Sūkta 36
- Devatā देवता
- 1: Aryaman, Ādityās, Indra, Uṣas, Divaḥ, Night, Pṛthivī, Mitra, Varuṇa, Viśvedevās; 2: Divaḥ, Pṛthivī, Viśvedevās; 3: Aditi, Viśvedevās; 4: Aditi, Maruts, Viśvedevās; 5: Iḷā, Indra, Bṛhaspati, Viśvedevās; 6: Aśvins, Viśvedevās; 7: Maruts, Viśvedevās; 8-11: Viśvedevās; 12: Agni, Mitra, Varuṇa, Viśvedevās, Savitṛ; 13: Mitra, Varuṇa, Viśvedevās, Savitṛ; 14: Viśvedevās, Savitṛ
- Ṛṣi ऋषि
- Luśa Dhānāka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (1, 2, 4, 6-8, 11); jagatī (5, 9, 10); virāḍjagatī (3); pādanicṛjjgatī (12); triṣṭup (13); svarāṭtriṣṭup (14)
2nd set of styles jagatī (1-12); triṣṭubh (13, 14)
-
Ṛk 1
उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
इंद्रं॑ हुवे म॒रुतः॒ पर्व॑ताँ अ॒प आ॑दि॒त्यांद्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा |
इन्द्रं हुवे मरुतः पर्वतां अप आदित्यान् द्यावापृथिवी अपः स्वः ||uṣā́sānáktā bṛhatī́ supéśasā dyā́vākṣā́mā váruṇo mitró aryamā́ ǀ
índram huve marútaḥ párvatām̐ apá ādityā́ndyā́vāpṛthivī́ apáḥ sváḥ ǁuṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā |
indraṃ huve marutaḥ parvatāṃ apa ādityān dyāvāpṛthivī apaḥ svaḥ ||उ॒षसा॒नक्ता॑ । बृ॒ह॒ती इति॑ । सु॒ऽपेश॑सा । द्यावा॒क्षामा॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
इन्द्र॑म् । हु॒वे॒ । म॒रुतः॑ । पर्व॑तान् । अ॒पः । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्व१॒॑रिति॑ स्वः॑ ॥उषसानक्ता । बृहती इति । सुऽपेशसा । द्यावाक्षामा । वरुणः । मित्रः । अर्यमा ।
इन्द्रम् । हुवे । मरुतः । पर्वतान् । अपः । आदित्यान् । द्यावापृथिवी इति । अपः । स्वरिति स्वः ॥uṣásānáktā ǀ bṛhatī́ íti ǀ su-péśasā ǀ dyā́vākṣā́mā ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
índram ǀ huve ǀ marútaḥ ǀ párvatān ǀ apáḥ ǀ ādityā́n ǀ dyā́vāpṛthivī́ íti ǀ apáḥ ǀ sváríti sváḥ ǁuṣasānaktā ǀ bṛhatī iti ǀ su-peśasā ǀ dyāvākṣāmā ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
indram ǀ huve ǀ marutaḥ ǀ parvatān ǀ apaḥ ǀ ādityān ǀ dyāvāpṛthivī iti ǀ apaḥ ǀ svariti svaḥ ǁ10.36.1 Aṣṭaka 7.8.9.1Anuvāka 10.3.73
-
Ṛk 2
द्यौश्च॑ नः पृथि॒वी च॒ प्रचे॑तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः ।
मा दु॑र्वि॒दत्रा॒ निर्ऋ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥द्यौश् च नः पृथिवी च प्रचेतस ऋतावरी रक्षताम् अंहसो रिषः |
मा दुर्विदत्रा निरृतिर् न ईशत तद् देवानाम् अवो अद्या वृणीमहे ||dyáuśca naḥ pṛthivī́ ca prácetasa ṛtā́varī rakṣatāmáṃhaso riṣáḥ ǀ
mā́ durvidátrā nírṛtirna īśata táddevā́nāmávo adyā́ vṛṇīmahe ǁdyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ |
mā durvidatrā nirṛtir na īśata tad devānām avo adyā vṛṇīmahe ||द्यौः । च॒ । नः॒ । पृ॒थि॒वी । च॒ । प्रऽचे॑तसा । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । र॒क्ष॒ता॒म् । अंह॑सः । रि॒षः ।
मा । दुः॒ऽवि॒दत्रा॑ । निःऽऋ॑तिः । नः॒ । ई॒श॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥द्यौः । च । नः । पृथिवी । च । प्रऽचेतसा । ऋतवरी इत्यृतऽवरी । रक्षताम् । अंहसः । रिषः ।
मा । दुःऽविदत्रा । निःऽऋतिः । नः । ईशत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥dyáuḥ ǀ ca ǀ naḥ ǀ pṛthivī́ ǀ ca ǀ prá-cetasā ǀ ṛtávarī ítyṛtá-varī ǀ rakṣatām ǀ áṃhasaḥ ǀ riṣáḥ ǀ
mā́ ǀ duḥ-vidátrā ǀ níḥ-ṛtiḥ ǀ naḥ ǀ īśata ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁdyauḥ ǀ ca ǀ naḥ ǀ pṛthivī ǀ ca ǀ pra-cetasā ǀ ṛtavarī ityṛta-varī ǀ rakṣatām ǀ aṃhasaḥ ǀ riṣaḥ ǀ
mā ǀ duḥ-vidatrā ǀ niḥ-ṛtiḥ ǀ naḥ ǀ īśata ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.2 Aṣṭaka 7.8.9.2Anuvāka 10.3.74
-
Ṛk 3
विश्व॑स्मान्नो॒ अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वतः॑ ।
स्व॑र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥विश्वस्मान् नो अदितिः पात्व् अंहसो माता मित्रस्य वरुणस्य रेवतः |
स्वर्वज् ज्योतिर् अवृकं नशीमहि तद् देवानाम् अवो अद्या वृणीमहे ||víśvasmānno áditiḥ pātváṃhaso mātā́ mitrásya váruṇasya revátaḥ ǀ
svárvajjyótiravṛkám naśīmahi táddevā́nāmávo adyā́ vṛṇīmahe ǁviśvasmān no aditiḥ pātv aṃhaso mātā mitrasya varuṇasya revataḥ |
svarvaj jyotir avṛkaṃ naśīmahi tad devānām avo adyā vṛṇīmahe ||विश्व॑स्मात् । नः॒ । अदि॑तिः । पा॒तु॒ । अंह॑सः । मा॒ता । मि॒त्रस्य॑ । वरु॑णस्य । रे॒वतः॑ ।
स्वः॑ऽवत् । ज्योतिः॑ । अ॒वृ॒कम् । न॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥विश्वस्मात् । नः । अदितिः । पातु । अंहसः । माता । मित्रस्य । वरुणस्य । रेवतः ।
स्वःऽवत् । ज्योतिः । अवृकम् । नशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥víśvasmāt ǀ naḥ ǀ áditiḥ ǀ pātu ǀ áṃhasaḥ ǀ mātā́ ǀ mitrásya ǀ váruṇasya ǀ revátaḥ ǀ
sváḥ-vat ǀ jyótiḥ ǀ avṛkám ǀ naśīmahi ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁviśvasmāt ǀ naḥ ǀ aditiḥ ǀ pātu ǀ aṃhasaḥ ǀ mātā ǀ mitrasya ǀ varuṇasya ǀ revataḥ ǀ
svaḥ-vat ǀ jyotiḥ ǀ avṛkam ǀ naśīmahi ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.3 Aṣṭaka 7.8.9.3Anuvāka 10.3.75
-
Ṛk 4
ग्रावा॒ वद॒न्नप॒ रक्षां॑सि सेधतु दु॒ष्ष्वप्न्यं॒ निर्ऋ॑तिं॒ विश्व॑म॒त्रिणं॑ ।
आ॒दि॒त्यं शर्म॑ म॒रुता॑मशीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥ग्रावा वदन्न् अप रक्षांसि सेधतु दुष्ष्वप्न्यं निरृतिं विश्वम् अत्रिणम् |
आदित्यं शर्म मरुताम् अशीमहि तद् देवानाम् अवो अद्या वृणीमहे ||grā́vā vádannápa rákṣāṃsi sedhatu duṣṣvápnyam nírṛtim víśvamatríṇam ǀ
ādityám śárma marútāmaśīmahi táddevā́nāmávo adyā́ vṛṇīmahe ǁgrāvā vadann apa rakṣāṃsi sedhatu duṣṣvapnyaṃ nirṛtiṃ viśvam atriṇam |
ādityaṃ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe ||ग्रावा॑ । वद॑न् । अप॑ । रक्षां॑सि । से॒ध॒तु॒ । दुः॒ऽस्वप्न्य॑म् । निःऽऋ॑तिम् । विश्व॑म् । अ॒त्रिण॑म् ।
आ॒दि॒त्यम् । शर्म॑ । म॒रुता॑म् । अ॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ग्रावा । वदन् । अप । रक्षांसि । सेधतु । दुःऽस्वप्न्यम् । निःऽऋतिम् । विश्वम् । अत्रिणम् ।
आदित्यम् । शर्म । मरुताम् । अशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥grā́vā ǀ vádan ǀ ápa ǀ rákṣāṃsi ǀ sedhatu ǀ duḥ-svápnyam ǀ níḥ-ṛtim ǀ víśvam ǀ atríṇam ǀ
ādityám ǀ śárma ǀ marútām ǀ aśīmahi ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁgrāvā ǀ vadan ǀ apa ǀ rakṣāṃsi ǀ sedhatu ǀ duḥ-svapnyam ǀ niḥ-ṛtim ǀ viśvam ǀ atriṇam ǀ
ādityam ǀ śarma ǀ marutām ǀ aśīmahi ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.4 Aṣṭaka 7.8.9.4Anuvāka 10.3.76
-
Ṛk 5
एंद्रो॑ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पतिः॒ साम॑भिर्ऋ॒क्वो अ॑र्चतु ।
सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥एन्द्रो बर्हिः सीदतु पिन्वताम् इऌआ बृहस्पतिः सामभिर् ऋक्वो अर्चतु |
सुप्रकेतं जीवसे मन्म धीमहि तद् देवानाम् अवो अद्या वृणीमहे ||éndro barhíḥ sī́datu pínvatāmíḷā bṛ́haspátiḥ sā́mabhirṛkvó arcatu ǀ
supraketám jīváse mánma dhīmahi táddevā́nāmávo adyā́ vṛṇīmahe ǁendro barhiḥ sīdatu pinvatām iḷā bṛhaspatiḥ sāmabhir ṛkvo arcatu |
supraketaṃ jīvase manma dhīmahi tad devānām avo adyā vṛṇīmahe ||आ । इन्द्रः॑ । ब॒र्हिः । सीद॑तु । पिन्व॑ताम् । इळा॑ । बृह॒स्पतिः॑ । साम॑ऽभिः । ऋ॒क्वः । अ॒र्च॒तु॒ ।
सु॒ऽप्र॒के॒तम् । जी॒वसे॑ । मन्म॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥आ । इन्द्रः । बर्हिः । सीदतु । पिन्वताम् । इळा । बृहस्पतिः । सामऽभिः । ऋक्वः । अर्चतु ।
सुऽप्रकेतम् । जीवसे । मन्म । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥ā́ ǀ índraḥ ǀ barhíḥ ǀ sī́datu ǀ pínvatām ǀ íḷā ǀ bṛ́haspátiḥ ǀ sā́ma-bhiḥ ǀ ṛkváḥ ǀ arcatu ǀ
su-praketám ǀ jīváse ǀ mánma ǀ dhīmahi ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁā ǀ indraḥ ǀ barhiḥ ǀ sīdatu ǀ pinvatām ǀ iḷā ǀ bṛhaspatiḥ ǀ sāma-bhiḥ ǀ ṛkvaḥ ǀ arcatu ǀ
su-praketam ǀ jīvase ǀ manma ǀ dhīmahi ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.5 Aṣṭaka 7.8.9.5Anuvāka 10.3.77
-
Ṛk 6
दि॒वि॒स्पृशं॑ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये॑ ।
प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥दिविस्पृशं यज्ञम् अस्माकम् अश्विना जीराध्वरं कृणुतं सुम्नम् इष्टये |
प्राचीनरश्मिम् आहुतं घृतेन तद् देवानाम् अवो अद्या वृणीमहे ||divispṛ́śam yajñámasmā́kamaśvinā jīrā́dhvaram kṛṇutam sumnámiṣṭáye ǀ
prācī́naraśmimā́hutam ghṛténa táddevā́nāmávo adyā́ vṛṇīmahe ǁdivispṛśaṃ yajñam asmākam aśvinā jīrādhvaraṃ kṛṇutaṃ sumnam iṣṭaye |
prācīnaraśmim āhutaṃ ghṛtena tad devānām avo adyā vṛṇīmahe ||दि॒वि॒ऽस्पृश॑म् । य॒ज्ञम् । अ॒स्माक॑म् । अ॒श्वि॒ना॒ । जी॒रऽअ॑ध्वरम् । कृ॒णु॒त॒म् । सु॒म्नम् । इ॒ष्टये॑ ।
प्रा॒चीन॑ऽरश्मिम् । आऽहु॑तम् । घृ॒तेन॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥दिविऽस्पृशम् । यज्ञम् । अस्माकम् । अश्विना । जीरऽअध्वरम् । कृणुतम् । सुम्नम् । इष्टये ।
प्राचीनऽरश्मिम् । आऽहुतम् । घृतेन । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥divi-spṛ́śam ǀ yajñám ǀ asmā́kam ǀ aśvinā ǀ jīrá-adhvaram ǀ kṛṇutam ǀ sumnám ǀ iṣṭáye ǀ
prācī́na-raśmim ǀ ā́-hutam ǀ ghṛténa ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁdivi-spṛśam ǀ yajñam ǀ asmākam ǀ aśvinā ǀ jīra-adhvaram ǀ kṛṇutam ǀ sumnam ǀ iṣṭaye ǀ
prācīna-raśmim ǀ ā-hutam ǀ ghṛtena ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.6 Aṣṭaka 7.8.10.1Anuvāka 10.3.78
-
Ṛk 7
उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा॑व॒कमृ॒ष्वं स॒ख्याय॑ शं॒भुवं॑ ।
रा॒यस्पोषं॑ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥उप ह्वये सुहवम् मारुतं गणम् पावकम् ऋष्वं सख्याय शम्भुवम् |
रायस् पोषं सौश्रवसाय धीमहि तद् देवानाम् अवो अद्या वृणीमहे ||úpa hvaye suhávam mā́rutam gaṇám pāvakámṛṣvám sakhyā́ya śambhúvam ǀ
rāyáspóṣam sauśravasā́ya dhīmahi táddevā́nāmávo adyā́ vṛṇīmahe ǁupa hvaye suhavam mārutaṃ gaṇam pāvakam ṛṣvaṃ sakhyāya śambhuvam |
rāyas poṣaṃ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe ||उप॑ । ह्व॒ये॒ । सु॒ऽहव॑म् । मारु॑तम् । ग॒णम् । पा॒व॒कम् । ऋ॒ष्वम् । स॒ख्याय॑ । श॒म्ऽभुव॑म् ।
रा॒यः । पोष॑म् । सौ॒श्र॒व॒साय॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥उप । ह्वये । सुऽहवम् । मारुतम् । गणम् । पावकम् । ऋष्वम् । सख्याय । शम्ऽभुवम् ।
रायः । पोषम् । सौश्रवसाय । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥úpa ǀ hvaye ǀ su-hávam ǀ mā́rutam ǀ gaṇám ǀ pāvakám ǀ ṛṣvám ǀ sakhyā́ya ǀ śam-bhúvam ǀ
rāyáḥ ǀ póṣam ǀ sauśravasā́ya ǀ dhīmahi ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁupa ǀ hvaye ǀ su-havam ǀ mārutam ǀ gaṇam ǀ pāvakam ǀ ṛṣvam ǀ sakhyāya ǀ śam-bhuvam ǀ
rāyaḥ ǀ poṣam ǀ sauśravasāya ǀ dhīmahi ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.7 Aṣṭaka 7.8.10.2Anuvāka 10.3.79
-
Ṛk 8
अ॒पां पेरुं॑ जी॒वध॑न्यं भरामहे देवा॒व्यं॑ सु॒हव॑मध्वर॒श्रियं॑ ।
सु॒र॒श्मिं सोम॑मिंद्रि॒यं य॑मीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥अपाम् पेरुं जीवधन्यम् भरामहे देवाव्यं सुहवम् अध्वरश्रियम् |
सुरश्मिं सोमम् इन्द्रियं यमीमहि तद् देवानाम् अवो अद्या वृणीमहे ||apā́m pérum jīvádhanyam bharāmahe devāvyám suhávamadhvaraśríyam ǀ
suraśmím sómamindriyám yamīmahi táddevā́nāmávo adyā́ vṛṇīmahe ǁapām peruṃ jīvadhanyam bharāmahe devāvyaṃ suhavam adhvaraśriyam |
suraśmiṃ somam indriyaṃ yamīmahi tad devānām avo adyā vṛṇīmahe ||अ॒पाम् । पेरु॑म् । जी॒वऽध॑न्यम् । भ॒रा॒म॒हे॒ । दे॒व॒ऽअ॒व्य॑म् । सु॒ऽहव॑म् । अ॒ध्व॒र॒ऽश्रिय॑म् ।
सु॒ऽर॒श्मिम् । सोम॑म् । इ॒न्द्रि॒यम् । य॒मी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥अपाम् । पेरुम् । जीवऽधन्यम् । भरामहे । देवऽअव्यम् । सुऽहवम् । अध्वरऽश्रियम् ।
सुऽरश्मिम् । सोमम् । इन्द्रियम् । यमीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥apā́m ǀ pérum ǀ jīvá-dhanyam ǀ bharāmahe ǀ deva-avyám ǀ su-hávam ǀ adhvara-śríyam ǀ
su-raśmím ǀ sómam ǀ indriyám ǀ yamīmahi ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁapām ǀ perum ǀ jīva-dhanyam ǀ bharāmahe ǀ deva-avyam ǀ su-havam ǀ adhvara-śriyam ǀ
su-raśmim ǀ somam ǀ indriyam ǀ yamīmahi ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.8 Aṣṭaka 7.8.10.3Anuvāka 10.3.80
-
Ṛk 9
स॒नेम॒ तत्सु॑स॒निता॑ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना॑गसः ।
ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो॑ भरेरत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥सनेम तत् सुसनिता सनित्वभिर् वयं जीवा जीवपुत्रा अनागसः |
ब्रह्मद्विषो विष्वग् एनो भरेरत तद् देवानाम् अवो अद्या वृणीमहे ||sanéma tátsusanítā sanítvabhirvayám jīvā́ jīváputrā ánāgasaḥ ǀ
brahmadvíṣo víṣvagéno bharerata táddevā́nāmávo adyā́ vṛṇīmahe ǁsanema tat susanitā sanitvabhir vayaṃ jīvā jīvaputrā anāgasaḥ |
brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe ||स॒नेम॑ । तत् । सु॒ऽस॒निता॑ । स॒नित्व॑ऽभिः । व॒यम् । जी॒वाः । जी॒वऽपु॑त्राः । अना॑गसः ।
ब्र॒ह्म॒ऽद्विषः॑ । विष्व॑क् । एनः॑ । भ॒रे॒र॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥सनेम । तत् । सुऽसनिता । सनित्वऽभिः । वयम् । जीवाः । जीवऽपुत्राः । अनागसः ।
ब्रह्मऽद्विषः । विष्वक् । एनः । भरेरत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥sanéma ǀ tát ǀ su-sanítā ǀ sanítva-bhiḥ ǀ vayám ǀ jīvā́ḥ ǀ jīvá-putrāḥ ǀ ánāgasaḥ ǀ
brahma-dvíṣaḥ ǀ víṣvak ǀ énaḥ ǀ bharerata ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁsanema ǀ tat ǀ su-sanitā ǀ sanitva-bhiḥ ǀ vayam ǀ jīvāḥ ǀ jīva-putrāḥ ǀ anāgasaḥ ǀ
brahma-dviṣaḥ ǀ viṣvak ǀ enaḥ ǀ bharerata ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.9 Aṣṭaka 7.8.10.4Anuvāka 10.3.81
-
Ṛk 10
ये स्था मनो॑र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो॑ देवा॒ ईम॑हे॒ तद्द॑दातन ।
जैत्रं॒ क्रतुं॑ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥ये स्था मनोर् यज्ञियास् ते शृणोतन यद् वो देवा ईमहे तद् ददातन |
जैत्रं क्रतुं रयिमद् वीरवद् यशस् तद् देवानाम् अवो अद्या वृणीमहे ||yé sthā́ mánoryajñíyāsté śṛṇotana yádvo devā ī́mahe táddadātana ǀ
jáitram krátum rayimádvīrávadyáśastáddevā́nāmávo adyā́ vṛṇīmahe ǁye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana |
jaitraṃ kratuṃ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe ||ये । स्थाः । मनोः॑ । य॒ज्ञियाः॑ । ते । शृ॒णो॒त॒न॒ । यत् । वः॒ । दे॒वाः॒ । ईम॑हे । तत् । द॒दा॒त॒न॒ ।
जैत्र॑म् । क्रतु॑म् । र॒यि॒मत् । वी॒रऽव॑त् । यशः॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ये । स्थाः । मनोः । यज्ञियाः । ते । शृणोतन । यत् । वः । देवाः । ईमहे । तत् । ददातन ।
जैत्रम् । क्रतुम् । रयिमत् । वीरऽवत् । यशः । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥yé ǀ sthā́ḥ ǀ mánoḥ ǀ yajñíyāḥ ǀ té ǀ śṛṇotana ǀ yát ǀ vaḥ ǀ devāḥ ǀ ī́mahe ǀ tát ǀ dadātana ǀ
jáitram ǀ krátum ǀ rayimát ǀ vīrá-vat ǀ yáśaḥ ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁye ǀ sthāḥ ǀ manoḥ ǀ yajñiyāḥ ǀ te ǀ śṛṇotana ǀ yat ǀ vaḥ ǀ devāḥ ǀ īmahe ǀ tat ǀ dadātana ǀ
jaitram ǀ kratum ǀ rayimat ǀ vīra-vat ǀ yaśaḥ ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.10 Aṣṭaka 7.8.10.5Anuvāka 10.3.82
-
Ṛk 11
म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो॑ दे॒वानां॑ बृह॒ताम॑न॒र्वणां॑ ।
यथा॒ वसु॑ वी॒रजा॑तं॒ नशा॑महै॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥महद् अद्य महताम् आ वृणीमहे ऽवो देवानाम् बृहताम् अनर्वणाम् |
यथा वसु वीरजातं नशामहै तद् देवानाम् अवो अद्या वृणीमहे ||mahádadyá mahatā́mā́ vṛṇīmahé’vo devā́nām bṛhatā́manarváṇām ǀ
yáthā vásu vīrájātam náśāmahai táddevā́nāmávo adyā́ vṛṇīmahe ǁmahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām |
yathā vasu vīrajātaṃ naśāmahai tad devānām avo adyā vṛṇīmahe ||म॒हत् । अ॒द्य । म॒ह॒ताम् । आ । वृ॒णी॒म॒हे॒ । अवः॑ । दे॒वाना॑म् । बृ॒ह॒ताम् । अ॒न॒र्वणा॑म् ।
यथा॑ । वसु॑ । वी॒रऽजा॑तम् । नशा॑महै । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥महत् । अद्य । महताम् । आ । वृणीमहे । अवः । देवानाम् । बृहताम् । अनर्वणाम् ।
यथा । वसु । वीरऽजातम् । नशामहै । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥mahát ǀ adyá ǀ mahatā́m ǀ ā́ ǀ vṛṇīmahe ǀ ávaḥ ǀ devā́nām ǀ bṛhatā́m ǀ anarváṇām ǀ
yáthā ǀ vásu ǀ vīrá-jātam ǀ náśāmahai ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁmahat ǀ adya ǀ mahatām ǀ ā ǀ vṛṇīmahe ǀ avaḥ ǀ devānām ǀ bṛhatām ǀ anarvaṇām ǀ
yathā ǀ vasu ǀ vīra-jātam ǀ naśāmahai ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.11 Aṣṭaka 7.8.11.1Anuvāka 10.3.83
-
Ṛk 12
म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ ।
श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥महो अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये |
श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो अद्या वृणीमहे ||mahó agnéḥ samidhānásya śármaṇyánāgā mitré váruṇe svastáye ǀ
śréṣṭhe syāma savitúḥ sávīmani táddevā́nāmávo adyā́ vṛṇīmahe ǁmaho agneḥ samidhānasya śarmaṇy anāgā mitre varuṇe svastaye |
śreṣṭhe syāma savituḥ savīmani tad devānām avo adyā vṛṇīmahe ||म॒हः । अ॒ग्नेः । स॒म्ऽइ॒धा॒नस्य॑ । शर्म॑णि । अना॑गाः । मि॒त्रे । वरु॑णे । स्व॒स्तये॑ ।
श्रेष्ठे॑ । स्या॒म॒ । स॒वि॒तुः । सवी॑मनि । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥महः । अग्नेः । सम्ऽइधानस्य । शर्मणि । अनागाः । मित्रे । वरुणे । स्वस्तये ।
श्रेष्ठे । स्याम । सवितुः । सवीमनि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥maháḥ ǀ agnéḥ ǀ sam-idhānásya ǀ śármaṇi ǀ ánāgāḥ ǀ mitré ǀ váruṇe ǀ svastáye ǀ
śréṣṭhe ǀ syāma ǀ savitúḥ ǀ sávīmani ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁmahaḥ ǀ agneḥ ǀ sam-idhānasya ǀ śarmaṇi ǀ anāgāḥ ǀ mitre ǀ varuṇe ǀ svastaye ǀ
śreṣṭhe ǀ syāma ǀ savituḥ ǀ savīmani ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ10.36.12 Aṣṭaka 7.8.11.2Anuvāka 10.3.84
-
Ṛk 13
ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः ।
ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे ॥ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः |
ते सौभगं वीरवद् गोमद् अप्नो दधातन द्रविणं चित्रम् अस्मे ||yé savitúḥ satyásavasya víśve mitrásya vraté váruṇasya devā́ḥ ǀ
té sáubhagam vīrávadgómadápno dádhātana dráviṇam citrámasmé ǁye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ |
te saubhagaṃ vīravad gomad apno dadhātana draviṇaṃ citram asme ||ये । स॒वि॒तुः । स॒त्यऽस॑वस्य । विश्वे॑ । मि॒त्रस्य॑ । व्र॒ते । वरु॑णस्य । दे॒वाः ।
ते । सौभ॑गम् । वी॒रऽव॑त् । गोऽम॑त् । अप्नः॑ । दधा॑तन । द्रवि॑णम् । चि॒त्रम् । अ॒स्मे इति॑ ॥ये । सवितुः । सत्यऽसवस्य । विश्वे । मित्रस्य । व्रते । वरुणस्य । देवाः ।
ते । सौभगम् । वीरऽवत् । गोऽमत् । अप्नः । दधातन । द्रविणम् । चित्रम् । अस्मे इति ॥yé ǀ savitúḥ ǀ satyá-savasya ǀ víśve ǀ mitrásya ǀ vraté ǀ váruṇasya ǀ devā́ḥ ǀ
té ǀ sáubhagam ǀ vīrá-vat ǀ gó-mat ǀ ápnaḥ ǀ dádhātana ǀ dráviṇam ǀ citrám ǀ asmé íti ǁye ǀ savituḥ ǀ satya-savasya ǀ viśve ǀ mitrasya ǀ vrate ǀ varuṇasya ǀ devāḥ ǀ
te ǀ saubhagam ǀ vīra-vat ǀ go-mat ǀ apnaḥ ǀ dadhātana ǀ draviṇam ǀ citram ǀ asme iti ǁ10.36.13 Aṣṭaka 7.8.11.3Anuvāka 10.3.85
-
Ṛk 14
स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् ।
स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायुः॑ ॥सविता पश्चातात् सविता पुरस्तात् सवितोत्तरात्तात् सविताधरात्तात् |
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घम् आयुः ||savitā́ paścā́tātsavitā́ purástātsavitóttarā́ttātsavitā́dharā́ttāt ǀ
savitā́ naḥ suvatu sarvátātim savitā́ no rāsatām dīrghámā́yuḥ ǁsavitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt |
savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ ||स॒वि॒ता । प॒श्चाता॑त् । स॒वि॒ता । पु॒रस्ता॑त् । स॒वि॒ता । उ॒त्त॒रात्ता॑त् । स॒वि॒ता । अ॒ध॒रात्ता॑त् ।
स॒वि॒ता । नः॒ । सु॒व॒तु॒ । स॒र्वऽता॑तिम् । स॒वि॒ता । नः॒ । रा॒स॒ता॒म् । दी॒र्घम् । आयुः॑ ॥सविता । पश्चातात् । सविता । पुरस्तात् । सविता । उत्तरात्तात् । सविता । अधरात्तात् ।
सविता । नः । सुवतु । सर्वऽतातिम् । सविता । नः । रासताम् । दीर्घम् । आयुः ॥savitā́ ǀ paścā́tāt ǀ savitā́ ǀ purástāt ǀ savitā́ ǀ uttarā́ttāt ǀ savitā́ ǀ adharā́ttāt ǀ
savitā́ ǀ naḥ ǀ suvatu ǀ sarvá-tātim ǀ savitā́ ǀ naḥ ǀ rāsatām ǀ dīrghám ǀ ā́yuḥ ǁsavitā ǀ paścātāt ǀ savitā ǀ purastāt ǀ savitā ǀ uttarāttāt ǀ savitā ǀ adharāttāt ǀ
savitā ǀ naḥ ǀ suvatu ǀ sarva-tātim ǀ savitā ǀ naḥ ǀ rāsatām ǀ dīrgham ǀ āyuḥ ǁ10.36.14 Aṣṭaka 7.8.11.4Anuvāka 10.3.86
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.