Sūkta 169
- Devatā देवता
- Gāvaḥ
- Ṛṣi ऋषि
- Śabara Kākṣīvata
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (2, 4); virāṭtrisṭup (1); nicṛttriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शंतां ।
पीव॑स्वतीर्जी॒वध॑न्याः पिबंत्वव॒साय॑ प॒द्वते॑ रुद्र मृळ ॥मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् |
पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र मृऌअ ||mayobhū́rvā́to abhí vātūsrā́ ū́rjasvatīróṣadhīrā́ riśantām ǀ
pī́vasvatīrjīvádhanyāḥ pibantvavasā́ya padváte rudra mṛḷa ǁmayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām |
pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḷa ||म॒यः॒ऽभूः । वातः॑ । अ॒भि । वा॒तु॒ । उ॒स्राः । ऊर्ज॑स्वतीः । ओष॑धीः । आ । रि॒श॒न्ता॒म् ।
पीव॑स्वतीः । जी॒वऽध॑न्याः । पि॒ब॒न्तु॒ । अ॒व॒साय॑ । प॒त्ऽवते॑ । रु॒द्र॒ । मृ॒ळ॒ ॥मयःऽभूः । वातः । अभि । वातु । उस्राः । ऊर्जस्वतीः । ओषधीः । आ । रिशन्ताम् ।
पीवस्वतीः । जीवऽधन्याः । पिबन्तु । अवसाय । पत्ऽवते । रुद्र । मृळ ॥mayaḥ-bhū́ḥ ǀ vā́taḥ ǀ abhí ǀ vātu ǀ usrā́ḥ ǀ ū́rjasvatīḥ ǀ óṣadhīḥ ǀ ā́ ǀ riśantām ǀ
pī́vasvatīḥ ǀ jīvá-dhanyāḥ ǀ pibantu ǀ avasā́ya ǀ pat-váte ǀ rudra ǀ mṛḷa ǁmayaḥ-bhūḥ ǀ vātaḥ ǀ abhi ǀ vātu ǀ usrāḥ ǀ ūrjasvatīḥ ǀ oṣadhīḥ ǀ ā ǀ riśantām ǀ
pīvasvatīḥ ǀ jīva-dhanyāḥ ǀ pibantu ǀ avasāya ǀ pat-vate ǀ rudra ǀ mṛḷa ǁ10.169.1 Aṣṭaka 8.8.27.1Anuvāka 10.12.87
-
Ṛk 2
याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ ।
या अंगि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि वेद |
या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छ ||yā́ḥ sárūpā vírūpā ékarūpā yā́sāmagníríṣṭyā nā́māni véda ǀ
yā́ áṅgirasastápasehá cakrústā́bhyaḥ parjanya máhi śárma yaccha ǁyāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda |
yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha ||याः । सऽरू॑पाः । विऽरू॑पाः । एक॑ऽरूपाः । यासा॑म् । अ॒ग्निः । इष्ट्या॑ । नामा॑नि । वेद॑ ।
याः । अङ्गि॑रसः । तप॑सा । इ॒ह । च॒क्रुः । ताभ्यः॑ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥याः । सऽरूपाः । विऽरूपाः । एकऽरूपाः । यासाम् । अग्निः । इष्ट्या । नामानि । वेद ।
याः । अङ्गिरसः । तपसा । इह । चक्रुः । ताभ्यः । पर्जन्य । महि । शर्म । यच्छ ॥yā́ḥ ǀ sá-rūpāḥ ǀ ví-rūpāḥ ǀ éka-rūpāḥ ǀ yā́sām ǀ agníḥ ǀ íṣṭyā ǀ nā́māni ǀ véda ǀ
yā́ḥ ǀ áṅgirasaḥ ǀ tápasā ǀ ihá ǀ cakrúḥ ǀ tā́bhyaḥ ǀ parjanya ǀ máhi ǀ śárma ǀ yaccha ǁyāḥ ǀ sa-rūpāḥ ǀ vi-rūpāḥ ǀ eka-rūpāḥ ǀ yāsām ǀ agniḥ ǀ iṣṭyā ǀ nāmāni ǀ veda ǀ
yāḥ ǀ aṅgirasaḥ ǀ tapasā ǀ iha ǀ cakruḥ ǀ tābhyaḥ ǀ parjanya ǀ mahi ǀ śarma ǀ yaccha ǁ10.169.2 Aṣṭaka 8.8.27.2Anuvāka 10.12.88
-
Ṛk 3
या दे॒वेषु॑ त॒न्व१॒॑मैर॑यंत॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ ।
ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिंद्र गो॒ष्ठे रि॑रीहि ॥या देवेषु तन्वम् ऐरयन्त यासां सोमो विश्वा रूपाणि वेद |
ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र गोष्ठे रिरीहि ||yā́ devéṣu tanvámáirayanta yā́sām sómo víśvā rūpā́ṇi véda ǀ
tā́ asmábhyam páyasā pínvamānāḥ prajā́vatīrindra goṣṭhé rirīhi ǁyā deveṣu tanvam airayanta yāsāṃ somo viśvā rūpāṇi veda |
tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi ||याः । दे॒वेषु॑ । त॒न्व॑म् । ऐर॑यन्त । यासा॑म् । सोमः॑ । विश्वा॑ । रू॒पाणि॑ । वेद॑ ।
ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । प्र॒जाऽव॑तीः । इ॒न्द्र॒ । गो॒ऽस्थे । रि॒री॒हि॒ ॥याः । देवेषु । तन्वम् । ऐरयन्त । यासाम् । सोमः । विश्वा । रूपाणि । वेद ।
ताः । अस्मभ्यम् । पयसा । पिन्वमानाः । प्रजाऽवतीः । इन्द्र । गोऽस्थे । रिरीहि ॥yā́ḥ ǀ devéṣu ǀ tanvám ǀ áirayanta ǀ yā́sām ǀ sómaḥ ǀ víśvā ǀ rūpā́ṇi ǀ véda ǀ
tā́ḥ ǀ asmábhyam ǀ páyasā ǀ pínvamānāḥ ǀ prajā́-vatīḥ ǀ indra ǀ go-sthé ǀ rirīhi ǁyāḥ ǀ deveṣu ǀ tanvam ǀ airayanta ǀ yāsām ǀ somaḥ ǀ viśvā ǀ rūpāṇi ǀ veda ǀ
tāḥ ǀ asmabhyam ǀ payasā ǀ pinvamānāḥ ǀ prajā-vatīḥ ǀ indra ǀ go-sthe ǀ rirīhi ǁ10.169.3 Aṣṭaka 8.8.27.3Anuvāka 10.12.89
-
Ṛk 4
प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभिः॑ संविदा॒नः ।
शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः संविदानः |
शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सं सदेम ||prajā́patirmáhyametā́ rárāṇo víśvairdeváiḥ pitṛ́bhiḥ saṃvidānáḥ ǀ
śivā́ḥ satī́rúpa no goṣṭhámā́kastā́sām vayám prajáyā sám sadema ǁprajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ |
śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema ||प्र॒जाऽप॑तिः । मह्य॑म् । ए॒ताः । ररा॑णः । विश्वैः॑ । दे॒वैः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः ।
शि॒वाः । स॒तीः । उप॑ । नः॒ । गो॒ऽस्थम् । आ । अ॒क॒रित्य॑कः । तासा॑म् । व॒यम् । प्र॒ऽजया॑ । सम् । स॒दे॒म॒ ॥प्रजाऽपतिः । मह्यम् । एताः । रराणः । विश्वैः । देवैः । पितृऽभिः । सम्ऽविदानः ।
शिवाः । सतीः । उप । नः । गोऽस्थम् । आ । अकरित्यकः । तासाम् । वयम् । प्रऽजया । सम् । सदेम ॥prajā́-patiḥ ǀ máhyam ǀ etā́ḥ ǀ rárāṇaḥ ǀ víśvaiḥ ǀ deváiḥ ǀ pitṛ́-bhiḥ ǀ sam-vidānáḥ ǀ
śivā́ḥ ǀ satī́ḥ ǀ úpa ǀ naḥ ǀ go-sthám ǀ ā́ ǀ akarítyakaḥ ǀ tā́sām ǀ vayám ǀ pra-jáyā ǀ sám ǀ sadema ǁprajā-patiḥ ǀ mahyam ǀ etāḥ ǀ rarāṇaḥ ǀ viśvaiḥ ǀ devaiḥ ǀ pitṛ-bhiḥ ǀ sam-vidānaḥ ǀ
śivāḥ ǀ satīḥ ǀ upa ǀ naḥ ǀ go-stham ǀ ā ǀ akarityakaḥ ǀ tāsām ǀ vayam ǀ pra-jayā ǀ sam ǀ sadema ǁ10.169.4 Aṣṭaka 8.8.27.4Anuvāka 10.12.90
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.