. Ṛk 21

    मृ॒ज्यमा॑नः सुहस्त्य समु॒द्रे वाच॑मिन्वसि ।
    र॒यिं पि॒शंगं॑ बहु॒लं पु॑रु॒स्पृहं॒ पव॑माना॒भ्य॑र्षसि ॥

    मृज्यमानः सुहस्त्य समुद्रे वाचम् इन्वसि |
    रयिम् पिशङ्गम् बहुलम् पुरुस्पृहम् पवमानाभ्य् अर्षसि ||

    mṛjyámānaḥ suhastya samudré vā́caminvasi ǀ
    rayím piśáṅgam bahulám puruspṛ́ham pávamānābhyárṣasi ǁ

    mṛjyamānaḥ suhastya samudre vācam invasi |
    rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi ||

    मृ॒ज्यमा॑नः । सु॒ऽह॒स्त्य॒ । स॒मु॒द्रे । वाच॑म् । इ॒न्व॒सि॒ ।
    र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । पु॒रु॒ऽस्पृह॑म् । पव॑मान । अ॒भि । अ॒र्ष॒सि॒ ॥

    मृज्यमानः । सुऽहस्त्य । समुद्रे । वाचम् । इन्वसि ।
    रयिम् । पिशङ्गम् । बहुलम् । पुरुऽस्पृहम् । पवमान । अभि । अर्षसि ॥

    mṛjyámānaḥ ǀ su-hastya ǀ samudré ǀ vā́cam ǀ invasi ǀ
    rayím ǀ piśáṅgam ǀ bahulám ǀ puru-spṛ́ham ǀ pávamāna ǀ abhí ǀ arṣasi ǁ

    mṛjyamānaḥ ǀ su-hastya ǀ samudre ǀ vācam ǀ invasi ǀ
    rayim ǀ piśaṅgam ǀ bahulam ǀ puru-spṛham ǀ pavamāna ǀ abhi ǀ arṣasi ǁ

    9.107.21 Aṣṭaka 7.5.16.1Anuvāka 9.7.47

  22. Ṛk 22

    मृ॒जा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑ चक्रदो॒ वने॑ ।
    दे॒वानां॑ सोम पवमान निष्कृ॒तं गोभि॑रंजा॒नो अ॑र्षसि ॥

    मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने |
    देवानां सोम पवमान निष्कृतं गोभिर् अञ्जानो अर्षसि ||

    mṛjānó vā́re pávamāno avyáye vṛ́ṣā́va cakrado váne ǀ
    devā́nām soma pavamāna niṣkṛtám góbhirañjānó arṣasi ǁ

    mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane |
    devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi ||

    मृ॒जा॒नः । वारे॑ । पव॑मानः । अ॒व्यये॑ । वृषा॑ । अव॑ । च॒क्र॒दः॒ । वने॑ ।
    दे॒वाना॑म् । सो॒म॒ । प॒व॒मा॒न॒ । निः॒ऽकृ॒तम् । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒सि॒ ॥

    मृजानः । वारे । पवमानः । अव्यये । वृषा । अव । चक्रदः । वने ।
    देवानाम् । सोम । पवमान । निःऽकृतम् । गोभिः । अञ्जानः । अर्षसि ॥

    mṛjānáḥ ǀ vā́re ǀ pávamānaḥ ǀ avyáye ǀ vṛ́ṣā ǀ áva ǀ cakradaḥ ǀ váne ǀ
    devā́nām ǀ soma ǀ pavamāna ǀ niḥ-kṛtám ǀ góbhiḥ ǀ añjānáḥ ǀ arṣasi ǁ

    mṛjānaḥ ǀ vāre ǀ pavamānaḥ ǀ avyaye ǀ vṛṣā ǀ ava ǀ cakradaḥ ǀ vane ǀ
    devānām ǀ soma ǀ pavamāna ǀ niḥ-kṛtam ǀ gobhiḥ ǀ añjānaḥ ǀ arṣasi ǁ

    9.107.22 Aṣṭaka 7.5.16.2Anuvāka 9.7.48

  23. Ṛk 23

    पव॑स्व॒ वाज॑सातये॒ऽभि विश्वा॑नि॒ काव्या॑ ।
    त्वं स॑मु॒द्रं प्र॑थ॒मो वि धा॑रयो दे॒वेभ्यः॑ सोम मत्स॒रः ॥

    पवस्व वाजसातये ऽभि विश्वानि काव्या |
    त्वं समुद्रम् प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ||

    pávasva vā́jasātaye’bhí víśvāni kā́vyā ǀ
    tvám samudrám prathamó ví dhārayo devébhyaḥ soma matsaráḥ ǁ

    pavasva vājasātaye 'bhi viśvāni kāvyā |
    tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ ||

    पव॑स्व । वाज॑ऽसातये । अ॒भि । विश्वा॑नि । काव्या॑ ।
    त्वम् । स॒मु॒द्रम् । प्र॒थ॒मः । वि । धा॒र॒यः॒ । दे॒वेभ्यः॑ । सो॒म॒ । म॒त्स॒रः ॥

    पवस्व । वाजऽसातये । अभि । विश्वानि । काव्या ।
    त्वम् । समुद्रम् । प्रथमः । वि । धारयः । देवेभ्यः । सोम । मत्सरः ॥

    pávasva ǀ vā́ja-sātaye ǀ abhí ǀ víśvāni ǀ kā́vyā ǀ
    tvám ǀ samudrám ǀ prathamáḥ ǀ ví ǀ dhārayaḥ ǀ devébhyaḥ ǀ soma ǀ matsaráḥ ǁ

    pavasva ǀ vāja-sātaye ǀ abhi ǀ viśvāni ǀ kāvyā ǀ
    tvam ǀ samudram ǀ prathamaḥ ǀ vi ǀ dhārayaḥ ǀ devebhyaḥ ǀ soma ǀ matsaraḥ ǁ

    9.107.23 Aṣṭaka 7.5.16.3Anuvāka 9.7.49

  24. Ṛk 24

    स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजो॑ दि॒व्या च॑ सोम॒ धर्म॑भिः ।
    त्वां विप्रा॑सो म॒तिभि॑र्विचक्षण शु॒भ्रं हि॑न्वंति धी॒तिभिः॑ ॥

    स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः |
    त्वां विप्रासो मतिभिर् विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ||

    sá tū́ pavasva pári pā́rthivam rájo divyā́ ca soma dhármabhiḥ ǀ
    tvā́m víprāso matíbhirvicakṣaṇa śubhrám hinvanti dhītíbhiḥ ǁ

    sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ |
    tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ ||

    सः । तु । प॒व॒स्व॒ । परि॑ । पार्थि॑वम् । रजः॑ । दि॒व्या । च॒ । सो॒म॒ । धर्म॑ऽभिः ।
    त्वाम् । विप्रा॑सः । म॒तिऽभिः॑ । वि॒ऽच॒क्ष॒ण॒ । शु॒भ्रम् । हि॒न्व॒न्ति॒ । धी॒तिऽभिः॑ ॥

    सः । तु । पवस्व । परि । पार्थिवम् । रजः । दिव्या । च । सोम । धर्मऽभिः ।
    त्वाम् । विप्रासः । मतिऽभिः । विऽचक्षण । शुभ्रम् । हिन्वन्ति । धीतिऽभिः ॥

    sáḥ ǀ tú ǀ pavasva ǀ pári ǀ pā́rthivam ǀ rájaḥ ǀ divyā́ ǀ ca ǀ soma ǀ dhárma-bhiḥ ǀ
    tvā́m ǀ víprāsaḥ ǀ matí-bhiḥ ǀ vi-cakṣaṇa ǀ śubhrám ǀ hinvanti ǀ dhītí-bhiḥ ǁ

    saḥ ǀ tu ǀ pavasva ǀ pari ǀ pārthivam ǀ rajaḥ ǀ divyā ǀ ca ǀ soma ǀ dharma-bhiḥ ǀ
    tvām ǀ viprāsaḥ ǀ mati-bhiḥ ǀ vi-cakṣaṇa ǀ śubhram ǀ hinvanti ǀ dhīti-bhiḥ ǁ

    9.107.24 Aṣṭaka 7.5.16.4Anuvāka 9.7.50

  25. Ṛk 25

    पव॑माना असृक्षत प॒वित्र॒मति॒ धार॑या ।
    म॒रुत्वं॑तो मत्स॒रा इं॑द्रि॒या हया॑ मे॒धाम॒भि प्रयां॑सि च ॥

    पवमाना असृक्षत पवित्रम् अति धारया |
    मरुत्वन्तो मत्सरा इन्द्रिया हया मेधाम् अभि प्रयांसि च ||

    pávamānā asṛkṣata pavítramáti dhā́rayā ǀ
    marútvanto matsarā́ indriyā́ háyā medhā́mabhí práyāṃsi ca ǁ

    pavamānā asṛkṣata pavitram ati dhārayā |
    marutvanto matsarā indriyā hayā medhām abhi prayāṃsi ca ||

    पव॑मानाः । अ॒सृ॒क्ष॒त॒ । प॒वित्र॑म् । अति॑ । धार॑या ।
    म॒रुत्व॑न्तः । म॒त्स॒राः । इ॒न्द्रि॒याः । हयाः॑ । मे॒धाम् । अ॒भि । प्रयां॑सि । च॒ ॥

    पवमानाः । असृक्षत । पवित्रम् । अति । धारया ।
    मरुत्वन्तः । मत्सराः । इन्द्रियाः । हयाः । मेधाम् । अभि । प्रयांसि । च ॥

    pávamānāḥ ǀ asṛkṣata ǀ pavítram ǀ áti ǀ dhā́rayā ǀ
    marútvantaḥ ǀ matsarā́ḥ ǀ indriyā́ḥ ǀ háyāḥ ǀ medhā́m ǀ abhí ǀ práyāṃsi ǀ ca ǁ

    pavamānāḥ ǀ asṛkṣata ǀ pavitram ǀ ati ǀ dhārayā ǀ
    marutvantaḥ ǀ matsarāḥ ǀ indriyāḥ ǀ hayāḥ ǀ medhām ǀ abhi ǀ prayāṃsi ǀ ca ǁ

    9.107.25 Aṣṭaka 7.5.16.5Anuvāka 9.7.51

  26. Ṛk 26

    अ॒पो वसा॑नः॒ परि॒ कोश॑मर्ष॒तींदु॑र्हिया॒नः सो॒तृभिः॑ ।
    ज॒नयं॒ज्योति॑र्मं॒दना॑ अवीवश॒द्गाः कृ॑ण्वा॒नो न नि॒र्णिजं॑ ॥

    अपो वसानः परि कोशम् अर्षतीन्दुर् हियानः सोतृभिः |
    जनयञ् ज्योतिर् मन्दना अवीवशद् गाः कृण्वानो न निर्णिजम् ||

    apó vásānaḥ pári kóśamarṣatī́ndurhiyānáḥ sotṛ́bhiḥ ǀ
    janáyañjyótirmandánā avīvaśadgā́ḥ kṛṇvānó ná nirṇíjam ǁ

    apo vasānaḥ pari kośam arṣatīndur hiyānaḥ sotṛbhiḥ |
    janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam ||

    अ॒पः । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । इन्दुः॑ । हि॒या॒नः । सो॒तृऽभिः॑ ।
    ज॒नय॑न् । ज्योतिः॑ । म॒न्दनाः॑ । अ॒वी॒व॒श॒त् । गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥

    अपः । वसानः । परि । कोशम् । अर्षति । इन्दुः । हियानः । सोतृऽभिः ।
    जनयन् । ज्योतिः । मन्दनाः । अवीवशत् । गाः । कृण्वानः । न । निःऽनिजम् ॥

    apáḥ ǀ vásānaḥ ǀ pári ǀ kóśam ǀ arṣati ǀ índuḥ ǀ hiyānáḥ ǀ sotṛ́-bhiḥ ǀ
    janáyan ǀ jyótiḥ ǀ mandánāḥ ǀ avīvaśat ǀ gā́ḥ ǀ kṛṇvānáḥ ǀ ná ǀ niḥ-níjam ǁ

    apaḥ ǀ vasānaḥ ǀ pari ǀ kośam ǀ arṣati ǀ induḥ ǀ hiyānaḥ ǀ sotṛ-bhiḥ ǀ
    janayan ǀ jyotiḥ ǀ mandanāḥ ǀ avīvaśat ǀ gāḥ ǀ kṛṇvānaḥ ǀ na ǀ niḥ-nijam ǁ

    9.107.26 Aṣṭaka 7.5.16.6Anuvāka 9.7.52

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.107 · Soma Pavamāna

Interpretations

Ralph T. H. Griffith

Ṛk 1

I., HENCE sprinkle forth the juice effused,. Soma, the best of sacred gifts, Who, friend of man, hath run amid the water-streams. He hath pressed Soma out with stones.

Ṛk 2

Now, being purified, flow hither through the fleece inviolate and most odorous. We ladden thee in waters when thou art effused, blending thee still with juice and milk.

Ṛk 3

Pressed out for all to see, delighting Gods, Indu, Far-sighted One, is mental power.

Ṛk 4

Cleansing thee, Soma, in thy stream, thou flowest in a watery robe: Giver of wealth, thou sittest in the place of Law, O God, a fountain made of gold.

Ṛk 5

Milking the heavenly udder for dear meath, he hath sat in the ancient gatheringplace. Washed by the men, the Strong Farseeing One streams forth nutriti us food that all desire.

Ṛk 6

O Soma, while they cleanse thee, dear and watchful in the sheep's long wool, Thou hast become a Singer most like Aṅgiras: thou madest Sūrya mount to heaven.

Ṛk 7

Bountiful, best of furtherers, Soma floweth on, Ṛṣi and Singer, keen of sight. Thou hast become a Sage most welcome to the Gods: thou madest Sūrya mount to heaven.

Ṛk 8

Pressed out by pressers, Soma goes over the fleecy backs of sheep, Goes, even as with a mare, in tawnycoloured stream, goes in exhilarating stream.

Ṛk 9

Down to the water-Soma, rich in kine hath flowed with cows, with cows that have been milked. They have approached the mixing-vessel as a sea: the cheerer streams for the carouse.

Ṛk 10

Effused by stones, O Soma, and urged through the long wool of the sheep, Thou, entering the saucers as a man the fort, gold-hued hast settled in the wood.

Ṛk 11

He beautifies himself through the sheep's long fine wool, like an impetuous steed in war, Even Soma Pavamana who shall be the joy of sages and of holy bards.

Ṛk 12

O Soma,—for the feast of Gods, river-like he hath swelled with surge, With the stalk's juice, exhilarating, resting not, into the vat that drops with meath.

Ṛk 13

Like a dear son who must be decked, the Lovely One hath clad him in a shining robe. Men skilful at their work drive him forth, like a car, into the rivers from their bands.

Ṛk 14

The living drops of Soma juice pour, as they flow, the gladdening drink, Intelligent drops above the basin of the sea, exhilarating, finding light.

Ṛk 15

May Pavamana, King and God, speed with his wave over the sea the lofty rite: May he by Mitra's and by Varuṇa's decree flow furthering the lofty rite.

Ṛk 16

Far-seeing, lovely, guided by the men, the God whose home is in the sea-

Ṛk 17

Soma, the gladdening juice, flows pressed for Indra with his Marut host: He hastens o’er the fleece with all his thousand streams: men make him bright and beautiful.

Ṛk 18

Purified in the bowl and gendering the hymn, wise Soma joys among the Gods. Robed in the flood, the Mighty One hath clad himself with milk and settled in the vats.

Ṛk 19

O Soma, Indu, every day thy friendship hath been my delight. Many fiends follow me; help me, thou Tawny-hued; pass on beyond these barriers.

Ṛk 20

Close to thy bosom am I, Soma, day and night. O Tawny-hued, for friendship sake. Sūrya himself refulgent with his glow have we o’ertaken in his course like birds.

Ṛk 21

Deft-handcd! thou when purified liftest thy voice amid the sea. Thou, Pavamana, makest riches flow to us, yellow, abundant, much-desifed.

Ṛk 22

Making thee pure and bright in the sheep's long wool, thou hast bellowed, steerlike, in the wood. Thou flowest, Soma Pavamana, balmed with milk unto the special place of Gods.

Ṛk 23

Flow on to win us strength, flow on to lofty lore of every kind. Thou, Soma, as Exhilarator wast the first to spread the sea abroad for Gods.

Ṛk 24

Flow to the realm of earth, flow to the realm of heaven, O Soma, in thy righteous ways. Fair art thou whom the sages, O Far-seeing One, urge onward with their songs and hymns.

Ṛk 25

Over the cleansing sieve have flowed the Pavamanas in a stream, Girt by the Maruts, gladdening, Steeds with Indra's stiength, for wisdom and for dainty food.