Ṛgveda · Maṇḍala 10 · Sūkta 45
Ṛk 10.45.4
Saṃhitā
अक्रं॑दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ समं॒जन् ।
स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्यं॒तः ॥
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् |
सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ||
ákrandadagníḥ stanáyanniva dyáuḥ kṣā́mā rérihadvīrúdhaḥ samañján ǀ
sadyó jajñānó ví hī́middhó ákhyadā́ ródasī bhānúnā bhātyantáḥ ǁ
akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan |
sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ ||
Padapāṭha
अक्र॑न्दत् । अ॒ग्निः । स्त॒नय॑न्ऽइव । द्यौः । क्षाम॑ । रेरि॑हत् । वी॒रुधः॑ । स॒म्ऽअ॒ञ्जन् ।
स॒द्यः । ज॒ज्ञा॒नः । वि । हि । ई॒म् । इ॒द्धः । अख्य॑त् । आ । रोद॑सी॒ इति॑ । भा॒नुना॑ । भा॒ति॒ । अ॒न्तरिति॑ ॥
अक्रन्दत् । अग्निः । स्तनयन्ऽइव । द्यौः । क्षाम । रेरिहत् । वीरुधः । सम्ऽअञ्जन् ।
सद्यः । जज्ञानः । वि । हि । ईम् । इद्धः । अख्यत् । आ । रोदसी इति । भानुना । भाति । अन्तरिति ॥
ákrandat ǀ agníḥ ǀ stanáyan-iva ǀ dyáuḥ ǀ kṣā́ma ǀ rérihat ǀ vīrúdhaḥ ǀ sam-añján ǀ
sadyáḥ ǀ jajñānáḥ ǀ ví ǀ hí ǀ īm ǀ iddháḥ ǀ ákhyat ǀ ā́ ǀ ródasī íti ǀ bhānúnā ǀ bhāti ǀ antáríti ǁ
akrandat ǀ agniḥ ǀ stanayan-iva ǀ dyauḥ ǀ kṣāma ǀ rerihat ǀ vīrudhaḥ ǀ sam-añjan ǀ
sadyaḥ ǀ jajñānaḥ ǀ vi ǀ hi ǀ īm ǀ iddhaḥ ǀ akhyat ǀ ā ǀ rodasī iti ǀ bhānunā ǀ bhāti ǀ antariti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.045.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.28.04
- Maṇḍala · Anuvāka · Ṛk
- 10.04.026
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vatsaprī Bhālandana
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.