Ṛgveda · Maṇḍala 10

Sūkta 45

Agni · Vatsaprī Bhālandana · 12 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Vatsaprī Bhālandana
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1-5, 7); virāṭtrisṭup (9-12); triṣṭup (6); pādanicṛttriṣṭup (8)

2nd set of styles triṣṭubh

  1. Ṛk 1

    दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः ।
    तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिंधा॑न एनं जरते स्वा॒धीः ॥

    दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः |
    तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ||

    diváspári prathamám jajñe agnírasmáddvitī́yam pári jātávedāḥ ǀ
    tṛtī́yamapsú nṛmáṇā ájasramíndhāna enam jarate svādhī́ḥ ǁ

    divas pari prathamaṃ jajñe agnir asmad dvitīyam pari jātavedāḥ |
    tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ ||

    दि॒वः । परि॑ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय॑म् । परि॑ । जा॒तऽवे॑दाः ।
    तृ॒तीय॑म् । अ॒प्ऽसु । नृ॒ऽमनाः॑ । अज॑स्रम् । इन्धा॑नः । ए॒न॒म् । ज॒र॒ते॒ । सु॒ऽआ॒धीः ॥

    दिवः । परि । प्रथमम् । जज्ञे । अग्निः । अस्मत् । द्वितीयम् । परि । जातऽवेदाः ।
    तृतीयम् । अप्ऽसु । नृऽमनाः । अजस्रम् । इन्धानः । एनम् । जरते । सुऽआधीः ॥

    diváḥ ǀ pári ǀ prathamám ǀ jajñe ǀ agníḥ ǀ asmát ǀ dvitī́yam ǀ pári ǀ jātá-vedāḥ ǀ
    tṛtī́yam ǀ ap-sú ǀ nṛ-mánāḥ ǀ ájasram ǀ índhānaḥ ǀ enam ǀ jarate ǀ su-ādhī́ḥ ǁ

    divaḥ ǀ pari ǀ prathamam ǀ jajñe ǀ agniḥ ǀ asmat ǀ dvitīyam ǀ pari ǀ jāta-vedāḥ ǀ
    tṛtīyam ǀ ap-su ǀ nṛ-manāḥ ǀ ajasram ǀ indhānaḥ ǀ enam ǀ jarate ǀ su-ādhīḥ ǁ

    10.45.1 Aṣṭaka 7.8.28.1Anuvāka 10.4.23

  2. Ṛk 2

    वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा ।
    वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गंथ॑ ॥

    विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा |
    विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आजगन्थ ||

    vidmā́ te agne tredhā́ trayā́ṇi vidmā́ te dhā́ma víbhṛtā purutrā́ ǀ
    vidmā́ te nā́ma paramám gúhā yádvidmā́ támútsam yáta ājagántha ǁ

    vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā |
    vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha ||

    वि॒द्म । ते॒ । अ॒ग्ने॒ । त्रे॒धा । त्र॒याणि॑ । वि॒द्म । ते॒ । धाम॑ । विऽभृ॑ता । पु॒रु॒ऽत्रा ।
    वि॒द्म । ते॒ । नाम॑ । प॒र॒मम् । गुहा॑ । यत् । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽज॒गन्थ॑ ॥

    विद्म । ते । अग्ने । त्रेधा । त्रयाणि । विद्म । ते । धाम । विऽभृता । पुरुऽत्रा ।
    विद्म । ते । नाम । परमम् । गुहा । यत् । विद्म । तम् । उत्सम् । यतः । आऽजगन्थ ॥

    vidmá ǀ te ǀ agne ǀ tredhā́ ǀ trayā́ṇi ǀ vidmá ǀ te ǀ dhā́ma ǀ ví-bhṛtā ǀ puru-trā́ ǀ
    vidmá ǀ te ǀ nā́ma ǀ paramám ǀ gúhā ǀ yát ǀ vidmá ǀ tám ǀ útsam ǀ yátaḥ ǀ ā-jagántha ǁ

    vidma ǀ te ǀ agne ǀ tredhā ǀ trayāṇi ǀ vidma ǀ te ǀ dhāma ǀ vi-bhṛtā ǀ puru-trā ǀ
    vidma ǀ te ǀ nāma ǀ paramam ǀ guhā ǀ yat ǀ vidma ǀ tam ǀ utsam ǀ yataḥ ǀ ā-jagantha ǁ

    10.45.2 Aṣṭaka 7.8.28.2Anuvāka 10.4.24

  3. Ṛk 3

    स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्वं१॒॑तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् ।
    तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ॥

    समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्न ऊधन् |
    तृतीये त्वा रजसि तस्थिवांसम् अपाम् उपस्थे महिषा अवर्धन् ||

    samudré tvā nṛmáṇā apsvántárnṛcákṣā īdhe divó agna ū́dhan ǀ
    tṛtī́ye tvā rájasi tasthivā́ṃsamapā́mupásthe mahiṣā́ avardhan ǁ

    samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan |
    tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan ||

    स॒मु॒द्रे । त्वा॒ । नृ॒ऽमनाः॑ । अ॒प्ऽसु । अ॒न्तः । नृ॒ऽचक्षाः॑ । ई॒धे॒ । दि॒वः । अ॒ग्ने॒ । ऊध॑न् ।
    तृ॒तीये॑ । त्वा॒ । रज॑सि । त॒स्थि॒ऽवांस॑म् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒व॒र्ध॒न् ॥

    समुद्रे । त्वा । नृऽमनाः । अप्ऽसु । अन्तः । नृऽचक्षाः । ईधे । दिवः । अग्ने । ऊधन् ।
    तृतीये । त्वा । रजसि । तस्थिऽवांसम् । अपाम् । उपऽस्थे । महिषाः । अवर्धन् ॥

    samudré ǀ tvā ǀ nṛ-mánāḥ ǀ ap-sú ǀ antáḥ ǀ nṛ-cákṣāḥ ǀ īdhe ǀ diváḥ ǀ agne ǀ ū́dhan ǀ
    tṛtī́ye ǀ tvā ǀ rájasi ǀ tasthi-vā́ṃsam ǀ apā́m ǀ upá-sthe ǀ mahiṣā́ḥ ǀ avardhan ǁ

    samudre ǀ tvā ǀ nṛ-manāḥ ǀ ap-su ǀ antaḥ ǀ nṛ-cakṣāḥ ǀ īdhe ǀ divaḥ ǀ agne ǀ ūdhan ǀ
    tṛtīye ǀ tvā ǀ rajasi ǀ tasthi-vāṃsam ǀ apām ǀ upa-sthe ǀ mahiṣāḥ ǀ avardhan ǁ

    10.45.3 Aṣṭaka 7.8.28.3Anuvāka 10.4.25

  4. Ṛk 4

    अक्रं॑दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ समं॒जन् ।
    स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्यं॒तः ॥

    अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् |
    सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ||

    ákrandadagníḥ stanáyanniva dyáuḥ kṣā́mā rérihadvīrúdhaḥ samañján ǀ
    sadyó jajñānó ví hī́middhó ákhyadā́ ródasī bhānúnā bhātyantáḥ ǁ

    akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan |
    sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ ||

    अक्र॑न्दत् । अ॒ग्निः । स्त॒नय॑न्ऽइव । द्यौः । क्षाम॑ । रेरि॑हत् । वी॒रुधः॑ । स॒म्ऽअ॒ञ्जन् ।
    स॒द्यः । ज॒ज्ञा॒नः । वि । हि । ई॒म् । इ॒द्धः । अख्य॑त् । आ । रोद॑सी॒ इति॑ । भा॒नुना॑ । भा॒ति॒ । अ॒न्तरिति॑ ॥

    अक्रन्दत् । अग्निः । स्तनयन्ऽइव । द्यौः । क्षाम । रेरिहत् । वीरुधः । सम्ऽअञ्जन् ।
    सद्यः । जज्ञानः । वि । हि । ईम् । इद्धः । अख्यत् । आ । रोदसी इति । भानुना । भाति । अन्तरिति ॥

    ákrandat ǀ agníḥ ǀ stanáyan-iva ǀ dyáuḥ ǀ kṣā́ma ǀ rérihat ǀ vīrúdhaḥ ǀ sam-añján ǀ
    sadyáḥ ǀ jajñānáḥ ǀ ví ǀ hí ǀ īm ǀ iddháḥ ǀ ákhyat ǀ ā́ ǀ ródasī íti ǀ bhānúnā ǀ bhāti ǀ antáríti ǁ

    akrandat ǀ agniḥ ǀ stanayan-iva ǀ dyauḥ ǀ kṣāma ǀ rerihat ǀ vīrudhaḥ ǀ sam-añjan ǀ
    sadyaḥ ǀ jajñānaḥ ǀ vi ǀ hi ǀ īm ǀ iddhaḥ ǀ akhyat ǀ ā ǀ rodasī iti ǀ bhānunā ǀ bhāti ǀ antariti ǁ

    10.45.4 Aṣṭaka 7.8.28.4Anuvāka 10.4.26

  5. Ṛk 5

    श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः ।
    वसुः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ॥

    श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः |
    वसुः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः ||

    śrīṇā́mudāró dharúṇo rayīṇā́m manīṣā́ṇām prā́rpaṇaḥ sómagopāḥ ǀ
    vásuḥ sūnúḥ sáhaso apsú rā́jā ví bhātyágra uṣásāmidhānáḥ ǁ

    śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ |
    vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ ||

    श्री॒णाम् । उ॒त्ऽआ॒रः । ध॒रुणः॑ । र॒यी॒णाम् । म॒नी॒षाणा॑म् । प्र॒ऽअर्प॑णः । सोम॑ऽगोपाः ।
    वसुः॑ । सू॒नुः । सह॑सः । अ॒प्ऽसु । राजा॑ । वि । भा॒ति॒ । अग्रे॑ । उ॒षसा॑म् । इ॒धा॒नः ॥

    श्रीणाम् । उत्ऽआरः । धरुणः । रयीणाम् । मनीषाणाम् । प्रऽअर्पणः । सोमऽगोपाः ।
    वसुः । सूनुः । सहसः । अप्ऽसु । राजा । वि । भाति । अग्रे । उषसाम् । इधानः ॥

    śrīṇā́m ǀ ut-āráḥ ǀ dharúṇaḥ ǀ rayīṇā́m ǀ manīṣā́ṇām ǀ pra-árpaṇaḥ ǀ sóma-gopāḥ ǀ
    vásuḥ ǀ sūnúḥ ǀ sáhasaḥ ǀ ap-sú ǀ rā́jā ǀ ví ǀ bhāti ǀ ágre ǀ uṣásām ǀ idhānáḥ ǁ

    śrīṇām ǀ ut-āraḥ ǀ dharuṇaḥ ǀ rayīṇām ǀ manīṣāṇām ǀ pra-arpaṇaḥ ǀ soma-gopāḥ ǀ
    vasuḥ ǀ sūnuḥ ǀ sahasaḥ ǀ ap-su ǀ rājā ǀ vi ǀ bhāti ǀ agre ǀ uṣasām ǀ idhānaḥ ǁ

    10.45.5 Aṣṭaka 7.8.28.5Anuvāka 10.4.27

  6. Ṛk 6

    विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ।
    वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यंजना॒ यद॒ग्निमय॑जंत॒ पंच॑ ॥

    विश्वस्य केतुर् भुवनस्य गर्भ आ रोदसी अपृणाज् जायमानः |
    वीऌउं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ||

    víśvasya ketúrbhúvanasya gárbha ā́ ródasī apṛṇājjā́yamānaḥ ǀ
    vīḷúm cidádrimabhinatparāyáñjánā yádagnímáyajanta páñca ǁ

    viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ |
    vīḷuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca ||

    विश्व॑स्य । के॒तुः । भुव॑नस्य । गर्भः॑ । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ।
    वी॒ळुम् । चि॒त् । अद्रि॑म् । अ॒भि॒न॒त् । प॒रा॒ऽयन् । जनाः॑ । यत् । अ॒ग्निम् । अय॑जन्त । पञ्च॑ ॥

    विश्वस्य । केतुः । भुवनस्य । गर्भः । आ । रोदसी इति । अपृणात् । जायमानः ।
    वीळुम् । चित् । अद्रिम् । अभिनत् । पराऽयन् । जनाः । यत् । अग्निम् । अयजन्त । पञ्च ॥

    víśvasya ǀ ketúḥ ǀ bhúvanasya ǀ gárbhaḥ ǀ ā́ ǀ ródasī íti ǀ apṛṇāt ǀ jā́yamānaḥ ǀ
    vīḷúm ǀ cit ǀ ádrim ǀ abhinat ǀ parā-yán ǀ jánāḥ ǀ yát ǀ agním ǀ áyajanta ǀ páñca ǁ

    viśvasya ǀ ketuḥ ǀ bhuvanasya ǀ garbhaḥ ǀ ā ǀ rodasī iti ǀ apṛṇāt ǀ jāyamānaḥ ǀ
    vīḷum ǀ cit ǀ adrim ǀ abhinat ǀ parā-yan ǀ janāḥ ǀ yat ǀ agnim ǀ ayajanta ǀ pañca ǁ

    10.45.6 Aṣṭaka 7.8.28.6Anuvāka 10.4.28

  7. Ṛk 7

    उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।
    इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥

    उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो नि धायि |
    इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ||

    uśíkpāvakó aratíḥ sumedhā́ márteṣvagníramṛ́to ní dhāyi ǀ
    íyarti dhūmámaruṣám bháribhradúcchukréṇa śocíṣā dyā́mínakṣan ǁ

    uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi |
    iyarti dhūmam aruṣam bharibhrad uc chukreṇa śociṣā dyām inakṣan ||

    उ॒शिक् । पा॒व॒कः । अ॒र॒तिः । सु॒ऽमे॒धाः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ ।
    इय॑र्ति । धू॒मम् । अ॒रु॒षम् । भरि॑भ्रत् । उत् । शु॒क्रेण॑ । शो॒चिषा॑ । द्याम् । इन॑क्षन् ॥

    उशिक् । पावकः । अरतिः । सुऽमेधाः । मर्तेषु । अग्निः । अमृतः । नि । धायि ।
    इयर्ति । धूमम् । अरुषम् । भरिभ्रत् । उत् । शुक्रेण । शोचिषा । द्याम् । इनक्षन् ॥

    uśík ǀ pāvakáḥ ǀ aratíḥ ǀ su-medhā́ḥ ǀ márteṣu ǀ agníḥ ǀ amṛ́taḥ ǀ ní ǀ dhāyi ǀ
    íyarti ǀ dhūmám ǀ aruṣám ǀ bháribhrat ǀ út ǀ śukréṇa ǀ śocíṣā ǀ dyā́m ǀ ínakṣan ǁ

    uśik ǀ pāvakaḥ ǀ aratiḥ ǀ su-medhāḥ ǀ marteṣu ǀ agniḥ ǀ amṛtaḥ ǀ ni ǀ dhāyi ǀ
    iyarti ǀ dhūmam ǀ aruṣam ǀ bharibhrat ǀ ut ǀ śukreṇa ǀ śociṣā ǀ dyām ǀ inakṣan ǁ

    10.45.7 Aṣṭaka 7.8.29.1Anuvāka 10.4.29

  8. Ṛk 8

    दृ॒शा॒नो रु॒क्म उ॑र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः ।
    अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौर्ज॒नय॑त्सु॒रेताः॑ ॥

    दृशानो रुक्म उर्विया व्य् अद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः |
    अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ||

    dṛśānó rukmá urviyā́ vyádyauddurmárṣamā́yuḥ śriyé rucānáḥ ǀ
    agníramṛ́to abhavadváyobhiryádenam dyáurjanáyatsurétāḥ ǁ

    dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ |
    agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ ||

    दृ॒शा॒नः । रु॒क्मः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । दुः॒ऽमर्ष॑म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः ।
    अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयः॑ऽभिः । यत् । ए॒न॒म् । द्यौः । ज॒नय॑त् । सु॒ऽरेताः॑ ॥

    दृशानः । रुक्मः । उर्विया । वि । अद्यौत् । दुःऽमर्षम् । आयुः । श्रिये । रुचानः ।
    अग्निः । अमृतः । अभवत् । वयःऽभिः । यत् । एनम् । द्यौः । जनयत् । सुऽरेताः ॥

    dṛśānáḥ ǀ rukmáḥ ǀ urviyā́ ǀ ví ǀ adyaut ǀ duḥ-márṣam ǀ ā́yuḥ ǀ śriyé ǀ rucānáḥ ǀ
    agníḥ ǀ amṛ́taḥ ǀ abhavat ǀ váyaḥ-bhiḥ ǀ yát ǀ enam ǀ dyáuḥ ǀ janáyat ǀ su-rétāḥ ǁ

    dṛśānaḥ ǀ rukmaḥ ǀ urviyā ǀ vi ǀ adyaut ǀ duḥ-marṣam ǀ āyuḥ ǀ śriye ǀ rucānaḥ ǀ
    agniḥ ǀ amṛtaḥ ǀ abhavat ǀ vayaḥ-bhiḥ ǀ yat ǀ enam ǀ dyauḥ ǀ janayat ǀ su-retāḥ ǁ

    10.45.8 Aṣṭaka 7.8.29.2Anuvāka 10.4.30

  9. Ṛk 9

    यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तवं॑तमग्ने ।
    प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥

    यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने |
    प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ||

    yáste adyá kṛṇávadbhadraśoce’pūpám deva ghṛtávantamagne ǀ
    prá tám naya pratarám vásyo ácchābhí sumnám devábhaktam yaviṣṭha ǁ

    yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne |
    pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha ||

    यः । ते॒ । अ॒द्य । कृ॒णव॑त् । भ॒द्र॒ऽशो॒चे॒ । अ॒पू॒पम् । दे॒व॒ । घृ॒तऽव॑न्तम् । अ॒ग्ने॒ ।
    प्र । तम् । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ । अ॒भि । सु॒म्नम् । दे॒वऽभ॑क्तम् । य॒वि॒ष्ठ॒ ॥

    यः । ते । अद्य । कृणवत् । भद्रऽशोचे । अपूपम् । देव । घृतऽवन्तम् । अग्ने ।
    प्र । तम् । नय । प्रऽतरम् । वस्यः । अच्छ । अभि । सुम्नम् । देवऽभक्तम् । यविष्ठ ॥

    yáḥ ǀ te ǀ adyá ǀ kṛṇávat ǀ bhadra-śoce ǀ apūpám ǀ deva ǀ ghṛtá-vantam ǀ agne ǀ
    prá ǀ tám ǀ naya ǀ pra-tarám ǀ vásyaḥ ǀ áccha ǀ abhí ǀ sumnám ǀ devá-bhaktam ǀ yaviṣṭha ǁ

    yaḥ ǀ te ǀ adya ǀ kṛṇavat ǀ bhadra-śoce ǀ apūpam ǀ deva ǀ ghṛta-vantam ǀ agne ǀ
    pra ǀ tam ǀ naya ǀ pra-taram ǀ vasyaḥ ǀ accha ǀ abhi ǀ sumnam ǀ deva-bhaktam ǀ yaviṣṭha ǁ

    10.45.9 Aṣṭaka 7.8.29.3Anuvāka 10.4.31

  10. Ṛk 10

    आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थौ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
    प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥

    आ तम् भज सौश्रवसेष्व् अग्न उक्थ-उक्थ आ भज शस्यमाने |
    प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ||

    ā́ tám bhaja sauśravaséṣvagna uktháuktha ā́ bhaja śasyámāne ǀ
    priyáḥ sū́rye priyó agnā́ bhavātyújjāténa bhinádadújjánitvaiḥ ǁ

    ā tam bhaja sauśravaseṣv agna uktha-uktha ā bhaja śasyamāne |
    priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ ||

    आ । तम् । भ॒ज॒ । सौ॒श्र॒व॒सेषु॑ । अ॒ग्ने॒ । उ॒क्थेऽउ॑क्थे । आ । भ॒ज॒ । श॒स्यमा॑ने ।
    प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । उत् । जा॒तेन॑ । भि॒नद॑त् । उत् । जनि॑ऽत्वैः ॥

    आ । तम् । भज । सौश्रवसेषु । अग्ने । उक्थेऽउक्थे । आ । भज । शस्यमाने ।
    प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । उत् । जातेन । भिनदत् । उत् । जनिऽत्वैः ॥

    ā́ ǀ tám ǀ bhaja ǀ sauśravaséṣu ǀ agne ǀ ukthé-ukthe ǀ ā́ ǀ bhaja ǀ śasyámāne ǀ
    priyáḥ ǀ sū́rye ǀ priyáḥ ǀ agnā́ ǀ bhavāti ǀ út ǀ jāténa ǀ bhinádat ǀ út ǀ jáni-tvaiḥ ǁ

    ā ǀ tam ǀ bhaja ǀ sauśravaseṣu ǀ agne ǀ ukthe-ukthe ǀ ā ǀ bhaja ǀ śasyamāne ǀ
    priyaḥ ǀ sūrye ǀ priyaḥ ǀ agnā ǀ bhavāti ǀ ut ǀ jātena ǀ bhinadat ǀ ut ǀ jani-tvaiḥ ǁ

    10.45.10 Aṣṭaka 7.8.29.4Anuvāka 10.4.32

  11. Ṛk 11

    त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि ।
    त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥

    त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसु दधिरे वार्याणि |
    त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ||

    tvā́magne yájamānā ánu dyū́nvíśvā vásu dadhire vā́ryāṇi ǀ
    tváyā sahá dráviṇamicchámānā vrajám gómantamuśíjo ví vavruḥ ǁ

    tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi |
    tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ ||

    त्वाम् । अ॒ग्ने॒ । यज॑मानाः । अनु॑ । द्यून् । विश्वा॑ । वसु॑ । द॒धि॒रे॒ । वार्या॑णि ।
    त्वया॑ । स॒ह । द्रवि॑णम् । इ॒च्छमा॑नाः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥

    त्वाम् । अग्ने । यजमानाः । अनु । द्यून् । विश्वा । वसु । दधिरे । वार्याणि ।
    त्वया । सह । द्रविणम् । इच्छमानाः । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुः ॥

    tvā́m ǀ agne ǀ yájamānāḥ ǀ ánu ǀ dyū́n ǀ víśvā ǀ vásu ǀ dadhire ǀ vā́ryāṇi ǀ
    tváyā ǀ sahá ǀ dráviṇam ǀ icchámānāḥ ǀ vrajám ǀ gó-mantam ǀ uśíjaḥ ǀ ví ǀ vavruḥ ǁ

    tvām ǀ agne ǀ yajamānāḥ ǀ anu ǀ dyūn ǀ viśvā ǀ vasu ǀ dadhire ǀ vāryāṇi ǀ
    tvayā ǀ saha ǀ draviṇam ǀ icchamānāḥ ǀ vrajam ǀ go-mantam ǀ uśijaḥ ǀ vi ǀ vavruḥ ǁ

    10.45.11 Aṣṭaka 7.8.29.5Anuvāka 10.4.33

  12. Ṛk 12

    अस्ता॑व्य॒ग्निर्न॒रां सु॒शेवो॑ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः ।
    अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीरं॑ ॥

    अस्ताव्य् अग्निर् नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः |
    अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ||

    ástāvyagnírnarā́m suśévo vaiśvānará ṛ́ṣibhiḥ sómagopāḥ ǀ
    adveṣé dyā́vāpṛthivī́ huvema dévā dhattá rayímasmé suvī́ram ǁ

    astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ |
    adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram ||

    अस्ता॑वि । अ॒ग्निः । न॒राम् । सु॒ऽशेवः॑ । वै॒श्वा॒न॒रः । ऋषि॑ऽभिः । सोम॑ऽगोपाः ।
    अ॒द्वे॒षे इति॑ । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥

    अस्तावि । अग्निः । नराम् । सुऽशेवः । वैश्वानरः । ऋषिऽभिः । सोमऽगोपाः ।
    अद्वेषे इति । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सुऽवीरम् ॥

    ástāvi ǀ agníḥ ǀ narā́m ǀ su-śévaḥ ǀ vaiśvānaráḥ ǀ ṛ́ṣi-bhiḥ ǀ sóma-gopāḥ ǀ
    adveṣé íti ǀ dyā́vāpṛthivī́ íti ǀ huvema ǀ dévāḥ ǀ dhattá ǀ rayím ǀ asmé íti ǀ su-vī́ram ǁ

    astāvi ǀ agniḥ ǀ narām ǀ su-śevaḥ ǀ vaiśvānaraḥ ǀ ṛṣi-bhiḥ ǀ soma-gopāḥ ǀ
    adveṣe iti ǀ dyāvāpṛthivī iti ǀ huvema ǀ devāḥ ǀ dhatta ǀ rayim ǀ asme iti ǀ su-vīram ǁ

    10.45.12 Aṣṭaka 7.8.29.6Anuvāka 10.4.34

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.45 · Agni

Interpretations

Ralph T. H. Griffith

Ṛk 1

FIRST Agni sprang to life from out of Heaven: the second time from us came Jātavedas. Thirdly the Manly-souled was in the waters. The pious lauds and kindles him the Eternal.

Ṛk 2

Agni, we know thy three powers in three stations, we know thy forms in many a place divided. We know what name supreme thou hast in secret: we know the source from which thou hast proceeded.

Ṛk 3

The Manly-souled lit thee in sea and waters, man's Viewer lit thee in the breast of heaven, There as thou stoodest in the third high region the Steers increased thee in the water's bosom.

Ṛk 4

Agni roared out, like Dyaus what time he thunders: he licked the ground about the plants he flickered. At once, when born, he looked around enkindled, and lightened heaven and earth within with splendour.

Ṛk 5

The spring of glories and support of riches, rouser of thoughts and guardian of the Soma, Good Son of Strength, a King amid the waters, in forefront of the Dawns he shines enkindled.

Ṛk 6

Germ of the world, ensign of all creation, be sprang to life and filled the earth and heavens. Even the firm rock he cleft when passing over, when the Five Tribes brought sacrifice to Agni.

Ṛk 7

So among mortals was Immortal Agni stablished as holy wise and willing envoy. He waves the red smoke that he lifts above him, striving to reach the heavens with radiant lustre.

Ṛk 8

Like gold to look on, far he shone refulgent, beaming imperishable life for glory, Agni by vital powers became immortal when his prolific Father Dyaus begat him.

Ṛk 9

Whoso this day, O God whose flames are lovely, prepares a cake, O Agni, mixt with butter, Lead thou and further him to higher fortune, to bliss bestowed by Gods, O thou Most Youthful.

Ṛk 10

Endow him, Agni, with a share of glory, at every song of praise sung forth enrich him. Dear let him be to Sūrya, dear to Agni, preeminent with son and children's children.

Ṛk 11

While, Agni, day by day men pay thee worship they win themselves all treasures worth the wishing. Allied with thee, eager and craving riches, they have disclosed the stable filled with cattle.