Sūkta 81
- Devatā देवता
- Viśvakarman
- Ṛṣi ऋषि
- Viśvakarman Bhauvana
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 6); bhuriktriṣṭup (3, 7); pādanicṛttriṣṭup (2); svarāṭtriṣṭup (4); triṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑ ।
स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः |
स आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवरां आ विवेश ||yá imā́ víśvā bhúvanāni júhvadṛ́ṣirhótā nyásīdatpitā́ naḥ ǀ
sá āśíṣā dráviṇamicchámānaḥ prathamacchádávarām̐ ā́ viveśa ǁya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ |
sa āśiṣā draviṇam icchamānaḥ prathamacchad avarāṃ ā viveśa ||यः । इ॒मा । विश्वा॑ । भुव॑नानि । जुह्व॑त् । ऋषिः॑ । होता॑ । नि । असी॑दत् । पि॒ता । नः॒ ।
सः । आ॒ऽशिषा॑ । द्रवि॑णम् । इ॒च्छमा॑नः । प्र॒थ॒म॒ऽछत् । अव॑रान् । आ । वि॒वे॒श॒ ॥यः । इमा । विश्वा । भुवनानि । जुह्वत् । ऋषिः । होता । नि । असीदत् । पिता । नः ।
सः । आऽशिषा । द्रविणम् । इच्छमानः । प्रथमऽछत् । अवरान् । आ । विवेश ॥yáḥ ǀ imā́ ǀ víśvā ǀ bhúvanāni ǀ júhvat ǀ ṛ́ṣiḥ ǀ hótā ǀ ní ǀ ásīdat ǀ pitā́ ǀ naḥ ǀ
sáḥ ǀ ā-śíṣā ǀ dráviṇam ǀ icchámānaḥ ǀ prathama-chát ǀ ávarān ǀ ā́ ǀ viveśa ǁyaḥ ǀ imā ǀ viśvā ǀ bhuvanāni ǀ juhvat ǀ ṛṣiḥ ǀ hotā ǀ ni ǀ asīdat ǀ pitā ǀ naḥ ǀ
saḥ ǀ ā-śiṣā ǀ draviṇam ǀ icchamānaḥ ǀ prathama-chat ǀ avarān ǀ ā ǀ viveśa ǁ10.81.1 Aṣṭaka 8.3.16.1Anuvāka 10.6.108
-
Ṛk 2
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रंभ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् ।
यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥किं स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् |
यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ||kím svidāsīdadhiṣṭhā́namārámbhaṇam katamátsvitkathā́sīt ǀ
yáto bhū́mim janáyanviśvákarmā ví dyā́máurṇonmahinā́ viśvácakṣāḥ ǁkiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt |
yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ ||किम् । स्वि॒त् । आ॒सी॒त् । अ॒धि॒ऽस्थान॑म् । आ॒ऽरम्भ॑णम् । क॒त॒मत् । स्वि॒त् । क॒था । आ॒सी॒त् ।
यतः॑ । भूमि॑म् । ज॒नय॑न् । वि॒श्वऽक॑र्मा । वि । द्याम् । और्णो॑त् । म॒हि॒ना । वि॒श्वऽच॑क्षाः ॥किम् । स्वित् । आसीत् । अधिऽस्थानम् । आऽरम्भणम् । कतमत् । स्वित् । कथा । आसीत् ।
यतः । भूमिम् । जनयन् । विश्वऽकर्मा । वि । द्याम् । और्णोत् । महिना । विश्वऽचक्षाः ॥kím ǀ svit ǀ āsīt ǀ adhi-sthā́nam ǀ ā-rámbhaṇam ǀ katamát ǀ svit ǀ kathā́ ǀ āsīt ǀ
yátaḥ ǀ bhū́mim ǀ janáyan ǀ viśvá-karmā ǀ ví ǀ dyā́m ǀ áurṇot ǀ mahinā́ ǀ viśvá-cakṣāḥ ǁkim ǀ svit ǀ āsīt ǀ adhi-sthānam ǀ ā-rambhaṇam ǀ katamat ǀ svit ǀ kathā ǀ āsīt ǀ
yataḥ ǀ bhūmim ǀ janayan ǀ viśva-karmā ǀ vi ǀ dyām ǀ aurṇot ǀ mahinā ǀ viśva-cakṣāḥ ǁ10.81.2 Aṣṭaka 8.3.16.2Anuvāka 10.6.109
-
Ṛk 3
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नयं॑दे॒व एकः॑ ॥विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् |
सम् बाहुभ्यां धमति सम् पतत्रैर् द्यावाभूमी जनयन् देव एकः ||viśvátaścakṣurutá viśvátomukho viśvátobāhurutá viśvátaspāt ǀ
sám bāhúbhyām dhámati sám pátatrairdyā́vābhū́mī janáyandevá ékaḥ ǁviśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt |
sam bāhubhyāṃ dhamati sam patatrair dyāvābhūmī janayan deva ekaḥ ||वि॒श्वतः॑ऽचक्षुः । उ॒त । वि॒श्वतः॑ऽमुखः । वि॒श्वतः॑ऽबाहुः । उ॒त । वि॒श्वतः॑ऽपात् ।
सम् । बा॒हुऽभ्या॑म् । धम॑ति । सम् । पत॑त्रैः । द्यावा॒भूमी॒ इति॑ । ज॒नय॑न् । दे॒वः । एकः॑ ॥विश्वतःऽचक्षुः । उत । विश्वतःऽमुखः । विश्वतःऽबाहुः । उत । विश्वतःऽपात् ।
सम् । बाहुऽभ्याम् । धमति । सम् । पतत्रैः । द्यावाभूमी इति । जनयन् । देवः । एकः ॥viśvátaḥ-cakṣuḥ ǀ utá ǀ viśvátaḥ-mukhaḥ ǀ viśvátaḥ-bāhuḥ ǀ utá ǀ viśvátaḥ-pāt ǀ
sám ǀ bāhú-bhyām ǀ dhámati ǀ sám ǀ pátatraiḥ ǀ dyā́vābhū́mī íti ǀ janáyan ǀ deváḥ ǀ ékaḥ ǁviśvataḥ-cakṣuḥ ǀ uta ǀ viśvataḥ-mukhaḥ ǀ viśvataḥ-bāhuḥ ǀ uta ǀ viśvataḥ-pāt ǀ
sam ǀ bāhu-bhyām ǀ dhamati ǀ sam ǀ patatraiḥ ǀ dyāvābhūmī iti ǀ janayan ǀ devaḥ ǀ ekaḥ ǁ10.81.3 Aṣṭaka 8.3.16.3Anuvāka 10.6.110
-
Ṛk 4
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः |
मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ||kím svidvánam ká u sá vṛkṣá āsa yáto dyā́vāpṛthivī́ niṣṭatakṣúḥ ǀ
mánīṣiṇo mánasā pṛcchátédu tádyádadhyátiṣṭhadbhúvanāni dhāráyan ǁkiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ |
manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan ||किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।
मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊं॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥किम् । स्वित् । वनम् । कः । ऊं इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःऽततक्षुः ।
मनीषिणः । मनसा । पृच्छत । इत् । ऊं इति । तत् । यत् । अधिऽअतिष्ठत् । भुवनानि । धारयन् ॥kím ǀ svit ǀ vánam ǀ káḥ ǀ ūṃ íti ǀ sáḥ ǀ vṛkṣáḥ ǀ āsa ǀ yátaḥ ǀ dyā́vāpṛthivī́ íti ǀ niḥ-tatakṣúḥ ǀ
mánīṣiṇaḥ ǀ mánasā ǀ pṛccháta ǀ ít ǀ ūṃ íti ǀ tát ǀ yát ǀ adhi-átiṣṭhat ǀ bhúvanāni ǀ dhāráyan ǁkim ǀ svit ǀ vanam ǀ kaḥ ǀ ūṃ iti ǀ saḥ ǀ vṛkṣaḥ ǀ āsa ǀ yataḥ ǀ dyāvāpṛthivī iti ǀ niḥ-tatakṣuḥ ǀ
manīṣiṇaḥ ǀ manasā ǀ pṛcchata ǀ it ǀ ūṃ iti ǀ tat ǀ yat ǀ adhi-atiṣṭhat ǀ bhuvanāni ǀ dhārayan ǁ10.81.4 Aṣṭaka 8.3.16.4Anuvāka 10.6.111
-
Ṛk 5
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।
शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा |
शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ||yā́ te dhā́māni paramā́ṇi yā́vamā́ yā́ madhyamā́ viśvakarmannutémā́ ǀ
śíkṣā sákhibhyo havíṣi svadhāvaḥ svayám yajasva tanvám vṛdhānáḥ ǁyā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā |
śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṃ yajasva tanvaṃ vṛdhānaḥ ||या । ते॒ । धामा॑नि । प॒र॒माणि॑ । या । अ॒व॒मा । या । म॒ध्य॒मा । वि॒श्व॒ऽक॒र्म॒न् । उ॒त । इ॒मा ।
शिक्ष॑ । सखि॑ऽभ्यः । ह॒विषि॑ । स्व॒धा॒ऽवः॒ । स्व॒यम् । य॒ज॒स्व॒ । त॒न्व॑म् । वृ॒धा॒नः ॥या । ते । धामानि । परमाणि । या । अवमा । या । मध्यमा । विश्वऽकर्मन् । उत । इमा ।
शिक्ष । सखिऽभ्यः । हविषि । स्वधाऽवः । स्वयम् । यजस्व । तन्वम् । वृधानः ॥yā́ ǀ te ǀ dhā́māni ǀ paramā́ṇi ǀ yā́ ǀ avamā́ ǀ yā́ ǀ madhyamā́ ǀ viśva-karman ǀ utá ǀ imā́ ǀ
śíkṣa ǀ sákhi-bhyaḥ ǀ havíṣi ǀ svadhā-vaḥ ǀ svayám ǀ yajasva ǀ tanvám ǀ vṛdhānáḥ ǁyā ǀ te ǀ dhāmāni ǀ paramāṇi ǀ yā ǀ avamā ǀ yā ǀ madhyamā ǀ viśva-karman ǀ uta ǀ imā ǀ
śikṣa ǀ sakhi-bhyaḥ ǀ haviṣi ǀ svadhā-vaḥ ǀ svayam ǀ yajasva ǀ tanvam ǀ vṛdhānaḥ ǁ10.81.5 Aṣṭaka 8.3.16.5Anuvāka 10.6.112
-
Ṛk 6
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्यां ।
मुह्यं॑त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् |
मुह्यन्त्व् अन्ये अभितो जनास इहास्माकम् मघवा सूरिर् अस्तु ||víśvakarmanhavíṣā vāvṛdhānáḥ svayám yajasva pṛthivī́mutá dyā́m ǀ
múhyantvanyé abhíto jánāsa ihā́smā́kam maghávā sūrírastu ǁviśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām |
muhyantv anye abhito janāsa ihāsmākam maghavā sūrir astu ||विश्व॑ऽकर्मन् । ह॒विषा॑ । व॒वृ॒धा॒नः । स्व॒यम् । य॒ज॒स्व॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
मुह्य॑न्तु । अ॒न्ये । अ॒भितः॑ । जना॑सः । इ॒ह । अ॒स्माक॑म् । म॒घऽवा॑ । सू॒रिः । अ॒स्तु॒ ॥विश्वऽकर्मन् । हविषा । ववृधानः । स्वयम् । यजस्व । पृथिवीम् । उत । द्याम् ।
मुह्यन्तु । अन्ये । अभितः । जनासः । इह । अस्माकम् । मघऽवा । सूरिः । अस्तु ॥víśva-karman ǀ havíṣā ǀ vavṛdhānáḥ ǀ svayám ǀ yajasva ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ
múhyantu ǀ anyé ǀ abhítaḥ ǀ jánāsaḥ ǀ ihá ǀ asmā́kam ǀ maghá-vā ǀ sūríḥ ǀ astu ǁviśva-karman ǀ haviṣā ǀ vavṛdhānaḥ ǀ svayam ǀ yajasva ǀ pṛthivīm ǀ uta ǀ dyām ǀ
muhyantu ǀ anye ǀ abhitaḥ ǀ janāsaḥ ǀ iha ǀ asmākam ǀ magha-vā ǀ sūriḥ ǀ astu ǁ10.81.6 Aṣṭaka 8.3.16.6Anuvāka 10.6.113
-
Ṛk 7
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वशं॑भू॒रव॑से सा॒धुक॑र्मा ॥वाचस् पतिं विश्वकर्माणम् ऊतये मनोजुवं वाजे अद्या हुवेम |
स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ||vācáspátim viśvákarmāṇamūtáye manojúvam vā́je adyā́ huvema ǀ
sá no víśvāni hávanāni joṣadviśváśambhūrávase sādhúkarmā ǁvācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema |
sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā ||वा॒चः । पति॑म् । वि॒श्वऽक॑र्माणम् । ऊ॒तये॑ । म॒नः॒ऽजुव॑म् । वाजे॑ । अ॒द्य । हु॒वे॒म॒ ।
सः । नः॒ । विश्वा॑नि । हव॑नानि । जो॒ष॒त् । वि॒श्वऽश॑म्भूः । अव॑से । सा॒धुऽक॑र्मा ॥वाचः । पतिम् । विश्वऽकर्माणम् । ऊतये । मनःऽजुवम् । वाजे । अद्य । हुवेम ।
सः । नः । विश्वानि । हवनानि । जोषत् । विश्वऽशम्भूः । अवसे । साधुऽकर्मा ॥vācáḥ ǀ pátim ǀ viśvá-karmāṇam ǀ ūtáye ǀ manaḥ-júvam ǀ vā́je ǀ adyá ǀ huvema ǀ
sáḥ ǀ naḥ ǀ víśvāni ǀ hávanāni ǀ joṣat ǀ viśvá-śambhūḥ ǀ ávase ǀ sādhú-karmā ǁvācaḥ ǀ patim ǀ viśva-karmāṇam ǀ ūtaye ǀ manaḥ-juvam ǀ vāje ǀ adya ǀ huvema ǀ
saḥ ǀ naḥ ǀ viśvāni ǀ havanāni ǀ joṣat ǀ viśva-śambhūḥ ǀ avase ǀ sādhu-karmā ǁ10.81.7 Aṣṭaka 8.3.16.7Anuvāka 10.6.114
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.