Sūkta 111
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aṣṭrādaṃṣṭra Vairūpa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 2, 4); virāṭtrisṭup (3, 6, 10); nicṛttriṣṭup (5, 7, 9); pādanicṛttriṣṭup (8)
2nd set of styles triṣṭubh
-
Ṛk 1
मनी॑षिणः॒ प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तयः॒ संति॑ नृ॒णां ।
इंद्रं॑ स॒त्यैरेर॑यामा कृ॒तेभिः॒ स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥मनीषिणः प्र भरध्वम् मनीषां यथा-यथा मतयः सन्ति नृणाम् |
इन्द्रं सत्यैर् एरयामा कृतेभिः स हि वीरो गिर्वणस्युर् विदानः ||mánīṣiṇaḥ prá bharadhvam manīṣā́m yáthāyathā matáyaḥ sánti nṛṇā́m ǀ
índram satyáirérayāmā kṛtébhiḥ sá hí vīró girvaṇasyúrvídānaḥ ǁmanīṣiṇaḥ pra bharadhvam manīṣāṃ yathā-yathā matayaḥ santi nṛṇām |
indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ ||मनी॑षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा॑ऽयथा । म॒तयः॑ । सन्ति॑ । नृ॒णाम् ।
इन्द्र॑म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः॑ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा॑नः ॥मनीषिणः । प्र । भरध्वम् । मनीषाम् । यथाऽयथा । मतयः । सन्ति । नृणाम् ।
इन्द्रम् । सत्यैः । आ । ईरयाम । कृतेभिः । सः । हि । वीरः । गिर्वणस्युः । विदानः ॥mánīṣiṇaḥ ǀ prá ǀ bharadhvam ǀ manīṣā́m ǀ yáthā-yathā ǀ matáyaḥ ǀ sánti ǀ nṛṇā́m ǀ
índram ǀ satyáiḥ ǀ ā́ ǀ īrayāma ǀ kṛtébhiḥ ǀ sáḥ ǀ hí ǀ vīráḥ ǀ girvaṇasyúḥ ǀ vídānaḥ ǁmanīṣiṇaḥ ǀ pra ǀ bharadhvam ǀ manīṣām ǀ yathā-yathā ǀ matayaḥ ǀ santi ǀ nṛṇām ǀ
indram ǀ satyaiḥ ǀ ā ǀ īrayāma ǀ kṛtebhiḥ ǀ saḥ ǀ hi ǀ vīraḥ ǀ girvaṇasyuḥ ǀ vidānaḥ ǁ10.111.1 Aṣṭaka 8.6.10.1Anuvāka 10.9.123
-
Ṛk 2
ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् ।
उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हांति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥ऋतस्य हि सदसो धीतिर् अद्यौत् सं गार्ष्टेयो वृषभो गोभिर् आनट् |
उद् अतिष्ठत् तविषेणा रवेण महान्ति चित् सं विव्याचा रजांसि ||ṛtásya hí sádaso dhītírádyautsám gārṣṭeyó vṛṣabhó góbhirānaṭ ǀ
údatiṣṭhattaviṣéṇā ráveṇa mahā́nti citsám vivyācā rájāṃsi ǁṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ |
ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṃ vivyācā rajāṃsi ||ऋ॒तस्य॑ । हि । सद॑सः । धी॒तिः । अद्यौ॑त् । सम् । गा॒र्ष्टे॒यः । वृ॒ष॒भः । गोभिः॑ । आ॒न॒ट् ।
उत् । अ॒ति॒ष्ठ॒त् । त॒वि॒षेण॑ । रवे॑ण । म॒हान्ति॑ । चि॒त् । सम् । वि॒व्या॒च॒ । रजां॑सि ॥ऋतस्य । हि । सदसः । धीतिः । अद्यौत् । सम् । गार्ष्टेयः । वृषभः । गोभिः । आनट् ।
उत् । अतिष्ठत् । तविषेण । रवेण । महान्ति । चित् । सम् । विव्याच । रजांसि ॥ṛtásya ǀ hí ǀ sádasaḥ ǀ dhītíḥ ǀ ádyaut ǀ sám ǀ gārṣṭeyáḥ ǀ vṛṣabháḥ ǀ góbhiḥ ǀ ānaṭ ǀ
út ǀ atiṣṭhat ǀ taviṣéṇa ǀ ráveṇa ǀ mahā́nti ǀ cit ǀ sám ǀ vivyāca ǀ rájāṃsi ǁṛtasya ǀ hi ǀ sadasaḥ ǀ dhītiḥ ǀ adyaut ǀ sam ǀ gārṣṭeyaḥ ǀ vṛṣabhaḥ ǀ gobhiḥ ǀ ānaṭ ǀ
ut ǀ atiṣṭhat ǀ taviṣeṇa ǀ raveṇa ǀ mahānti ǀ cit ǀ sam ǀ vivyāca ǀ rajāṃsi ǁ10.111.2 Aṣṭaka 8.6.10.2Anuvāka 10.9.124
-
Ṛk 3
इंद्रः॒ किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य ।
आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत् सूर्याय |
आन् मेनां कृण्वन्न् अच्युतो भुवद् गोः पतिर् दिवः सनजा अप्रतीतः ||índraḥ kíla śrútyā asyá veda sá hí jiṣṇúḥ pathikṛ́tsū́ryāya ǀ
ā́nménām kṛṇvánnácyuto bhúvadgóḥ pátirdiváḥ sanajā́ ápratītaḥ ǁindraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya |
ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ ||इन्द्रः॑ । किल॑ । श्रुत्यै॑ । अ॒स्य । वे॒द॒ । सः । हि । जि॒ष्णुः । प॒थि॒ऽकृत् । सूर्या॑य ।
आत् । मेना॑म् । कृ॒ण्वन् । अच्यु॑तः । भुव॑त् । गोः । पतिः॑ । दि॒वः । स॒न॒ऽजाः । अप्र॑तिऽइतः ॥इन्द्रः । किल । श्रुत्यै । अस्य । वेद । सः । हि । जिष्णुः । पथिऽकृत् । सूर्याय ।
आत् । मेनाम् । कृण्वन् । अच्युतः । भुवत् । गोः । पतिः । दिवः । सनऽजाः । अप्रतिऽइतः ॥índraḥ ǀ kíla ǀ śrútyai ǀ asyá ǀ veda ǀ sáḥ ǀ hí ǀ jiṣṇúḥ ǀ pathi-kṛ́t ǀ sū́ryāya ǀ
ā́t ǀ ménām ǀ kṛṇván ǀ ácyutaḥ ǀ bhúvat ǀ góḥ ǀ pátiḥ ǀ diváḥ ǀ sana-jā́ḥ ǀ áprati-itaḥ ǁindraḥ ǀ kila ǀ śrutyai ǀ asya ǀ veda ǀ saḥ ǀ hi ǀ jiṣṇuḥ ǀ pathi-kṛt ǀ sūryāya ǀ
āt ǀ menām ǀ kṛṇvan ǀ acyutaḥ ǀ bhuvat ǀ goḥ ǀ patiḥ ǀ divaḥ ǀ sana-jāḥ ǀ aprati-itaḥ ǁ10.111.3 Aṣṭaka 8.6.10.3Anuvāka 10.9.125
-
Ṛk 4
इंद्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दंगि॑रोभिर्गृणा॒नः ।
पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनाद् अङ्गिरोभिर् गृणानः |
पुरूणि चिन् नि तताना रजांसि दाधार यो धरुणं सत्यताता ||índro mahnā́ maható arṇavásya vratā́minādáṅgirobhirgṛṇānáḥ ǀ
purū́ṇi cinní tatānā rájāṃsi dādhā́ra yó dharúṇam satyátātā ǁindro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ |
purūṇi cin ni tatānā rajāṃsi dādhāra yo dharuṇaṃ satyatātā ||इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । व्र॒ता । अ॒मि॒ना॒त् । अङ्गि॑रःऽभिः । गृ॒णा॒नः ।
पु॒रूणि॑ । चि॒त् । नि । त॒ता॒न॒ । रजां॑सि । दा॒धार॑ । यः । ध॒रुण॑म् । स॒त्यऽता॑ता ॥इन्द्रः । मह्ना । महतः । अर्णवस्य । व्रता । अमिनात् । अङ्गिरःऽभिः । गृणानः ।
पुरूणि । चित् । नि । ततान । रजांसि । दाधार । यः । धरुणम् । सत्यऽताता ॥índraḥ ǀ mahnā́ ǀ mahatáḥ ǀ arṇavásya ǀ vratā́ ǀ amināt ǀ áṅgiraḥ-bhiḥ ǀ gṛṇānáḥ ǀ
purū́ṇi ǀ cit ǀ ní ǀ tatāna ǀ rájāṃsi ǀ dādhā́ra ǀ yáḥ ǀ dharúṇam ǀ satyá-tātā ǁindraḥ ǀ mahnā ǀ mahataḥ ǀ arṇavasya ǀ vratā ǀ amināt ǀ aṅgiraḥ-bhiḥ ǀ gṛṇānaḥ ǀ
purūṇi ǀ cit ǀ ni ǀ tatāna ǀ rajāṃsi ǀ dādhāra ǀ yaḥ ǀ dharuṇam ǀ satya-tātā ǁ10.111.4 Aṣṭaka 8.6.10.4Anuvāka 10.9.126
-
Ṛk 5
इंद्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हंति॒ शुष्णं॑ ।
म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कंभ॑ चि॒त्कंभ॑नेन॒ स्कभी॑यान् ॥इन्द्रो दिवः प्रतिमानम् पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् |
महीं चिद् द्याम् आतनोत् सूर्येण चास्कम्भ चित् कम्भनेन स्कभीयान् ||índro diváḥ pratimā́nam pṛthivyā́ víśvā veda sávanā hánti śúṣṇam ǀ
mahī́m ciddyā́mā́tanotsū́ryeṇa cāskámbha citkámbhanena skábhīyān ǁindro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam |
mahīṃ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān ||इन्द्रः॑ । दि॒वः । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । विश्वा॑ । वे॒द॒ । सव॑ना । हन्ति॑ । शुष्ण॑म् ।
म॒हीम् । चि॒त् । द्याम् । आ । अ॒त॒नो॒त् । सूर्ये॑ण । चा॒स्कम्भ॑ । चि॒त् । स्कम्भ॑नेन । स्कभी॑यान् ॥इन्द्रः । दिवः । प्रतिऽमानम् । पृथिव्याः । विश्वा । वेद । सवना । हन्ति । शुष्णम् ।
महीम् । चित् । द्याम् । आ । अतनोत् । सूर्येण । चास्कम्भ । चित् । स्कम्भनेन । स्कभीयान् ॥índraḥ ǀ diváḥ ǀ prati-mā́nam ǀ pṛthivyā́ḥ ǀ víśvā ǀ veda ǀ sávanā ǀ hánti ǀ śúṣṇam ǀ
mahī́m ǀ cit ǀ dyā́m ǀ ā́ ǀ atanot ǀ sū́ryeṇa ǀ cāskámbha ǀ cit ǀ skámbhanena ǀ skábhīyān ǁindraḥ ǀ divaḥ ǀ prati-mānam ǀ pṛthivyāḥ ǀ viśvā ǀ veda ǀ savanā ǀ hanti ǀ śuṣṇam ǀ
mahīm ǀ cit ǀ dyām ǀ ā ǀ atanot ǀ sūryeṇa ǀ cāskambha ǀ cit ǀ skambhanena ǀ skabhīyān ǁ10.111.5 Aṣṭaka 8.6.10.5Anuvāka 10.9.127
-
Ṛk 6
वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः ।
वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घं॒थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥वज्रेण हि वृत्रहा वृत्रम् अस्तर् अदेवस्य शूशुवानस्य मायाः |
वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन् बाह्वोजाः ||vájreṇa hí vṛtrahā́ vṛtrámástarádevasya śū́śuvānasya māyā́ḥ ǀ
ví dhṛṣṇo átra dhṛṣatā́ jaghanthā́thābhavo maghavanbāhvójāḥ ǁvajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ |
vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ ||वज्रे॑ण । हि । वृ॒त्र॒ऽहा । वृ॒त्रम् । अस्तः॑ । अदे॑वस्य । शूशु॑वानस्य । मा॒याः ।
वि । धृ॒ष्णो॒ इति॑ । अत्र॑ । धृ॒ष॒ता । ज॒घ॒न्थ॒ । अथ॑ । अ॒भ॒वः॒ । म॒घ॒ऽव॒न् । बा॒हुऽओ॑जाः ॥वज्रेण । हि । वृत्रऽहा । वृत्रम् । अस्तः । अदेवस्य । शूशुवानस्य । मायाः ।
वि । धृष्णो इति । अत्र । धृषता । जघन्थ । अथ । अभवः । मघऽवन् । बाहुऽओजाः ॥vájreṇa ǀ hí ǀ vṛtra-hā́ ǀ vṛtrám ǀ ástaḥ ǀ ádevasya ǀ śū́śuvānasya ǀ māyā́ḥ ǀ
ví ǀ dhṛṣṇo íti ǀ átra ǀ dhṛṣatā́ ǀ jaghantha ǀ átha ǀ abhavaḥ ǀ magha-van ǀ bāhú-ojāḥ ǁvajreṇa ǀ hi ǀ vṛtra-hā ǀ vṛtram ǀ astaḥ ǀ adevasya ǀ śūśuvānasya ǀ māyāḥ ǀ
vi ǀ dhṛṣṇo iti ǀ atra ǀ dhṛṣatā ǀ jaghantha ǀ atha ǀ abhavaḥ ǀ magha-van ǀ bāhu-ojāḥ ǁ10.111.6 Aṣṭaka 8.6.11.1Anuvāka 10.9.128
-
Ṛk 7
सचं॑त॒ यदु॒षसः॒ सूर्ये॑ण चि॒त्राम॑स्य के॒तवो॒ राम॑विंदन् ।
आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन॑र्य॒तो नकि॑र॒द्धा नु वे॑द ॥सचन्त यद् उषसः सूर्येण चित्राम् अस्य केतवो राम् अविन्दन् |
आ यन् नक्षत्रं ददृशे दिवो न पुनर् यतो नकिर् अद्धा नु वेद ||sácanta yáduṣásaḥ sū́ryeṇa citrā́masya ketávo rā́mavindan ǀ
ā́ yánnákṣatram dádṛśe divó ná púnaryató nákiraddhā́ nú veda ǁsacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan |
ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda ||सच॑न्त । यत् । उ॒षसः॑ । सूर्ये॑ण । चि॒त्राम् । अ॒स्य॒ । के॒तवः॑ । राम् । अ॒वि॒न्द॒न् ।
आ । यत् । नक्ष॑त्रम् । ददृ॑शे । दि॒वः । न । पुनः॑ । य॒तः । नकिः॑ । अ॒द्धा । नु । वे॒द॒ ॥सचन्त । यत् । उषसः । सूर्येण । चित्राम् । अस्य । केतवः । राम् । अविन्दन् ।
आ । यत् । नक्षत्रम् । ददृशे । दिवः । न । पुनः । यतः । नकिः । अद्धा । नु । वेद ॥sácanta ǀ yát ǀ uṣásaḥ ǀ sū́ryeṇa ǀ citrā́m ǀ asya ǀ ketávaḥ ǀ rā́m ǀ avindan ǀ
ā́ ǀ yát ǀ nákṣatram ǀ dádṛśe ǀ diváḥ ǀ ná ǀ púnaḥ ǀ yatáḥ ǀ nákiḥ ǀ addhā́ ǀ nú ǀ veda ǁsacanta ǀ yat ǀ uṣasaḥ ǀ sūryeṇa ǀ citrām ǀ asya ǀ ketavaḥ ǀ rām ǀ avindan ǀ
ā ǀ yat ǀ nakṣatram ǀ dadṛśe ǀ divaḥ ǀ na ǀ punaḥ ǀ yataḥ ǀ nakiḥ ǀ addhā ǀ nu ǀ veda ǁ10.111.7 Aṣṭaka 8.6.11.2Anuvāka 10.9.129
-
Ṛk 8
दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिंद्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ ।
क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ॑सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमंतः॑ ॥दूरं किल प्रथमा जग्मुर् आसाम् इन्द्रस्य याः प्रसवे सस्रुर् आपः |
क्व स्विद् अग्रं क्व बुध्न आसाम् आपो मध्यं क्व वो नूनम् अन्तः ||dūrám kíla prathamā́ jagmurāsāmíndrasya yā́ḥ prasavé sasrúrā́paḥ ǀ
kvá svidágram kvá budhná āsāmā́po mádhyam kvá vo nūnámántaḥ ǁdūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ |
kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ ||दू॒रम् । किल॑ । प्र॒थ॒माः । ज॒ग्मुः॒ । आ॒सा॒म् । इन्द्र॑स्य । याः । प्र॒ऽस॒वे । स॒स्रुः । आपः॑ ।
क्व॑ । स्वि॒त् । अग्र॑म् । क्व॑ । बु॒ध्नः । आ॒सा॒म् । आपः॑ । मध्य॑म् । क्व॑ । वः॒ । नू॒नम् । अन्तः॑ ॥दूरम् । किल । प्रथमाः । जग्मुः । आसाम् । इन्द्रस्य । याः । प्रऽसवे । सस्रुः । आपः ।
क्व । स्वित् । अग्रम् । क्व । बुध्नः । आसाम् । आपः । मध्यम् । क्व । वः । नूनम् । अन्तः ॥dūrám ǀ kíla ǀ prathamā́ḥ ǀ jagmuḥ ǀ āsām ǀ índrasya ǀ yā́ḥ ǀ pra-savé ǀ sasrúḥ ǀ ā́paḥ ǀ
kvá ǀ svit ǀ ágram ǀ kvá ǀ budhnáḥ ǀ āsām ǀ ā́paḥ ǀ mádhyam ǀ kvá ǀ vaḥ ǀ nūnám ǀ ántaḥ ǁdūram ǀ kila ǀ prathamāḥ ǀ jagmuḥ ǀ āsām ǀ indrasya ǀ yāḥ ǀ pra-save ǀ sasruḥ ǀ āpaḥ ǀ
kva ǀ svit ǀ agram ǀ kva ǀ budhnaḥ ǀ āsām ǀ āpaḥ ǀ madhyam ǀ kva ǀ vaḥ ǀ nūnam ǀ antaḥ ǁ10.111.8 Aṣṭaka 8.6.11.3Anuvāka 10.9.130
-
Ṛk 9
सृ॒जः सिंधूँ॒रहि॑ना जग्रसा॒नाँ आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ ।
मुमु॑क्षमाणा उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मंते॒ निति॑क्ताः ॥सृजः सिन्धूंर् अहिना जग्रसानां आद् इद् एताः प्र विविज्रे जवेन |
मुमुक्षमाणा उत या मुमुच्रे ऽधेद् एता न रमन्ते नितिक्ताः ||sṛjáḥ síndhūm̐ráhinā jagrasānā́m̐ ā́dídetā́ḥ prá vivijre javéna ǀ
múmukṣamāṇā utá yā́ mumucré’dhédetā́ ná ramante nítiktāḥ ǁsṛjaḥ sindhūṃr ahinā jagrasānāṃ ād id etāḥ pra vivijre javena |
mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ ||सृ॒जः । सिन्धू॑न् । अहि॑ना । ज॒ग्र॒सा॒नान् । आत् । इत् । ए॒ताः । प्र । वि॒वि॒ज्रे॒ । ज॒वेन॑ ।
मुमु॑क्षमाणाः । उ॒त । याः । मु॒मु॒च्रे । अध॑ । इत् । ए॒ताः । न । र॒म॒न्ते॒ । निऽति॑क्ताः ॥सृजः । सिन्धून् । अहिना । जग्रसानान् । आत् । इत् । एताः । प्र । विविज्रे । जवेन ।
मुमुक्षमाणाः । उत । याः । मुमुच्रे । अध । इत् । एताः । न । रमन्ते । निऽतिक्ताः ॥sṛjáḥ ǀ síndhūn ǀ áhinā ǀ jagrasānā́n ǀ ā́t ǀ ít ǀ etā́ḥ ǀ prá ǀ vivijre ǀ javéna ǀ
múmukṣamāṇāḥ ǀ utá ǀ yā́ḥ ǀ mumucré ǀ ádha ǀ ít ǀ etā́ḥ ǀ ná ǀ ramante ǀ ní-tiktāḥ ǁsṛjaḥ ǀ sindhūn ǀ ahinā ǀ jagrasānān ǀ āt ǀ it ǀ etāḥ ǀ pra ǀ vivijre ǀ javena ǀ
mumukṣamāṇāḥ ǀ uta ǀ yāḥ ǀ mumucre ǀ adha ǀ it ǀ etāḥ ǀ na ǀ ramante ǀ ni-tiktāḥ ǁ10.111.9 Aṣṭaka 8.6.11.4Anuvāka 10.9.131
-
Ṛk 10
स॒ध्रीचीः॒ सिंधु॑मुश॒तीरि॑वायन्त्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑सां ।
अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इंद्र पू॒र्वीः ॥सध्रीचीः सिन्धुम् उशतीर् इवायन् सनाज् जार आरितः पूर्भिद् आसाम् |
अस्तम् आ ते पार्थिवा वसून्य् अस्मे जग्मुः सूनृता इन्द्र पूर्वीः ||sadhrī́cīḥ síndhumuśatī́rivāyantsanā́jjārá āritáḥ pūrbhídāsām ǀ
ástamā́ te pā́rthivā vásūnyasmé jagmuḥ sūnṛ́tā indra pūrvī́ḥ ǁsadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām |
astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ ||स॒ध्रीचीः॑ । सिन्धु॑म् । उ॒श॒तीःऽइ॑व । आ॒य॒न् । स॒नात् । जा॒रः । आ॒रि॒तः । पूः॒ऽभित् । आ॒सा॒म् ।
अस्त॑म् । आ । ते॒ । पार्थि॑वा । वसू॑नि । अ॒स्मे इति॑ । ज॒ग्मुः॒ । सू॒नृताः॑ । इ॒न्द्र॒ । पू॒र्वीः ॥सध्रीचीः । सिन्धुम् । उशतीःऽइव । आयन् । सनात् । जारः । आरितः । पूःऽभित् । आसाम् ।
अस्तम् । आ । ते । पार्थिवा । वसूनि । अस्मे इति । जग्मुः । सूनृताः । इन्द्र । पूर्वीः ॥sadhrī́cīḥ ǀ síndhum ǀ uśatī́ḥ-iva ǀ āyan ǀ sanā́t ǀ jāráḥ ǀ āritáḥ ǀ pūḥ-bhít ǀ āsām ǀ
ástam ǀ ā́ ǀ te ǀ pā́rthivā ǀ vásūni ǀ asmé íti ǀ jagmuḥ ǀ sūnṛ́tāḥ ǀ indra ǀ pūrvī́ḥ ǁsadhrīcīḥ ǀ sindhum ǀ uśatīḥ-iva ǀ āyan ǀ sanāt ǀ jāraḥ ǀ āritaḥ ǀ pūḥ-bhit ǀ āsām ǀ
astam ǀ ā ǀ te ǀ pārthivā ǀ vasūni ǀ asme iti ǀ jagmuḥ ǀ sūnṛtāḥ ǀ indra ǀ pūrvīḥ ǁ10.111.10 Aṣṭaka 8.6.11.5Anuvāka 10.9.132
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.