Sūkta 146
- Devatā देवता
- Araṇyānī
- Ṛṣi ऋषि
- Devamuni Airaṃmada
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (3, 5); anuṣṭup (4, 6); virāḍanuṣṭup (1); bhuriganuṣṭup (2)
2nd set of styles anuṣṭubh
-
Ṛk 1
अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि ।
क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विंदती३ँ ॥अरण्यान्य् अरण्यान्य् असौ या प्रेव नश्यसि |
कथा ग्रामं न पृच्छसि न त्वा भीर् इव विन्दती३ं ||áraṇyānyáraṇyānyasáu yā́ préva náśyasi ǀ
kathā́ grā́mam ná pṛcchasi ná tvā bhī́riva vindatī́m̐ ǁaraṇyāny araṇyāny asau yā preva naśyasi |
kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatī3ṃ ||अर॑ण्यानि । अर॑ण्यानि । अ॒सौ । या । प्रऽइ॑व । नश्य॑सि ।
क॒था । ग्राम॑म् । न । पृ॒च्छ॒सि॒ । न । त्वा॒ । भीःऽइ॑व । वि॒न्द॒तीँ३ ॥अरण्यानि । अरण्यानि । असौ । या । प्रऽइव । नश्यसि ।
कथा । ग्रामम् । न । पृच्छसि । न । त्वा । भीःऽइव । विन्दतीँ ॥áraṇyāni ǀ áraṇyāni ǀ asáu ǀ yā́ ǀ prá-iva ǀ náśyasi ǀ
kathā́ ǀ grā́mam ǀ ná ǀ pṛcchasi ǀ ná ǀ tvā ǀ bhī́ḥ-iva ǀ vindatī́m̐ ǁaraṇyāni ǀ araṇyāni ǀ asau ǀ yā ǀ pra-iva ǀ naśyasi ǀ
kathā ǀ grāmam ǀ na ǀ pṛcchasi ǀ na ǀ tvā ǀ bhīḥ-iva ǀ vindatīm̐ ǁ10.146.1 Aṣṭaka 8.8.4.1Anuvāka 10.11.114
-
Ṛk 2
वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः ।
आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ॥वृषारवाय वदते यद् उपावति चिच्चिकः |
आघाटिभिर् इव धावयन्न् अरण्यानिर् महीयते ||vṛṣāravā́ya vádate yádupā́vati ciccikáḥ ǀ
āghāṭíbhiriva dhāváyannaraṇyānírmahīyate ǁvṛṣāravāya vadate yad upāvati ciccikaḥ |
āghāṭibhir iva dhāvayann araṇyānir mahīyate ||वृ॒ष॒ऽर॒वाय॑ । वद॑ते । यत् । उ॒प॒ऽअव॑ति । चि॒च्चि॒कः ।
आ॒घा॒टिभिः॑ऽइव । धा॒वय॑न् । अ॒र॒ण्या॒निः । म॒ही॒य॒ते॒ ॥वृषऽरवाय । वदते । यत् । उपऽअवति । चिच्चिकः ।
आघाटिभिःऽइव । धावयन् । अरण्यानिः । महीयते ॥vṛṣa-ravā́ya ǀ vádate ǀ yát ǀ upa-ávati ǀ ciccikáḥ ǀ
āghāṭíbhiḥ-iva ǀ dhāváyan ǀ araṇyāníḥ ǀ mahīyate ǁvṛṣa-ravāya ǀ vadate ǀ yat ǀ upa-avati ǀ ciccikaḥ ǀ
āghāṭibhiḥ-iva ǀ dhāvayan ǀ araṇyāniḥ ǀ mahīyate ǁ10.146.2 Aṣṭaka 8.8.4.2Anuvāka 10.11.115
-
Ṛk 3
उ॒त गाव॑ इवादंत्यु॒त वेश्मे॑व दृश्यते ।
उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥उत गाव इवादन्त्य् उत वेश्मेव दृश्यते |
उतो अरण्यानिः सायं शकटीर् इव सर्जति ||utá gā́va ivādantyutá véśmeva dṛśyate ǀ
utó araṇyāníḥ sāyám śakaṭī́riva sarjati ǁuta gāva ivādanty uta veśmeva dṛśyate |
uto araṇyāniḥ sāyaṃ śakaṭīr iva sarjati ||उ॒त । गावः॑ऽइव । अ॒द॒न्ति॒ । उ॒त । वेश्म॑ऽइव । दृ॒श्य॒ते॒ ।
उ॒तो इति॑ । अ॒र॒ण्या॒निः । सा॒यम् । श॒क॒टीःऽइ॑व । स॒र्ज॒ति॒ ॥उत । गावःऽइव । अदन्ति । उत । वेश्मऽइव । दृश्यते ।
उतो इति । अरण्यानिः । सायम् । शकटीःऽइव । सर्जति ॥utá ǀ gā́vaḥ-iva ǀ adanti ǀ utá ǀ véśma-iva ǀ dṛśyate ǀ
utó íti ǀ araṇyāníḥ ǀ sāyám ǀ śakaṭī́ḥ-iva ǀ sarjati ǁuta ǀ gāvaḥ-iva ǀ adanti ǀ uta ǀ veśma-iva ǀ dṛśyate ǀ
uto iti ǀ araṇyāniḥ ǀ sāyam ǀ śakaṭīḥ-iva ǀ sarjati ǁ10.146.3 Aṣṭaka 8.8.4.3Anuvāka 10.11.116
-
Ṛk 4
गामं॒गैष आ ह्व॑यति॒ दार्वं॒गैषो अपा॑वधीत् ।
वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥गाम् अङ्गैष आ ह्वयति दार्व् अङ्गैषो अपावधीत् |
वसन्न् अरण्यान्यां सायम् अक्रुक्षद् इति मन्यते ||gā́maṅgáiṣá ā́ hvayati dā́rvaṅgáiṣó ápāvadhīt ǀ
vásannaraṇyānyā́m sāyámákrukṣadíti manyate ǁgām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt |
vasann araṇyānyāṃ sāyam akrukṣad iti manyate ||गाम् । अ॒ङ्ग । ए॒षः । आ । ह्व॒य॒ति॒ । दारु॑ । अ॒ङ्ग । ए॒षः । अप॑ । अ॒व॒धी॒त् ।
वस॑न् । अ॒र॒ण्या॒न्याम् । सा॒यम् । अक्रु॑क्षत् । इति॑ । म॒न्य॒ते॒ ॥गाम् । अङ्ग । एषः । आ । ह्वयति । दारु । अङ्ग । एषः । अप । अवधीत् ।
वसन् । अरण्यान्याम् । सायम् । अक्रुक्षत् । इति । मन्यते ॥gā́m ǀ aṅgá ǀ eṣáḥ ǀ ā́ ǀ hvayati ǀ dā́ru ǀ aṅgá ǀ eṣáḥ ǀ ápa ǀ avadhīt ǀ
vásan ǀ araṇyānyā́m ǀ sāyám ǀ ákrukṣat ǀ íti ǀ manyate ǁgām ǀ aṅga ǀ eṣaḥ ǀ ā ǀ hvayati ǀ dāru ǀ aṅga ǀ eṣaḥ ǀ apa ǀ avadhīt ǀ
vasan ǀ araṇyānyām ǀ sāyam ǀ akrukṣat ǀ iti ǀ manyate ǁ10.146.4 Aṣṭaka 8.8.4.4Anuvāka 10.11.117
-
Ṛk 5
न वा अ॑रण्या॒निर्हं॑त्य॒न्यश्चेन्नाभि॒गच्छ॑ति ।
स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥न वा अरण्यानिर् हन्त्य् अन्यश् चेन् नाभिगच्छति |
स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ||ná vā́ araṇyānírhantyanyáścénnā́bhigácchati ǀ
svādóḥ phálasya jagdhvā́ya yathākā́mam ní padyate ǁna vā araṇyānir hanty anyaś cen nābhigacchati |
svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate ||न । वै । अ॒र॒ण्या॒निः । ह॒न्ति॒ । अ॒न्यः । च॒ । इत् । न । अ॒भि॒ऽगच्छ॑ति ।
स्वा॒दोः । फल॑स्य । ज॒ग्ध्वाय॑ । य॒था॒ऽकाम॑म् । नि । प॒द्य॒ते॒ ॥न । वै । अरण्यानिः । हन्ति । अन्यः । च । इत् । न । अभिऽगच्छति ।
स्वादोः । फलस्य । जग्ध्वाय । यथाऽकामम् । नि । पद्यते ॥ná ǀ vái ǀ araṇyāníḥ ǀ hanti ǀ anyáḥ ǀ ca ǀ ít ǀ ná ǀ abhi-gácchati ǀ
svādóḥ ǀ phálasya ǀ jagdhvā́ya ǀ yathā-kā́mam ǀ ní ǀ padyate ǁna ǀ vai ǀ araṇyāniḥ ǀ hanti ǀ anyaḥ ǀ ca ǀ it ǀ na ǀ abhi-gacchati ǀ
svādoḥ ǀ phalasya ǀ jagdhvāya ǀ yathā-kāmam ǀ ni ǀ padyate ǁ10.146.5 Aṣṭaka 8.8.4.5Anuvāka 10.11.118
-
Ṛk 6
आंज॑नगंधिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलां ।
प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषं ॥आञ्जनगन्धिं सुरभिम् बह्वन्नाम् अकृषीवलाम् |
प्राहम् मृगाणाम् मातरम् अरण्यानिम् अशंसिषम् ||ā́ñjanagandhim surabhím bahvannā́mákṛṣīvalām ǀ
prā́hám mṛgā́ṇām mātáramaraṇyānímaśaṃsiṣam ǁāñjanagandhiṃ surabhim bahvannām akṛṣīvalām |
prāham mṛgāṇām mātaram araṇyānim aśaṃsiṣam ||आञ्ज॑नऽगन्धिम् । सु॒र॒भिम् । ब॒हु॒ऽअ॒न्नाम् । अकृ॑षिऽवलाम् ।
प्र । अ॒हम् । मृ॒गाणा॑म् । मा॒तर॑म् । अ॒र॒ण्या॒निम् । अ॒शं॒सि॒ष॒म् ॥आञ्जनऽगन्धिम् । सुरभिम् । बहुऽअन्नाम् । अकृषिऽवलाम् ।
प्र । अहम् । मृगाणाम् । मातरम् । अरण्यानिम् । अशंसिषम् ॥ā́ñjana-gandhim ǀ surabhím ǀ bahu-annā́m ǀ ákṛṣi-valām ǀ
prá ǀ ahám ǀ mṛgā́ṇām ǀ mātáram ǀ araṇyāním ǀ aśaṃsiṣam ǁāñjana-gandhim ǀ surabhim ǀ bahu-annām ǀ akṛṣi-valām ǀ
pra ǀ aham ǀ mṛgāṇām ǀ mātaram ǀ araṇyānim ǀ aśaṃsiṣam ǁ10.146.6 Aṣṭaka 8.8.4.6Anuvāka 10.11.119
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.