Sūkta 182
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Tapurmūrdhan Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhuriktriṣṭup (1); virāṭtrisṭup (2); triṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
बृह॒स्पति॑र्नयतु दु॒र्गहा॑ ति॒रः पुन॑र्नेषद॒घशं॑साय॒ मन्म॑ ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥बृहस्पतिर् नयतु दुर्गहा तिरः पुनर् नेषद् अघशंसाय मन्म |
क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ||bṛ́haspátirnayatu durgáhā tiráḥ púnarneṣadagháśaṃsāya mánma ǀ
kṣipádáśastimápa durmatím hannáthā karadyájamānāya śám yoḥ ǁbṛhaspatir nayatu durgahā tiraḥ punar neṣad aghaśaṃsāya manma |
kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||बृह॒स्पतिः॑ । न॒य॒तु॒ । दुः॒ऽगहा॑ । ति॒रः । पुनः॑ । ने॒ष॒त् । अ॒घऽशं॑साय । मन्म॑ ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥बृहस्पतिः । नयतु । दुःऽगहा । तिरः । पुनः । नेषत् । अघऽशंसाय । मन्म ।
क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥bṛ́haspátiḥ ǀ nayatu ǀ duḥ-gáhā ǀ tiráḥ ǀ púnaḥ ǀ neṣat ǀ aghá-śaṃsāya ǀ mánma ǀ
kṣipát ǀ áśastim ǀ ápa ǀ duḥ-matím ǀ han ǀ átha ǀ karat ǀ yájamānāya ǀ śám ǀ yóḥ ǁbṛhaspatiḥ ǀ nayatu ǀ duḥ-gahā ǀ tiraḥ ǀ punaḥ ǀ neṣat ǀ agha-śaṃsāya ǀ manma ǀ
kṣipat ǀ aśastim ǀ apa ǀ duḥ-matim ǀ han ǀ atha ǀ karat ǀ yajamānāya ǀ śam ǀ yoḥ ǁ10.182.1 Aṣṭaka 8.8.40.1Anuvāka 10.12.137
-
Ṛk 2
नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥नराशंसो नो ऽवतु प्रयाजे शं नो अस्त्व् अनुयाजो हवेषु |
क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ||nárāśáṃso no’vatu prayājé śám no astvanuyājó háveṣu ǀ
kṣipádáśastimápa durmatím hannáthā karadyájamānāya śám yoḥ ǁnarāśaṃso no 'vatu prayāje śaṃ no astv anuyājo haveṣu |
kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||नरा॒शंसः॑ । नः॒ । अ॒व॒तु॒ । प्र॒ऽया॒जे । शम् । नः॒ । अ॒स्तु॒ । अ॒नु॒ऽया॒जः । हवे॑षु ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥नराशंसः । नः । अवतु । प्रऽयाजे । शम् । नः । अस्तु । अनुऽयाजः । हवेषु ।
क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥nárāśáṃsaḥ ǀ naḥ ǀ avatu ǀ pra-yājé ǀ śám ǀ naḥ ǀ astu ǀ anu-yājáḥ ǀ háveṣu ǀ
kṣipát ǀ áśastim ǀ ápa ǀ duḥ-matím ǀ han ǀ átha ǀ karat ǀ yájamānāya ǀ śám ǀ yóḥ ǁnarāśaṃsaḥ ǀ naḥ ǀ avatu ǀ pra-yāje ǀ śam ǀ naḥ ǀ astu ǀ anu-yājaḥ ǀ haveṣu ǀ
kṣipat ǀ aśastim ǀ apa ǀ duḥ-matim ǀ han ǀ atha ǀ karat ǀ yajamānāya ǀ śam ǀ yoḥ ǁ10.182.2 Aṣṭaka 8.8.40.2Anuvāka 10.12.138
-
Ṛk 3
तपु॑र्मूर्धा तपतु र॒क्षसो॒ ये ब्र॑ह्म॒द्विषः॒ शर॑वे॒ हंत॒वा उ॑ ।
क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ |
क्षिपद् अशस्तिम् अप दुर्मतिं हन्न् अथा करद् यजमानाय शं योः ||tápurmūrdhā tapatu rakṣáso yé brahmadvíṣaḥ śárave hántavā́ u ǀ
kṣipádáśastimápa durmatím hannáthā karadyájamānāya śám yoḥ ǁtapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u |
kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ ||तपुः॑ऽमूर्धा । त॒प॒तु॒ । र॒क्षसः॑ । ये । ब्र॒ह्म॒ऽद्विषः॑ । शर॑वे । हन्त॒वै । ऊं॒ इति॑ ।
क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥तपुःऽमूर्धा । तपतु । रक्षसः । ये । ब्रह्मऽद्विषः । शरवे । हन्तवै । ऊं इति ।
क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥tápuḥ-mūrdhā ǀ tapatu ǀ rakṣásaḥ ǀ yé ǀ brahma-dvíṣaḥ ǀ śárave ǀ hántavái ǀ ūṃ íti ǀ
kṣipát ǀ áśastim ǀ ápa ǀ duḥ-matím ǀ han ǀ átha ǀ karat ǀ yájamānāya ǀ śám ǀ yóḥ ǁtapuḥ-mūrdhā ǀ tapatu ǀ rakṣasaḥ ǀ ye ǀ brahma-dviṣaḥ ǀ śarave ǀ hantavai ǀ ūṃ iti ǀ
kṣipat ǀ aśastim ǀ apa ǀ duḥ-matim ǀ han ǀ atha ǀ karat ǀ yajamānāya ǀ śam ǀ yoḥ ǁ10.182.3 Aṣṭaka 8.8.40.3Anuvāka 10.12.139
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.