Sūkta 1
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles pādanicṛttriṣṭup (1, 6); virāṭtrisṭup (2, 3); nicṛttriṣṭup (4, 5); svarāḍārcītriṣṭup (7)
2nd set of styles triṣṭubh
-
Ṛk 1
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वांतम॑सो॒ ज्योति॒षागा॑त् ।
अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वंग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् |
अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः ||ágre bṛhánnuṣásāmūrdhvó asthānnirjaganvā́ntámaso jyótiṣā́gāt ǀ
agnírbhānúnā rúśatā sváṅga ā́ jātó víśvā sádmānyaprāḥ ǁagre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt |
agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ ||अग्रे॑ । बृ॒हन् । उ॒षसा॑म् । ऊ॒र्ध्वः । अ॒स्था॒त् । निः॒ऽज॒ग॒न्वान् । तम॑सः । ज्योति॑षा । आ । अ॒गा॒त् ।
अ॒ग्निः । भा॒नुना॑ । रुश॑ता । सु॒ऽअङ्गः॑ । आ । जा॒तः । विश्वा॑ । सद्मा॑नि । अ॒प्राः॒ ॥अग्रे । बृहन् । उषसाम् । ऊर्ध्वः । अस्थात् । निःऽजगन्वान् । तमसः । ज्योतिषा । आ । अगात् ।
अग्निः । भानुना । रुशता । सुऽअङ्गः । आ । जातः । विश्वा । सद्मानि । अप्राः ॥ágre ǀ bṛhán ǀ uṣásām ǀ ūrdhváḥ ǀ asthāt ǀ niḥ-jaganvā́n ǀ támasaḥ ǀ jyótiṣā ǀ ā́ ǀ agāt ǀ
agníḥ ǀ bhānúnā ǀ rúśatā ǀ su-áṅgaḥ ǀ ā́ ǀ jātáḥ ǀ víśvā ǀ sádmāni ǀ aprāḥ ǁagre ǀ bṛhan ǀ uṣasām ǀ ūrdhvaḥ ǀ asthāt ǀ niḥ-jaganvān ǀ tamasaḥ ǀ jyotiṣā ǀ ā ǀ agāt ǀ
agniḥ ǀ bhānunā ǀ ruśatā ǀ su-aṅgaḥ ǀ ā ǀ jātaḥ ǀ viśvā ǀ sadmāni ǀ aprāḥ ǁ10.1.1 Aṣṭaka 7.5.29.1Anuvāka 10.1.1
-
Ṛk 2
स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
चि॒त्रः शिशुः॒ परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु |
चित्रः शिशुः परि तमांस्य् अक्तून् प्र मातृभ्यो अधि कनिक्रदद् गाः ||sá jātó gárbho asi ródasyorágne cā́rurvíbhṛta óṣadhīṣu ǀ
citráḥ śíśuḥ pári támāṃsyaktū́nprá mātṛ́bhyo ádhi kánikradadgāḥ ǁsa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu |
citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ ||सः । जा॒तः । गर्भः॑ । अ॒सि॒ । रोद॑स्योः । अग्ने॑ । चारुः॑ । विऽभृ॑तः । ओष॑धीषु ।
चि॒त्रः । शिशुः॑ । परि॑ । तमां॑सि । अ॒क्तून् । प्र । मा॒तृऽभ्यः॑ । अधि॑ । कनि॑क्रदत् । गाः॒ ॥सः । जातः । गर्भः । असि । रोदस्योः । अग्ने । चारुः । विऽभृतः । ओषधीषु ।
चित्रः । शिशुः । परि । तमांसि । अक्तून् । प्र । मातृऽभ्यः । अधि । कनिक्रदत् । गाः ॥sáḥ ǀ jātáḥ ǀ gárbhaḥ ǀ asi ǀ ródasyoḥ ǀ ágne ǀ cā́ruḥ ǀ ví-bhṛtaḥ ǀ óṣadhīṣu ǀ
citráḥ ǀ śíśuḥ ǀ pári ǀ támāṃsi ǀ aktū́n ǀ prá ǀ mātṛ́-bhyaḥ ǀ ádhi ǀ kánikradat ǀ gāḥ ǁsaḥ ǀ jātaḥ ǀ garbhaḥ ǀ asi ǀ rodasyoḥ ǀ agne ǀ cāruḥ ǀ vi-bhṛtaḥ ǀ oṣadhīṣu ǀ
citraḥ ǀ śiśuḥ ǀ pari ǀ tamāṃsi ǀ aktūn ǀ pra ǀ mātṛ-bhyaḥ ǀ adhi ǀ kanikradat ǀ gāḥ ǁ10.1.2 Aṣṭaka 7.5.29.2Anuvāka 10.1.2
-
Ṛk 3
विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वांजा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीयं॑ ।
आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्चं॒त्यत्र॑ ॥विष्णुर् इत्था परमम् अस्य विद्वाञ् जातो बृहन्न् अभि पाति तृतीयम् |
आसा यद् अस्य पयो अक्रत स्वं सचेतसो अभ्य् अर्चन्त्य् अत्र ||víṣṇuritthā́ paramámasya vidvā́ñjātó bṛhánnabhí pāti tṛtī́yam ǀ
āsā́ yádasya páyo ákrata svám sácetaso abhyárcantyátra ǁviṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam |
āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra ||विष्णुः॑ । इ॒त्था । प॒र॒मम् । अ॒स्य॒ । वि॒द्वान् । जा॒तः । बृ॒हन् । अ॒भि । पा॒ति॒ । तृ॒तीय॑म् ।
आ॒सा । यत् । अ॒स्य॒ । पयः॑ । अक्र॑त । स्वम् । सऽचे॑तसः । अ॒भि । अ॒र्च॒न्ति॒ । अत्र॑ ॥विष्णुः । इत्था । परमम् । अस्य । विद्वान् । जातः । बृहन् । अभि । पाति । तृतीयम् ।
आसा । यत् । अस्य । पयः । अक्रत । स्वम् । सऽचेतसः । अभि । अर्चन्ति । अत्र ॥víṣṇuḥ ǀ itthā́ ǀ paramám ǀ asya ǀ vidvā́n ǀ jātáḥ ǀ bṛhán ǀ abhí ǀ pāti ǀ tṛtī́yam ǀ
āsā́ ǀ yát ǀ asya ǀ páyaḥ ǀ ákrata ǀ svám ǀ sá-cetasaḥ ǀ abhí ǀ arcanti ǀ átra ǁviṣṇuḥ ǀ itthā ǀ paramam ǀ asya ǀ vidvān ǀ jātaḥ ǀ bṛhan ǀ abhi ǀ pāti ǀ tṛtīyam ǀ
āsā ǀ yat ǀ asya ǀ payaḥ ǀ akrata ǀ svam ǀ sa-cetasaḥ ǀ abhi ǀ arcanti ǀ atra ǁ10.1.3 Aṣṭaka 7.5.29.3Anuvāka 10.1.3
-
Ṛk 4
अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चरं॒त्यन्नैः॑ ।
ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥अत उ त्वा पितुभृतो जनित्रीर् अन्नावृधम् प्रति चरन्त्य् अन्नैः |
ता ईम् प्रत्य् एषि पुनर् अन्यरूपा असि त्वं विक्षु मानुषीषु होता ||áta u tvā pitubhṛ́to jánitrīrannāvṛ́dham práti carantyánnaiḥ ǀ
tā́ īm prátyeṣi púnaranyárūpā ási tvám vikṣú mā́nuṣīṣu hótā ǁata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ |
tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā ||अतः॑ । ऊं॒ इति॑ । त्वा॒ । पि॒तु॒ऽभृतः॑ । जनि॑त्रीः । अ॒न्न॒ऽवृध॑म् । प्रति॑ । च॒र॒न्ति॒ । अन्नैः॑ ।
ताः । ई॒म् । प्रति॑ । ए॒षि॒ । पुनः॑ । अ॒न्यऽरू॑पाः । असि॑ । त्वम् । वि॒क्षु । मानु॑षीषु । होता॑ ॥अतः । ऊं इति । त्वा । पितुऽभृतः । जनित्रीः । अन्नऽवृधम् । प्रति । चरन्ति । अन्नैः ।
ताः । ईम् । प्रति । एषि । पुनः । अन्यऽरूपाः । असि । त्वम् । विक्षु । मानुषीषु । होता ॥átaḥ ǀ ūṃ íti ǀ tvā ǀ pitu-bhṛ́taḥ ǀ jánitrīḥ ǀ anna-vṛ́dham ǀ práti ǀ caranti ǀ ánnaiḥ ǀ
tā́ḥ ǀ īm ǀ práti ǀ eṣi ǀ púnaḥ ǀ anyá-rūpāḥ ǀ ási ǀ tvám ǀ vikṣú ǀ mā́nuṣīṣu ǀ hótā ǁataḥ ǀ ūṃ iti ǀ tvā ǀ pitu-bhṛtaḥ ǀ janitrīḥ ǀ anna-vṛdham ǀ prati ǀ caranti ǀ annaiḥ ǀ
tāḥ ǀ īm ǀ prati ǀ eṣi ǀ punaḥ ǀ anya-rūpāḥ ǀ asi ǀ tvam ǀ vikṣu ǀ mānuṣīṣu ǀ hotā ǁ10.1.4 Aṣṭaka 7.5.29.4Anuvāka 10.1.4
-
Ṛk 5
होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुशं॑तं ।
प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नां ॥होतारं चित्ररथम् अध्वरस्य यज्ञस्य-यज्ञस्य केतुं रुशन्तम् |
प्रत्यर्धिं देवस्य-देवस्य मह्ना श्रिया त्व् अग्निम् अतिथिं जनानाम् ||hótāram citrárathamadhvarásya yajñásyayajñasya ketúm rúśantam ǀ
prátyardhim devásyadevasya mahnā́ śriyā́ tvágnímátithim jánānām ǁhotāraṃ citraratham adhvarasya yajñasya-yajñasya ketuṃ ruśantam |
pratyardhiṃ devasya-devasya mahnā śriyā tv agnim atithiṃ janānām ||होता॑रम् । चि॒त्रऽर॑थम् । अ॒ध्व॒रस्य॑ । य॒ज्ञस्य॑ऽयज्ञस्य । के॒तुम् । रुश॑न्तम् ।
प्रति॑ऽअर्धिम् । दे॒वस्य॑ऽदेवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति॑थिम् । जना॑नाम् ॥होतारम् । चित्रऽरथम् । अध्वरस्य । यज्ञस्यऽयज्ञस्य । केतुम् । रुशन्तम् ।
प्रतिऽअर्धिम् । देवस्यऽदेवस्य । मह्ना । श्रिया । त्वम् । अग्निम् । अतिथिम् । जनानाम् ॥hótāram ǀ citrá-ratham ǀ adhvarásya ǀ yajñásya-yajñasya ǀ ketúm ǀ rúśantam ǀ
práti-ardhim ǀ devásya-devasya ǀ mahnā́ ǀ śriyā́ ǀ tvám ǀ agním ǀ átithim ǀ jánānām ǁhotāram ǀ citra-ratham ǀ adhvarasya ǀ yajñasya-yajñasya ǀ ketum ǀ ruśantam ǀ
prati-ardhim ǀ devasya-devasya ǀ mahnā ǀ śriyā ǀ tvam ǀ agnim ǀ atithim ǀ janānām ǁ10.1.5 Aṣṭaka 7.5.29.5Anuvāka 10.1.5
-
Ṛk 6
स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः ।
अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥स तु वस्त्राण्य् अध पेशनानि वसानो अग्निर् नाभा पृथिव्याः |
अरुषो जातः पद इऌआयाः पुरोहितो राजन् यक्षीह देवान् ||sá tú vástrāṇyádha péśanāni vásāno agnírnā́bhā pṛthivyā́ḥ ǀ
aruṣó jātáḥ padá íḷāyāḥ puróhito rājanyakṣīhá devā́n ǁsa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ |
aruṣo jātaḥ pada iḷāyāḥ purohito rājan yakṣīha devān ||सः । तु । वस्त्रा॑णि । अध॑ । पेश॑नानि । वसा॑नः । अ॒ग्निः । नाभा॑ । पृ॒थि॒व्याः ।
अ॒रु॒षः । जा॒तः । प॒दे । इळा॑याः । पु॒रःऽहि॑तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥सः । तु । वस्त्राणि । अध । पेशनानि । वसानः । अग्निः । नाभा । पृथिव्याः ।
अरुषः । जातः । पदे । इळायाः । पुरःऽहितः । राजन् । यक्षि । इह । देवान् ॥sáḥ ǀ tú ǀ vástrāṇi ǀ ádha ǀ péśanāni ǀ vásānaḥ ǀ agníḥ ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ
aruṣáḥ ǀ jātáḥ ǀ padé ǀ íḷāyāḥ ǀ puráḥ-hitaḥ ǀ rājan ǀ yakṣi ǀ ihá ǀ devā́n ǁsaḥ ǀ tu ǀ vastrāṇi ǀ adha ǀ peśanāni ǀ vasānaḥ ǀ agniḥ ǀ nābhā ǀ pṛthivyāḥ ǀ
aruṣaḥ ǀ jātaḥ ǀ pade ǀ iḷāyāḥ ǀ puraḥ-hitaḥ ǀ rājan ǀ yakṣi ǀ iha ǀ devān ǁ10.1.6 Aṣṭaka 7.5.29.6Anuvāka 10.1.6
-
Ṛk 7
आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तंथ॑ ।
प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ |
प्र याह्य् अच्छोशतो यविष्ठाथा वह सहस्येह देवान् ||ā́ hí dyā́vāpṛthivī́ agna ubhé sádā putró ná mātárā tatántha ǀ
prá yāhyácchośató yaviṣṭhā́thā́ vaha sahasyehá devā́n ǁā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha |
pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān ||आ । हि । द्यावा॑पृथि॒वी इति॑ । अ॒ग्ने॒ । उ॒भे इति॑ । सदा॑ । पु॒त्रः । न । मा॒तरा॑ । त॒तन्थ॑ ।
प्र । या॒हि॒ । अच्छ॑ । उ॒श॒तः । य॒वि॒ष्ठ॒ । अथ॑ । आ । व॒ह॒ । स॒ह॒स्य॒ । इ॒ह । दे॒वान् ॥आ । हि । द्यावापृथिवी इति । अग्ने । उभे इति । सदा । पुत्रः । न । मातरा । ततन्थ ।
प्र । याहि । अच्छ । उशतः । यविष्ठ । अथ । आ । वह । सहस्य । इह । देवान् ॥ā́ ǀ hí ǀ dyā́vāpṛthivī́ íti ǀ agne ǀ ubhé íti ǀ sádā ǀ putráḥ ǀ ná ǀ mātárā ǀ tatántha ǀ
prá ǀ yāhi ǀ áccha ǀ uśatáḥ ǀ yaviṣṭha ǀ átha ǀ ā́ ǀ vaha ǀ sahasya ǀ ihá ǀ devā́n ǁā ǀ hi ǀ dyāvāpṛthivī iti ǀ agne ǀ ubhe iti ǀ sadā ǀ putraḥ ǀ na ǀ mātarā ǀ tatantha ǀ
pra ǀ yāhi ǀ accha ǀ uśataḥ ǀ yaviṣṭha ǀ atha ǀ ā ǀ vaha ǀ sahasya ǀ iha ǀ devān ǁ10.1.7 Aṣṭaka 7.5.29.7Anuvāka 10.1.7
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.