Sūkta 2
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (3, 4, 6, 7); nicṛttriṣṭup (2, 5); pādanicṛttriṣṭup (1)
2nd set of styles triṣṭubh
-
Ṛk 1
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥पिप्रीहि देवां उशतो यविष्ठ विद्वां ऋतूंर् ऋतुपते यजेह |
ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वं होतॄणाम् अस्य् आयजिष्ठः ||piprīhí devā́m̐ uśató yaviṣṭha vidvā́m̐ ṛtū́m̐rṛtupate yajehá ǀ
yé dáivyā ṛtvíjastébhiragne tvám hótṝṇāmasyā́yajiṣṭhaḥ ǁpiprīhi devāṃ uśato yaviṣṭha vidvāṃ ṛtūṃr ṛtupate yajeha |
ye daivyā ṛtvijas tebhir agne tvaṃ hotṝṇām asy āyajiṣṭhaḥ ||पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह ।
ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतुऽपते । यज । इह ।
ये । दैव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आऽयजिष्ठः ॥piprīhí ǀ devā́n ǀ uśatáḥ ǀ yaviṣṭha ǀ vidvā́n ǀ ṛtū́n ǀ ṛtu-pate ǀ yaja ǀ ihá ǀ
yé ǀ dáivyāḥ ǀ ṛtvíjaḥ ǀ tébhiḥ ǀ agne ǀ tvám ǀ hótṝṇām ǀ asi ǀ ā́-yajiṣṭhaḥ ǁpiprīhi ǀ devān ǀ uśataḥ ǀ yaviṣṭha ǀ vidvān ǀ ṛtūn ǀ ṛtu-pate ǀ yaja ǀ iha ǀ
ye ǀ daivyāḥ ǀ ṛtvijaḥ ǀ tebhiḥ ǀ agne ǀ tvam ǀ hotṝṇām ǀ asi ǀ ā-yajiṣṭhaḥ ǁ10.2.1 Aṣṭaka 7.5.30.1Anuvāka 10.1.8
-
Ṛk 2
वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मंधा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ ।
स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥वेषि होत्रम् उत पोत्रं जनानाम् मन्धातासि द्रविणोदा ऋतावा |
स्वाहा वयं कृणवामा हवींषि देवो देवान् यजत्व् अग्निर् अर्हन् ||véṣi hotrámutá potrám jánānām mandhātā́si draviṇodā́ ṛtā́vā ǀ
svā́hā vayám kṛṇávāmā havī́ṃṣi devó devā́nyajatvagnírárhan ǁveṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā |
svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan ||वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । जना॑नाम् । म॒न्धा॒ता । अ॒सि॒ । द्र॒वि॒णः॒ऽदाः । ऋ॒तऽवा॑ ।
स्वाहा॑ । व॒यम् । कृ॒णवा॑म । ह॒वींषि॑ । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥वेषि । होत्रम् । उत । पोत्रम् । जनानाम् । मन्धाता । असि । द्रविणःऽदाः । ऋतऽवा ।
स्वाहा । वयम् । कृणवाम । हवींषि । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥véṣi ǀ hotrám ǀ utá ǀ potrám ǀ jánānām ǀ mandhātā́ ǀ asi ǀ draviṇaḥ-dā́ḥ ǀ ṛtá-vā ǀ
svā́hā ǀ vayám ǀ kṛṇávāma ǀ havī́ṃṣi ǀ deváḥ ǀ devā́n ǀ yajatu ǀ agníḥ ǀ árhan ǁveṣi ǀ hotram ǀ uta ǀ potram ǀ janānām ǀ mandhātā ǀ asi ǀ draviṇaḥ-dāḥ ǀ ṛta-vā ǀ
svāhā ǀ vayam ǀ kṛṇavāma ǀ havīṃṣi ǀ devaḥ ǀ devān ǀ yajatu ǀ agniḥ ǀ arhan ǁ10.2.2 Aṣṭaka 7.5.30.2Anuvāka 10.1.9
-
Ṛk 3
आ दे॒वाना॒मपि॒ पंथा॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुं ।
अ॒ग्निर्वि॒द्वान्त्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति ॥आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोऌहुम् |
अग्निर् विद्वान् स यजात् सेद् उ होता सो अध्वरान् स ऋतून् कल्पयाति ||ā́ devā́nāmápi pánthāmaganma yácchaknávāma tádánu právoḷhum ǀ
agnírvidvā́ntsá yajātsédu hótā só adhvarā́ntsá ṛtū́nkalpayāti ǁā devānām api panthām aganma yac chaknavāma tad anu pravoḷhum |
agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti ||आ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्नवा॑म । तत् । अनु॑ । प्रऽवो॑ळ्हुम् ।
अ॒ग्निः । वि॒द्वान् । सः । य॒जा॒त् । सः । इत् । ऊं॒ इति॑ । होता॑ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒या॒ति॒ ॥आ । देवानाम् । अपि । पन्थाम् । अगन्म । यत् । शक्नवाम । तत् । अनु । प्रऽवोळ्हुम् ।
अग्निः । विद्वान् । सः । यजात् । सः । इत् । ऊं इति । होता । सः । अध्वरान् । सः । ऋतून् । कल्पयाति ॥ā́ ǀ devā́nām ǀ ápi ǀ pánthām ǀ aganma ǀ yát ǀ śaknávāma ǀ tát ǀ ánu ǀ prá-voḷhum ǀ
agníḥ ǀ vidvā́n ǀ sáḥ ǀ yajāt ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ hótā ǀ sáḥ ǀ adhvarā́n ǀ sáḥ ǀ ṛtū́n ǀ kalpayāti ǁā ǀ devānām ǀ api ǀ panthām ǀ aganma ǀ yat ǀ śaknavāma ǀ tat ǀ anu ǀ pra-voḷhum ǀ
agniḥ ǀ vidvān ǀ saḥ ǀ yajāt ǀ saḥ ǀ it ǀ ūṃ iti ǀ hotā ǀ saḥ ǀ adhvarān ǀ saḥ ǀ ṛtūn ǀ kalpayāti ǁ10.2.3 Aṣṭaka 7.5.30.3Anuvāka 10.1.10
-
Ṛk 4
यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः ।
अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः |
अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवां ऋतुभिः कल्पयाति ||yádvo vayám praminā́ma vratā́ni vidúṣām devā áviduṣṭarāsaḥ ǀ
agníṣṭádvíśvamā́ pṛṇāti vidvā́nyébhirdevā́m̐ ṛtúbhiḥ kalpáyāti ǁyad vo vayam pramināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ |
agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devāṃ ṛtubhiḥ kalpayāti ||तत् । वः॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । वि॒दुषा॑म् । दे॒वाः॒ । अवि॑दुःऽतरासः ।
अ॒ग्निः । तत् । विश्व॑म् । आ । पृ॒णा॒ति॒ । वि॒द्वान् । येभिः॑ । दे॒वान् । ऋ॒तुऽभिः॑ । क॒ल्पया॑ति ॥तत् । वः । वयम् । प्रऽमिनाम । व्रतानि । विदुषाम् । देवाः । अविदुःऽतरासः ।
अग्निः । तत् । विश्वम् । आ । पृणाति । विद्वान् । येभिः । देवान् । ऋतुऽभिः । कल्पयाति ॥tát ǀ vaḥ ǀ vayám ǀ pra-minā́ma ǀ vratā́ni ǀ vidúṣām ǀ devāḥ ǀ áviduḥ-tarāsaḥ ǀ
agníḥ ǀ tát ǀ víśvam ǀ ā́ ǀ pṛṇāti ǀ vidvā́n ǀ yébhiḥ ǀ devā́n ǀ ṛtú-bhiḥ ǀ kalpáyāti ǁtat ǀ vaḥ ǀ vayam ǀ pra-mināma ǀ vratāni ǀ viduṣām ǀ devāḥ ǀ aviduḥ-tarāsaḥ ǀ
agniḥ ǀ tat ǀ viśvam ǀ ā ǀ pṛṇāti ǀ vidvān ǀ yebhiḥ ǀ devān ǀ ṛtu-bhiḥ ǀ kalpayāti ǁ10.2.4 Aṣṭaka 7.5.30.4Anuvāka 10.1.11
-
Ṛk 5
यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः |
अग्निष् टद् धोता क्रतुविद् विजानन् यजिष्ठो देवां ऋतुशो यजाति ||yátpākatrā́ mánasā dīnádakṣā ná yajñásya manvaté mártyāsaḥ ǀ
agníṣṭáddhótā kratuvídvijānányájiṣṭho devā́m̐ ṛtuśó yajāti ǁyat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ |
agniṣ ṭad dhotā kratuvid vijānan yajiṣṭho devāṃ ṛtuśo yajāti ||यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः ।
अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥यत् । पाकऽत्रा । मनसा । दीनऽदक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः ।
अग्निः । तत् । होता । क्रतुऽवित् । विऽजानन् । यजिष्ठः । देवान् । ऋतुऽशः । यजाति ॥yát ǀ pāka-trā́ ǀ mánasā ǀ dīná-dakṣāḥ ǀ ná ǀ yajñásya ǀ manvaté ǀ mártyāsaḥ ǀ
agníḥ ǀ tát ǀ hótā ǀ kratu-vít ǀ vi-jānán ǀ yájiṣṭhaḥ ǀ devā́n ǀ ṛtu-śáḥ ǀ yajāti ǁyat ǀ pāka-trā ǀ manasā ǀ dīna-dakṣāḥ ǀ na ǀ yajñasya ǀ manvate ǀ martyāsaḥ ǀ
agniḥ ǀ tat ǀ hotā ǀ kratu-vit ǀ vi-jānan ǀ yajiṣṭhaḥ ǀ devān ǀ ṛtu-śaḥ ǀ yajāti ǁ10.2.5 Aṣṭaka 7.5.30.5Anuvāka 10.1.12
-
Ṛk 6
विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ ।
स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती॑र्वि॒श्वज॑न्याः ॥विश्वेषां ह्य् अध्वराणाम् अनीकं चित्रं केतुं जनिता त्वा जजान |
स आ यजस्व नृवतीर् अनु क्षा स्पार्हा इषः क्षुमतीर् विश्वजन्याः ||víśveṣām hyádhvarā́ṇāmánīkam citrám ketúm jánitā tvā jajā́na ǀ
sá ā́ yajasva nṛvátīránu kṣā́ḥ spārhā́ íṣaḥ kṣumátīrviśvájanyāḥ ǁviśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna |
sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ ||विश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ ।
सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒श्वऽज॑न्याः ॥विश्वेषाम् । हि । अध्वराणाम् । अनीकम् । चित्रम् । केतुम् । जनिता । त्वा । जजान ।
सः । आ । यजस्व । नृऽवतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षुऽमतीः । विश्वऽजन्याः ॥víśveṣām ǀ hí ǀ adhvarā́ṇām ǀ ánīkam ǀ citrám ǀ ketúm ǀ jánitā ǀ tvā ǀ jajā́na ǀ
sáḥ ǀ ā́ ǀ yajasva ǀ nṛ-vátīḥ ǀ ánu ǀ kṣā́ḥ ǀ spārhā́ḥ ǀ íṣaḥ ǀ kṣu-mátīḥ ǀ viśvá-janyāḥ ǁviśveṣām ǀ hi ǀ adhvarāṇām ǀ anīkam ǀ citram ǀ ketum ǀ janitā ǀ tvā ǀ jajāna ǀ
saḥ ǀ ā ǀ yajasva ǀ nṛ-vatīḥ ǀ anu ǀ kṣāḥ ǀ spārhāḥ ǀ iṣaḥ ǀ kṣu-matīḥ ǀ viśva-janyāḥ ǁ10.2.6 Aṣṭaka 7.5.30.6Anuvāka 10.1.13
-
Ṛk 7
यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ ।
पंथा॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥यं त्वा द्यावापृथिवी यं त्वापस् त्वष्टा यं त्वा सुजनिमा जजान |
पन्थाम् अनु प्रविद्वान् पितृयाणं द्युमद् अग्ने समिधानो वि भाहि ||yám tvā dyā́vāpṛthivī́ yám tvā́pastváṣṭā yám tvā sujánimā jajā́na ǀ
pánthāmánu pravidvā́npitṛyā́ṇam dyumádagne samidhānó ví bhāhi ǁyaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna |
panthām anu pravidvān pitṛyāṇaṃ dyumad agne samidhāno vi bhāhi ||यम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजनि॑मा । ज॒जान॑ ।
पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥यम् । त्वा । द्यावापृथिवी इति । यम् । त्वा । आपः । त्वष्टा । यम् । त्वा । सुऽजनिमा । जजान ।
पन्थाम् । अनु । प्रऽविद्वान् । पितृऽयानम् । द्युऽमत् । अग्ने । सम्ऽइधानः । वि । भाहि ॥yám ǀ tvā ǀ dyā́vāpṛthivī́ íti ǀ yám ǀ tvā ǀ ā́paḥ ǀ tváṣṭā ǀ yám ǀ tvā ǀ su-jánimā ǀ jajā́na ǀ
pánthām ǀ ánu ǀ pra-vidvā́n ǀ pitṛ-yā́nam ǀ dyu-mát ǀ agne ǀ sam-idhānáḥ ǀ ví ǀ bhāhi ǁyam ǀ tvā ǀ dyāvāpṛthivī iti ǀ yam ǀ tvā ǀ āpaḥ ǀ tvaṣṭā ǀ yam ǀ tvā ǀ su-janimā ǀ jajāna ǀ
panthām ǀ anu ǀ pra-vidvān ǀ pitṛ-yānam ǀ dyu-mat ǀ agne ǀ sam-idhānaḥ ǀ vi ǀ bhāhi ǁ10.2.7 Aṣṭaka 7.5.30.7Anuvāka 10.1.14
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.