Sūkta 144
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Suparṇa Tārkṣyaputra Or Ūrdhvakṛśana Yāmāyana
- Chandas छन्दस्
- Gāyatrī, Bṛhatī, Satobṛhatī, Viṣṭārapaṅkti
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 3); svarāḍārcībṛhatī (2); bhuriggāyatrī (4); satobṛhatī (5); nicṛtpaṅkti (6)
2nd set of styles gāyatrī (1, 3, 4); bṛhatī (2); satobṛhatī (5); viṣṭārapaṅkti (6)
-
Ṛk 1
अ॒यं हि ते॒ अम॑र्त्य॒ इंदु॒रत्यो॒ न पत्य॑ते ।
दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥अयं हि ते अमर्त्य इन्दुर् अत्यो न पत्यते |
दक्षो विश्वायुर् वेधसे ||ayám hí te ámartya índurátyo ná pátyate ǀ
dákṣo viśvā́yurvedháse ǁayaṃ hi te amartya indur atyo na patyate |
dakṣo viśvāyur vedhase ||अ॒यम् । हि । ते॒ । अम॑र्त्यः । इन्दुः॑ । अत्यः॑ । न । पत्य॑ते ।
दक्षः॑ । वि॒श्वऽआ॑युः । वे॒धसे॑ ॥अयम् । हि । ते । अमर्त्यः । इन्दुः । अत्यः । न । पत्यते ।
दक्षः । विश्वऽआयुः । वेधसे ॥ayám ǀ hí ǀ te ǀ ámartyaḥ ǀ índuḥ ǀ átyaḥ ǀ ná ǀ pátyate ǀ
dákṣaḥ ǀ viśvá-āyuḥ ǀ vedháse ǁayam ǀ hi ǀ te ǀ amartyaḥ ǀ induḥ ǀ atyaḥ ǀ na ǀ patyate ǀ
dakṣaḥ ǀ viśva-āyuḥ ǀ vedhase ǁ10.144.1 Aṣṭaka 8.8.2.1Anuvāka 10.11.102
-
Ṛk 2
अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते ।
अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मदं॑ ॥अयम् अस्मासु काव्य ऋभुर् वज्रो दास्वते |
अयम् बिभर्त्य् ऊर्ध्वकृशनम् मदम् ऋभुर् न कृत्व्यम् मदम् ||ayámasmā́su kā́vya ṛbhúrvájro dā́svate ǀ
ayám bibhartyūrdhvákṛśanam mádamṛbhúrná kṛ́tvyam mádam ǁayam asmāsu kāvya ṛbhur vajro dāsvate |
ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam ||अ॒यम् । अ॒स्मासु॑ । काव्यः॑ । ऋ॒भुः । वज्रः॑ । दास्व॑ते ।
अ॒यम् । बि॒भ॒र्ति॒ । ऊ॒र्ध्वऽकृ॑शनम् । मद॑म् । ऋ॒भुः । न । कृत्व्य॑म् । मद॑म् ॥अयम् । अस्मासु । काव्यः । ऋभुः । वज्रः । दास्वते ।
अयम् । बिभर्ति । ऊर्ध्वऽकृशनम् । मदम् । ऋभुः । न । कृत्व्यम् । मदम् ॥ayám ǀ asmā́su ǀ kā́vyaḥ ǀ ṛbhúḥ ǀ vájraḥ ǀ dā́svate ǀ
ayám ǀ bibharti ǀ ūrdhvá-kṛśanam ǀ mádam ǀ ṛbhúḥ ǀ ná ǀ kṛ́tvyam ǀ mádam ǁayam ǀ asmāsu ǀ kāvyaḥ ǀ ṛbhuḥ ǀ vajraḥ ǀ dāsvate ǀ
ayam ǀ bibharti ǀ ūrdhva-kṛśanam ǀ madam ǀ ṛbhuḥ ǀ na ǀ kṛtvyam ǀ madam ǁ10.144.2 Aṣṭaka 8.8.2.2Anuvāka 10.11.103
-
Ṛk 3
घृषुः॑ श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः ।
अव॑ दीधेदही॒शुवः॑ ॥घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः |
अव दीधेद् अहीशुवः ||ghṛ́ṣuḥ śyenā́ya kṛ́tvana āsú svā́su váṃsagaḥ ǀ
áva dīdhedahīśúvaḥ ǁghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsagaḥ |
ava dīdhed ahīśuvaḥ ||घृषुः॑ । श्ये॒नाय॑ । कृत्व॑ने । आ॒सु । स्वासु॑ । वंस॑गः ।
अव॑ । दी॒धे॒त् । अ॒ही॒शुवः॑ ॥घृषुः । श्येनाय । कृत्वने । आसु । स्वासु । वंसगः ।
अव । दीधेत् । अहीशुवः ॥ghṛ́ṣuḥ ǀ śyenā́ya ǀ kṛ́tvane ǀ āsú ǀ svā́su ǀ váṃsagaḥ ǀ
áva ǀ dīdhet ǀ ahīśúvaḥ ǁghṛṣuḥ ǀ śyenāya ǀ kṛtvane ǀ āsu ǀ svāsu ǀ vaṃsagaḥ ǀ
ava ǀ dīdhet ǀ ahīśuvaḥ ǁ10.144.3 Aṣṭaka 8.8.2.3Anuvāka 10.11.104
-
Ṛk 4
यं सु॑प॒र्णः प॑रा॒वतः॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत् ।
श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् |
शतचक्रं यो ऽह्यो वर्तनिः ||yám suparṇáḥ parāvátaḥ śyenásya putrá ā́bharat ǀ
śatácakram yó’hyó vartaníḥ ǁyaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat |
śatacakraṃ yo 'hyo vartaniḥ ||यम् । सु॒ऽप॒र्णः । प॒रा॒ऽवतः॑ । श्ये॒नस्य॑ । पु॒त्रः । आ । अभ॑रत् ।
श॒तऽच॑क्रम् । यः । अ॒ह्यः॑ । व॒र्त॒निः ॥यम् । सुऽपर्णः । पराऽवतः । श्येनस्य । पुत्रः । आ । अभरत् ।
शतऽचक्रम् । यः । अह्यः । वर्तनिः ॥yám ǀ su-parṇáḥ ǀ parā-vátaḥ ǀ śyenásya ǀ putráḥ ǀ ā́ ǀ ábharat ǀ
śatá-cakram ǀ yáḥ ǀ ahyáḥ ǀ vartaníḥ ǁyam ǀ su-parṇaḥ ǀ parā-vataḥ ǀ śyenasya ǀ putraḥ ǀ ā ǀ abharat ǀ
śata-cakram ǀ yaḥ ǀ ahyaḥ ǀ vartaniḥ ǁ10.144.4 Aṣṭaka 8.8.2.4Anuvāka 10.11.105
-
Ṛk 5
यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमंध॑सः ।
ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार बं॒धुता॑ ॥यं ते श्येनश् चारुम् अवृकम् पदाभरद् अरुणम् मानम् अन्धसः |
एना वयो वि तार्य् आयुर् जीवस एना जागार बन्धुता ||yám te śyenáścā́rumavṛkám padā́bharadaruṇám mānámándhasaḥ ǀ
enā́ váyo ví tāryā́yurjīvása enā́ jāgāra bandhútā ǁyaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ |
enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā ||यम् । ते॒ । श्ये॒नः । चारु॑म् । अ॒वृ॒कम् । प॒दा । आ । अभ॑रत् । अ॒रु॒णम् । मा॒नम् । अन्ध॑सः ।
ए॒ना । वयः॑ । वि । ता॒रि॒ । आयुः॑ । जी॒वसे॑ । ए॒ना । जा॒गा॒र॒ । ब॒न्धुता॑ ॥यम् । ते । श्येनः । चारुम् । अवृकम् । पदा । आ । अभरत् । अरुणम् । मानम् । अन्धसः ।
एना । वयः । वि । तारि । आयुः । जीवसे । एना । जागार । बन्धुता ॥yám ǀ te ǀ śyenáḥ ǀ cā́rum ǀ avṛkám ǀ padā́ ǀ ā́ ǀ ábharat ǀ aruṇám ǀ mānám ǀ ándhasaḥ ǀ
enā́ ǀ váyaḥ ǀ ví ǀ tāri ǀ ā́yuḥ ǀ jīváse ǀ enā́ ǀ jāgāra ǀ bandhútā ǁyam ǀ te ǀ śyenaḥ ǀ cārum ǀ avṛkam ǀ padā ǀ ā ǀ abharat ǀ aruṇam ǀ mānam ǀ andhasaḥ ǀ
enā ǀ vayaḥ ǀ vi ǀ tāri ǀ āyuḥ ǀ jīvase ǀ enā ǀ jāgāra ǀ bandhutā ǁ10.144.5 Aṣṭaka 8.8.2.5Anuvāka 10.11.106
-
Ṛk 6
ए॒वा तदिंद्र॒ इंदु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ ।
क्रत्वा॒ वयो॒ वि ता॒र्यायुः॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥एवा तद् इन्द्र इन्दुना देवेषु चिद् धारयाते महि त्यजः |
क्रत्वा वयो वि तार्य् आयुः सुक्रतो क्रत्वायम् अस्मद् आ सुतः ||evā́ tádíndra índunā devéṣu ciddhārayāte máhi tyájaḥ ǀ
krátvā váyo ví tāryā́yuḥ sukrato krátvāyámasmádā́ sutáḥ ǁevā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ |
kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ ||ए॒व । तत् । इन्द्रः॑ । इन्दु॑ना । दे॒वेषु॑ । चि॒त् । धा॒र॒या॒ते॒ । महि॑ । त्यजः॑ ।
क्रत्वा॑ । वयः॑ । वि । ता॒रि॒ । आयुः॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । क्रत्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥एव । तत् । इन्द्रः । इन्दुना । देवेषु । चित् । धारयाते । महि । त्यजः ।
क्रत्वा । वयः । वि । तारि । आयुः । सुक्रतो इति सुऽक्रतो । क्रत्वा । अयम् । अस्मत् । आ । सुतः ॥evá ǀ tát ǀ índraḥ ǀ índunā ǀ devéṣu ǀ cit ǀ dhārayāte ǀ máhi ǀ tyájaḥ ǀ
krátvā ǀ váyaḥ ǀ ví ǀ tāri ǀ ā́yuḥ ǀ sukrato íti su-krato ǀ krátvā ǀ ayám ǀ asmát ǀ ā́ ǀ sutáḥ ǁeva ǀ tat ǀ indraḥ ǀ indunā ǀ deveṣu ǀ cit ǀ dhārayāte ǀ mahi ǀ tyajaḥ ǀ
kratvā ǀ vayaḥ ǀ vi ǀ tāri ǀ āyuḥ ǀ sukrato iti su-krato ǀ kratvā ǀ ayam ǀ asmat ǀ ā ǀ sutaḥ ǁ10.144.6 Aṣṭaka 8.8.2.6Anuvāka 10.11.107
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.