Sūkta 138
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aṅga Aurava
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles pādanicṛjjgatī (1, 4, 6); virāḍjagatī (3, 5); nicṛjjagatī (2)
2nd set of styles jagatī
-
Ṛk 1
तव॒ त्य इं॑द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म॑न्वा॒ना व्य॑दर्दिरुर्व॒लं ।
यत्रा॑ दश॒स्यन्नु॒षसो॑ रि॒णन्न॒पः कुत्सा॑य॒ मन्म॑न्न॒ह्य॑श्च दं॒सयः॑ ॥तव त्य इन्द्र सख्येषु वह्नय ऋतम् मन्वाना व्य् अदर्दिरुर् वलम् |
यत्रा दशस्यन्न् उषसो रिणन्न् अपः कुत्साय मन्मन्न् अह्यश् च दंसयः ||táva tyá indra sakhyéṣu váhnaya ṛtám manvānā́ vyádardirurvalám ǀ
yátrā daśasyánnuṣáso riṇánnapáḥ kútsāya mánmannahyáśca daṃsáyaḥ ǁtava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam |
yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ ||तव॑ । त्ये । इ॒न्द्र॒ । स॒ख्येषु॑ । वह्न॑यः । ऋ॒तम् । म॒न्वा॒नाः । वि । अ॒द॒र्दि॒रुः॒ । व॒लम् ।
यत्र॑ । द॒श॒स्यन् । उ॒षसः॑ । रि॒णन् । आ॒पः । कुत्सा॑य । मन्म॑न् । अ॒ह्यः॑ । च॒ । दं॒सयः॑ ॥तव । त्ये । इन्द्र । सख्येषु । वह्नयः । ऋतम् । मन्वानाः । वि । अदर्दिरुः । वलम् ।
यत्र । दशस्यन् । उषसः । रिणन् । आपः । कुत्साय । मन्मन् । अह्यः । च । दंसयः ॥táva ǀ tyé ǀ indra ǀ sakhyéṣu ǀ váhnayaḥ ǀ ṛtám ǀ manvānā́ḥ ǀ ví ǀ adardiruḥ ǀ valám ǀ
yátra ǀ daśasyán ǀ uṣásaḥ ǀ riṇán ǀ āpáḥ ǀ kútsāya ǀ mánman ǀ ahyáḥ ǀ ca ǀ daṃsáyaḥ ǁtava ǀ tye ǀ indra ǀ sakhyeṣu ǀ vahnayaḥ ǀ ṛtam ǀ manvānāḥ ǀ vi ǀ adardiruḥ ǀ valam ǀ
yatra ǀ daśasyan ǀ uṣasaḥ ǀ riṇan ǀ āpaḥ ǀ kutsāya ǀ manman ǀ ahyaḥ ǀ ca ǀ daṃsayaḥ ǁ10.138.1 Aṣṭaka 8.7.26.1Anuvāka 10.11.64
-
Ṛk 2
अवा॑सृजः प्र॒स्वः॑ श्वं॒चयो॑ गि॒रीनुदा॑ज उ॒स्रा अपि॑बो॒ मधु॑ प्रि॒यं ।
अव॑र्धयो व॒निनो॑ अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा॑तया गि॒रा ॥अवासृजः प्रस्वः श्वञ्चयो गिरीन् उद् आज उस्रा अपिबो मधु प्रियम् |
अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ||ávāsṛjaḥ prasváḥ śvañcáyo girī́núdāja usrā́ ápibo mádhu priyám ǀ
ávardhayo vaníno asya dáṃsasā śuśóca sū́rya ṛtájātayā girā́ ǁavāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam |
avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā ||अव॑ । अ॒सृ॒जः॒ । प्र॒ऽस्वः॑ । श्व॒ञ्चयः॑ । गि॒रीन् । उत् । आ॒जः॒ । उ॒स्राः । अपि॑बः । मधु॑ । प्रि॒यम् ।
अव॑र्धयः । व॒निनः॑ । अ॒स्य॒ । दंस॑सा । शु॒शोच॑ । सूर्यः॑ । ऋ॒तऽजा॑तया । गि॒रा ॥अव । असृजः । प्रऽस्वः । श्वञ्चयः । गिरीन् । उत् । आजः । उस्राः । अपिबः । मधु । प्रियम् ।
अवर्धयः । वनिनः । अस्य । दंससा । शुशोच । सूर्यः । ऋतऽजातया । गिरा ॥áva ǀ asṛjaḥ ǀ pra-sváḥ ǀ śvañcáyaḥ ǀ girī́n ǀ út ǀ ājaḥ ǀ usrā́ḥ ǀ ápibaḥ ǀ mádhu ǀ priyám ǀ
ávardhayaḥ ǀ vanínaḥ ǀ asya ǀ dáṃsasā ǀ śuśóca ǀ sū́ryaḥ ǀ ṛtá-jātayā ǀ girā́ ǁava ǀ asṛjaḥ ǀ pra-svaḥ ǀ śvañcayaḥ ǀ girīn ǀ ut ǀ ājaḥ ǀ usrāḥ ǀ apibaḥ ǀ madhu ǀ priyam ǀ
avardhayaḥ ǀ vaninaḥ ǀ asya ǀ daṃsasā ǀ śuśoca ǀ sūryaḥ ǀ ṛta-jātayā ǀ girā ǁ10.138.2 Aṣṭaka 8.7.26.2Anuvāka 10.11.65
-
Ṛk 3
वि सूर्यो॒ मध्ये॑ अमुच॒द्रथं॑ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्यः॑ ।
दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इंद्रो॒ व्या॑स्यच्चकृ॒वाँ ऋ॒जिश्व॑ना ॥वि सूर्यो मध्ये अमुचद् रथं दिवो विदद् दासाय प्रतिमानम् आर्यः |
दृऌहानि पिप्रोर् असुरस्य मायिन इन्द्रो व्य् आस्यच् चकृवां ऋजिश्वना ||ví sū́ryo mádhye amucadrátham divó vidáddāsā́ya pratimā́namā́ryaḥ ǀ
dṛḷhā́ni píprorásurasya māyína índro vyā́syaccakṛvā́m̐ ṛjíśvanā ǁvi sūryo madhye amucad rathaṃ divo vidad dāsāya pratimānam āryaḥ |
dṛḷhāni pipror asurasya māyina indro vy āsyac cakṛvāṃ ṛjiśvanā ||वि । सूर्यः॑ । मध्ये॑ । अ॒मु॒च॒त् । रथ॑म् । दि॒वः । वि॒दत् । दा॒साय॑ । प्र॒ति॒ऽमान॑म् । आर्यः॑ ।
दृ॒ळ्हानि॑ । पिप्रोः॑ । असु॑रस्य । मा॒यिनः॑ । इन्द्रः॑ । वि । आ॒स्य॒त् । च॒कृ॒ऽवान् । ऋ॒जिश्व॑ना ॥वि । सूर्यः । मध्ये । अमुचत् । रथम् । दिवः । विदत् । दासाय । प्रतिऽमानम् । आर्यः ।
दृळ्हानि । पिप्रोः । असुरस्य । मायिनः । इन्द्रः । वि । आस्यत् । चकृऽवान् । ऋजिश्वना ॥ví ǀ sū́ryaḥ ǀ mádhye ǀ amucat ǀ rátham ǀ diváḥ ǀ vidát ǀ dāsā́ya ǀ prati-mā́nam ǀ ā́ryaḥ ǀ
dṛḷhā́ni ǀ píproḥ ǀ ásurasya ǀ māyínaḥ ǀ índraḥ ǀ ví ǀ āsyat ǀ cakṛ-vā́n ǀ ṛjíśvanā ǁvi ǀ sūryaḥ ǀ madhye ǀ amucat ǀ ratham ǀ divaḥ ǀ vidat ǀ dāsāya ǀ prati-mānam ǀ āryaḥ ǀ
dṛḷhāni ǀ piproḥ ǀ asurasya ǀ māyinaḥ ǀ indraḥ ǀ vi ǀ āsyat ǀ cakṛ-vān ǀ ṛjiśvanā ǁ10.138.3 Aṣṭaka 8.7.26.3Anuvāka 10.11.66
-
Ṛk 4
अना॑धृष्टानि धृषि॒तो व्या॑स्यन्नि॒धीँरदे॑वाँ अमृणद॒यास्यः॑ ।
मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ॑रशृणाद्वि॒रुक्म॑ता ॥अनाधृष्टानि धृषितो व्य् आस्यन् निधींर् अदेवां अमृणद् अयास्यः |
मासेव सूर्यो वसु पुर्यम् आ ददे गृणानः शत्रूंर् अशृणाद् विरुक्मता ||ánādhṛṣṭāni dhṛṣitó vyā́syannidhī́m̐rádevām̐ amṛṇadayā́syaḥ ǀ
māséva sū́ryo vásu púryamā́ dade gṛṇānáḥ śátrūm̐raśṛṇādvirúkmatā ǁanādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṃ amṛṇad ayāsyaḥ |
māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūṃr aśṛṇād virukmatā ||अना॑धृष्टानि । धृ॒षि॒तः । वि । आ॒स्य॒त् । नि॒ऽधीन् । अदे॑वान् । अ॒मृ॒ण॒त् । अ॒यास्यः॑ ।
मा॒साऽइ॑व । सूर्यः॑ । वसु॑ । पुर्य॑म् । आ । द॒दे॒ । गृ॒णा॒नः । शत्रू॑न् । अ॒शृ॒णा॒त् । वि॒रुक्म॑ता ॥अनाधृष्टानि । धृषितः । वि । आस्यत् । निऽधीन् । अदेवान् । अमृणत् । अयास्यः ।
मासाऽइव । सूर्यः । वसु । पुर्यम् । आ । ददे । गृणानः । शत्रून् । अशृणात् । विरुक्मता ॥ánādhṛṣṭāni ǀ dhṛṣitáḥ ǀ ví ǀ āsyat ǀ ni-dhī́n ǀ ádevān ǀ amṛṇat ǀ ayā́syaḥ ǀ
māsā́-iva ǀ sū́ryaḥ ǀ vásu ǀ púryam ǀ ā́ ǀ dade ǀ gṛṇānáḥ ǀ śátrūn ǀ aśṛṇāt ǀ virúkmatā ǁanādhṛṣṭāni ǀ dhṛṣitaḥ ǀ vi ǀ āsyat ǀ ni-dhīn ǀ adevān ǀ amṛṇat ǀ ayāsyaḥ ǀ
māsā-iva ǀ sūryaḥ ǀ vasu ǀ puryam ǀ ā ǀ dade ǀ gṛṇānaḥ ǀ śatrūn ǀ aśṛṇāt ǀ virukmatā ǁ10.138.4 Aṣṭaka 8.7.26.4Anuvāka 10.11.67
-
Ṛk 5
अयु॑द्धसेनो वि॒भ्वा॑ विभिंद॒ता दाश॑द्वृत्र॒हा तुज्या॑नि तेजते ।
इंद्र॑स्य॒ वज्रा॑दबिभेदभि॒श्नथः॒ प्राक्रा॑मच्छुं॒ध्यूरज॑हादु॒षा अनः॑ ॥अयुद्धसेनो विभ्वा विभिन्दता दाशद् वृत्रहा तुज्यानि तेजते |
इन्द्रस्य वज्राद् अबिभेद् अभिश्नथः प्राक्रामच् छुन्ध्यूर् अजहाद् उषा अनः ||áyuddhaseno vibhvā́ vibhindatā́ dā́śadvṛtrahā́ tújyāni tejate ǀ
índrasya vájrādabibhedabhiśnáthaḥ prā́krāmacchundhyū́rájahāduṣā́ ánaḥ ǁayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate |
indrasya vajrād abibhed abhiśnathaḥ prākrāmac chundhyūr ajahād uṣā anaḥ ||अयु॑द्धऽसेनः । वि॒ऽभ्वा॑ । वि॒ऽभि॒न्द॒ता । दाश॑त् । वृ॒त्र॒ऽहा । तुज्या॑नि । ते॒ज॒ते॒ ।
इन्द्र॑स्य । वज्रा॑त् । अ॒बि॒भे॒त् । अ॒भि॒ऽश्नथः॑ । प्र । अ॒क्रा॒म॒त् । शु॒न्ध्यूः । अज॑हात् । उ॒षाः । अनः॑ ॥अयुद्धऽसेनः । विऽभ्वा । विऽभिन्दता । दाशत् । वृत्रऽहा । तुज्यानि । तेजते ।
इन्द्रस्य । वज्रात् । अबिभेत् । अभिऽश्नथः । प्र । अक्रामत् । शुन्ध्यूः । अजहात् । उषाः । अनः ॥áyuddha-senaḥ ǀ vi-bhvā́ ǀ vi-bhindatā́ ǀ dā́śat ǀ vṛtra-hā́ ǀ tújyāni ǀ tejate ǀ
índrasya ǀ vájrāt ǀ abibhet ǀ abhi-śnáthaḥ ǀ prá ǀ akrāmat ǀ śundhyū́ḥ ǀ ájahāt ǀ uṣā́ḥ ǀ ánaḥ ǁayuddha-senaḥ ǀ vi-bhvā ǀ vi-bhindatā ǀ dāśat ǀ vṛtra-hā ǀ tujyāni ǀ tejate ǀ
indrasya ǀ vajrāt ǀ abibhet ǀ abhi-śnathaḥ ǀ pra ǀ akrāmat ǀ śundhyūḥ ǀ ajahāt ǀ uṣāḥ ǀ anaḥ ǁ10.138.5 Aṣṭaka 8.7.26.5Anuvāka 10.11.68
-
Ṛk 6
ए॒ता त्या ते॒ श्रुत्या॑नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञं ।
मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि॑न्नं भरति प्र॒धिं पि॒ता ॥एता त्या ते श्रुत्यानि केवला यद् एक एकम् अकृणोर् अयज्ञम् |
मासां विधानम् अदधा अधि द्यवि त्वया विभिन्नम् भरति प्रधिम् पिता ||etā́ tyā́ te śrútyāni kévalā yádéka ékamákṛṇorayajñám ǀ
māsā́m vidhā́namadadhā ádhi dyávi tváyā víbhinnam bharati pradhím pitā́ ǁetā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam |
māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā ||ए॒ता । त्या । ते॒ । श्रुत्या॑नि । केव॑ला । यत् । एकः॑ । एक॑म् । अकृ॑णोः । अ॒य॒ज्ञम् ।
मा॒साम् । वि॒ऽधान॑म् । अ॒द॒धाः॒ । अधि॑ । द्यवि॑ । त्वया॑ । विऽभि॑न्नम् । भ॒र॒ति॒ । प्र॒ऽधिम् । पि॒ता ॥एता । त्या । ते । श्रुत्यानि । केवला । यत् । एकः । एकम् । अकृणोः । अयज्ञम् ।
मासाम् । विऽधानम् । अदधाः । अधि । द्यवि । त्वया । विऽभिन्नम् । भरति । प्रऽधिम् । पिता ॥etā́ ǀ tyā́ ǀ te ǀ śrútyāni ǀ kévalā ǀ yát ǀ ékaḥ ǀ ékam ǀ ákṛṇoḥ ǀ ayajñám ǀ
māsā́m ǀ vi-dhā́nam ǀ adadhāḥ ǀ ádhi ǀ dyávi ǀ tváyā ǀ ví-bhinnam ǀ bharati ǀ pra-dhím ǀ pitā́ ǁetā ǀ tyā ǀ te ǀ śrutyāni ǀ kevalā ǀ yat ǀ ekaḥ ǀ ekam ǀ akṛṇoḥ ǀ ayajñam ǀ
māsām ǀ vi-dhānam ǀ adadhāḥ ǀ adhi ǀ dyavi ǀ tvayā ǀ vi-bhinnam ǀ bharati ǀ pra-dhim ǀ pitā ǁ10.138.6 Aṣṭaka 8.7.26.6Anuvāka 10.11.69
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.