Ṛgveda · Maṇḍala 10 · Sūkta 169

Ṛk 10.169.4

Gāvaḥ · Śabara Kākṣīvata

The whole sūkta Link

Saṃhitā

प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभिः॑ संविदा॒नः ।
शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥

प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः संविदानः |
शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सं सदेम ||

prajā́patirmáhyametā́ rárāṇo víśvairdeváiḥ pitṛ́bhiḥ saṃvidānáḥ ǀ
śivā́ḥ satī́rúpa no goṣṭhámā́kastā́sām vayám prajáyā sám sadema ǁ

prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ |
śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema ||

Padapāṭha

प्र॒जाऽप॑तिः । मह्य॑म् । ए॒ताः । ररा॑णः । विश्वैः॑ । दे॒वैः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः ।
शि॒वाः । स॒तीः । उप॑ । नः॒ । गो॒ऽस्थम् । आ । अ॒क॒रित्य॑कः । तासा॑म् । व॒यम् । प्र॒ऽजया॑ । सम् । स॒दे॒म॒ ॥

प्रजाऽपतिः । मह्यम् । एताः । रराणः । विश्वैः । देवैः । पितृऽभिः । सम्ऽविदानः ।
शिवाः । सतीः । उप । नः । गोऽस्थम् । आ । अकरित्यकः । तासाम् । वयम् । प्रऽजया । सम् । सदेम ॥

prajā́-patiḥ ǀ máhyam ǀ etā́ḥ ǀ rárāṇaḥ ǀ víśvaiḥ ǀ deváiḥ ǀ pitṛ́-bhiḥ ǀ sam-vidānáḥ ǀ
śivā́ḥ ǀ satī́ḥ ǀ úpa ǀ naḥ ǀ go-sthám ǀ ā́ ǀ akarítyakaḥ ǀ tā́sām ǀ vayám ǀ pra-jáyā ǀ sám ǀ sadema ǁ

prajā-patiḥ ǀ mahyam ǀ etāḥ ǀ rarāṇaḥ ǀ viśvaiḥ ǀ devaiḥ ǀ pitṛ-bhiḥ ǀ sam-vidānaḥ ǀ
śivāḥ ǀ satīḥ ǀ upa ǀ naḥ ǀ go-stham ǀ ā ǀ akarityakaḥ ǀ tāsām ǀ vayam ǀ pra-jayā ǀ sam ǀ sadema ǁ

References

Maṇḍala · Sūkta · Ṛk
10.169.04
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.27.04
Maṇḍala · Anuvāka · Ṛk
10.12.090
Devatā देवता
Gāvaḥ
Ṛṣi ऋषि
Śabara Kākṣīvata
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.169.4

Interpretations

Sāyaṇa

प्रजापतिर्विधाता मह्यं स्तोत्र एता गा रराणः प्रयच्छन्। रातेर्व्यत्ययेन शानच्। छान्दसः शपः श्लुः। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। विश्वैः सर्वैर्देवैः पितृभिश्च सम्विदान ऐकमत्यं गतः सन् शिवाः सतीः कल्याणीर्भवन्तीर्गा नोऽस्माकं गोष्ठं व्रजमुप गोष्ठसमीपेऽकः। करोतु। तासां गवां प्रजया सन्तानेन वयं सं सदेम। सङ्गच्छेमहि। सदेराशिषि लिङि लिङ्याशिष्यङ्॥४॥