Sūkta 38
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Muṣkavat
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (1, 5); virāḍjagatī (3, 4); pādanicṛjjgatī (2)
2nd set of styles jagatī
-
Ṛk 1
अ॒स्मिन्न॑ इंद्र पृत्सु॒तौ यश॑स्वति॒ शिमी॑वति॒ क्रंद॑सि॒ प्राव॑ सा॒तये॑ ।
यत्र॒ गोषा॑ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पतं॑ति दि॒द्यवो॑ नृ॒षाह्ये॑ ॥अस्मिन् न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये |
यत्र गोषाता धृषितेषु खादिषु विष्वक् पतन्ति दिद्यवो नृषाह्ये ||asmínna indra pṛtsutáu yáśasvati śímīvati krándasi prā́va sātáye ǀ
yátra góṣātā dhṛṣitéṣu khādíṣu víṣvakpátanti didyávo nṛṣā́hye ǁasmin na indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye |
yatra goṣātā dhṛṣiteṣu khādiṣu viṣvak patanti didyavo nṛṣāhye ||अ॒स्मिन् । नः॒ । इ॒न्द्र॒ । पृ॒त्सु॒तौ । यश॑स्वति । शिमी॑ऽवति । क्रन्द॑सि । प्र । अ॒व॒ । सा॒तये॑ ।
यत्र॑ । गोऽसा॑ता । धृ॒षि॒तेषु॑ । खा॒दिषु॑ । विष्व॑क् । पत॑न्ति । दि॒द्यवः॑ । नृ॒ऽसह्ये॑ ॥अस्मिन् । नः । इन्द्र । पृत्सुतौ । यशस्वति । शिमीऽवति । क्रन्दसि । प्र । अव । सातये ।
यत्र । गोऽसाता । धृषितेषु । खादिषु । विष्वक् । पतन्ति । दिद्यवः । नृऽसह्ये ॥asmín ǀ naḥ ǀ indra ǀ pṛtsutáu ǀ yáśasvati ǀ śímī-vati ǀ krándasi ǀ prá ǀ ava ǀ sātáye ǀ
yátra ǀ gó-sātā ǀ dhṛṣitéṣu ǀ khādíṣu ǀ víṣvak ǀ pátanti ǀ didyávaḥ ǀ nṛ-sáhye ǁasmin ǀ naḥ ǀ indra ǀ pṛtsutau ǀ yaśasvati ǀ śimī-vati ǀ krandasi ǀ pra ǀ ava ǀ sātaye ǀ
yatra ǀ go-sātā ǀ dhṛṣiteṣu ǀ khādiṣu ǀ viṣvak ǀ patanti ǀ didyavaḥ ǀ nṛ-sahye ǁ10.38.1 Aṣṭaka 7.8.14.1Anuvāka 10.3.99
-
Ṛk 2
स नः॑ क्षु॒मंतं॒ सद॑ने॒ व्यू॑र्णुहि॒ गोअ॑र्णसं र॒यिमिं॑द्र श्र॒वाय्यं॑ ।
स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा॑ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ॥स नः क्षुमन्तं सदने व्य् ऊर्णुहि गोअर्णसं रयिम् इन्द्र श्रवाय्यम् |
स्याम ते जयतः शक्र मेदिनो यथा वयम् उश्मसि तद् वसो कृधि ||sá naḥ kṣumántam sádane vyū́rṇuhi góarṇasam rayímindra śravā́yyam ǀ
syā́ma te jáyataḥ śakra medíno yáthā vayámuśmási tádvaso kṛdhi ǁsa naḥ kṣumantaṃ sadane vy ūrṇuhi goarṇasaṃ rayim indra śravāyyam |
syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi ||सः । नः॒ । क्षु॒ऽमन्त॑म् । सद॑ने । वि । ऊ॒र्णु॒हि॒ । गोऽअ॑र्णसम् । र॒यिम् । इ॒न्द्र॒ । श्र॒वाय्य॑म् ।
स्याम॑ । ते॒ । जय॑तः । श॒क्र॒ । मे॒दिनः॑ । यथा॑ । व॒यम् । उ॒श्मसि॑ । तत् । व॒सो॒ इति॑ । कृ॒धि॒ ॥सः । नः । क्षुऽमन्तम् । सदने । वि । ऊर्णुहि । गोऽअर्णसम् । रयिम् । इन्द्र । श्रवाय्यम् ।
स्याम । ते । जयतः । शक्र । मेदिनः । यथा । वयम् । उश्मसि । तत् । वसो इति । कृधि ॥sáḥ ǀ naḥ ǀ kṣu-mántam ǀ sádane ǀ ví ǀ ūrṇuhi ǀ gó-arṇasam ǀ rayím ǀ indra ǀ śravā́yyam ǀ
syā́ma ǀ te ǀ jáyataḥ ǀ śakra ǀ medínaḥ ǀ yáthā ǀ vayám ǀ uśmási ǀ tát ǀ vaso íti ǀ kṛdhi ǁsaḥ ǀ naḥ ǀ kṣu-mantam ǀ sadane ǀ vi ǀ ūrṇuhi ǀ go-arṇasam ǀ rayim ǀ indra ǀ śravāyyam ǀ
syāma ǀ te ǀ jayataḥ ǀ śakra ǀ medinaḥ ǀ yathā ǀ vayam ǀ uśmasi ǀ tat ǀ vaso iti ǀ kṛdhi ǁ10.38.2 Aṣṭaka 7.8.14.2Anuvāka 10.3.100
-
Ṛk 3
यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इंद्र यु॒धये॒ चिके॑तति ।
अ॒स्माभि॑ष्टे सु॒षहाः॑ संतु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम संग॒मे ॥यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति |
अस्माभिष् टे सुषहाः सन्तु शत्रवस् त्वया वयं तान् वनुयाम संगमे ||yó no dā́sa ā́ryo vā puruṣṭutā́deva indra yudháye cíketati ǀ
asmā́bhiṣṭe suṣáhāḥ santu śátravastváyā vayám tā́nvanuyāma saṃgamé ǁyo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati |
asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṃ tān vanuyāma saṃgame ||यः । नः॒ । दासः॑ । आर्यः॑ । वा॒ । पु॒रु॒ऽस्तु॒त॒ । अदे॑वः । इ॒न्द्र॒ । यु॒धये॑ । चिके॑तति ।
अ॒स्माभिः॑ । ते॒ । सु॒ऽसहाः॑ । स॒न्तु॒ । शत्र॑वः । त्वया॑ । व॒यम् । तान् । व॒नु॒या॒म॒ । स॒म्ऽग॒मे ॥यः । नः । दासः । आर्यः । वा । पुरुऽस्तुत । अदेवः । इन्द्र । युधये । चिकेतति ।
अस्माभिः । ते । सुऽसहाः । सन्तु । शत्रवः । त्वया । वयम् । तान् । वनुयाम । सम्ऽगमे ॥yáḥ ǀ naḥ ǀ dā́saḥ ǀ ā́ryaḥ ǀ vā ǀ puru-stuta ǀ ádevaḥ ǀ indra ǀ yudháye ǀ cíketati ǀ
asmā́bhiḥ ǀ te ǀ su-sáhāḥ ǀ santu ǀ śátravaḥ ǀ tváyā ǀ vayám ǀ tā́n ǀ vanuyāma ǀ sam-gamé ǁyaḥ ǀ naḥ ǀ dāsaḥ ǀ āryaḥ ǀ vā ǀ puru-stuta ǀ adevaḥ ǀ indra ǀ yudhaye ǀ ciketati ǀ
asmābhiḥ ǀ te ǀ su-sahāḥ ǀ santu ǀ śatravaḥ ǀ tvayā ǀ vayam ǀ tān ǀ vanuyāma ǀ sam-game ǁ10.38.3 Aṣṭaka 7.8.14.3Anuvāka 10.3.101
-
Ṛk 4
यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो अ॒भीके॑ वरिवो॒विन्नृ॒षाह्ये॑ ।
तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वांच॒मिंद्र॒मव॑से करामहे ॥यो दभ्रेभिर् हव्यो यश् च भूरिभिर् यो अभीके वरिवोविन् नृषाह्ये |
तं विखादे सस्निम् अद्य श्रुतं नरम् अर्वाञ्चम् इन्द्रम् अवसे करामहे ||yó dabhrébhirhávyo yáśca bhū́ribhiryó abhī́ke varivovínnṛṣā́hye ǀ
tám vikhādé sásnimadyá śrutám náramarvā́ñcamíndramávase karāmahe ǁyo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye |
taṃ vikhāde sasnim adya śrutaṃ naram arvāñcam indram avase karāmahe ||यः । द॒भ्रेभिः॑ । हव्यः॑ । यः । च॒ । भूरि॑ऽभिः । यः । अ॒भीके॑ । व॒रि॒वः॒ऽवित् । नृ॒ऽसह्ये॑ ।
तम् । वि॒ऽखा॒दे । सस्नि॑म् । अ॒द्य । श्रु॒तम् । नर॑म् । अ॒र्वाञ्च॑म् । इन्द्र॑म् । अव॑से । क॒रा॒म॒हे॒ ॥यः । दभ्रेभिः । हव्यः । यः । च । भूरिऽभिः । यः । अभीके । वरिवःऽवित् । नृऽसह्ये ।
तम् । विऽखादे । सस्निम् । अद्य । श्रुतम् । नरम् । अर्वाञ्चम् । इन्द्रम् । अवसे । करामहे ॥yáḥ ǀ dabhrébhiḥ ǀ hávyaḥ ǀ yáḥ ǀ ca ǀ bhū́ri-bhiḥ ǀ yáḥ ǀ abhī́ke ǀ varivaḥ-vít ǀ nṛ-sáhye ǀ
tám ǀ vi-khādé ǀ sásnim ǀ adyá ǀ śrutám ǀ náram ǀ arvā́ñcam ǀ índram ǀ ávase ǀ karāmahe ǁyaḥ ǀ dabhrebhiḥ ǀ havyaḥ ǀ yaḥ ǀ ca ǀ bhūri-bhiḥ ǀ yaḥ ǀ abhīke ǀ varivaḥ-vit ǀ nṛ-sahye ǀ
tam ǀ vi-khāde ǀ sasnim ǀ adya ǀ śrutam ǀ naram ǀ arvāñcam ǀ indram ǀ avase ǀ karāmahe ǁ10.38.4 Aṣṭaka 7.8.14.4Anuvāka 10.3.102
-
Ṛk 5
स्व॒वृजं॒ हि त्वाम॒हमिं॑द्र शु॒श्रवा॑नानु॒दं वृ॑षभ रध्र॒चोद॑नं ।
प्र मुं॑चस्व॒ परि॒ कुत्सा॑दि॒हा ग॑हि॒ किमु॒ त्वावा॑न्मु॒ष्कयो॑र्ब॒द्ध आ॑सते ॥स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् |
प्र मुञ्चस्व परि कुत्साद् इहा गहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते ||svavṛ́jam hí tvā́mahámindra śuśrávānānudám vṛṣabha radhracódanam ǀ
prá muñcasva pári kútsādihā́ gahi kímu tvā́vānmuṣkáyorbaddhá āsate ǁsvavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanam |
pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate ||स्व॒ऽवृज॑म् । हि । त्वाम् । अ॒हम् । इ॒न्द्र॒ । शु॒श्रव॑ । अ॒न॒नु॒ऽदम् । वृ॒ष॒भ॒ । र॒ध्र॒ऽचोद॑नम् ।
प्र । मु॒ञ्च॒स्व॒ । परि॑ । कुत्सा॑त् । इ॒ह । आ । ग॒हि॒ । किम् । ऊं॒ इति॑ । त्वाऽवा॑न् । मु॒ष्कयोः॑ । ब॒द्धः । आ॒स॒ते॒ ॥स्वऽवृजम् । हि । त्वाम् । अहम् । इन्द्र । शुश्रव । अननुऽदम् । वृषभ । रध्रऽचोदनम् ।
प्र । मुञ्चस्व । परि । कुत्सात् । इह । आ । गहि । किम् । ऊं इति । त्वाऽवान् । मुष्कयोः । बद्धः । आसते ॥sva-vṛ́jam ǀ hí ǀ tvā́m ǀ ahám ǀ indra ǀ śuśráva ǀ ananu-dám ǀ vṛṣabha ǀ radhra-códanam ǀ
prá ǀ muñcasva ǀ pári ǀ kútsāt ǀ ihá ǀ ā́ ǀ gahi ǀ kím ǀ ūṃ íti ǀ tvā́-vān ǀ muṣkáyoḥ ǀ baddháḥ ǀ āsate ǁsva-vṛjam ǀ hi ǀ tvām ǀ aham ǀ indra ǀ śuśrava ǀ ananu-dam ǀ vṛṣabha ǀ radhra-codanam ǀ
pra ǀ muñcasva ǀ pari ǀ kutsāt ǀ iha ǀ ā ǀ gahi ǀ kim ǀ ūṃ iti ǀ tvā-vān ǀ muṣkayoḥ ǀ baddhaḥ ǀ āsate ǁ10.38.5 Aṣṭaka 7.8.14.5Anuvāka 10.3.103
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.