Ṛgveda · Maṇḍala 10

Sūkta 32

Indra · Indra, Agni · Kavaṣa Ailūṣa · 9 ṛks

Link
Devatā देवता
1-5, 7-9: Indra; 6: Indra, Agni
Ṛṣi ऋषि
Kavaṣa Ailūṣa
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles virāḍjagatī (1, 2); svarāḍārcītriṣṭup (5, 7); nicṛttriṣṭup (8, 9); nicṛjjagatī (3); pādanicṛjjgatī (4); triṣṭup (6)

2nd set of styles jagatī (1-5); triṣṭubh (6-9)

  1. Ṛk 1

    प्र सु ग्मंता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः ।
    अ॒स्माक॒मिंद्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यांध॑सो॒ बुबो॑धति ॥

    प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर् वरां अभि षु प्रसीदतः |
    अस्माकम् इन्द्र उभयं जुजोषति यत् सोम्यस्यान्धसो बुबोधति ||

    prá sú gmántā dhiyasānásya sakṣáṇi varébhirvarā́m̐ abhí ṣú prasī́dataḥ ǀ
    asmā́kamíndra ubháyam jujoṣati yátsomyásyā́ndhaso búbodhati ǁ

    pra su gmantā dhiyasānasya sakṣaṇi varebhir varāṃ abhi ṣu prasīdataḥ |
    asmākam indra ubhayaṃ jujoṣati yat somyasyāndhaso bubodhati ||

    प्र । सु । ग्मन्ता॑ । धि॒य॒सा॒नस्य॑ । स॒क्षणि॑ । व॒रेभिः॑ । व॒रान् । अ॒भि । सु । प्र॒ऽसीद॑तः ।
    अ॒स्माक॑म् । इन्द्रः॑ । उ॒भय॑म् । जु॒जो॒ष॒ति॒ । यत् । सो॒म्यस्य॑ । अन्ध॑सः । बुबो॑धति ॥

    प्र । सु । ग्मन्ता । धियसानस्य । सक्षणि । वरेभिः । वरान् । अभि । सु । प्रऽसीदतः ।
    अस्माकम् । इन्द्रः । उभयम् । जुजोषति । यत् । सोम्यस्य । अन्धसः । बुबोधति ॥

    prá ǀ sú ǀ gmántā ǀ dhiyasānásya ǀ sakṣáṇi ǀ varébhiḥ ǀ varā́n ǀ abhí ǀ sú ǀ pra-sī́dataḥ ǀ
    asmā́kam ǀ índraḥ ǀ ubháyam ǀ jujoṣati ǀ yát ǀ somyásya ǀ ándhasaḥ ǀ búbodhati ǁ

    pra ǀ su ǀ gmantā ǀ dhiyasānasya ǀ sakṣaṇi ǀ varebhiḥ ǀ varān ǀ abhi ǀ su ǀ pra-sīdataḥ ǀ
    asmākam ǀ indraḥ ǀ ubhayam ǀ jujoṣati ǀ yat ǀ somyasya ǀ andhasaḥ ǀ bubodhati ǁ

    10.32.1 Aṣṭaka 7.7.29.1Anuvāka 10.3.27

  2. Ṛk 2

    वीं॑द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत ।
    ये त्वा॒ वहं॑ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वंतु वग्व॒नाँ अ॑रा॒धसः॑ ॥

    वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत |
    ये त्वा वहन्ति मुहुर् अध्वरां उप ते सु वन्वन्तु वग्वनां अराधसः ||

    vī́ndra yāsi divyā́ni rocanā́ ví pā́rthivāni rájasā puruṣṭuta ǀ
    yé tvā váhanti múhuradhvarā́m̐ úpa té sú vanvantu vagvanā́m̐ arādhásaḥ ǁ

    vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta |
    ye tvā vahanti muhur adhvarāṃ upa te su vanvantu vagvanāṃ arādhasaḥ ||

    वि । इ॒न्द्र॒ । या॒सि॒ । दि॒व्यानि॑ । रो॒च॒ना । वि । पार्थि॑वानि । रज॑सा । पु॒रु॒ऽस्तु॒त॒ ।
    ये । त्वा॒ । वह॑न्ति । मुहुः॑ । अ॒ध्व॒रान् । उप॑ । ते । सु । व॒न्व॒न्तु॒ । व॒ग्व॒नान् । अ॒रा॒धसः॑ ॥

    वि । इन्द्र । यासि । दिव्यानि । रोचना । वि । पार्थिवानि । रजसा । पुरुऽस्तुत ।
    ये । त्वा । वहन्ति । मुहुः । अध्वरान् । उप । ते । सु । वन्वन्तु । वग्वनान् । अराधसः ॥

    ví ǀ indra ǀ yāsi ǀ divyā́ni ǀ rocanā́ ǀ ví ǀ pā́rthivāni ǀ rájasā ǀ puru-stuta ǀ
    yé ǀ tvā ǀ váhanti ǀ múhuḥ ǀ adhvarā́n ǀ úpa ǀ té ǀ sú ǀ vanvantu ǀ vagvanā́n ǀ arādhásaḥ ǁ

    vi ǀ indra ǀ yāsi ǀ divyāni ǀ rocanā ǀ vi ǀ pārthivāni ǀ rajasā ǀ puru-stuta ǀ
    ye ǀ tvā ǀ vahanti ǀ muhuḥ ǀ adhvarān ǀ upa ǀ te ǀ su ǀ vanvantu ǀ vagvanān ǀ arādhasaḥ ǁ

    10.32.2 Aṣṭaka 7.7.29.2Anuvāka 10.3.28

  3. Ṛk 3

    तदिन्मे॑ छंत्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं॑ पि॒त्रोर॒धीय॑ति ।
    जा॒या पतिं॑ वहति व॒ग्नुना॑ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ॥

    तद् इन् मे छन्त्सद् वपुषो वपुष्टरम् पुत्रो यज् जानम् पित्रोर् अधीयति |
    जाया पतिं वहति वग्नुना सुमत् पुंस इद् भद्रो वहतुः परिष्कृतः ||

    tádínme chantsadvápuṣo vápuṣṭaram putró yájjā́nam pitróradhī́yati ǀ
    jāyā́ pátim vahati vagnúnā sumátpuṃsá ídbhadró vahatúḥ páriṣkṛtaḥ ǁ

    tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati |
    jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ ||

    तत् । इत् । मे॒ । छ॒न्त्स॒त् । वपु॑षः । वपुः॑ऽतरम् । पु॒त्रः । यत् । जान॑म् । पि॒त्रोः । अ॒धि॒ऽइय॑ति ।
    जा॒या । पति॑म् । व॒ह॒ति॒ । व॒ग्नुना॑ । सु॒ऽमत् । पुं॒सः । इत् । भ॒द्रः । व॒ह॒तुः । परि॑ऽकृतः ॥

    तत् । इत् । मे । छन्त्सत् । वपुषः । वपुःऽतरम् । पुत्रः । यत् । जानम् । पित्रोः । अधिऽइयति ।
    जाया । पतिम् । वहति । वग्नुना । सुऽमत् । पुंसः । इत् । भद्रः । वहतुः । परिऽकृतः ॥

    tát ǀ ít ǀ me ǀ chantsat ǀ vápuṣaḥ ǀ vápuḥ-taram ǀ putráḥ ǀ yát ǀ jā́nam ǀ pitróḥ ǀ adhi-íyati ǀ
    jāyā́ ǀ pátim ǀ vahati ǀ vagnúnā ǀ su-mát ǀ puṃsáḥ ǀ ít ǀ bhadráḥ ǀ vahatúḥ ǀ pári-kṛtaḥ ǁ

    tat ǀ it ǀ me ǀ chantsat ǀ vapuṣaḥ ǀ vapuḥ-taram ǀ putraḥ ǀ yat ǀ jānam ǀ pitroḥ ǀ adhi-iyati ǀ
    jāyā ǀ patim ǀ vahati ǀ vagnunā ǀ su-mat ǀ puṃsaḥ ǀ it ǀ bhadraḥ ǀ vahatuḥ ǀ pari-kṛtaḥ ǁ

    10.32.3 Aṣṭaka 7.7.29.3Anuvāka 10.3.29

  4. Ṛk 4

    तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास॑न्वह॒तुं न धे॒नवः॑ ।
    मा॒ता यन्मंतु॑र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा॑तु॒रिज्जनः॑ ॥

    तद् इत् सधस्थम् अभि चारु दीधय गावो यच् छासन् वहतुं न धेनवः |
    माता यन् मन्तुर् यूथस्य पूर्व्याभि वाणस्य सप्तधातुर् इज् जनः ||

    tádítsadhásthamabhí cā́ru dīdhaya gā́vo yácchā́sanvahatúm ná dhenávaḥ ǀ
    mātā́ yánmánturyūthásya pūrvyā́bhí vāṇásya saptádhāturíjjánaḥ ǁ

    tad it sadhastham abhi cāru dīdhaya gāvo yac chāsan vahatuṃ na dhenavaḥ |
    mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ ||

    तत् । इत् । स॒धऽस्थ॑म् । अ॒भि । चारु॑ । दी॒ध॒य॒ । गावः॑ । यत् । शास॑न् । व॒ह॒तुम् । न । धे॒नवः॑ ।
    मा॒ता । यत् । मन्तुः॑ । यू॒थस्य॑ । पू॒र्व्या । अ॒भि । वा॒णस्य॑ । स॒प्तऽधा॑तुः । इत् । जनः॑ ॥

    तत् । इत् । सधऽस्थम् । अभि । चारु । दीधय । गावः । यत् । शासन् । वहतुम् । न । धेनवः ।
    माता । यत् । मन्तुः । यूथस्य । पूर्व्या । अभि । वाणस्य । सप्तऽधातुः । इत् । जनः ॥

    tát ǀ ít ǀ sadhá-stham ǀ abhí ǀ cā́ru ǀ dīdhaya ǀ gā́vaḥ ǀ yát ǀ śā́san ǀ vahatúm ǀ ná ǀ dhenávaḥ ǀ
    mātā́ ǀ yát ǀ mántuḥ ǀ yūthásya ǀ pūrvyā́ ǀ abhí ǀ vāṇásya ǀ saptá-dhātuḥ ǀ ít ǀ jánaḥ ǁ

    tat ǀ it ǀ sadha-stham ǀ abhi ǀ cāru ǀ dīdhaya ǀ gāvaḥ ǀ yat ǀ śāsan ǀ vahatum ǀ na ǀ dhenavaḥ ǀ
    mātā ǀ yat ǀ mantuḥ ǀ yūthasya ǀ pūrvyā ǀ abhi ǀ vāṇasya ǀ sapta-dhātuḥ ǀ it ǀ janaḥ ǁ

    10.32.4 Aṣṭaka 7.7.29.4Anuvāka 10.3.30

  5. Ṛk 5

    प्र वोऽच्छा॑ रिरिचे देव॒युष्प॒दमेको॑ रु॒द्रेभि॑र्याति तु॒र्वणिः॑ ।
    ज॒रा वा॒ येष्व॒मृते॑षु दा॒वने॒ परि॑ व॒ ऊमे॑भ्यः सिंचता॒ मधु॑ ॥

    प्र वो ऽच्छा रिरिचे देवयुष् पदम् एको रुद्रेभिर् याति तुर्वणिः |
    जरा वा येष्व् अमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ||

    prá vó’cchā ririce devayúṣpadáméko rudrébhiryāti turváṇiḥ ǀ
    jarā́ vā yéṣvamṛ́teṣu dāváne pári va ū́mebhyaḥ siñcatā mádhu ǁ

    pra vo 'cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ |
    jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu ||

    प्र । वः॒ । अच्छ॑ । रि॒रि॒चे॒ । दे॒व॒ऽयुः । प॒दम् । एकः॑ । रु॒द्रेभिः॑ । या॒ति॒ । तु॒र्वणिः॑ ।
    ज॒रा । वा॒ । येषु॑ । अ॒मृते॑षु । दा॒वने॑ । परि॑ । वः॒ । ऊमे॑भ्यः । सि॒ञ्च॒त॒ । मधु॑ ॥

    प्र । वः । अच्छ । रिरिचे । देवऽयुः । पदम् । एकः । रुद्रेभिः । याति । तुर्वणिः ।
    जरा । वा । येषु । अमृतेषु । दावने । परि । वः । ऊमेभ्यः । सिञ्चत । मधु ॥

    prá ǀ vaḥ ǀ áccha ǀ ririce ǀ deva-yúḥ ǀ padám ǀ ékaḥ ǀ rudrébhiḥ ǀ yāti ǀ turváṇiḥ ǀ
    jarā́ ǀ vā ǀ yéṣu ǀ amṛ́teṣu ǀ dāváne ǀ pári ǀ vaḥ ǀ ū́mebhyaḥ ǀ siñcata ǀ mádhu ǁ

    pra ǀ vaḥ ǀ accha ǀ ririce ǀ deva-yuḥ ǀ padam ǀ ekaḥ ǀ rudrebhiḥ ǀ yāti ǀ turvaṇiḥ ǀ
    jarā ǀ vā ǀ yeṣu ǀ amṛteṣu ǀ dāvane ǀ pari ǀ vaḥ ǀ ūmebhyaḥ ǀ siñcata ǀ madhu ǁ

    10.32.5 Aṣṭaka 7.7.29.5Anuvāka 10.3.31

  6. Ṛk 6

    नि॒धी॒यमा॑न॒मप॑गूळ्हम॒प्सु प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।
    इंद्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगां॑ ॥

    निधीयमानम् अपगूऌहम् अप्सु प्र मे देवानां व्रतपा उवाच |
    इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ||

    nidhīyámānamápagūḷhamapsú prá me devā́nām vratapā́ uvāca ǀ
    índro vidvā́m̐ ánu hí tvā cacákṣa ténāhámagne ánuśiṣṭa ā́gām ǁ

    nidhīyamānam apagūḷham apsu pra me devānāṃ vratapā uvāca |
    indro vidvāṃ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām ||

    नि॒ऽधी॒यमा॑नम् । अप॑ऽगूळ्हम् । अ॒प्ऽसु । प्र । मे॒ । दे॒वाना॑म् । व्र॒त॒ऽपाः । उ॒वा॒च॒ ।
    इन्द्रः॑ । वि॒द्वान् । अनु॑ । हि । त्वा॒ । च॒चक्ष॑ । तेन॑ । अ॒हम् । अ॒ग्ने॒ । अनु॑ऽशिष्टः । आ । अ॒गा॒म् ॥

    निऽधीयमानम् । अपऽगूळ्हम् । अप्ऽसु । प्र । मे । देवानाम् । व्रतऽपाः । उवाच ।
    इन्द्रः । विद्वान् । अनु । हि । त्वा । चचक्ष । तेन । अहम् । अग्ने । अनुऽशिष्टः । आ । अगाम् ॥

    ni-dhīyámānam ǀ ápa-gūḷham ǀ ap-sú ǀ prá ǀ me ǀ devā́nām ǀ vrata-pā́ḥ ǀ uvāca ǀ
    índraḥ ǀ vidvā́n ǀ ánu ǀ hí ǀ tvā ǀ cacákṣa ǀ téna ǀ ahám ǀ agne ǀ ánu-śiṣṭaḥ ǀ ā́ ǀ agām ǁ

    ni-dhīyamānam ǀ apa-gūḷham ǀ ap-su ǀ pra ǀ me ǀ devānām ǀ vrata-pāḥ ǀ uvāca ǀ
    indraḥ ǀ vidvān ǀ anu ǀ hi ǀ tvā ǀ cacakṣa ǀ tena ǀ aham ǀ agne ǀ anu-śiṣṭaḥ ǀ ā ǀ agām ǁ

    10.32.6 Aṣṭaka 7.7.30.1Anuvāka 10.3.32

  7. Ṛk 7

    अक्षे॑त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः ।
    ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं विं॑दत्यंज॒सीनां॑ ॥

    अक्षेत्रवित् क्षेत्रविदं ह्य् अप्राट् स प्रैति क्षेत्रविदानुशिष्टः |
    एतद् वै भद्रम् अनुशासनस्योत स्रुतिं विन्दत्य् अञ्जसीनाम् ||

    ákṣetravitkṣetravídam hyáprāṭ sá práiti kṣetravídā́nuśiṣṭaḥ ǀ
    etádvái bhadrámanuśā́sanasyotá srutím vindatyañjasī́nām ǁ

    akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ |
    etad vai bhadram anuśāsanasyota srutiṃ vindaty añjasīnām ||

    अक्षे॑त्रऽवित् । क्षे॒त्र॒ऽविद॑म् । हि । अप्रा॑ट् । सः । प्र । ए॒ति॒ । क्षे॒त्र॒ऽविदा॑ । अनु॑ऽशिष्टः ।
    ए॒तत् । वै । भ॒द्रम् । अ॒नु॒ऽशास॑नस्य । उ॒त । स्रु॒तिम् । वि॒न्द॒ति॒ । अ॒ञ्ज॒सीना॑म् ॥

    अक्षेत्रऽवित् । क्षेत्रऽविदम् । हि । अप्राट् । सः । प्र । एति । क्षेत्रऽविदा । अनुऽशिष्टः ।
    एतत् । वै । भद्रम् । अनुऽशासनस्य । उत । स्रुतिम् । विन्दति । अञ्जसीनाम् ॥

    ákṣetra-vit ǀ kṣetra-vídam ǀ hí ǀ áprāṭ ǀ sáḥ ǀ prá ǀ eti ǀ kṣetra-vídā ǀ ánu-śiṣṭaḥ ǀ
    etát ǀ vái ǀ bhadrám ǀ anu-śā́sanasya ǀ utá ǀ srutím ǀ vindati ǀ añjasī́nām ǁ

    akṣetra-vit ǀ kṣetra-vidam ǀ hi ǀ aprāṭ ǀ saḥ ǀ pra ǀ eti ǀ kṣetra-vidā ǀ anu-śiṣṭaḥ ǀ
    etat ǀ vai ǀ bhadram ǀ anu-śāsanasya ǀ uta ǀ srutim ǀ vindati ǀ añjasīnām ǁ

    10.32.7 Aṣṭaka 7.7.30.2Anuvāka 10.3.33

  8. Ṛk 8

    अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी॑वृतो अधयन्मा॒तुरूधः॑ ।
    एमे॑नमाप जरि॒मा युवा॑न॒महे॑ळ॒न्वसुः॑ सु॒मना॑ बभूव ॥

    अद्येद् उ प्राणीद् अममन्न् इमाहापीवृतो अधयन् मातुर् ऊधः |
    एम् एनम् आप जरिमा युवानम् अहेऌअन् वसुः सुमना बभूव ||

    adyédu prā́ṇīdámamannimā́hā́pīvṛto adhayanmātúrū́dhaḥ ǀ
    émenamāpa jarimā́ yúvānamáheḷanvásuḥ sumánā babhūva ǁ

    adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ |
    em enam āpa jarimā yuvānam aheḷan vasuḥ sumanā babhūva ||

    अ॒द्य । इत् । ऊं॒ इति॑ । प्र । आ॒नी॒त् । अम॑मन् । इ॒मा । अहा॑ । अपि॑ऽवृतः । अ॒ध॒य॒त् । मा॒तुः । ऊधः॑ ।
    आ । ई॒म् । ए॒न॒म् । आ॒प॒ । ज॒रि॒मा । युवा॑नम् । अहे॑ळन् । वसुः॑ । सु॒ऽमनाः॑ । ब॒भू॒व॒ ॥

    अद्य । इत् । ऊं इति । प्र । आनीत् । अममन् । इमा । अहा । अपिऽवृतः । अधयत् । मातुः । ऊधः ।
    आ । ईम् । एनम् । आप । जरिमा । युवानम् । अहेळन् । वसुः । सुऽमनाः । बभूव ॥

    adyá ǀ ít ǀ ūṃ íti ǀ prá ǀ ānīt ǀ ámaman ǀ imā́ ǀ áhā ǀ ápi-vṛtaḥ ǀ adhayat ǀ mātúḥ ǀ ū́dhaḥ ǀ
    ā́ ǀ īm ǀ enam ǀ āpa ǀ jarimā́ ǀ yúvānam ǀ áheḷan ǀ vásuḥ ǀ su-mánāḥ ǀ babhūva ǁ

    adya ǀ it ǀ ūṃ iti ǀ pra ǀ ānīt ǀ amaman ǀ imā ǀ ahā ǀ api-vṛtaḥ ǀ adhayat ǀ mātuḥ ǀ ūdhaḥ ǀ
    ā ǀ īm ǀ enam ǀ āpa ǀ jarimā ǀ yuvānam ǀ aheḷan ǀ vasuḥ ǀ su-manāḥ ǀ babhūva ǁ

    10.32.8 Aṣṭaka 7.7.30.3Anuvāka 10.3.34

  9. Ṛk 9

    ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ ।
    दा॒न इद्वो॑ मघवानः॒ सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥

    एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि |
    दान इद् वो मघवानः सो अस्त्व् अयं च सोमो हृदि यम् बिभर्मि ||

    etā́ni bhadrā́ kalaśa kriyāma kúruśravaṇa dádato maghā́ni ǀ
    dāná ídvo maghavānaḥ só astvayám ca sómo hṛdí yám bíbharmi ǁ

    etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni |
    dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi ||

    ए॒तानि॑ । भ॒द्रा । क॒ल॒श॒ । क्रि॒या॒म॒ । कुरु॑ऽश्रवण । दद॑तः । म॒घानि॑ ।
    दा॒नः । इत् । वः॒ । म॒घ॒ऽवा॒नः॒ । सः । अ॒स्तु॒ । अ॒यम् । च॒ । सोमः॑ । हृ॒दि । यम् । बिभ॑र्मि ॥

    एतानि । भद्रा । कलश । क्रियाम । कुरुऽश्रवण । ददतः । मघानि ।
    दानः । इत् । वः । मघऽवानः । सः । अस्तु । अयम् । च । सोमः । हृदि । यम् । बिभर्मि ॥

    etā́ni ǀ bhadrā́ ǀ kalaśa ǀ kriyāma ǀ kúru-śravaṇa ǀ dádataḥ ǀ maghā́ni ǀ
    dānáḥ ǀ ít ǀ vaḥ ǀ magha-vānaḥ ǀ sáḥ ǀ astu ǀ ayám ǀ ca ǀ sómaḥ ǀ hṛdí ǀ yám ǀ bíbharmi ǁ

    etāni ǀ bhadrā ǀ kalaśa ǀ kriyāma ǀ kuru-śravaṇa ǀ dadataḥ ǀ maghāni ǀ
    dānaḥ ǀ it ǀ vaḥ ǀ magha-vānaḥ ǀ saḥ ǀ astu ǀ ayam ǀ ca ǀ somaḥ ǀ hṛdi ǀ yam ǀ bibharmi ǁ

    10.32.9 Aṣṭaka 7.7.30.4Anuvāka 10.3.35

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.32 · Indra · Indra, Agni

Interpretations

Ralph T. H. Griffith

Ṛk 1

FORTH speed the Pair to bring the meditating God, benevolent with boons sent in return for boons. May Indra graciously accept both gifts from us, when he hath knowledge of the flowing Soma juice.

Ṛk 2

Thou wanderest far, O Indra, through the spheres of light and realms of earth, the region, thou whom many praise! Let those who often bring their solemn rites conquer the noisy babblers who present no gifts.

Ṛk 3

More beautiful than beauty must this seem to me, when the son duly careth for his parents' line. The wife attracts the husband: with a shout of joy the man's auspicious marriage is performed aright.

Ṛk 4

This beauteous place of meeting have I looked upon, where, like milch-cows, the kine order the marriage train; Where the Herd's Mother counts as first and best of all, and round her are the seven-toned people of the choir.

Ṛk 5

The Pious One hath reached your place before the rest: One only moves victorious with the Rudras' band. To these your helpers pour our meath, Immortal Gods, with whom your song of praise hath power to win their gifts.

Ṛk 6

He who maintains the Laws of God informed me that thou wast lying hidden in the waters. Indra, who knoweth well, beheld and showed thee. By him instructed am I come, O Agni.

Ṛk 7

The stranger asks the way of him who knows it: taught by the skilful guide he travels onward. This is, in truth, the blessing of instruction: he finds the path that leads directly forward.

Ṛk 8

Even now he breathed: these days hath he remembered. Concealed, he sucked the bosom of his Mother. Yet in his youth old age hath come upon him: he hath grown gracious, good, and free from anger.