Sūkta 50
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Abhisāriṇī, Triṣṭubh
Metres by ṛk
1st set of styles pādanicṛjjgatī (3, 6, 7); nicṛjjagatī (1); svarāḍārcījagatī (2); virāṭtrisṭup (4); triṣṭup (5)
2nd set of styles jagatī (1, 2, 6, 7); abhisāriṇī (3, 4); triṣṭubh (5)
-
Ṛk 1
प्र वो॑ म॒हे मंद॑माना॒यांध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ ।
इंद्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ॥प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे |
इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ||prá vo mahé mándamānāyā́ndhasó’rcā viśvā́narāya viśvābhúve ǀ
índrasya yásya súmakham sáho máhi śrávo nṛmṇám ca ródasī saparyátaḥ ǁpra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve |
indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ ||प्र । वः॒ । म॒हे । मन्द॑मानाय । अन्ध॑सः । अर्च॑ । वि॒श्वान॑राय । वि॒श्व॒ऽभुवे॑ ।
इन्द्र॑स्य । यस्य॑ । सुऽम॑खम् । सहः॑ । महि॑ । श्रवः॑ । नृ॒म्णम् । च॒ । रोद॑सी॒ इति॑ । स॒प॒र्यतः॑ ॥प्र । वः । महे । मन्दमानाय । अन्धसः । अर्च । विश्वानराय । विश्वऽभुवे ।
इन्द्रस्य । यस्य । सुऽमखम् । सहः । महि । श्रवः । नृम्णम् । च । रोदसी इति । सपर्यतः ॥prá ǀ vaḥ ǀ mahé ǀ mándamānāya ǀ ándhasaḥ ǀ árca ǀ viśvā́narāya ǀ viśva-bhúve ǀ
índrasya ǀ yásya ǀ sú-makham ǀ sáhaḥ ǀ máhi ǀ śrávaḥ ǀ nṛmṇám ǀ ca ǀ ródasī íti ǀ saparyátaḥ ǁpra ǀ vaḥ ǀ mahe ǀ mandamānāya ǀ andhasaḥ ǀ arca ǀ viśvānarāya ǀ viśva-bhuve ǀ
indrasya ǀ yasya ǀ su-makham ǀ sahaḥ ǀ mahi ǀ śravaḥ ǀ nṛmṇam ǀ ca ǀ rodasī iti ǀ saparyataḥ ǁ10.50.1 Aṣṭaka 8.1.9.1Anuvāka 10.4.75
-
Ṛk 2
सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इंद्रो॒ माव॑ते॒ नरे॑ ।
विश्वा॑सु धू॒र्षु वा॑ज॒कृत्ये॑षु सत्पते वृ॒त्रे वा॒प्स्व१॒॑भि शू॑र मंदसे ॥सो चिन् नु सख्या नर्य इन स्तुतश् चर्कृत्य इन्द्रो मावते नरे |
विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्व् अभि शूर मन्दसे ||só cinnú sákhyā nárya ináḥ stutáścarkṛ́tya índro mā́vate náre ǀ
víśvāsu dhūrṣú vājakṛ́tyeṣu satpate vṛtré vāpsvábhí śūra mandase ǁso cin nu sakhyā narya ina stutaś carkṛtya indro māvate nare |
viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsv abhi śūra mandase ||सः । चि॒त् । नु । सख्या॑ । नर्यः॑ । इ॒नः । स्तु॒तः । च॒र्कृत्यः॑ । इन्द्रः॑ । माऽव॑ते । नरे॑ ।
विश्वा॑सु । धूः॒ऽसु । वा॒ज॒ऽकृत्ये॑षु । स॒त्ऽप॒ते॒ । वृ॒त्रे । वा॒ । अ॒प्ऽसु । अ॒भि । शू॒र॒ । म॒न्द॒से॒ ॥सः । चित् । नु । सख्या । नर्यः । इनः । स्तुतः । चर्कृत्यः । इन्द्रः । माऽवते । नरे ।
विश्वासु । धूःऽसु । वाजऽकृत्येषु । सत्ऽपते । वृत्रे । वा । अप्ऽसु । अभि । शूर । मन्दसे ॥sáḥ ǀ cit ǀ nú ǀ sákhyā ǀ náryaḥ ǀ ináḥ ǀ stutáḥ ǀ carkṛ́tyaḥ ǀ índraḥ ǀ mā́-vate ǀ náre ǀ
víśvāsu ǀ dhūḥ-sú ǀ vāja-kṛ́tyeṣu ǀ sat-pate ǀ vṛtré ǀ vā ǀ ap-sú ǀ abhí ǀ śūra ǀ mandase ǁsaḥ ǀ cit ǀ nu ǀ sakhyā ǀ naryaḥ ǀ inaḥ ǀ stutaḥ ǀ carkṛtyaḥ ǀ indraḥ ǀ mā-vate ǀ nare ǀ
viśvāsu ǀ dhūḥ-su ǀ vāja-kṛtyeṣu ǀ sat-pate ǀ vṛtre ǀ vā ǀ ap-su ǀ abhi ǀ śūra ǀ mandase ǁ10.50.2 Aṣṭaka 8.1.9.2Anuvāka 10.4.76
-
Ṛk 3
के ते नर॑ इंद्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् ।
के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यम् इयक्षान् |
के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ||ké té nára indra yé ta iṣé yé te sumnám sadhanyámíyakṣān ǀ
ké te vā́jāyāsuryā́ya hinvire ké apsú svā́sūrvárāsu páuṃsye ǁke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān |
ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṃsye ||के । ते । नरः॑ । इ॒न्द्र॒ । ये । ते॒ । इ॒षे । ये । ते॒ । सु॒म्नम् । स॒ऽध॒न्य॑म् । इय॑क्षान् ।
के । ते॒ । वाजा॑य । अ॒सु॒र्या॑य । हि॒न्वि॒रे॒ । के । अ॒प्ऽसु । स्वासु॑ । उ॒र्वरा॑सु । पौंस्ये॑ ॥के । ते । नरः । इन्द्र । ये । ते । इषे । ये । ते । सुम्नम् । सऽधन्यम् । इयक्षान् ।
के । ते । वाजाय । असुर्याय । हिन्विरे । के । अप्ऽसु । स्वासु । उर्वरासु । पौंस्ये ॥ké ǀ té ǀ náraḥ ǀ indra ǀ yé ǀ te ǀ iṣé ǀ yé ǀ te ǀ sumnám ǀ sa-dhanyám ǀ íyakṣān ǀ
ké ǀ te ǀ vā́jāya ǀ asuryā́ya ǀ hinvire ǀ ké ǀ ap-sú ǀ svā́su ǀ urvárāsu ǀ páuṃsye ǁke ǀ te ǀ naraḥ ǀ indra ǀ ye ǀ te ǀ iṣe ǀ ye ǀ te ǀ sumnam ǀ sa-dhanyam ǀ iyakṣān ǀ
ke ǀ te ǀ vājāya ǀ asuryāya ǀ hinvire ǀ ke ǀ ap-su ǀ svāsu ǀ urvarāsu ǀ pauṃsye ǁ10.50.3 Aṣṭaka 8.1.9.3Anuvāka 10.4.77
-
Ṛk 4
भुव॒स्त्वमिं॑द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ ।
भुवो॒ नॄंश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मंत्रो॑ विश्वचर्षणे ॥भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः |
भुवो नॄंश् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रो विश्वचर्षणे ||bhúvastvámindra bráhmaṇā mahā́nbhúvo víśveṣu sávaneṣu yajñíyaḥ ǀ
bhúvo nṝ́ṃścyautnó víśvasminbháre jyéṣṭhaśca mántro viśvacarṣaṇe ǁbhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ |
bhuvo nṝṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe ||भुवः॑ । त्वम् । इ॒न्द्र॒ । ब्रह्म॑णा । म॒हान् । भुवः॑ । विश्वे॑षु । सव॑नेषु । य॒ज्ञियः॑ ।
भुवः॑ । नॄन् । च्यौ॒त्नः । विश्व॑स्मिन् । भरे॑ । ज्येष्ठः॑ । च॒ । मन्त्रः॑ । वि॒श्व॒ऽच॒र्ष॒णे॒ ॥भुवः । त्वम् । इन्द्र । ब्रह्मणा । महान् । भुवः । विश्वेषु । सवनेषु । यज्ञियः ।
भुवः । नॄन् । च्यौत्नः । विश्वस्मिन् । भरे । ज्येष्ठः । च । मन्त्रः । विश्वऽचर्षणे ॥bhúvaḥ ǀ tvám ǀ indra ǀ bráhmaṇā ǀ mahā́n ǀ bhúvaḥ ǀ víśveṣu ǀ sávaneṣu ǀ yajñíyaḥ ǀ
bhúvaḥ ǀ nṝ́n ǀ cyautnáḥ ǀ víśvasmin ǀ bháre ǀ jyéṣṭhaḥ ǀ ca ǀ mántraḥ ǀ viśva-carṣaṇe ǁbhuvaḥ ǀ tvam ǀ indra ǀ brahmaṇā ǀ mahān ǀ bhuvaḥ ǀ viśveṣu ǀ savaneṣu ǀ yajñiyaḥ ǀ
bhuvaḥ ǀ nṝn ǀ cyautnaḥ ǀ viśvasmin ǀ bhare ǀ jyeṣṭhaḥ ǀ ca ǀ mantraḥ ǀ viśva-carṣaṇe ǁ10.50.4 Aṣṭaka 8.1.9.4Anuvāka 10.4.78
-
Ṛk 5
अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः ।
असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥अवा नु कं ज्यायान् यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः |
असो नु कम् अजरो वर्धाश् च विश्वेद् एता सवना तूतुमा कृषे ||ávā nú kam jyā́yānyajñávanaso mahī́m ta ómātrām kṛṣṭáyo viduḥ ǀ
áso nú kamajáro várdhāśca víśvédetā́ sávanā tūtumā́ kṛṣe ǁavā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃ kṛṣṭayo viduḥ |
aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe ||अव॑ । नु । क॒म् । ज्याया॑न् । य॒ज्ञऽव॑नसः । म॒हीम् । ते॒ । ओमा॑त्राम् । कृ॒ष्टयः॑ । वि॒दुः॒ ।
असः॑ । नु । क॒म् । अ॒जरः॑ । वर्धाः॑ । च॒ । विश्वा॑ । इत् । ए॒ता । सव॑ना । तू॒तु॒मा । कृ॒षे॒ ॥अव । नु । कम् । ज्यायान् । यज्ञऽवनसः । महीम् । ते । ओमात्राम् । कृष्टयः । विदुः ।
असः । नु । कम् । अजरः । वर्धाः । च । विश्वा । इत् । एता । सवना । तूतुमा । कृषे ॥áva ǀ nú ǀ kam ǀ jyā́yān ǀ yajñá-vanasaḥ ǀ mahī́m ǀ te ǀ ómātrām ǀ kṛṣṭáyaḥ ǀ viduḥ ǀ
ásaḥ ǀ nú ǀ kam ǀ ajáraḥ ǀ várdhāḥ ǀ ca ǀ víśvā ǀ ít ǀ etā́ ǀ sávanā ǀ tūtumā́ ǀ kṛṣe ǁava ǀ nu ǀ kam ǀ jyāyān ǀ yajña-vanasaḥ ǀ mahīm ǀ te ǀ omātrām ǀ kṛṣṭayaḥ ǀ viduḥ ǀ
asaḥ ǀ nu ǀ kam ǀ ajaraḥ ǀ vardhāḥ ǀ ca ǀ viśvā ǀ it ǀ etā ǀ savanā ǀ tūtumā ǀ kṛṣe ǁ10.50.5 Aṣṭaka 8.1.9.5Anuvāka 10.4.79
-
Ṛk 6
ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे ।
वरा॑य ते॒ पात्रं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मंत्रो॒ ब्रह्मोद्य॑तं॒ वचः॑ ॥एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे |
वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ||etā́ víśvā sávanā tūtumā́ kṛṣe svayám sūno sahaso yā́ni dadhiṣé ǀ
várāya te pā́tram dhármaṇe tánā yajñó mántro bráhmódyatam vácaḥ ǁetā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe |
varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ ||ए॒ता । विश्वा॑ । सव॑ना । तू॒तु॒मा । कृ॒षे॒ । स्व॒यम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यानि॑ । द॒धि॒षे ।
वरा॑य । ते॒ । पात्र॑म् । धर्म॑णे । तना॑ । य॒ज्ञः । मन्त्रः॑ । ब्रह्म॑ । उत्ऽय॑तम् । वचः॑ ॥एता । विश्वा । सवना । तूतुमा । कृषे । स्वयम् । सूनो इति । सहसः । यानि । दधिषे ।
वराय । ते । पात्रम् । धर्मणे । तना । यज्ञः । मन्त्रः । ब्रह्म । उत्ऽयतम् । वचः ॥etā́ ǀ víśvā ǀ sávanā ǀ tūtumā́ ǀ kṛṣe ǀ svayám ǀ sūno íti ǀ sahasaḥ ǀ yā́ni ǀ dadhiṣé ǀ
várāya ǀ te ǀ pā́tram ǀ dhármaṇe ǀ tánā ǀ yajñáḥ ǀ mántraḥ ǀ bráhma ǀ út-yatam ǀ vácaḥ ǁetā ǀ viśvā ǀ savanā ǀ tūtumā ǀ kṛṣe ǀ svayam ǀ sūno iti ǀ sahasaḥ ǀ yāni ǀ dadhiṣe ǀ
varāya ǀ te ǀ pātram ǀ dharmaṇe ǀ tanā ǀ yajñaḥ ǀ mantraḥ ǀ brahma ǀ ut-yatam ǀ vacaḥ ǁ10.50.6 Aṣṭaka 8.1.9.6Anuvāka 10.4.80
-
Ṛk 7
ये ते॑ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू॑नां च॒ वसु॑नश्च दा॒वने॑ ।
प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे॑ सु॒तस्य॑ सो॒म्यस्यांध॑सः ॥ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश् च दावने |
प्र ते सुम्नस्य मनसा पथा भुवन् मदे सुतस्य सोम्यस्यान्धसः ||yé te vipra brahmakṛ́taḥ suté sácā vásūnām ca vásunaśca dāváne ǀ
prá té sumnásya mánasā pathā́ bhuvanmáde sutásya somyásyā́ndhasaḥ ǁye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane |
pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ ||ये । ते॒ । वि॒प्र॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । वसू॑नाम् । च॒ । वसु॑नः । च॒ । दा॒वने॑ ।
प्र । ते । सु॒म्नस्य॑ । मन॑सा । प॒था । भु॒व॒न् । मदे॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः ॥ये । ते । विप्र । ब्रह्मऽकृतः । सुते । सचा । वसूनाम् । च । वसुनः । च । दावने ।
प्र । ते । सुम्नस्य । मनसा । पथा । भुवन् । मदे । सुतस्य । सोम्यस्य । अन्धसः ॥yé ǀ te ǀ vipra ǀ brahma-kṛ́taḥ ǀ suté ǀ sácā ǀ vásūnām ǀ ca ǀ vásunaḥ ǀ ca ǀ dāváne ǀ
prá ǀ té ǀ sumnásya ǀ mánasā ǀ pathā́ ǀ bhuvan ǀ máde ǀ sutásya ǀ somyásya ǀ ándhasaḥ ǁye ǀ te ǀ vipra ǀ brahma-kṛtaḥ ǀ sute ǀ sacā ǀ vasūnām ǀ ca ǀ vasunaḥ ǀ ca ǀ dāvane ǀ
pra ǀ te ǀ sumnasya ǀ manasā ǀ pathā ǀ bhuvan ǀ made ǀ sutasya ǀ somyasya ǀ andhasaḥ ǁ10.50.7 Aṣṭaka 8.1.9.7Anuvāka 10.4.81
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.