Ṛgveda · Maṇḍala 10

Sūkta 90

Puruṣa · Nārāyaṇa · 16 ṛks

Link
Devatā देवता
Puruṣa
Ṛṣi ऋषि
Nārāyaṇa
Chandas छन्दस्
Anuṣṭubh, Triṣṭubh
Metres by ṛk

1st set of styles nicṛdanuṣṭup (1-3, 7, 10, 12, 13); anuṣṭup (4-6, 9, 14, 15); virāḍanuṣṭup (8, 11); virāṭtrisṭup (16)

2nd set of styles anuṣṭubh (1-15); triṣṭubh (16)

  1. Ṛk 1

    स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
    स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशांगु॒लं ॥

    सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् |
    स भूमिं विश्वतो वृत्वात्य् अतिष्ठद् दशाङ्गुलम् ||

    sahásraśīrṣā púruṣaḥ sahasrākṣáḥ sahásrapāt ǀ
    sá bhū́mim viśváto vṛtvā́tyatiṣṭhaddaśāṅgulám ǁ

    sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
    sa bhūmiṃ viśvato vṛtvāty atiṣṭhad daśāṅgulam ||

    स॒हस्र॑ऽशीर्षा । पुरु॑षः । स॒ह॒स्र॒ऽअ॒क्षः । स॒हस्र॑ऽपात् ।
    सः । भूमि॑म् । वि॒श्वतः॑ । वृ॒त्वा । अति॑ । अ॒ति॒ष्ठ॒त् । द॒श॒ऽअ॒ङ्गु॒लम् ॥

    सहस्रऽशीर्षा । पुरुषः । सहस्रऽअक्षः । सहस्रऽपात् ।
    सः । भूमिम् । विश्वतः । वृत्वा । अति । अतिष्ठत् । दशऽअङ्गुलम् ॥

    sahásra-śīrṣā ǀ púruṣaḥ ǀ sahasra-akṣáḥ ǀ sahásra-pāt ǀ
    sáḥ ǀ bhū́mim ǀ viśvátaḥ ǀ vṛtvā́ ǀ áti ǀ atiṣṭhat ǀ daśa-aṅgulám ǁ

    sahasra-śīrṣā ǀ puruṣaḥ ǀ sahasra-akṣaḥ ǀ sahasra-pāt ǀ
    saḥ ǀ bhūmim ǀ viśvataḥ ǀ vṛtvā ǀ ati ǀ atiṣṭhat ǀ daśa-aṅgulam ǁ

    10.90.1 Aṣṭaka 8.4.17.1Anuvāka 10.7.133

  2. Ṛk 2

    पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्यं॑ ।
    उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥

    पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् |
    उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ||

    púruṣa evédám sárvam yádbhūtám yácca bhávyam ǀ
    utā́mṛtatvásyéśāno yádánnenātiróhati ǁ

    puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam |
    utāmṛtatvasyeśāno yad annenātirohati ||

    पुरु॑षः । ए॒व । इ॒दम् । सर्व॑म् । यत् । भू॒तम् । यत् । च॒ । भव्य॑म् ।
    उ॒त । अ॒मृ॒त॒ऽत्वस्य॑ । ईशा॑नः । यत् । अन्ने॑न । अ॒ति॒ऽरोह॑ति ॥

    पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भव्यम् ।
    उत । अमृतऽत्वस्य । ईशानः । यत् । अन्नेन । अतिऽरोहति ॥

    púruṣaḥ ǀ evá ǀ idám ǀ sárvam ǀ yát ǀ bhūtám ǀ yát ǀ ca ǀ bhávyam ǀ
    utá ǀ amṛta-tvásya ǀ ī́śānaḥ ǀ yát ǀ ánnena ǀ ati-róhati ǁ

    puruṣaḥ ǀ eva ǀ idam ǀ sarvam ǀ yat ǀ bhūtam ǀ yat ǀ ca ǀ bhavyam ǀ
    uta ǀ amṛta-tvasya ǀ īśānaḥ ǀ yat ǀ annena ǀ ati-rohati ǁ

    10.90.2 Aṣṭaka 8.4.17.2Anuvāka 10.7.134

  3. Ṛk 3

    ए॒तावा॑नस्य महि॒मातो॒ ज्यायां॑श्च॒ पूरु॑षः ।
    पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥

    एतावान् अस्य महिमातो ज्यायांश् च पूरुषः |
    पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ||

    etā́vānasya mahimā́to jyā́yāṃśca pū́ruṣaḥ ǀ
    pā́do’sya víśvā bhūtā́ni tripā́dasyāmṛ́tam diví ǁ

    etāvān asya mahimāto jyāyāṃś ca pūruṣaḥ |
    pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi ||

    ए॒तावा॑न् । अ॒स्य॒ । म॒हि॒मा । अतः॑ । ज्याया॑न् । च॒ । पुरु॑षः ।
    पादः॑ । अ॒स्य॒ । विश्वा॑ । भू॒तानि॑ । त्रि॒ऽपात् । अ॒स्य॒ । अ॒मृत॑म् । दि॒वि ॥

    एतावान् । अस्य । महिमा । अतः । ज्यायान् । च । पुरुषः ।
    पादः । अस्य । विश्वा । भूतानि । त्रिऽपात् । अस्य । अमृतम् । दिवि ॥

    etā́vān ǀ asya ǀ mahimā́ ǀ átaḥ ǀ jyā́yān ǀ ca ǀ púruṣaḥ ǀ
    pā́daḥ ǀ asya ǀ víśvā ǀ bhūtā́ni ǀ tri-pā́t ǀ asya ǀ amṛ́tam ǀ diví ǁ

    etāvān ǀ asya ǀ mahimā ǀ ataḥ ǀ jyāyān ǀ ca ǀ puruṣaḥ ǀ
    pādaḥ ǀ asya ǀ viśvā ǀ bhūtāni ǀ tri-pāt ǀ asya ǀ amṛtam ǀ divi ǁ

    10.90.3 Aṣṭaka 8.4.17.3Anuvāka 10.7.135

  4. Ṛk 4

    त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ ।
    ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ॥

    त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः |
    ततो विष्वङ् व्य् अक्रामत् साशनानशने अभि ||

    tripā́dūrdhvá údaitpúruṣaḥ pā́do’syehā́bhavatpúnaḥ ǀ
    táto víṣvaṅvyákrāmatsāśanānaśané abhí ǁ

    tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ |
    tato viṣvaṅ vy akrāmat sāśanānaśane abhi ||

    त्रि॒ऽपात् । ऊ॒र्ध्वः । उत् । ऐ॒त् । पुरु॑षः । पादः॑ । अ॒स्य॒ । इ॒ह । अ॒भ॒व॒त् । पुन॒रिति॑ ।
    ततः॑ । विष्व॑ङ् । वि । अ॒क्रा॒म॒त् । सा॒श॒ना॒न॒श॒ने इति॑ । अ॒भि ॥

    त्रिऽपात् । ऊर्ध्वः । उत् । ऐत् । पुरुषः । पादः । अस्य । इह । अभवत् । पुनरिति ।
    ततः । विष्वङ् । वि । अक्रामत् । साशनानशने इति । अभि ॥

    tri-pā́t ǀ ūrdhváḥ ǀ út ǀ ait ǀ púruṣaḥ ǀ pā́daḥ ǀ asya ǀ ihá ǀ abhavat ǀ púnaríti ǀ
    tátaḥ ǀ víṣvaṅ ǀ ví ǀ akrāmat ǀ sāśanānaśané íti ǀ abhí ǁ

    tri-pāt ǀ ūrdhvaḥ ǀ ut ǀ ait ǀ puruṣaḥ ǀ pādaḥ ǀ asya ǀ iha ǀ abhavat ǀ punariti ǀ
    tataḥ ǀ viṣvaṅ ǀ vi ǀ akrāmat ǀ sāśanānaśane iti ǀ abhi ǁ

    10.90.4 Aṣṭaka 8.4.17.4Anuvāka 10.7.136

  5. Ṛk 5

    तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
    स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥

    तस्माद् विराऌ अजायत विराजो अधि पूरुषः |
    स जातो अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ||

    tásmādvirā́ḷajāyata virā́jo ádhi pū́ruṣaḥ ǀ
    sá jātó átyaricyata paścā́dbhū́mimátho puráḥ ǁ

    tasmād virāḷ ajāyata virājo adhi pūruṣaḥ |
    sa jāto aty aricyata paścād bhūmim atho puraḥ ||

    तस्मा॑त् । वि॒राट् । अ॒जा॒य॒त॒ । वि॒ऽराजः॑ । अधि॑ । पुरु॑षः ।
    सः । जा॒तः । अति॑ । अ॒रि॒च्य॒त॒ । प॒श्चात् । भूमि॑म् । अथो॒ इति॑ । पु॒रः ॥

    तस्मात् । विराट् । अजायत । विऽराजः । अधि । पुरुषः ।
    सः । जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः ॥

    tásmāt ǀ virā́ṭ ǀ ajāyata ǀ vi-rā́jaḥ ǀ ádhi ǀ púruṣaḥ ǀ
    sáḥ ǀ jātáḥ ǀ áti ǀ aricyata ǀ paścā́t ǀ bhū́mim ǀ átho íti ǀ puráḥ ǁ

    tasmāt ǀ virāṭ ǀ ajāyata ǀ vi-rājaḥ ǀ adhi ǀ puruṣaḥ ǀ
    saḥ ǀ jātaḥ ǀ ati ǀ aricyata ǀ paścāt ǀ bhūmim ǀ atho iti ǀ puraḥ ǁ

    10.90.5 Aṣṭaka 8.4.17.5Anuvāka 10.7.137

  6. Ṛk 6

    यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
    व॒सं॒तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥

    यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत |
    वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद् धविः ||

    yátpúruṣeṇa havíṣā devā́ yajñámátanvata ǀ
    vasantó asyāsīdā́jyam grīṣmá idhmáḥ śaráddhavíḥ ǁ

    yat puruṣeṇa haviṣā devā yajñam atanvata |
    vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śarad dhaviḥ ||

    यत् । पुरु॑षेण । ह॒विषा॑ । दे॒वाः । य॒ज्ञम् । अत॑न्वत ।
    व॒स॒न्तः । अ॒स्य॒ । आ॒सी॒त् । आज्य॑म् । ग्री॒ष्मः । इ॒ध्मः । श॒रत् । ह॒विः ॥

    यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत ।
    वसन्तः । अस्य । आसीत् । आज्यम् । ग्रीष्मः । इध्मः । शरत् । हविः ॥

    yát ǀ púruṣeṇa ǀ havíṣā ǀ devā́ḥ ǀ yajñám ǀ átanvata ǀ
    vasantáḥ ǀ asya ǀ āsīt ǀ ā́jyam ǀ grīṣmáḥ ǀ idhmáḥ ǀ śarát ǀ havíḥ ǁ

    yat ǀ puruṣeṇa ǀ haviṣā ǀ devāḥ ǀ yajñam ǀ atanvata ǀ
    vasantaḥ ǀ asya ǀ āsīt ǀ ājyam ǀ grīṣmaḥ ǀ idhmaḥ ǀ śarat ǀ haviḥ ǁ

    10.90.6 Aṣṭaka 8.4.18.1Anuvāka 10.7.138

  7. Ṛk 7

    तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।
    तेन॑ दे॒वा अ॑यजंत सा॒ध्या ऋष॑यश्च॒ ये ॥

    तं यज्ञम् बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः |
    तेन देवा अयजन्त साध्या ऋषयश् च ये ||

    tám yajñám barhíṣi práukṣanpúruṣam jātámagratáḥ ǀ
    téna devā́ ayajanta sādhyā́ ṛ́ṣayaśca yé ǁ

    taṃ yajñam barhiṣi praukṣan puruṣaṃ jātam agrataḥ |
    tena devā ayajanta sādhyā ṛṣayaś ca ye ||

    तम् । य॒ज्ञम् । ब॒र्हिषि॑ । प्र । औ॒क्ष॒न् । पुरु॑षम् । जा॒तम् । अ॒ग्र॒तः ।
    तेन॑ । दे॒वाः । अ॒य॒ज॒न्त॒ । सा॒ध्याः । ऋष॑यः । च॒ । ये ॥

    तम् । यज्ञम् । बर्हिषि । प्र । औक्षन् । पुरुषम् । जातम् । अग्रतः ।
    तेन । देवाः । अयजन्त । साध्याः । ऋषयः । च । ये ॥

    tám ǀ yajñám ǀ barhíṣi ǀ prá ǀ aukṣan ǀ púruṣam ǀ jātám ǀ agratáḥ ǀ
    téna ǀ devā́ḥ ǀ ayajanta ǀ sādhyā́ḥ ǀ ṛ́ṣayaḥ ǀ ca ǀ yé ǁ

    tam ǀ yajñam ǀ barhiṣi ǀ pra ǀ aukṣan ǀ puruṣam ǀ jātam ǀ agrataḥ ǀ
    tena ǀ devāḥ ǀ ayajanta ǀ sādhyāḥ ǀ ṛṣayaḥ ǀ ca ǀ ye ǁ

    10.90.7 Aṣṭaka 8.4.18.2Anuvāka 10.7.139

  8. Ṛk 8

    तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ संभृ॑तं पृषदा॒ज्यं ।
    प॒शूंतांश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥

    तस्माद् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् |
    पशून् तांश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये ||

    tásmādyajñā́tsarvahútaḥ sámbhṛtam pṛṣadājyám ǀ
    paśū́ntā́ṃścakre vāyavyā́nāraṇyā́ngrāmyā́śca yé ǁ

    tasmād yajñāt sarvahutaḥ sambhṛtam pṛṣadājyam |
    paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye ||

    तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुतः॑ । सम्ऽभृ॑तम् । पृ॒ष॒त्ऽआ॒ज्यम् ।
    प॒शून् । तान् । च॒क्रे॒ । वा॒य॒व्या॑न् । आ॒र॒ण्यान् । ग्रा॒म्याः । च॒ । ये ॥

    तस्मात् । यज्ञात् । सर्वऽहुतः । सम्ऽभृतम् । पृषत्ऽआज्यम् ।
    पशून् । तान् । चक्रे । वायव्यान् । आरण्यान् । ग्राम्याः । च । ये ॥

    tásmāt ǀ yajñā́t ǀ sarva-hútaḥ ǀ sám-bhṛtam ǀ pṛṣat-ājyám ǀ
    paśū́n ǀ tā́n ǀ cakre ǀ vāyavyā́n ǀ āraṇyā́n ǀ grāmyā́ḥ ǀ ca ǀ yé ǁ

    tasmāt ǀ yajñāt ǀ sarva-hutaḥ ǀ sam-bhṛtam ǀ pṛṣat-ājyam ǀ
    paśūn ǀ tān ǀ cakre ǀ vāyavyān ǀ āraṇyān ǀ grāmyāḥ ǀ ca ǀ ye ǁ

    10.90.8 Aṣṭaka 8.4.18.3Anuvāka 10.7.140

  9. Ṛk 9

    तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे ।
    छंदां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥

    तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे |
    छन्दांसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ||

    tásmādyajñā́tsarvahúta ṛ́caḥ sā́māni jajñire ǀ
    chándāṃsi jajñire tásmādyájustásmādajāyata ǁ

    tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire |
    chandāṃsi jajñire tasmād yajus tasmād ajāyata ||

    तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुतः॑ । ऋचः॑ । सामा॑नि । ज॒ज्ञि॒रे॒ ।
    छन्दां॑सि । ज॒ज्ञि॒रे॒ । तस्मा॑त् । यजुः॑ । तस्मा॑त् । अ॒जा॒य॒त॒ ॥

    तस्मात् । यज्ञात् । सर्वऽहुतः । ऋचः । सामानि । जज्ञिरे ।
    छन्दांसि । जज्ञिरे । तस्मात् । यजुः । तस्मात् । अजायत ॥

    tásmāt ǀ yajñā́t ǀ sarva-hútaḥ ǀ ṛ́caḥ ǀ sā́māni ǀ jajñire ǀ
    chándāṃsi ǀ jajñire ǀ tásmāt ǀ yájuḥ ǀ tásmāt ǀ ajāyata ǁ

    tasmāt ǀ yajñāt ǀ sarva-hutaḥ ǀ ṛcaḥ ǀ sāmāni ǀ jajñire ǀ
    chandāṃsi ǀ jajñire ǀ tasmāt ǀ yajuḥ ǀ tasmāt ǀ ajāyata ǁ

    10.90.9 Aṣṭaka 8.4.18.4Anuvāka 10.7.141

  10. Ṛk 10

    तस्मा॒दश्वा॑ अजायंत॒ ये के चो॑भ॒याद॑तः ।
    गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥

    तस्माद् अश्वा अजायन्त ये के चोभयादतः |
    गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः ||

    tásmādáśvā ajāyanta yé ké cobhayā́dataḥ ǀ
    gā́vo ha jajñire tásmāttásmājjātā́ ajāváyaḥ ǁ

    tasmād aśvā ajāyanta ye ke cobhayādataḥ |
    gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ ||

    तस्मा॑त् । अश्वाः॑ । अ॒जा॒य॒न्त॒ । ये । के । च॒ । उ॒भ॒याद॑तः ।
    गावः॑ । ह॒ । ज॒ज्ञि॒रे॒ । तस्मा॑त् । तस्मा॑त् । जा॒ताः । अ॒जा॒वयः॑ ॥

    तस्मात् । अश्वाः । अजायन्त । ये । के । च । उभयादतः ।
    गावः । ह । जज्ञिरे । तस्मात् । तस्मात् । जाताः । अजावयः ॥

    tásmāt ǀ áśvāḥ ǀ ajāyanta ǀ yé ǀ ké ǀ ca ǀ ubhayā́dataḥ ǀ
    gā́vaḥ ǀ ha ǀ jajñire ǀ tásmāt ǀ tásmāt ǀ jātā́ḥ ǀ ajāváyaḥ ǁ

    tasmāt ǀ aśvāḥ ǀ ajāyanta ǀ ye ǀ ke ǀ ca ǀ ubhayādataḥ ǀ
    gāvaḥ ǀ ha ǀ jajñire ǀ tasmāt ǀ tasmāt ǀ jātāḥ ǀ ajāvayaḥ ǁ

    10.90.10 Aṣṭaka 8.4.18.5Anuvāka 10.7.142

  11. Ṛk 11

    यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
    मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ॥

    यत् पुरुषं व्य् अदधुः कतिधा व्य् अकल्पयन् |
    मुखं किम् अस्य कौ बाहू का ऊरू पादा उच्येते ||

    yátpúruṣam vyádadhuḥ katidhā́ vyákalpayan ǀ
    múkham kímasya káu bāhū́ kā́ ūrū́ pā́dā ucyete ǁ

    yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan |
    mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete ||

    यत् । पुरु॑षम् । वि । अद॑धुः । क॒ति॒धा । वि । अ॒क॒ल्प॒य॒न् ।
    मुख॑म् । किम् । अ॒स्य॒ । कौ । बा॒हू इति॑ । कौ । ऊ॒रू इति॑ । पादौ॑ । उ॒च्ये॒ते॒ इति॑ ॥

    यत् । पुरुषम् । वि । अदधुः । कतिधा । वि । अकल्पयन् ।
    मुखम् । किम् । अस्य । कौ । बाहू इति । कौ । ऊरू इति । पादौ । उच्येते इति ॥

    yát ǀ púruṣam ǀ ví ǀ ádadhuḥ ǀ katidhā́ ǀ ví ǀ akalpayan ǀ
    múkham ǀ kím ǀ asya ǀ káu ǀ bāhū́ íti ǀ káu ǀ ūrū́ íti ǀ pā́dau ǀ ucyete íti ǁ

    yat ǀ puruṣam ǀ vi ǀ adadhuḥ ǀ katidhā ǀ vi ǀ akalpayan ǀ
    mukham ǀ kim ǀ asya ǀ kau ǀ bāhū iti ǀ kau ǀ ūrū iti ǀ pādau ǀ ucyete iti ǁ

    10.90.11 Aṣṭaka 8.4.19.1Anuvāka 10.7.143

  12. Ṛk 12

    ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
    ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥

    ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः |
    ऊरू तद् अस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ||

    brāhmaṇó’sya múkhamāsīdbāhū́ rājanyáḥ kṛtáḥ ǀ
    ūrū́ tádasya yádváiśyaḥ padbhyā́m śūdró ajāyata ǁ

    brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ |
    ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata ||

    ब्रा॒ह्म॒णः । अ॒स्य॒ । मुख॑म् । आ॒सी॒त् । बा॒हू इति॑ । रा॒ज॒न्यः॑ । कृ॒तः ।
    ऊ॒रू इति॑ । तत् । अ॒स्य॒ । यत् । वैश्यः॑ । प॒त्ऽभ्याम् । शू॒द्रः । अ॒जा॒य॒त॒ ॥

    ब्राह्मणः । अस्य । मुखम् । आसीत् । बाहू इति । राजन्यः । कृतः ।
    ऊरू इति । तत् । अस्य । यत् । वैश्यः । पत्ऽभ्याम् । शूद्रः । अजायत ॥

    brāhmaṇáḥ ǀ asya ǀ múkham ǀ āsīt ǀ bāhū́ íti ǀ rājanyáḥ ǀ kṛtáḥ ǀ
    ūrū́ íti ǀ tát ǀ asya ǀ yát ǀ váiśyaḥ ǀ pat-bhyā́m ǀ śūdráḥ ǀ ajāyata ǁ

    brāhmaṇaḥ ǀ asya ǀ mukham ǀ āsīt ǀ bāhū iti ǀ rājanyaḥ ǀ kṛtaḥ ǀ
    ūrū iti ǀ tat ǀ asya ǀ yat ǀ vaiśyaḥ ǀ pat-bhyām ǀ śūdraḥ ǀ ajāyata ǁ

    10.90.12 Aṣṭaka 8.4.19.2Anuvāka 10.7.144

  13. Ṛk 13

    चं॒द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत ।
    मुखा॒दिंद्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥

    चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत |
    मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ||

    candrámā mánaso jātáścákṣoḥ sū́ryo ajāyata ǀ
    múkhādíndraścāgníśca prāṇā́dvāyúrajāyata ǁ

    candramā manaso jātaś cakṣoḥ sūryo ajāyata |
    mukhād indraś cāgniś ca prāṇād vāyur ajāyata ||

    च॒न्द्रमाः॑ । मन॑सः । जा॒तः । चक्षोः॑ । सूर्यः॑ । अ॒जा॒य॒त॒ ।
    मुखा॑त् । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । प्रा॒णात् । वा॒युः । अ॒जा॒य॒त॒ ॥

    चन्द्रमाः । मनसः । जातः । चक्षोः । सूर्यः । अजायत ।
    मुखात् । इन्द्रः । च । अग्निः । च । प्राणात् । वायुः । अजायत ॥

    candrámāḥ ǀ mánasaḥ ǀ jātáḥ ǀ cákṣoḥ ǀ sū́ryaḥ ǀ ajāyata ǀ
    múkhāt ǀ índraḥ ǀ ca ǀ agníḥ ǀ ca ǀ prāṇā́t ǀ vāyúḥ ǀ ajāyata ǁ

    candramāḥ ǀ manasaḥ ǀ jātaḥ ǀ cakṣoḥ ǀ sūryaḥ ǀ ajāyata ǀ
    mukhāt ǀ indraḥ ǀ ca ǀ agniḥ ǀ ca ǀ prāṇāt ǀ vāyuḥ ǀ ajāyata ǁ

    10.90.13 Aṣṭaka 8.4.19.3Anuvāka 10.7.145

  14. Ṛk 14

    नाभ्या॑ आसीदं॒तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत ।
    प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥

    नाभ्या आसीद् अन्तरिक्षं शीर्ष्णो द्यौः सम् अवर्तत |
    पद्भ्याम् भूमिर् दिशः श्रोत्रात् तथा लोकां अकल्पयन् ||

    nā́bhyā āsīdantárikṣam śīrṣṇó dyáuḥ sámavartata ǀ
    padbhyā́m bhū́mirdíśaḥ śrótrāttáthā lokā́m̐ akalpayan ǁ

    nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata |
    padbhyām bhūmir diśaḥ śrotrāt tathā lokāṃ akalpayan ||

    नाभ्याः॑ । आ॒सी॒त् । अ॒न्तरि॑क्षम् । शी॒र्ष्णः । द्यौः । सम् । अ॒व॒र्त॒त॒ ।
    प॒त्ऽभ्याम् । भूमिः॑ । दिशः॑ । श्रोत्रा॑त् । तथा॑ । लो॒कान् । अ॒क॒ल्प॒य॒न् ॥

    नाभ्याः । आसीत् । अन्तरिक्षम् । शीर्ष्णः । द्यौः । सम् । अवर्तत ।
    पत्ऽभ्याम् । भूमिः । दिशः । श्रोत्रात् । तथा । लोकान् । अकल्पयन् ॥

    nā́bhyāḥ ǀ āsīt ǀ antárikṣam ǀ śīrṣṇáḥ ǀ dyáuḥ ǀ sám ǀ avartata ǀ
    pat-bhyā́m ǀ bhū́miḥ ǀ díśaḥ ǀ śrótrāt ǀ táthā ǀ lokā́n ǀ akalpayan ǁ

    nābhyāḥ ǀ āsīt ǀ antarikṣam ǀ śīrṣṇaḥ ǀ dyauḥ ǀ sam ǀ avartata ǀ
    pat-bhyām ǀ bhūmiḥ ǀ diśaḥ ǀ śrotrāt ǀ tathā ǀ lokān ǀ akalpayan ǁ

    10.90.14 Aṣṭaka 8.4.19.4Anuvāka 10.7.146

  15. Ṛk 15

    स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
    दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुं ॥

    सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः |
    देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषम् पशुम् ||

    saptā́syāsanparidháyastríḥ saptá samídhaḥ kṛtā́ḥ ǀ
    devā́ yádyajñám tanvānā́ ábadhnanpúruṣam paśúm ǁ

    saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ |
    devā yad yajñaṃ tanvānā abadhnan puruṣam paśum ||

    स॒प्त । अ॒स्य॒ । आ॒स॒न् । प॒रि॒ऽधयः॑ । त्रिः । स॒प्त । स॒म्ऽइधः॑ । कृ॒ताः ।
    दे॒वाः । यत् । य॒ज्ञम् । त॒न्वा॒नाः । अब॑ध्नन् । पुरु॑षम् । प॒शुम् ॥

    सप्त । अस्य । आसन् । परिऽधयः । त्रिः । सप्त । सम्ऽइधः । कृताः ।
    देवाः । यत् । यज्ञम् । तन्वानाः । अबध्नन् । पुरुषम् । पशुम् ॥

    saptá ǀ asya ǀ āsan ǀ pari-dháyaḥ ǀ tríḥ ǀ saptá ǀ sam-ídhaḥ ǀ kṛtā́ḥ ǀ
    devā́ḥ ǀ yát ǀ yajñám ǀ tanvānā́ḥ ǀ ábadhnan ǀ púruṣam ǀ paśúm ǁ

    sapta ǀ asya ǀ āsan ǀ pari-dhayaḥ ǀ triḥ ǀ sapta ǀ sam-idhaḥ ǀ kṛtāḥ ǀ
    devāḥ ǀ yat ǀ yajñam ǀ tanvānāḥ ǀ abadhnan ǀ puruṣam ǀ paśum ǁ

    10.90.15 Aṣṭaka 8.4.19.5Anuvāka 10.7.147

  16. Ṛk 16

    य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
    ते ह॒ नाकं॑ महि॒मानः॑ सचंत॒ यत्र॒ पूर्वे॑ सा॒ध्याः संति॑ दे॒वाः ॥

    यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् |
    ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ||

    yajñéna yajñámayajanta devā́stā́ni dhármāṇi prathamā́nyāsan ǀ
    té ha nā́kam mahimā́naḥ sacanta yátra pū́rve sādhyā́ḥ sánti devā́ḥ ǁ

    yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan |
    te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||

    य॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् ।
    ते । ह॒ । नाक॑म् । म॒हि॒मानः॑ । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्याः । सन्ति॑ । दे॒वाः ॥

    यज्ञेन । यज्ञम् । अयजन्त । देवाः । तानि । धर्माणि । प्रथमानि । आसन् ।
    ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः ॥

    yajñéna ǀ yajñám ǀ ayajanta ǀ devā́ḥ ǀ tā́ni ǀ dhármāṇi ǀ prathamā́ni ǀ āsan ǀ
    té ǀ ha ǀ nā́kam ǀ mahimā́naḥ ǀ sacanta ǀ yátra ǀ pū́rve ǀ sādhyā́ḥ ǀ sánti ǀ devā́ḥ ǁ

    yajñena ǀ yajñam ǀ ayajanta ǀ devāḥ ǀ tāni ǀ dharmāṇi ǀ prathamāni ǀ āsan ǀ
    te ǀ ha ǀ nākam ǀ mahimānaḥ ǀ sacanta ǀ yatra ǀ pūrve ǀ sādhyāḥ ǀ santi ǀ devāḥ ǁ

    10.90.16 Aṣṭaka 8.4.19.6Anuvāka 10.7.148

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.90 · Puruṣa

Interpretations

Ralph T. H. Griffith

Ṛk 1

A THOUSAND heads hath Puruṣa, a thousand eyes, a thousand feet. On every side pervading earth he fills a space ten fingers wide.

Ṛk 2

This Puruṣa is all that yet hath been and all that is to be; The Lord of Immortality which waxes greater still by food.

Ṛk 3

So mighty is his greatness; yea, greater than this is Puruṣa. All creatures are one-fourth of him, three-fourths eternal life in heaven.

Ṛk 4

With three-fourths Puruṣa went up: one-fourth of him again was here. Thence he strode out to every side over what cats not and what cats.

Ṛk 5

From him Virāj was born; again Puruṣa from Virāj was born. As soon as he was born he spread eastward and westward o’er the earth.

Ṛk 6

When Gods prepared the sacrifice with Puruṣa as their offering, Its oil was spring, the holy gift was autumn; summer was the wood.

Ṛk 7

They balmed as victim on the grass Puruṣa born in earliest time. With him the Deities and all Sādhyas and Ṛṣis sacrificed.

Ṛk 8

From that great general sacrifice the dripping fat was gathered up. He formed the creatures of-the air, and animals both wild and tame.

Ṛk 9

From that great general sacrifice Ṛcas and Sāma-hymns were born: Therefrom were spells and charms produced; the Yajus had its birth from it.

Ṛk 10

From it were horses born, from it all cattle with two rows of teeth: From it were generated kine, from it the goats and sheep were born.

Ṛk 11

When they divided Puruṣa how many portions did they make? What do they call his mouth, his arms? What do they call his thighs and feet?

Ṛk 12

The Brahman was his mouth, of both his arms was the Rājanya made. His thighs became the Vaiśya, from his feet the Śūdra was produced.

Ṛk 13

The Moon was gendered from his mind, and from his eye the Sun had birth; Indra and Agni from his mouth were born, and Vāyu from his breath.

Ṛk 14

Forth from his navel came mid-air the sky was fashioned from his head Earth from his feet, and from his car the regions. Thus they formed the worlds.

Ṛk 15

Seven fencing-sticks had he, thrice seven layers of fuel were prepared, When the Gods, offering sacrifice, bound, as their victim, Puruṣa.