Ṛgveda · Maṇḍala 10

Sūkta 14

Yama · Aṅgirasas, Bṛhaspati, Yama · Aṅgirasas, Yama · Aṅgirasas · Yama, Varuṇa · Yama, 2 Sārameyas · Yama Vaivasvata · 16 ṛks

Link
Devatā देवता
1, 2, 8, 9, 13-16: Yama; 3: Aṅgirasas, Bṛhaspati, Yama; 4, 5: Aṅgirasas, Yama; 6: Aṅgirasas; 7: Yama, Varuṇa; 10-12: Yama, 2 Sārameyas
Ṛṣi ऋषि
Yama Vaivasvata
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh, Bṛhatī
Metres by ṛk

1st set of styles nicṛttriṣṭup (2, 3, 7, 11); bhuriktriṣṭup (1, 12); virāṭtrisṭup (4, 6); pādanicṛttriṣṭup (5, 9); nicṛdanuṣṭup (13, 14); svarāḍārcītriṣṭup (8); triṣṭup (10); virāḍbṛhatī (15); anuṣṭup (16)

2nd set of styles triṣṭubh (1-12); anuṣṭubh (13, 14, 16); bṛhatī (15)

  1. Ṛk 1

    प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पंथा॑मनुपस्पशा॒नं ।
    वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥

    परेयिवांसम् प्रवतो महीर् अनु बहुभ्यः पन्थाम् अनुपस्पशानम् |
    वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ||

    pareyivā́ṃsam praváto mahī́ránu bahúbhyaḥ pánthāmanupaspaśānám ǀ
    vaivasvatám saṃgámanam jánānām yamám rā́jānam havíṣā duvasya ǁ

    pareyivāṃsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam |
    vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya ||

    प॒रे॒यि॒ऽवांस॑म् । प्र॒ऽवतः॑ । म॒हीः । अनु॑ । ब॒हुऽभ्यः॑ । पन्था॑म् । अ॒नु॒ऽप॒स्प॒शा॒नम् ।
    वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । दु॒व॒स्य॒ ॥

    परेयिऽवांसम् । प्रऽवतः । महीः । अनु । बहुऽभ्यः । पन्थाम् । अनुऽपस्पशानम् ।
    वैवस्वतम् । सम्ऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । दुवस्य ॥

    pareyi-vā́ṃsam ǀ pra-vátaḥ ǀ mahī́ḥ ǀ ánu ǀ bahú-bhyaḥ ǀ pánthām ǀ anu-paspaśānám ǀ
    vaivasvatám ǀ sam-gámanam ǀ jánānām ǀ yamám ǀ rā́jānam ǀ havíṣā ǀ duvasya ǁ

    pareyi-vāṃsam ǀ pra-vataḥ ǀ mahīḥ ǀ anu ǀ bahu-bhyaḥ ǀ panthām ǀ anu-paspaśānam ǀ
    vaivasvatam ǀ sam-gamanam ǀ janānām ǀ yamam ǀ rājānam ǀ haviṣā ǀ duvasya ǁ

    10.14.1 Aṣṭaka 7.6.14.1Anuvāka 10.1.105

  2. Ṛk 2

    य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑ ।
    यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॑ परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॒॑ अनु॒ स्वाः ॥

    यमो नो गातुम् प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ |
    यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या अनु स्वाः ||

    yamó no gātúm prathamó viveda náiṣā́ gávyūtirápabhartavā́ u ǀ
    yátrā naḥ pū́rve pitáraḥ pareyúrenā́ jajñānā́ḥ pathyā́ ánu svā́ḥ ǁ

    yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u |
    yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ ||

    य॒मः । नः॒ । गा॒तुम् । प्र॒थ॒मः । वि॒वे॒द॒ । न । ए॒षा । गव्यू॑तिः । अप॑ऽभ॒र्त॒वै । ऊं॒ इति॑ ।
    यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः । ए॒ना । ज॒ज्ञा॒नाः । प॒थ्याः॑ । अनु॑ । स्वाः ॥

    यमः । नः । गातुम् । प्रथमः । विवेद । न । एषा । गव्यूतिः । अपऽभर्तवै । ऊं इति ।
    यत्र । नः । पूर्वे । पितरः । पराऽईयुः । एना । जज्ञानाः । पथ्याः । अनु । स्वाः ॥

    yamáḥ ǀ naḥ ǀ gātúm ǀ prathamáḥ ǀ viveda ǀ ná ǀ eṣā́ ǀ gávyūtiḥ ǀ ápa-bhartavái ǀ ūṃ íti ǀ
    yátra ǀ naḥ ǀ pū́rve ǀ pitáraḥ ǀ parā-īyúḥ ǀ enā́ ǀ jajñānā́ḥ ǀ pathyā́ḥ ǀ ánu ǀ svā́ḥ ǁ

    yamaḥ ǀ naḥ ǀ gātum ǀ prathamaḥ ǀ viveda ǀ na ǀ eṣā ǀ gavyūtiḥ ǀ apa-bhartavai ǀ ūṃ iti ǀ
    yatra ǀ naḥ ǀ pūrve ǀ pitaraḥ ǀ parā-īyuḥ ǀ enā ǀ jajñānāḥ ǀ pathyāḥ ǀ anu ǀ svāḥ ǁ

    10.14.2 Aṣṭaka 7.6.14.2Anuvāka 10.1.106

  3. Ṛk 3

    मात॑ली क॒व्यैर्य॒मो अंगि॑रोभि॒र्बृह॒स्पति॒र्ऋक्व॑भिर्वावृधा॒नः ।
    यांश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दंति ॥

    मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः |
    यांश् च देवा वावृधुर् ये च देवान् स्वाहान्ये स्वधयान्ये मदन्ति ||

    mā́talī kavyáiryamó áṅgirobhirbṛ́haspátirṛ́kvabhirvāvṛdhānáḥ ǀ
    yā́ṃśca devā́ vāvṛdhúryé ca devā́ntsvā́hānyé svadháyānyé madanti ǁ

    mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ |
    yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti ||

    मात॑ली । क॒व्यैः । य॒मः । अङ्गि॑रःऽभिः । बृह॒स्पतिः॑ । ऋक्व॑ऽभिः । व॒वृ॒धा॒नः ।
    यान् । च॒ । दे॒वाः । व॒वृ॒धुः । ये । च॒ । दे॒वान् । स्वाहा॑ । अ॒न्ये । स्व॒धया॑ । अ॒न्ये । म॒द॒न्ति॒ ॥

    मातली । कव्यैः । यमः । अङ्गिरःऽभिः । बृहस्पतिः । ऋक्वऽभिः । ववृधानः ।
    यान् । च । देवाः । ववृधुः । ये । च । देवान् । स्वाहा । अन्ये । स्वधया । अन्ये । मदन्ति ॥

    mā́talī ǀ kavyáiḥ ǀ yamáḥ ǀ áṅgiraḥ-bhiḥ ǀ bṛ́haspátiḥ ǀ ṛ́kva-bhiḥ ǀ vavṛdhānáḥ ǀ
    yā́n ǀ ca ǀ devā́ḥ ǀ vavṛdhúḥ ǀ yé ǀ ca ǀ devā́n ǀ svā́hā ǀ anyé ǀ svadháyā ǀ anyé ǀ madanti ǁ

    mātalī ǀ kavyaiḥ ǀ yamaḥ ǀ aṅgiraḥ-bhiḥ ǀ bṛhaspatiḥ ǀ ṛkva-bhiḥ ǀ vavṛdhānaḥ ǀ
    yān ǀ ca ǀ devāḥ ǀ vavṛdhuḥ ǀ ye ǀ ca ǀ devān ǀ svāhā ǀ anye ǀ svadhayā ǀ anye ǀ madanti ǁ

    10.14.3 Aṣṭaka 7.6.14.3Anuvāka 10.1.107

  4. Ṛk 4

    इ॒मं य॑म प्रस्त॒रमा हि सीदांगि॑रोभिः पि॒तृभिः॑ संविदा॒नः ।
    आ त्वा॒ मंत्राः॑ कविश॒स्ता व॑हंत्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥

    इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः |
    आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ||

    imám yama prastarámā́ hí sī́dā́ṅgirobhiḥ pitṛ́bhiḥ saṃvidānáḥ ǀ
    ā́ tvā mántrāḥ kaviśastā́ vahantvenā́ rājanhavíṣā mādayasva ǁ

    imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ |
    ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva ||

    इ॒मम् । य॒म॒ । प्र॒ऽस्त॒रम् । आ । हि । सीद॑ । अङ्गि॑रःऽभिः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः ।
    आ । त्वा॒ । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विषा॑ । मा॒द॒य॒स्व॒ ॥

    इमम् । यम । प्रऽस्तरम् । आ । हि । सीद । अङ्गिरःऽभिः । पितृऽभिः । सम्ऽविदानः ।
    आ । त्वा । मन्त्राः । कविऽशस्ताः । वहन्तु । एना । राजन् । हविषा । मादयस्व ॥

    imám ǀ yama ǀ pra-starám ǀ ā́ ǀ hí ǀ sī́da ǀ áṅgiraḥ-bhiḥ ǀ pitṛ́-bhiḥ ǀ sam-vidānáḥ ǀ
    ā́ ǀ tvā ǀ mántrāḥ ǀ kavi-śastā́ḥ ǀ vahantu ǀ enā́ ǀ rājan ǀ havíṣā ǀ mādayasva ǁ

    imam ǀ yama ǀ pra-staram ǀ ā ǀ hi ǀ sīda ǀ aṅgiraḥ-bhiḥ ǀ pitṛ-bhiḥ ǀ sam-vidānaḥ ǀ
    ā ǀ tvā ǀ mantrāḥ ǀ kavi-śastāḥ ǀ vahantu ǀ enā ǀ rājan ǀ haviṣā ǀ mādayasva ǁ

    10.14.4 Aṣṭaka 7.6.14.4Anuvāka 10.1.108

  5. Ṛk 5

    अंगि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व ।
    विव॑स्वंतं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥

    अङ्गिरोभिर् आ गहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व |
    विवस्वन्तं हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ||

    áṅgirobhirā́ gahi yajñíyebhiryáma vairūpáirihá mādayasva ǀ
    vívasvantam huve yáḥ pitā́ te’smínyajñé barhíṣyā́ niṣádya ǁ

    aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva |
    vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya ||

    अङ्गि॑रःऽभिः । आ । ग॒हि॒ । य॒ज्ञिये॑भिः । यम॑ । वै॒रू॒पैः । इ॒ह । मा॒द॒य॒स्व॒ ।
    विव॑स्वन्तम् । हु॒वे॒ । यः । पि॒ता । ते॒ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ ॥

    अङ्गिरःऽभिः । आ । गहि । यज्ञियेभिः । यम । वैरूपैः । इह । मादयस्व ।
    विवस्वन्तम् । हुवे । यः । पिता । ते । अस्मिन् । यज्ञे । बर्हिषि । आ । निऽसद्य ॥

    áṅgiraḥ-bhiḥ ǀ ā́ ǀ gahi ǀ yajñíyebhiḥ ǀ yáma ǀ vairūpáiḥ ǀ ihá ǀ mādayasva ǀ
    vívasvantam ǀ huve ǀ yáḥ ǀ pitā́ ǀ te ǀ asmín ǀ yajñé ǀ barhíṣi ǀ ā́ ǀ ni-sádya ǁ

    aṅgiraḥ-bhiḥ ǀ ā ǀ gahi ǀ yajñiyebhiḥ ǀ yama ǀ vairūpaiḥ ǀ iha ǀ mādayasva ǀ
    vivasvantam ǀ huve ǀ yaḥ ǀ pitā ǀ te ǀ asmin ǀ yajñe ǀ barhiṣi ǀ ā ǀ ni-sadya ǁ

    10.14.5 Aṣṭaka 7.6.14.5Anuvāka 10.1.109

  6. Ṛk 6

    अंगि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ ।
    तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

    अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः |
    तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ||

    áṅgiraso naḥ pitáro návagvā átharvāṇo bhṛ́gavaḥ somyā́saḥ ǀ
    téṣām vayám sumatáu yajñíyānāmápi bhadré saumanasé syāma ǁ

    aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ |
    teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma ||

    अङ्गि॑रसः । नः॒ । पि॒तरः॑ । नव॑ऽग्वाः । अथ॑र्वाणः । भृग॑वः । सो॒म्यासः॑ ।
    तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥

    अङ्गिरसः । नः । पितरः । नवऽग्वाः । अथर्वाणः । भृगवः । सोम्यासः ।
    तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि । भद्रे । सौमनसे । स्याम ॥

    áṅgirasaḥ ǀ naḥ ǀ pitáraḥ ǀ náva-gvāḥ ǀ átharvāṇaḥ ǀ bhṛ́gavaḥ ǀ somyā́saḥ ǀ
    téṣām ǀ vayám ǀ su-matáu ǀ yajñíyānām ǀ ápi ǀ bhadré ǀ saumanasé ǀ syāma ǁ

    aṅgirasaḥ ǀ naḥ ǀ pitaraḥ ǀ nava-gvāḥ ǀ atharvāṇaḥ ǀ bhṛgavaḥ ǀ somyāsaḥ ǀ
    teṣām ǀ vayam ǀ su-matau ǀ yajñiyānām ǀ api ǀ bhadre ǀ saumanase ǀ syāma ǁ

    10.14.6 Aṣṭaka 7.6.15.1Anuvāka 10.1.110

  7. Ṛk 7

    प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्व्येभि॒र्यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॑ परे॒युः ।
    उ॒भा राजा॑ना स्व॒धया॒ मदं॑ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वं ॥

    प्रेहि प्रेहि पथिभिः पूर्व्येभिर् यत्रा नः पूर्वे पितरः परेयुः |
    उभा राजाना स्वधया मदन्ता यमम् पश्यासि वरुणं च देवम् ||

    préhi préhi pathíbhiḥ pūrvyébhiryátrā naḥ pū́rve pitáraḥ pareyúḥ ǀ
    ubhā́ rā́jānā svadháyā mádantā yamám paśyāsi váruṇam ca devám ǁ

    prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ |
    ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam ||

    प्र । इ॒हि॒ । प्र । इ॒हि॒ । प॒थिऽभिः॑ । पू॒र्व्येभिः॑ । यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः ।
    उ॒भा । राजा॑ना । स्व॒धया॑ । मद॑न्ता । य॒मम् । प॒श्या॒सि॒ । वरु॑णम् । च॒ । दे॒वम् ॥

    प्र । इहि । प्र । इहि । पथिऽभिः । पूर्व्येभिः । यत्र । नः । पूर्वे । पितरः । पराऽईयुः ।
    उभा । राजाना । स्वधया । मदन्ता । यमम् । पश्यासि । वरुणम् । च । देवम् ॥

    prá ǀ ihi ǀ prá ǀ ihi ǀ pathí-bhiḥ ǀ pūrvyébhiḥ ǀ yátra ǀ naḥ ǀ pū́rve ǀ pitáraḥ ǀ parā-īyúḥ ǀ
    ubhā́ ǀ rā́jānā ǀ svadháyā ǀ mádantā ǀ yamám ǀ paśyāsi ǀ váruṇam ǀ ca ǀ devám ǁ

    pra ǀ ihi ǀ pra ǀ ihi ǀ pathi-bhiḥ ǀ pūrvyebhiḥ ǀ yatra ǀ naḥ ǀ pūrve ǀ pitaraḥ ǀ parā-īyuḥ ǀ
    ubhā ǀ rājānā ǀ svadhayā ǀ madantā ǀ yamam ǀ paśyāsi ǀ varuṇam ǀ ca ǀ devam ǁ

    10.14.7 Aṣṭaka 7.6.15.2Anuvāka 10.1.111

  8. Ṛk 8

    सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् ।
    हि॒त्वाया॑व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा॑ सु॒वर्चाः॑ ॥

    सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् |
    हित्वायावद्यम् पुनर् अस्तम् एहि सं गच्छस्व तन्वा सुवर्चाः ||

    sám gacchasva pitṛ́bhiḥ sám yaméneṣṭāpūrténa paramé vyóman ǀ
    hitvā́yāvadyám púnarástaméhi sám gacchasva tanvā́ suvárcāḥ ǁ

    saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman |
    hitvāyāvadyam punar astam ehi saṃ gacchasva tanvā suvarcāḥ ||

    सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभिः॑ । सम् । य॒मेन॑ । इ॒ष्टा॒पू॒र्तेन॑ । प॒र॒मे । विऽओ॑मन् ।
    हि॒त्वाय॑ । अ॒व॒द्यम् । पुनः॑ । अस्त॑म् । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । त॒न्वा॑ । सु॒ऽवर्चाः॑ ॥

    सम् । गच्छस्व । पितृऽभिः । सम् । यमेन । इष्टापूर्तेन । परमे । विऽओमन् ।
    हित्वाय । अवद्यम् । पुनः । अस्तम् । आ । इहि । सम् । गच्छस्व । तन्वा । सुऽवर्चाः ॥

    sám ǀ gacchasva ǀ pitṛ́-bhiḥ ǀ sám ǀ yaména ǀ iṣṭāpūrténa ǀ paramé ǀ ví-oman ǀ
    hitvā́ya ǀ avadyám ǀ púnaḥ ǀ ástam ǀ ā́ ǀ ihi ǀ sám ǀ gacchasva ǀ tanvā́ ǀ su-várcāḥ ǁ

    sam ǀ gacchasva ǀ pitṛ-bhiḥ ǀ sam ǀ yamena ǀ iṣṭāpūrtena ǀ parame ǀ vi-oman ǀ
    hitvāya ǀ avadyam ǀ punaḥ ǀ astam ǀ ā ǀ ihi ǀ sam ǀ gacchasva ǀ tanvā ǀ su-varcāḥ ǁ

    10.14.8 Aṣṭaka 7.6.15.3Anuvāka 10.1.112

  9. Ṛk 9

    अपे॑त॒ वी॑त॒ वि च॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन् ।
    अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥

    अपेत वीत वि च सर्पतातो ऽस्मा एतम् पितरो लोकम् अक्रन् |
    अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं यमो ददात्य् अवसानम् अस्मै ||

    ápeta vī́ta ví ca sarpatā́to’smā́ etám pitáro lokámakran ǀ
    áhobhiradbhíraktúbhirvyáktam yamó dadātyavasā́namasmai ǁ

    apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran |
    ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai ||

    अप॑ । इ॒त॒ । वि । इ॒त॒ । वि । च॒ । स॒र्प॒त॒ । अतः॑ । अ॒स्मै । ए॒तम् । पि॒तरः॑ । लो॒कम् । अ॒क्र॒न् ।
    अहः॑ऽभिः । अ॒त्ऽभिः । अ॒क्तुऽभिः॑ । विऽअ॑क्तम् । य॒मः । द॒दा॒ति॒ । अ॒व॒ऽसान॑म् । अ॒स्मै॒ ॥

    अप । इत । वि । इत । वि । च । सर्पत । अतः । अस्मै । एतम् । पितरः । लोकम् । अक्रन् ।
    अहःऽभिः । अत्ऽभिः । अक्तुऽभिः । विऽअक्तम् । यमः । ददाति । अवऽसानम् । अस्मै ॥

    ápa ǀ ita ǀ ví ǀ ita ǀ ví ǀ ca ǀ sarpata ǀ átaḥ ǀ asmái ǀ etám ǀ pitáraḥ ǀ lokám ǀ akran ǀ
    áhaḥ-bhiḥ ǀ at-bhíḥ ǀ aktú-bhiḥ ǀ ví-aktam ǀ yamáḥ ǀ dadāti ǀ ava-sā́nam ǀ asmai ǁ

    apa ǀ ita ǀ vi ǀ ita ǀ vi ǀ ca ǀ sarpata ǀ ataḥ ǀ asmai ǀ etam ǀ pitaraḥ ǀ lokam ǀ akran ǀ
    ahaḥ-bhiḥ ǀ at-bhiḥ ǀ aktu-bhiḥ ǀ vi-aktam ǀ yamaḥ ǀ dadāti ǀ ava-sānam ǀ asmai ǁ

    10.14.9 Aṣṭaka 7.6.15.4Anuvāka 10.1.113

  10. Ṛk 10

    अति॑ द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था ।
    अथा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ उपे॑हि य॒मेन॒ ये स॑ध॒मादं॒ मदं॑ति ॥

    अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा |
    अथा पितॄन् सुविदत्रां उपेहि यमेन ये सधमादम् मदन्ति ||

    áti drava sārameyáu śvā́nau caturakṣáu śabálau sādhúnā pathā́ ǀ
    áthā pitṝ́ntsuvidátrām̐ úpehi yaména yé sadhamā́dam mádanti ǁ

    ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā |
    athā pitṝn suvidatrāṃ upehi yamena ye sadhamādam madanti ||

    अति॑ । द्र॒व॒ । सा॒र॒मे॒यौ । श्वानौ॑ । च॒तुः॒ऽअ॒क्षौ । श॒बलौ॑ । सा॒धुना॑ । प॒था ।
    अथ॑ । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । उप॑ । इ॒हि॒ । य॒मेन॑ । ये । स॒ध॒ऽमाद॑म् । मद॑न्ति ॥

    अति । द्रव । सारमेयौ । श्वानौ । चतुःऽअक्षौ । शबलौ । साधुना । पथा ।
    अथ । पितॄन् । सुऽविदत्रान् । उप । इहि । यमेन । ये । सधऽमादम् । मदन्ति ॥

    áti ǀ drava ǀ sārameyáu ǀ śvā́nau ǀ catuḥ-akṣáu ǀ śabálau ǀ sādhúnā ǀ pathā́ ǀ
    átha ǀ pitṝ́n ǀ su-vidátrān ǀ úpa ǀ ihi ǀ yaména ǀ yé ǀ sadha-mā́dam ǀ mádanti ǁ

    ati ǀ drava ǀ sārameyau ǀ śvānau ǀ catuḥ-akṣau ǀ śabalau ǀ sādhunā ǀ pathā ǀ
    atha ǀ pitṝn ǀ su-vidatrān ǀ upa ǀ ihi ǀ yamena ǀ ye ǀ sadha-mādam ǀ madanti ǁ

    10.14.10 Aṣṭaka 7.6.15.5Anuvāka 10.1.114

  11. Ṛk 11

    यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सौ ।
    ताभ्या॑मेनं॒ परि॑ देहि राजन्त्स्व॒स्ति चा॑स्मा अनमी॒वं च॑ धेहि ॥

    यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ |
    ताभ्याम् एनम् परि देहि राजन् स्वस्ति चास्मा अनमीवं च धेहि ||

    yáu te śvā́nau yama rakṣitā́rau caturakṣáu pathirákṣī nṛcákṣasau ǀ
    tā́bhyāmenam pári dehi rājantsvastí cāsmā anamīvám ca dhehi ǁ

    yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau |
    tābhyām enam pari dehi rājan svasti cāsmā anamīvaṃ ca dhehi ||

    यौ । ते॒ । श्वानौ॑ । य॒म॒ । र॒क्षि॒तारौ॑ । च॒तुः॒ऽअ॒क्षौ । प॒थि॒रक्षी॒ इति॑ प॒थि॒ऽरक्षी॑ । नृ॒ऽचक्ष॑सौ ।
    ताभ्या॑म् । ए॒न॒म् । परि॑ । दे॒हि॒ । रा॒ज॒न् । स्व॒स्ति । च॒ । अ॒स्मै॒ । अ॒न॒मी॒वम् । च॒ । धे॒हि॒ ॥

    यौ । ते । श्वानौ । यम । रक्षितारौ । चतुःऽअक्षौ । पथिरक्षी इति पथिऽरक्षी । नृऽचक्षसौ ।
    ताभ्याम् । एनम् । परि । देहि । राजन् । स्वस्ति । च । अस्मै । अनमीवम् । च । धेहि ॥

    yáu ǀ te ǀ śvā́nau ǀ yama ǀ rakṣitā́rau ǀ catuḥ-akṣáu ǀ pathirákṣī íti pathi-rákṣī ǀ nṛ-cákṣasau ǀ
    tā́bhyām ǀ enam ǀ pári ǀ dehi ǀ rājan ǀ svastí ǀ ca ǀ asmai ǀ anamīvám ǀ ca ǀ dhehi ǁ

    yau ǀ te ǀ śvānau ǀ yama ǀ rakṣitārau ǀ catuḥ-akṣau ǀ pathirakṣī iti pathi-rakṣī ǀ nṛ-cakṣasau ǀ
    tābhyām ǀ enam ǀ pari ǀ dehi ǀ rājan ǀ svasti ǀ ca ǀ asmai ǀ anamīvam ǀ ca ǀ dhehi ǁ

    10.14.11 Aṣṭaka 7.6.16.1Anuvāka 10.1.115

  12. Ṛk 12

    उ॒रू॒ण॒साव॑सु॒तृपा॑ उदुंब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑ ।
    ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रं ॥

    उरूणसाव् असुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनां अनु |
    ताव् अस्मभ्यं दृशये सूर्याय पुनर् दाताम् असुम् अद्येह भद्रम् ||

    urūṇasā́vasutṛ́pā udumbaláu yamásya dūtáu carato jánām̐ ánu ǀ
    tā́vasmábhyam dṛśáye sū́ryāya púnardātāmásumadyéhá bhadrám ǁ

    urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṃ anu |
    tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram ||

    उ॒रु॒ऽन॒सौ । अ॒सु॒ऽतृपौ॑ । उ॒दु॒म्ब॒लौ । य॒मस्य॑ । दू॒तौ । च॒र॒तः॒ । जना॑न् । अनु॑ ।
    तौ । अ॒स्मभ्य॑म् । दृ॒शये॑ । सूर्या॑य । पुनः॑ । दा॒ता॒म् । असु॑म् । अ॒द्य । इ॒ह । भ॒द्रम् ॥

    उरुऽनसौ । असुऽतृपौ । उदुम्बलौ । यमस्य । दूतौ । चरतः । जनान् । अनु ।
    तौ । अस्मभ्यम् । दृशये । सूर्याय । पुनः । दाताम् । असुम् । अद्य । इह । भद्रम् ॥

    uru-nasáu ǀ asu-tṛ́pau ǀ udumbaláu ǀ yamásya ǀ dūtáu ǀ carataḥ ǀ jánān ǀ ánu ǀ
    táu ǀ asmábhyam ǀ dṛśáye ǀ sū́ryāya ǀ púnaḥ ǀ dātām ǀ ásum ǀ adyá ǀ ihá ǀ bhadrám ǁ

    uru-nasau ǀ asu-tṛpau ǀ udumbalau ǀ yamasya ǀ dūtau ǀ carataḥ ǀ janān ǀ anu ǀ
    tau ǀ asmabhyam ǀ dṛśaye ǀ sūryāya ǀ punaḥ ǀ dātām ǀ asum ǀ adya ǀ iha ǀ bhadram ǁ

    10.14.12 Aṣṭaka 7.6.16.2Anuvāka 10.1.116

  13. Ṛk 13

    य॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः ।
    य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥

    यमाय सोमं सुनुत यमाय जुहुता हविः |
    यमं ह यज्ञो गच्छत्य् अग्निदूतो अरङ्कृतः ||

    yamā́ya sómam sunuta yamā́ya juhutā havíḥ ǀ
    yamám ha yajñó gacchatyagnídūto áraṃkṛtaḥ ǁ

    yamāya somaṃ sunuta yamāya juhutā haviḥ |
    yamaṃ ha yajño gacchaty agnidūto araṅkṛtaḥ ||

    य॒माय॑ । सोम॑म् । सु॒नु॒त॒ । य॒माय॑ । जु॒हु॒त॒ । ह॒विः ।
    य॒मम् । ह॒ । य॒ज्ञः । ग॒च्छ॒ति॒ । अ॒ग्निऽदू॑तः । अर॑म्ऽकृतः ॥

    यमाय । सोमम् । सुनुत । यमाय । जुहुत । हविः ।
    यमम् । ह । यज्ञः । गच्छति । अग्निऽदूतः । अरम्ऽकृतः ॥

    yamā́ya ǀ sómam ǀ sunuta ǀ yamā́ya ǀ juhuta ǀ havíḥ ǀ
    yamám ǀ ha ǀ yajñáḥ ǀ gacchati ǀ agní-dūtaḥ ǀ áram-kṛtaḥ ǁ

    yamāya ǀ somam ǀ sunuta ǀ yamāya ǀ juhuta ǀ haviḥ ǀ
    yamam ǀ ha ǀ yajñaḥ ǀ gacchati ǀ agni-dūtaḥ ǀ aram-kṛtaḥ ǁ

    10.14.13 Aṣṭaka 7.6.16.3Anuvāka 10.1.117

  14. Ṛk 14

    य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत ।
    स नो॑ दे॒वेष्वा य॑मद्दी॒र्घमायुः॒ प्र जी॒वसे॑ ॥

    यमाय घृतवद् धविर् जुहोत प्र च तिष्ठत |
    स नो देवेष्व् आ यमद् दीर्घम् आयुः प्र जीवसे ||

    yamā́ya ghṛtávaddhavírjuhóta prá ca tiṣṭhata ǀ
    sá no devéṣvā́ yamaddīrghámā́yuḥ prá jīváse ǁ

    yamāya ghṛtavad dhavir juhota pra ca tiṣṭhata |
    sa no deveṣv ā yamad dīrgham āyuḥ pra jīvase ||

    य॒माय॑ । घृ॒तऽव॑त् । ह॒विः । जु॒होत॑ । प्र । च॒ । ति॒ष्ठ॒त॒ ।
    सः । नः॒ । दे॒वेषु॑ । आ । य॒म॒त् । दी॒र्घम् । आयुः॑ । प्र । जी॒वसे॑ ॥

    यमाय । घृतऽवत् । हविः । जुहोत । प्र । च । तिष्ठत ।
    सः । नः । देवेषु । आ । यमत् । दीर्घम् । आयुः । प्र । जीवसे ॥

    yamā́ya ǀ ghṛtá-vat ǀ havíḥ ǀ juhóta ǀ prá ǀ ca ǀ tiṣṭhata ǀ
    sáḥ ǀ naḥ ǀ devéṣu ǀ ā́ ǀ yamat ǀ dīrghám ǀ ā́yuḥ ǀ prá ǀ jīváse ǁ

    yamāya ǀ ghṛta-vat ǀ haviḥ ǀ juhota ǀ pra ǀ ca ǀ tiṣṭhata ǀ
    saḥ ǀ naḥ ǀ deveṣu ǀ ā ǀ yamat ǀ dīrgham ǀ āyuḥ ǀ pra ǀ jīvase ǁ

    10.14.14 Aṣṭaka 7.6.16.4Anuvāka 10.1.118

  15. Ṛk 15

    य॒माय॒ मधु॑मत्तमं॒ राज्ञे॑ ह॒व्यं जु॑होतन ।
    इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ॥

    यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन |
    इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ||

    yamā́ya mádhumattamam rā́jñe havyám juhotana ǀ
    idám náma ṛ́ṣibhyaḥ pūrvajébhyaḥ pū́rvebhyaḥ pathikṛ́dbhyaḥ ǁ

    yamāya madhumattamaṃ rājñe havyaṃ juhotana |
    idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ||

    य॒माय॑ । मधु॑मत्ऽतमम् । राज्ञे॑ । ह॒व्यम् । जु॒हो॒त॒न॒ ।
    इ॒दम् । नमः॑ । ऋषि॑ऽभ्यः । पू॒र्व॒ऽजेभ्यः॑ । पूर्वे॑भ्यः । प॒थि॒कृत्ऽभ्यः॑ ॥

    यमाय । मधुमत्ऽतमम् । राज्ञे । हव्यम् । जुहोतन ।
    इदम् । नमः । ऋषिऽभ्यः । पूर्वऽजेभ्यः । पूर्वेभ्यः । पथिकृत्ऽभ्यः ॥

    yamā́ya ǀ mádhumat-tamam ǀ rā́jñe ǀ havyám ǀ juhotana ǀ
    idám ǀ námaḥ ǀ ṛ́ṣi-bhyaḥ ǀ pūrva-jébhyaḥ ǀ pū́rvebhyaḥ ǀ pathikṛ́t-bhyaḥ ǁ

    yamāya ǀ madhumat-tamam ǀ rājñe ǀ havyam ǀ juhotana ǀ
    idam ǀ namaḥ ǀ ṛṣi-bhyaḥ ǀ pūrva-jebhyaḥ ǀ pūrvebhyaḥ ǀ pathikṛt-bhyaḥ ǁ

    10.14.15 Aṣṭaka 7.6.16.5Anuvāka 10.1.119

  16. Ṛk 16

    त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् ।
    त्रि॒ष्टुब्गा॑य॒त्री छंदां॑सि॒ सर्वा॒ ता य॒म आहि॑ता ॥

    त्रिकद्रुकेभिः पतति षऌ उर्वीर् एकम् इद् बृहत् |
    त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आहिता ||

    tríkadrukebhiḥ patati ṣáḷurvī́rékamídbṛhát ǀ
    triṣṭúbgāyatrī́ chándāṃsi sárvā tā́ yamá ā́hitā ǁ

    trikadrukebhiḥ patati ṣaḷ urvīr ekam id bṛhat |
    triṣṭub gāyatrī chandāṃsi sarvā tā yama āhitā ||

    त्रिऽक॑द्रुकेभिः । प॒त॒ति॒ । षट् । उ॒र्वीः । एक॑म् । इत् । बृ॒हत् ।
    त्रि॒ऽस्तुप् । गा॒य॒त्री । छन्दां॑सि । सर्वा॑ । ता । य॒मे । आऽहि॑ता ॥

    त्रिऽकद्रुकेभिः । पतति । षट् । उर्वीः । एकम् । इत् । बृहत् ।
    त्रिऽस्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आऽहिता ॥

    trí-kadrukebhiḥ ǀ patati ǀ ṣáṭ ǀ urvī́ḥ ǀ ékam ǀ ít ǀ bṛhát ǀ
    tri-stúp ǀ gāyatrī́ ǀ chándāṃsi ǀ sárvā ǀ tā́ ǀ yamé ǀ ā́-hitā ǁ

    tri-kadrukebhiḥ ǀ patati ǀ ṣaṭ ǀ urvīḥ ǀ ekam ǀ it ǀ bṛhat ǀ
    tri-stup ǀ gāyatrī ǀ chandāṃsi ǀ sarvā ǀ tā ǀ yame ǀ ā-hitā ǁ

    10.14.16 Aṣṭaka 7.6.16.6Anuvāka 10.1.120

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.14 · Yama · Aṅgirasas, Bṛhaspati, Yama · Aṅgirasas, Yama · Aṅgirasas · Yama, Varuṇa · Yama, 2 Sārameyas

Interpretations

Ralph T. H. Griffith

Ṛk 1

HONOUR the King with thine oblations, Yama, Vivasvān's Son, who gathers men together, Who travelled to the lofty heights above us, who searcbes out and shows the path to many.

Ṛk 2

Yama first found for us a place to dwell in: this pasture never can be taken from Us. Men born on earth tread their own paths that lead them whither our ancient Fathers have departed.

Ṛk 3

Mitali prospers there with Kavyas, Yama with Aṅgiras' sons, Bṛhaspati with Rkvans: Exalters of the Gods, by Gods exalted, some joy in praise and some in our oblation.

Ṛk 4

Come, seat thee on this bed of grass, O Yama, in company with Aṅgirases and Fathers. Let texts recited by the sages bring thee O King, let this oblation make thee joyful.

Ṛk 5

Come, Yama, with the Aṅgirases the Holy, rejoice thee here with children of Virūpa. To sit on sacred grass at this our worship, I call Vivasvān, too, thy Father hither.

Ṛk 6

Our Fathers are Aṅgirases, Navagvas, Atharvans, Bhṛgus who deserve the Soma. May these, the Holy, look on us with favour, may we enjoy their gracious loving-kindness.

Ṛk 7

Go forth, go forth upon the ancient pathways whereon our sires of old have gone before us. 'Mere shalt thou look on both the Kings enjoying their sacred food, God Varuṇa and Yama.

Ṛk 8

Meet Yama, meet the Fathers, meet the merit of free or ordered acts, in highest heaven. Leave sin and evil, seek anew thy dwelling, and bright with glory wear another body.

Ṛk 9

Go hence, depart ye, fly in all directions: this place for him the Fathers have provided. Yama bestows on him a place to rest in adorned with days and beams of light and waters.

Ṛk 10

Run and outspeed the two dogs, Saramā's offspring, brindled, four-eyed, upon thy happy pathway. Draw nigh then to the gracious-minded Fathers where they rejoice in company with Yama.

Ṛk 11

And those two dogs of thine, Yama, the watchers, four-eyed, who look on men and guard the pathway,— Entrust this man, O King, to their protection, and with prosperity and health endow him.

Ṛk 12

Dark-hued, insatiate, with distended nostrils, Yama's two envoys roam among the People; May they restore to us a fair existence here and to-day, that we may see the sunlight.

Ṛk 13

To Yama pour the Soma, bring to Yama consecrated gifts: To Yama sacrifice prepared and heralded by Agni goes.

Ṛk 14

Offer to Yama holy gifts enriched with butter, and draw near: So may he grant that we may live long days of life among the Gods.

Ṛk 15

Offer to Yama, to the King, oblation very rich in meath: Bow down before the Ṛṣis of the ancient times, who made this path in days of old.