Sūkta 190
- Devatā देवता
- Bhāvavṛttam
- Ṛṣi ऋषि
- Aghamarṣaṇa Mādhucchandasa
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles virāḍanuṣṭup (1); anuṣṭup (2); pādanicṛttriṣṭup (3)
2nd set of styles anuṣṭubh
-
Ṛk 1
ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ऋतं च सत्यं चाभीद्धात् तपसो ऽध्य् अजायत |
ततो रात्र्य् अजायत ततः समुद्रो अर्णवः ||ṛtám ca satyám cābhī́ddhāttápasó’dhyajāyata ǀ
táto rā́tryajāyata tátaḥ samudró arṇaváḥ ǁṛtaṃ ca satyaṃ cābhīddhāt tapaso 'dhy ajāyata |
tato rātry ajāyata tataḥ samudro arṇavaḥ ||ऋ॒तम् । च॒ । स॒त्यम् । च॒ । अ॒भी॑द्धात् । तप॑सः । अधि॑ । अ॒जा॒य॒त॒ ।
ततः॑ । रात्री॑ । अ॒जा॒य॒त॒ । ततः॑ । स॒मु॒द्रः । अ॒र्ण॒वः ॥ऋतम् । च । सत्यम् । च । अभीद्धात् । तपसः । अधि । अजायत ।
ततः । रात्री । अजायत । ततः । समुद्रः । अर्णवः ॥ṛtám ǀ ca ǀ satyám ǀ ca ǀ abhī́ddhāt ǀ tápasaḥ ǀ ádhi ǀ ajāyata ǀ
tátaḥ ǀ rā́trī ǀ ajāyata ǀ tátaḥ ǀ samudráḥ ǀ arṇaváḥ ǁṛtam ǀ ca ǀ satyam ǀ ca ǀ abhīddhāt ǀ tapasaḥ ǀ adhi ǀ ajāyata ǀ
tataḥ ǀ rātrī ǀ ajāyata ǀ tataḥ ǀ samudraḥ ǀ arṇavaḥ ǁ10.190.1 Aṣṭaka 8.8.48.1Anuvāka 10.12.163
-
Ṛk 2
स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥समुद्राद् अर्णवाद् अधि संवत्सरो अजायत |
अहोरात्राणि विदधद् विश्वस्य मिषतो वशी ||samudrā́darṇavā́dádhi saṃvatsaró ajāyata ǀ
ahorātrā́ṇi vidádhadvíśvasya miṣató vaśī́ ǁsamudrād arṇavād adhi saṃvatsaro ajāyata |
ahorātrāṇi vidadhad viśvasya miṣato vaśī ||स॒मु॒द्रात् । अ॒र्ण॒वात् । अधि॑ । सं॒व॒त्स॒रः । अ॒जा॒य॒त॒ ।
अ॒हो॒रा॒त्राणि॑ । वि॒ऽदध॑त् । विश्व॑स्य । मि॒ष॒तः । व॒शी ॥समुद्रात् । अर्णवात् । अधि । संवत्सरः । अजायत ।
अहोरात्राणि । विऽदधत् । विश्वस्य । मिषतः । वशी ॥samudrā́t ǀ arṇavā́t ǀ ádhi ǀ saṃvatsaráḥ ǀ ajāyata ǀ
ahorātrā́ṇi ǀ vi-dádhat ǀ víśvasya ǀ miṣatáḥ ǀ vaśī́ ǁsamudrāt ǀ arṇavāt ǀ adhi ǀ saṃvatsaraḥ ǀ ajāyata ǀ
ahorātrāṇi ǀ vi-dadhat ǀ viśvasya ǀ miṣataḥ ǀ vaśī ǁ10.190.2 Aṣṭaka 8.8.48.2Anuvāka 10.12.164
-
Ṛk 3
सू॒र्या॒चं॒द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चां॒तरि॑क्ष॒मथो॒ स्वः॑ ॥सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत् |
दिवं च पृथिवीं चान्तरिक्षम् अथो स्वः ||sūryācandramásau dhātā́ yathāpūrvámakalpayat ǀ
dívam ca pṛthivī́m cāntárikṣamátho sváḥ ǁsūryācandramasau dhātā yathāpūrvam akalpayat |
divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ ||सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् ।
दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥सूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् ।
दिवम् । च । पृथिवीम् । च । अन्तरिक्षम् । अथो इति । स्वः ॥sūryācandramásau ǀ dhātā́ ǀ yathāpūrvám ǀ akalpayat ǀ
dívam ǀ ca ǀ pṛthivī́m ǀ ca ǀ antárikṣam ǀ átho íti ǀ sváḥ ǁsūryācandramasau ǀ dhātā ǀ yathāpūrvam ǀ akalpayat ǀ
divam ǀ ca ǀ pṛthivīm ǀ ca ǀ antarikṣam ǀ atho iti ǀ svaḥ ǁ10.190.3 Aṣṭaka 8.8.48.3Anuvāka 10.12.165
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.