Sūkta 11
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Havirdhāna Āṅgi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (1, 2, 6); virāṭjagatī (3-5); triṣṭup (7-9)
2nd set of styles jagatī (1-6); triṣṭubh (7-9)
-
Ṛk 1
वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः ।
विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेर् अदाभ्यः |
विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियां ऋतून् ||vṛ́ṣā vṛ́ṣṇe duduhe dóhasā diváḥ páyāṃsi yahvó áditerádābhyaḥ ǀ
víśvam sá veda váruṇo yáthā dhiyā́ sá yajñíyo yajatu yajñíyām̐ ṛtū́n ǁvṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ |
viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyāṃ ṛtūn ||वृषा॑ । वृष्णे॑ । दु॒दु॒हे॒ । दोह॑सा । दि॒वः । पयां॑सि । य॒ह्वः । अदि॑तेः । अदा॑भ्यः ।
विश्व॑म् । सः । वे॒द॒ । वरु॑णः । यथा॑ । धि॒या । सः । य॒ज्ञियः॑ । य॒ज॒तु॒ । य॒ज्ञिया॑न् । ऋ॒तून् ॥वृषा । वृष्णे । दुदुहे । दोहसा । दिवः । पयांसि । यह्वः । अदितेः । अदाभ्यः ।
विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः । यज्ञियः । यजतु । यज्ञियान् । ऋतून् ॥vṛ́ṣā ǀ vṛ́ṣṇe ǀ duduhe ǀ dóhasā ǀ diváḥ ǀ páyāṃsi ǀ yahváḥ ǀ áditeḥ ǀ ádābhyaḥ ǀ
víśvam ǀ sáḥ ǀ veda ǀ váruṇaḥ ǀ yáthā ǀ dhiyā́ ǀ sáḥ ǀ yajñíyaḥ ǀ yajatu ǀ yajñíyān ǀ ṛtū́n ǁvṛṣā ǀ vṛṣṇe ǀ duduhe ǀ dohasā ǀ divaḥ ǀ payāṃsi ǀ yahvaḥ ǀ aditeḥ ǀ adābhyaḥ ǀ
viśvam ǀ saḥ ǀ veda ǀ varuṇaḥ ǀ yathā ǀ dhiyā ǀ saḥ ǀ yajñiyaḥ ǀ yajatu ǀ yajñiyān ǀ ṛtūn ǁ10.11.1 Aṣṭaka 7.6.9.1Anuvāka 10.1.82
-
Ṛk 2
रप॑द्गंध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ ।
इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु मे मनः |
इष्टस्य मध्ये अदितिर् नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ||rápadgandharvī́rápyā ca yóṣaṇā nadásya nādé pári pātu me mánaḥ ǀ
iṣṭásya mádhye áditirní dhātu no bhrā́tā no jyeṣṭháḥ prathamó ví vocati ǁrapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ |
iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati ||रप॑त् । ग॒न्ध॒र्वीः । अप्या॑ । च॒ । योष॑णा । न॒दस्य॑ । ना॒दे । परि॑ । पा॒तु॒ । मे॒ । मनः॑ ।
इ॒ष्टस्य॑ । मध्ये॑ । अदि॑तिः । नि । धा॒तु॒ । नः॒ । भ्राता॑ । नः॒ । ज्ये॒ष्ठः । प्र॒थ॒मः । वि । वो॒च॒ति॒ ॥रपत् । गन्धर्वीः । अप्या । च । योषणा । नदस्य । नादे । परि । पातु । मे । मनः ।
इष्टस्य । मध्ये । अदितिः । नि । धातु । नः । भ्राता । नः । ज्येष्ठः । प्रथमः । वि । वोचति ॥rápat ǀ gandharvī́ḥ ǀ ápyā ǀ ca ǀ yóṣaṇā ǀ nadásya ǀ nādé ǀ pári ǀ pātu ǀ me ǀ mánaḥ ǀ
iṣṭásya ǀ mádhye ǀ áditiḥ ǀ ní ǀ dhātu ǀ naḥ ǀ bhrā́tā ǀ naḥ ǀ jyeṣṭháḥ ǀ prathamáḥ ǀ ví ǀ vocati ǁrapat ǀ gandharvīḥ ǀ apyā ǀ ca ǀ yoṣaṇā ǀ nadasya ǀ nāde ǀ pari ǀ pātu ǀ me ǀ manaḥ ǀ
iṣṭasya ǀ madhye ǀ aditiḥ ǀ ni ǀ dhātu ǀ naḥ ǀ bhrātā ǀ naḥ ǀ jyeṣṭhaḥ ǀ prathamaḥ ǀ vi ǀ vocati ǁ10.11.2 Aṣṭaka 7.6.9.2Anuvāka 10.1.83
-
Ṛk 3
सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती ।
यदी॑मु॒शंत॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥सो चिन् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे स्वर्वती |
यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं विदथाय जीजनन् ||só cinnú bhadrā́ kṣumátī yáśasvatyuṣā́ uvāsa mánave svárvatī ǀ
yádīmuśántamuśatā́mánu krátumagním hótāram vidáthāya jī́janan ǁso cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī |
yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan ||सो इति॑ । चि॒त् । नु । भ॒द्रा । क्षु॒ऽमती॑ । यश॑स्वती । उ॒षाः । उ॒वा॒स॒ । मन॑वे । स्वः॑ऽवती ।
यत् । ई॒म् । उ॒शन्त॑म् । उ॒श॒ताम् । अनु॑ । क्रतु॑म् । अ॒ग्निम् । होता॑रम् । वि॒दथा॑य । जीज॑नन् ॥सो इति । चित् । नु । भद्रा । क्षुऽमती । यशस्वती । उषाः । उवास । मनवे । स्वःऽवती ।
यत् । ईम् । उशन्तम् । उशताम् । अनु । क्रतुम् । अग्निम् । होतारम् । विदथाय । जीजनन् ॥só íti ǀ cit ǀ nú ǀ bhadrā́ ǀ kṣu-mátī ǀ yáśasvatī ǀ uṣā́ḥ ǀ uvāsa ǀ mánave ǀ sváḥ-vatī ǀ
yát ǀ īm ǀ uśántam ǀ uśatā́m ǀ ánu ǀ krátum ǀ agním ǀ hótāram ǀ vidáthāya ǀ jī́janan ǁso iti ǀ cit ǀ nu ǀ bhadrā ǀ kṣu-matī ǀ yaśasvatī ǀ uṣāḥ ǀ uvāsa ǀ manave ǀ svaḥ-vatī ǀ
yat ǀ īm ǀ uśantam ǀ uśatām ǀ anu ǀ kratum ǀ agnim ǀ hotāram ǀ vidathāya ǀ jījanan ǁ10.11.3 Aṣṭaka 7.6.9.3Anuvāka 10.1.84
-
Ṛk 4
अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे ।
यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥अध त्यं द्रप्सं विभ्वं विचक्षणं विर् आभरद् इषितः श्येनो अध्वरे |
यदी विशो वृणते दस्मम् आर्या अग्निं होतारम् अध धीर् अजायत ||ádha tyám drapsám vibhvám vicakṣaṇám vírā́bharadiṣitáḥ śyenó adhvaré ǀ
yádī víśo vṛṇáte dasmámā́ryā agním hótāramádha dhī́rajāyata ǁadha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare |
yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata ||अध॑ । त्यम् । द्र॒प्सम् । वि॒ऽभ्व॑म् । वि॒ऽच॒क्ष॒णम् । विः । आ । अ॒भ॒र॒त् । इ॒षि॒तः । श्ये॒नः । अ॒ध्व॒रे ।
यदि॑ । विशः॑ । वृ॒णते॑ । द॒स्मम् । आर्याः॑ । अ॒ग्निम् । होता॑रम् । अध॑ । धीः । अ॒जा॒य॒त॒ ॥अध । त्यम् । द्रप्सम् । विऽभ्वम् । विऽचक्षणम् । विः । आ । अभरत् । इषितः । श्येनः । अध्वरे ।
यदि । विशः । वृणते । दस्मम् । आर्याः । अग्निम् । होतारम् । अध । धीः । अजायत ॥ádha ǀ tyám ǀ drapsám ǀ vi-bhvám ǀ vi-cakṣaṇám ǀ víḥ ǀ ā́ ǀ abharat ǀ iṣitáḥ ǀ śyenáḥ ǀ adhvaré ǀ
yádi ǀ víśaḥ ǀ vṛṇáte ǀ dasmám ǀ ā́ryāḥ ǀ agním ǀ hótāram ǀ ádha ǀ dhī́ḥ ǀ ajāyata ǁadha ǀ tyam ǀ drapsam ǀ vi-bhvam ǀ vi-cakṣaṇam ǀ viḥ ǀ ā ǀ abharat ǀ iṣitaḥ ǀ śyenaḥ ǀ adhvare ǀ
yadi ǀ viśaḥ ǀ vṛṇate ǀ dasmam ǀ āryāḥ ǀ agnim ǀ hotāram ǀ adha ǀ dhīḥ ǀ ajāyata ǁ10.11.4 Aṣṭaka 7.6.9.4Anuvāka 10.1.85
-
Ṛk 5
सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः ।
विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः स्वध्वरः |
विप्रस्य वा यच् छशमान उक्थ्यं वाजं ससवां उपयासि भूरिभिः ||sádāsi raṇvó yávaseva púṣyate hótrābhiragne mánuṣaḥ svadhvaráḥ ǀ
víprasya vā yácchaśamāná ukthyám vā́jam sasavā́m̐ upayā́si bhū́ribhiḥ ǁsadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ |
viprasya vā yac chaśamāna ukthyaṃ vājaṃ sasavāṃ upayāsi bhūribhiḥ ||सदा॑ । अ॒सि॒ । र॒ण्वः । यव॑साऽइव । पुष्य॑ते । होत्रा॑भिः । अ॒ग्ने॒ । मनु॑षः । सु॒ऽअ॒ध्व॒रः ।
विप्र॑स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य॑म् । वाज॑म् । स॒स॒ऽवान् । उ॒प॒ऽयासि॑ । भूरि॑ऽभिः ॥सदा । असि । रण्वः । यवसाऽइव । पुष्यते । होत्राभिः । अग्ने । मनुषः । सुऽअध्वरः ।
विप्रस्य । वा । यत् । शशमानः । उक्थ्यम् । वाजम् । ससऽवान् । उपऽयासि । भूरिऽभिः ॥sádā ǀ asi ǀ raṇváḥ ǀ yávasā-iva ǀ púṣyate ǀ hótrābhiḥ ǀ agne ǀ mánuṣaḥ ǀ su-adhvaráḥ ǀ
víprasya ǀ vā ǀ yát ǀ śaśamānáḥ ǀ ukthyám ǀ vā́jam ǀ sasa-vā́n ǀ upa-yā́si ǀ bhū́ri-bhiḥ ǁsadā ǀ asi ǀ raṇvaḥ ǀ yavasā-iva ǀ puṣyate ǀ hotrābhiḥ ǀ agne ǀ manuṣaḥ ǀ su-adhvaraḥ ǀ
viprasya ǀ vā ǀ yat ǀ śaśamānaḥ ǀ ukthyam ǀ vājam ǀ sasa-vān ǀ upa-yāsi ǀ bhūri-bhiḥ ǁ10.11.5 Aṣṭaka 7.6.9.5Anuvāka 10.1.86
-
Ṛk 6
उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति ।
विव॑क्ति॒ वह्निः॑ स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥उद् ईरय पितरा जार आ भगम् इयक्षति हर्यतो हृत्त इष्यति |
विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते मती ||údīraya pitárā jārá ā́ bhágamíyakṣati haryató hṛttá iṣyati ǀ
vívakti váhniḥ svapasyáte makhástaviṣyáte ásuro vépate matī́ ǁud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati |
vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī ||उत् । ई॒र॒य॒ । पि॒तरा॑ । जा॒रः । आ । भग॑म् । इय॑क्षति । ह॒र्य॒तः । हृ॒त्तः । इ॒ष्य॒ति॒ ।
विव॑क्ति । वह्निः॑ । सु॒ऽअ॒प॒स्यते॑ । म॒खः । त॒वि॒ष्यते॑ । असु॑रः । वेप॑ते । म॒ती ॥उत् । ईरय । पितरा । जारः । आ । भगम् । इयक्षति । हर्यतः । हृत्तः । इष्यति ।
विवक्ति । वह्निः । सुऽअपस्यते । मखः । तविष्यते । असुरः । वेपते । मती ॥út ǀ īraya ǀ pitárā ǀ jāráḥ ǀ ā́ ǀ bhágam ǀ íyakṣati ǀ haryatáḥ ǀ hṛttáḥ ǀ iṣyati ǀ
vívakti ǀ váhniḥ ǀ su-apasyáte ǀ makháḥ ǀ taviṣyáte ǀ ásuraḥ ǀ vépate ǀ matī́ ǁut ǀ īraya ǀ pitarā ǀ jāraḥ ǀ ā ǀ bhagam ǀ iyakṣati ǀ haryataḥ ǀ hṛttaḥ ǀ iṣyati ǀ
vivakti ǀ vahniḥ ǀ su-apasyate ǀ makhaḥ ǀ taviṣyate ǀ asuraḥ ǀ vepate ǀ matī ǁ10.11.6 Aṣṭaka 7.6.10.1Anuvāka 10.1.87
-
Ṛk 7
यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे ।
इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥यस् ते अग्ने सुमतिम् मर्तो अक्षत् सहसः सूनो अति स प्र शृण्वे |
इषं दधानो वहमानो अश्वैर् आ स द्युमां अमवान् भूषति द्यून् ||yáste agne sumatím márto ákṣatsáhasaḥ sūno áti sá prá śṛṇve ǀ
íṣam dádhāno váhamāno áśvairā́ sá dyumā́m̐ ámavānbhūṣati dyū́n ǁyas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve |
iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṃ amavān bhūṣati dyūn ||यः । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । मर्तः॑ । अक्ष॑त् । सह॑सः । सू॒नो॒ इति॑ । अति॑ । सः । प्र । शृ॒ण्वे॒ ।
इष॑म् । दधा॑नः । वह॑मानः । अश्वैः॑ । आ । सः । द्यु॒ऽमान् । अम॑ऽवान् । भू॒ष॒ति॒ । द्यून् ॥यः । ते । अग्ने । सुऽमतिम् । मर्तः । अक्षत् । सहसः । सूनो इति । अति । सः । प्र । शृण्वे ।
इषम् । दधानः । वहमानः । अश्वैः । आ । सः । द्युऽमान् । अमऽवान् । भूषति । द्यून् ॥yáḥ ǀ te ǀ agne ǀ su-matím ǀ mártaḥ ǀ ákṣat ǀ sáhasaḥ ǀ sūno íti ǀ áti ǀ sáḥ ǀ prá ǀ śṛṇve ǀ
íṣam ǀ dádhānaḥ ǀ váhamānaḥ ǀ áśvaiḥ ǀ ā́ ǀ sáḥ ǀ dyu-mā́n ǀ áma-vān ǀ bhūṣati ǀ dyū́n ǁyaḥ ǀ te ǀ agne ǀ su-matim ǀ martaḥ ǀ akṣat ǀ sahasaḥ ǀ sūno iti ǀ ati ǀ saḥ ǀ pra ǀ śṛṇve ǀ
iṣam ǀ dadhānaḥ ǀ vahamānaḥ ǀ aśvaiḥ ǀ ā ǀ saḥ ǀ dyu-mān ǀ ama-vān ǀ bhūṣati ǀ dyūn ǁ10.11.7 Aṣṭaka 7.6.10.2Anuvāka 10.1.88
-
Ṛk 8
यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र ।
रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मंतं वीतात् ॥यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र |
रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ||yádagna eṣā́ sámitirbhávāti devī́ devéṣu yajatā́ yajatra ǀ
rátnā ca yádvibhájāsi svadhāvo bhāgám no átra vásumantam vītāt ǁyad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra |
ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt ||यत् । अ॒ग्ने॒ । ए॒षा । सम्ऽइ॑तिः । भवा॑ति । दे॒वी । दे॒वेषु॑ । य॒ज॒ता । य॒ज॒त्र॒ ।
रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि । स्व॒धा॒ऽवः॒ । भा॒गम् । नः॒ । अत्र॑ । वसु॑ऽमन्तम् । वी॒ता॒त् ॥यत् । अग्ने । एषा । सम्ऽइतिः । भवाति । देवी । देवेषु । यजता । यजत्र ।
रत्ना । च । यत् । विऽभजासि । स्वधाऽवः । भागम् । नः । अत्र । वसुऽमन्तम् । वीतात् ॥yát ǀ agne ǀ eṣā́ ǀ sám-itiḥ ǀ bhávāti ǀ devī́ ǀ devéṣu ǀ yajatā́ ǀ yajatra ǀ
rátnā ǀ ca ǀ yát ǀ vi-bhájāsi ǀ svadhā-vaḥ ǀ bhāgám ǀ naḥ ǀ átra ǀ vásu-mantam ǀ vītāt ǁyat ǀ agne ǀ eṣā ǀ sam-itiḥ ǀ bhavāti ǀ devī ǀ deveṣu ǀ yajatā ǀ yajatra ǀ
ratnā ǀ ca ǀ yat ǀ vi-bhajāsi ǀ svadhā-vaḥ ǀ bhāgam ǀ naḥ ǀ atra ǀ vasu-mantam ǀ vītāt ǁ10.11.8 Aṣṭaka 7.6.10.3Anuvāka 10.1.89
-
Ṛk 9
श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुं ।
आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् |
आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ||śrudhī́ no agne sádane sadhásthe yukṣvā́ ráthamamṛ́tasya dravitnúm ǀ
ā́ no vaha ródasī deváputre mā́kirdevā́nāmápa bhūrihá syāḥ ǁśrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum |
ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ ||श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।
आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥श्रुधि । नः । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् ।
आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः ॥śrudhí ǀ naḥ ǀ agne ǀ sádane ǀ sadhá-sthe ǀ yukṣvá ǀ rátham ǀ amṛ́tasya ǀ dravitnúm ǀ
ā́ ǀ naḥ ǀ vaha ǀ ródasī íti ǀ deváputre íti devá-putre ǀ mā́kiḥ ǀ devā́nām ǀ ápa ǀ bhūḥ ǀ ihá ǀ syāḥ ǁśrudhi ǀ naḥ ǀ agne ǀ sadane ǀ sadha-sthe ǀ yukṣva ǀ ratham ǀ amṛtasya ǀ dravitnum ǀ
ā ǀ naḥ ǀ vaha ǀ rodasī iti ǀ devaputre iti deva-putre ǀ mākiḥ ǀ devānām ǀ apa ǀ bhūḥ ǀ iha ǀ syāḥ ǁ10.11.9 Aṣṭaka 7.6.10.4Anuvāka 10.1.90
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.