Sūkta 189
- Devatā देवता
- Sārparājñī Or Sūrya
- Ṛṣi ऋषि
- Sārparājñī
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛttriṣṭup (4, 5, 12); triṣṭup (3, 7); pādanicṛttriṣṭup (8, 10); virāḍtriṣṭup (9, 11); nicṛjjagatī (1); virāḍjagatī (2); svarāḍārcītriṣṭup (6)
2nd set of styles gāyatrī
-
Ṛk 1
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।
पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥आयं गौः पृश्निर् अक्रमीद् असदन् मातरम् पुरः |
पितरं च प्रयन् स्वः ||ā́yám gáuḥ pṛ́śnirakramīdásadanmātáram puráḥ ǀ
pitáram ca prayántsváḥ ǁāyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ |
pitaraṃ ca prayan svaḥ ||आ । अ॒यम् । गौः । पृश्निः॑ । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒रः ।
पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्व१॒॑रिति॑ स्वः॑ ॥आ । अयम् । गौः । पृश्निः । अक्रमीत् । असदत् । मातरम् । पुरः ।
पितरम् । च । प्रऽयन् । स्वरिति स्वः ॥ā́ ǀ ayám ǀ gáuḥ ǀ pṛ́śniḥ ǀ akramīt ǀ ásadat ǀ mātáram ǀ puráḥ ǀ
pitáram ǀ ca ǀ pra-yán ǀ sváríti sváḥ ǁā ǀ ayam ǀ gauḥ ǀ pṛśniḥ ǀ akramīt ǀ asadat ǀ mātaram ǀ puraḥ ǀ
pitaram ǀ ca ǀ pra-yan ǀ svariti svaḥ ǁ10.189.1 Aṣṭaka 8.8.47.1Anuvāka 10.12.160
-
Ṛk 2
अं॒तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती ।
व्य॑ख्यन्महि॒षो दिवं॑ ॥अन्तश् चरति रोचनास्य प्राणाद् अपानती |
व्य् अख्यन् महिषो दिवम् ||antáścarati rocanā́syá prāṇā́dapānatī́ ǀ
vyákhyanmahiṣó dívam ǁantaś carati rocanāsya prāṇād apānatī |
vy akhyan mahiṣo divam ||अ॒न्तरिति॑ । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒प॒ऽअ॒न॒ती ।
वि । अ॒ख्य॒त् । म॒हि॒षः । दिव॑म् ॥अन्तरिति । चरति । रोचना । अस्य । प्राणात् । अपऽअनती ।
वि । अख्यत् । महिषः । दिवम् ॥antáríti ǀ carati ǀ rocanā́ ǀ asyá ǀ prāṇā́t ǀ apa-anatī́ ǀ
ví ǀ akhyat ǀ mahiṣáḥ ǀ dívam ǁantariti ǀ carati ǀ rocanā ǀ asya ǀ prāṇāt ǀ apa-anatī ǀ
vi ǀ akhyat ǀ mahiṣaḥ ǀ divam ǁ10.189.2 Aṣṭaka 8.8.47.2Anuvāka 10.12.161
-
Ṛk 3
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑तं॒गाय॑ धीयते ।
प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥त्रिंशद् धाम वि राजति वाक् पतङ्गाय धीयते |
प्रति वस्तोर् अह द्युभिः ||triṃśáddhā́ma ví rājati vā́kpataṅgā́ya dhīyate ǀ
práti vástoráha dyúbhiḥ ǁtriṃśad dhāma vi rājati vāk pataṅgāya dhīyate |
prati vastor aha dyubhiḥ ||त्रिं॒शत् । धाम॑ । वि । रा॒ज॒ति॒ । वाक् । प॒त॒ङ्गाय॑ । धी॒य॒ते॒ ।
प्रति॑ । वस्तोः॑ । अह॑ । द्युऽभिः॑ ॥त्रिंशत् । धाम । वि । राजति । वाक् । पतङ्गाय । धीयते ।
प्रति । वस्तोः । अह । द्युऽभिः ॥triṃśát ǀ dhā́ma ǀ ví ǀ rājati ǀ vā́k ǀ pataṅgā́ya ǀ dhīyate ǀ
práti ǀ vástoḥ ǀ áha ǀ dyú-bhiḥ ǁtriṃśat ǀ dhāma ǀ vi ǀ rājati ǀ vāk ǀ pataṅgāya ǀ dhīyate ǀ
prati ǀ vastoḥ ǀ aha ǀ dyu-bhiḥ ǁ10.189.3 Aṣṭaka 8.8.47.3Anuvāka 10.12.162
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.