Sūkta 25
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Vimada Aindra Or Vimada Prājāpatya Or Vimada Aindra And Vasukṛt Vāsukra
- Chandas छन्दस्
- Āstārapaṅkti
Metres by ṛk
1st set of styles āstārapaṅkti (1, 2, 6, 10, 11); nicṛdārṣīpaṅkti (3-5); virāḍārṣīpaṅkti (7-9)
2nd set of styles āstārapaṅkti
-
Ṛk 1
भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतुं॑ ।
अधा॑ ते स॒ख्ये अंध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥भद्रं नो अपि वातय मनो दक्षम् उत क्रतुम् |
अधा ते सख्ये अन्धसो वि वो मदे रणन् गावो न यवसे विवक्षसे ||bhadrám no ápi vātaya máno dákṣamutá krátum ǀ
ádhā te sakhyé ándhaso ví vo máde ráṇangā́vo ná yávase vívakṣase ǁbhadraṃ no api vātaya mano dakṣam uta kratum |
adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase ||भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ । दक्ष॑म् । उ॒त । क्रतु॑म् ।
अध॑ । ते॒ । स॒ख्ये । अन्ध॑सः । वि । वः॒ । मदे॑ । रण॑न् । गावः॑ । न । यव॑से । विव॑क्षसे ॥भद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् ।
अध । ते । सख्ये । अन्धसः । वि । वः । मदे । रणन् । गावः । न । यवसे । विवक्षसे ॥bhadrám ǀ naḥ ǀ ápi ǀ vātaya ǀ mánaḥ ǀ dákṣam ǀ utá ǀ krátum ǀ
ádha ǀ te ǀ sakhyé ǀ ándhasaḥ ǀ ví ǀ vaḥ ǀ máde ǀ ráṇan ǀ gā́vaḥ ǀ ná ǀ yávase ǀ vívakṣase ǁbhadram ǀ naḥ ǀ api ǀ vātaya ǀ manaḥ ǀ dakṣam ǀ uta ǀ kratum ǀ
adha ǀ te ǀ sakhye ǀ andhasaḥ ǀ vi ǀ vaḥ ǀ made ǀ raṇan ǀ gāvaḥ ǀ na ǀ yavase ǀ vivakṣase ǁ10.25.1 Aṣṭaka 7.7.11.1Anuvāka 10.2.83
-
Ṛk 2
हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु ।
अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठंते वसू॒यवो॒ विव॑क्षसे ॥हृदिस्पृशस् त आसते विश्वेषु सोम धामसु |
अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ||hṛdispṛ́śasta āsate víśveṣu soma dhā́masu ǀ
ádhā kā́mā imé máma ví vo máde ví tiṣṭhante vasūyávo vívakṣase ǁhṛdispṛśas ta āsate viśveṣu soma dhāmasu |
adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase ||हृ॒दि॒ऽस्पृशः॑ । ते॒ । आ॒स॒ते॒ । विश्वे॑षु । सो॒म॒ । धाम॑ऽसु ।
अध॑ । कामाः॑ । इ॒मे । मम॑ । वि । वः॒ । मदे॑ । वि । ति॒ष्ठ॒न्ते॒ । व॒सु॒ऽयवः॑ । विव॑क्षसे ॥हृदिऽस्पृशः । ते । आसते । विश्वेषु । सोम । धामऽसु ।
अध । कामाः । इमे । मम । वि । वः । मदे । वि । तिष्ठन्ते । वसुऽयवः । विवक्षसे ॥hṛdi-spṛ́śaḥ ǀ te ǀ āsate ǀ víśveṣu ǀ soma ǀ dhā́ma-su ǀ
ádha ǀ kā́māḥ ǀ imé ǀ máma ǀ ví ǀ vaḥ ǀ máde ǀ ví ǀ tiṣṭhante ǀ vasu-yávaḥ ǀ vívakṣase ǁhṛdi-spṛśaḥ ǀ te ǀ āsate ǀ viśveṣu ǀ soma ǀ dhāma-su ǀ
adha ǀ kāmāḥ ǀ ime ǀ mama ǀ vi ǀ vaḥ ǀ made ǀ vi ǀ tiṣṭhante ǀ vasu-yavaḥ ǀ vivakṣase ǁ10.25.2 Aṣṭaka 7.7.11.2Anuvāka 10.2.84
-
Ṛk 3
उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या॑ ।
अधा॑ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे॑ मृ॒ळा नो॑ अ॒भि चि॑द्व॒धाद्विव॑क्षसे ॥उत व्रतानि सोम ते प्राहम् मिनामि पाक्या |
अधा पितेव सूनवे वि वो मदे मृऌआ नो अभि चिद् वधाद् विवक्षसे ||utá vratā́ni soma te prā́hám mināmi pākyā́ ǀ
ádhā pitéva sūnáve ví vo máde mṛḷā́ no abhí cidvadhā́dvívakṣase ǁuta vratāni soma te prāham mināmi pākyā |
adhā piteva sūnave vi vo made mṛḷā no abhi cid vadhād vivakṣase ||उ॒त । व्र॒तानि॑ । सो॒म॒ । ते॒ । प्र । अ॒हम् । मि॒ना॒मि॒ । पा॒क्या॑ ।
अध॑ । पि॒ताऽइ॑व । सू॒नवे॑ । वि । वः॒ । मदे॑ । मृ॒ळ । नः॒ । अ॒भि । चि॒त् । व॒धात् । विव॑क्षसे ॥उत । व्रतानि । सोम । ते । प्र । अहम् । मिनामि । पाक्या ।
अध । पिताऽइव । सूनवे । वि । वः । मदे । मृळ । नः । अभि । चित् । वधात् । विवक्षसे ॥utá ǀ vratā́ni ǀ soma ǀ te ǀ prá ǀ ahám ǀ mināmi ǀ pākyā́ ǀ
ádha ǀ pitā́-iva ǀ sūnáve ǀ ví ǀ vaḥ ǀ máde ǀ mṛḷá ǀ naḥ ǀ abhí ǀ cit ǀ vadhā́t ǀ vívakṣase ǁuta ǀ vratāni ǀ soma ǀ te ǀ pra ǀ aham ǀ mināmi ǀ pākyā ǀ
adha ǀ pitā-iva ǀ sūnave ǀ vi ǀ vaḥ ǀ made ǀ mṛḷa ǀ naḥ ǀ abhi ǀ cit ǀ vadhāt ǀ vivakṣase ǁ10.25.3 Aṣṭaka 7.7.11.3Anuvāka 10.2.85
-
Ṛk 4
समु॒ प्र यं॑ति धी॒तयः॒ सर्गा॑सोऽव॒ताँ इ॑व ।
क्रतुं॑ नः सोम जी॒वसे॒ वि वो॒ मदे॑ धा॒रया॑ चम॒साँ इ॑व॒ विव॑क्षसे ॥सम् उ प्र यन्ति धीतयः सर्गासो ऽवतां इव |
क्रतुं नः सोम जीवसे वि वो मदे धारया चमसां इव विवक्षसे ||sámu prá yanti dhītáyaḥ sárgāso’vatā́m̐ iva ǀ
krátum naḥ soma jīváse ví vo máde dhāráyā camasā́m̐ iva vívakṣase ǁsam u pra yanti dhītayaḥ sargāso 'vatāṃ iva |
kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṃ iva vivakṣase ||सम् । ऊं॒ इति॑ । प्र । य॒न्ति॒ । धी॒तयः॑ । सर्गा॑सः । अ॒व॒तान्ऽइ॑व ।
क्रतु॑म् । नः॒ । सो॒म॒ । जी॒वसे॑ । वि । वः॒ । मदे॑ । धा॒रय॑ । च॒म॒सान्ऽइ॑व । विव॑क्षसे ॥सम् । ऊं इति । प्र । यन्ति । धीतयः । सर्गासः । अवतान्ऽइव ।
क्रतुम् । नः । सोम । जीवसे । वि । वः । मदे । धारय । चमसान्ऽइव । विवक्षसे ॥sám ǀ ūṃ íti ǀ prá ǀ yanti ǀ dhītáyaḥ ǀ sárgāsaḥ ǀ avatā́n-iva ǀ
krátum ǀ naḥ ǀ soma ǀ jīváse ǀ ví ǀ vaḥ ǀ máde ǀ dhāráya ǀ camasā́n-iva ǀ vívakṣase ǁsam ǀ ūṃ iti ǀ pra ǀ yanti ǀ dhītayaḥ ǀ sargāsaḥ ǀ avatān-iva ǀ
kratum ǀ naḥ ǀ soma ǀ jīvase ǀ vi ǀ vaḥ ǀ made ǀ dhāraya ǀ camasān-iva ǀ vivakṣase ǁ10.25.4 Aṣṭaka 7.7.11.4Anuvāka 10.2.86
-
Ṛk 5
तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे ।
गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोमं॑तम॒श्विनं॒ विव॑क्षसे ॥तव त्ये सोम शक्तिभिर् निकामासो व्य् ऋण्विरे |
गृत्सस्य धीरास् तवसो वि वो मदे व्रजं गोमन्तम् अश्विनं विवक्षसे ||táva tyé soma śáktibhirníkāmāso vyṛ́ṇvire ǀ
gṛ́tsasya dhī́rāstaváso ví vo máde vrajám gómantamaśvínam vívakṣase ǁtava tye soma śaktibhir nikāmāso vy ṛṇvire |
gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase ||तव॑ । त्ये । सो॒म॒ । शक्ति॑ऽभिः । निऽका॑मासः । वि । ऋ॒ण्वि॒रे॒ ।
गृत्स॑स्य । धीराः॑ । त॒वसः॑ । वि । वः॒ । मदे॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् । विव॑क्षसे ॥तव । त्ये । सोम । शक्तिऽभिः । निऽकामासः । वि । ऋण्विरे ।
गृत्सस्य । धीराः । तवसः । वि । वः । मदे । व्रजम् । गोऽमन्तम् । अश्विनम् । विवक्षसे ॥táva ǀ tyé ǀ soma ǀ śákti-bhiḥ ǀ ní-kāmāsaḥ ǀ ví ǀ ṛṇvire ǀ
gṛ́tsasya ǀ dhī́rāḥ ǀ tavásaḥ ǀ ví ǀ vaḥ ǀ máde ǀ vrajám ǀ gó-mantam ǀ aśvínam ǀ vívakṣase ǁtava ǀ tye ǀ soma ǀ śakti-bhiḥ ǀ ni-kāmāsaḥ ǀ vi ǀ ṛṇvire ǀ
gṛtsasya ǀ dhīrāḥ ǀ tavasaḥ ǀ vi ǀ vaḥ ǀ made ǀ vrajam ǀ go-mantam ǀ aśvinam ǀ vivakṣase ǁ10.25.5 Aṣṭaka 7.7.11.5Anuvāka 10.2.87
-
Ṛk 6
प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् ।
स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा॑ सं॒पश्य॒न्भुव॑ना॒ विव॑क्षसे ॥पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् |
समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन् भुवना विवक्षसे ||paśúm naḥ soma rakṣasi purutrā́ víṣṭhitam jágat ǀ
samā́kṛṇoṣi jīváse ví vo máde víśvā sampáśyanbhúvanā vívakṣase ǁpaśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat |
samākṛṇoṣi jīvase vi vo made viśvā sampaśyan bhuvanā vivakṣase ||प॒शुम् । नः॒ । सो॒म॒ । र॒क्ष॒सि॒ । पु॒रु॒ऽत्रा । विऽस्थि॑तम् । जग॑त् ।
स॒म्ऽआकृ॑णोषि । जी॒वसे॑ । वि । वः॒ । मदे॑ । विश्वा॑ । स॒म्ऽपश्य॑न् । भुव॑ना । विव॑क्षसे ॥पशुम् । नः । सोम । रक्षसि । पुरुऽत्रा । विऽस्थितम् । जगत् ।
सम्ऽआकृणोषि । जीवसे । वि । वः । मदे । विश्वा । सम्ऽपश्यन् । भुवना । विवक्षसे ॥paśúm ǀ naḥ ǀ soma ǀ rakṣasi ǀ puru-trā́ ǀ ví-sthitam ǀ jágat ǀ
sam-ā́kṛṇoṣi ǀ jīváse ǀ ví ǀ vaḥ ǀ máde ǀ víśvā ǀ sam-páśyan ǀ bhúvanā ǀ vívakṣase ǁpaśum ǀ naḥ ǀ soma ǀ rakṣasi ǀ puru-trā ǀ vi-sthitam ǀ jagat ǀ
sam-ākṛṇoṣi ǀ jīvase ǀ vi ǀ vaḥ ǀ made ǀ viśvā ǀ sam-paśyan ǀ bhuvanā ǀ vivakṣase ǁ10.25.6 Aṣṭaka 7.7.12.1Anuvāka 10.2.88
-
Ṛk 7
त्वं नः॑ सोम वि॒श्वतो॑ गो॒पा अदा॑भ्यो भव ।
सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो॑ दुः॒शंस॑ ईशता॒ विव॑क्षसे ॥त्वं नः सोम विश्वतो गोपा अदाभ्यो भव |
सेध राजन्न् अप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ||tvám naḥ soma viśváto gopā́ ádābhyo bhava ǀ
sédha rājannápa srídho ví vo máde mā́ no duḥśáṃsa īśatā vívakṣase ǁtvaṃ naḥ soma viśvato gopā adābhyo bhava |
sedha rājann apa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase ||त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । गो॒पाः । अदा॑भ्यः । भ॒व॒ ।
सेध॑ । रा॒ज॒न् । अप॑ । स्रिधः॑ । वि । वः॒ । मदे॑ । मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ । विव॑क्षसे ॥त्वम् । नः । सोम । विश्वतः । गोपाः । अदाभ्यः । भव ।
सेध । राजन् । अप । स्रिधः । वि । वः । मदे । मा । नः । दुःऽशंसः । ईशत । विवक्षसे ॥tvám ǀ naḥ ǀ soma ǀ viśvátaḥ ǀ gopā́ḥ ǀ ádābhyaḥ ǀ bhava ǀ
sédha ǀ rājan ǀ ápa ǀ srídhaḥ ǀ ví ǀ vaḥ ǀ máde ǀ mā́ ǀ naḥ ǀ duḥ-śáṃsaḥ ǀ īśata ǀ vívakṣase ǁtvam ǀ naḥ ǀ soma ǀ viśvataḥ ǀ gopāḥ ǀ adābhyaḥ ǀ bhava ǀ
sedha ǀ rājan ǀ apa ǀ sridhaḥ ǀ vi ǀ vaḥ ǀ made ǀ mā ǀ naḥ ǀ duḥ-śaṃsaḥ ǀ īśata ǀ vivakṣase ǁ10.25.7 Aṣṭaka 7.7.12.2Anuvāka 10.2.89
-
Ṛk 8
त्वं नः॑ सोम सु॒क्रतु॑र्वयो॒धेया॑य जागृहि ।
क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे॑ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥त्वं नः सोम सुक्रतुर् वयोधेयाय जागृहि |
क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्य् अंहसो विवक्षसे ||tvám naḥ soma sukráturvayodhéyāya jāgṛhi ǀ
kṣetravíttaro mánuṣo ví vo máde druhó naḥ pāhyáṃhaso vívakṣase ǁtvaṃ naḥ soma sukratur vayodheyāya jāgṛhi |
kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṃhaso vivakṣase ||त्वम् । नः॒ । सो॒म॒ । सु॒ऽक्रतुः॑ । व॒यः॒ऽधेया॑य । जा॒गृ॒हि॒ ।
क्षे॒त्र॒वित्ऽत॑रः । मनु॑षः । वि । वः॒ । मदे॑ । द्रु॒हः । नः॒ । पा॒हि॒ । अंह॑सः । विव॑क्षसे ॥त्वम् । नः । सोम । सुऽक्रतुः । वयःऽधेयाय । जागृहि ।
क्षेत्रवित्ऽतरः । मनुषः । वि । वः । मदे । द्रुहः । नः । पाहि । अंहसः । विवक्षसे ॥tvám ǀ naḥ ǀ soma ǀ su-krátuḥ ǀ vayaḥ-dhéyāya ǀ jāgṛhi ǀ
kṣetravít-taraḥ ǀ mánuṣaḥ ǀ ví ǀ vaḥ ǀ máde ǀ druháḥ ǀ naḥ ǀ pāhi ǀ áṃhasaḥ ǀ vívakṣase ǁtvam ǀ naḥ ǀ soma ǀ su-kratuḥ ǀ vayaḥ-dheyāya ǀ jāgṛhi ǀ
kṣetravit-taraḥ ǀ manuṣaḥ ǀ vi ǀ vaḥ ǀ made ǀ druhaḥ ǀ naḥ ǀ pāhi ǀ aṃhasaḥ ǀ vivakṣase ǁ10.25.8 Aṣṭaka 7.7.12.3Anuvāka 10.2.90
-
Ṛk 9
त्वं नो॑ वृत्रहंत॒मेंद्र॑स्येंदो शि॒वः सखा॑ ।
यत्सीं॒ हवं॑ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा॑तौ॒ विव॑क्षसे ॥त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा |
यत् सीं हवन्ते समिथे वि वो मदे युध्यमानास् तोकसातौ विवक्षसे ||tvám no vṛtrahantaméndrasyendo śiváḥ sákhā ǀ
yátsīm hávante samithé ví vo máde yúdhyamānāstokásātau vívakṣase ǁtvaṃ no vṛtrahantamendrasyendo śivaḥ sakhā |
yat sīṃ havante samithe vi vo made yudhyamānās tokasātau vivakṣase ||त्वम् । नः॒ । वृ॒त्र॒ह॒न्ऽत॒म॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । शि॒वः । सखा॑ ।
यत् । सी॒म् । हव॑न्ते । स॒म्ऽइ॒थे । वि । वः॒ । मदे॑ । युध्य॑मानाः । तो॒कऽसा॑तौ । विव॑क्षसे ॥त्वम् । नः । वृत्रहन्ऽतम । इन्द्रस्य । इन्दो इति । शिवः । सखा ।
यत् । सीम् । हवन्ते । सम्ऽइथे । वि । वः । मदे । युध्यमानाः । तोकऽसातौ । विवक्षसे ॥tvám ǀ naḥ ǀ vṛtrahan-tama ǀ índrasya ǀ indo íti ǀ śiváḥ ǀ sákhā ǀ
yát ǀ sīm ǀ hávante ǀ sam-ithé ǀ ví ǀ vaḥ ǀ máde ǀ yúdhyamānāḥ ǀ toká-sātau ǀ vívakṣase ǁtvam ǀ naḥ ǀ vṛtrahan-tama ǀ indrasya ǀ indo iti ǀ śivaḥ ǀ sakhā ǀ
yat ǀ sīm ǀ havante ǀ sam-ithe ǀ vi ǀ vaḥ ǀ made ǀ yudhyamānāḥ ǀ toka-sātau ǀ vivakṣase ǁ10.25.9 Aṣṭaka 7.7.12.4Anuvāka 10.2.91
-
Ṛk 10
अ॒यं घ॒ स तु॒रो मद॒ इंद्र॑स्य वर्धत प्रि॒यः ।
अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः |
अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद् विवक्षसे ||ayám gha sá turó máda índrasya vardhata priyáḥ ǀ
ayám kakṣī́vato mahó ví vo máde matím víprasya vardhayadvívakṣase ǁayaṃ gha sa turo mada indrasya vardhata priyaḥ |
ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase ||अ॒यम् । घ॒ । सः । तु॒रः । मदः॑ । इन्द्र॑स्य । व॒र्ध॒त॒ । प्रि॒यः ।
अ॒यम् । क॒क्षीव॑तः । म॒हः । वि । वः॒ । मदे॑ । म॒तिम् । विप्र॑स्य । व॒र्ध॒य॒त् । विव॑क्षसे ॥अयम् । घ । सः । तुरः । मदः । इन्द्रस्य । वर्धत । प्रियः ।
अयम् । कक्षीवतः । महः । वि । वः । मदे । मतिम् । विप्रस्य । वर्धयत् । विवक्षसे ॥ayám ǀ gha ǀ sáḥ ǀ turáḥ ǀ mádaḥ ǀ índrasya ǀ vardhata ǀ priyáḥ ǀ
ayám ǀ kakṣī́vataḥ ǀ maháḥ ǀ ví ǀ vaḥ ǀ máde ǀ matím ǀ víprasya ǀ vardhayat ǀ vívakṣase ǁayam ǀ gha ǀ saḥ ǀ turaḥ ǀ madaḥ ǀ indrasya ǀ vardhata ǀ priyaḥ ǀ
ayam ǀ kakṣīvataḥ ǀ mahaḥ ǀ vi ǀ vaḥ ǀ made ǀ matim ǀ viprasya ǀ vardhayat ǀ vivakṣase ǁ10.25.10 Aṣṭaka 7.7.12.5Anuvāka 10.2.92
-
Ṛk 11
अ॒यं विप्रा॑य दा॒शुषे॒ वाजाँ॑ इयर्ति॒ गोम॑तः ।
अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रांधं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ॥अयं विप्राय दाशुषे वाजां इयर्ति गोमतः |
अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद् विवक्षसे ||ayám víprāya dāśúṣe vā́jām̐ iyarti gómataḥ ǀ
ayám saptábhya ā́ váram ví vo máde prā́ndhám śroṇám ca tāriṣadvívakṣase ǁayaṃ viprāya dāśuṣe vājāṃ iyarti gomataḥ |
ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase ||अ॒यम् । विप्रा॑य । दा॒शुषे॑ । वाजा॑न् । इ॒य॒र्ति॒ । गोऽम॑तः ।
अ॒यम् । स॒प्तऽभ्यः॑ । आ । वर॑म् । वि । वः॒ । मदे॑ । प्र । अ॒न्धम् । श्रो॒णम् । च॒ । ता॒रि॒ष॒त् । विव॑क्षसे ॥अयम् । विप्राय । दाशुषे । वाजान् । इयर्ति । गोऽमतः ।
अयम् । सप्तऽभ्यः । आ । वरम् । वि । वः । मदे । प्र । अन्धम् । श्रोणम् । च । तारिषत् । विवक्षसे ॥ayám ǀ víprāya ǀ dāśúṣe ǀ vā́jān ǀ iyarti ǀ gó-mataḥ ǀ
ayám ǀ saptá-bhyaḥ ǀ ā́ ǀ váram ǀ ví ǀ vaḥ ǀ máde ǀ prá ǀ andhám ǀ śroṇám ǀ ca ǀ tāriṣat ǀ vívakṣase ǁayam ǀ viprāya ǀ dāśuṣe ǀ vājān ǀ iyarti ǀ go-mataḥ ǀ
ayam ǀ sapta-bhyaḥ ǀ ā ǀ varam ǀ vi ǀ vaḥ ǀ made ǀ pra ǀ andham ǀ śroṇam ǀ ca ǀ tāriṣat ǀ vivakṣase ǁ10.25.11 Aṣṭaka 7.7.12.6Anuvāka 10.2.93
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.