Ṛgveda · Maṇḍala 10 · Sūkta 50

Ṛk 10.50.7

Indra · Indra Vaikuṇṭha

The whole sūkta Link

Saṃhitā

ये ते॑ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू॑नां च॒ वसु॑नश्च दा॒वने॑ ।
प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे॑ सु॒तस्य॑ सो॒म्यस्यांध॑सः ॥

ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश् च दावने |
प्र ते सुम्नस्य मनसा पथा भुवन् मदे सुतस्य सोम्यस्यान्धसः ||

yé te vipra brahmakṛ́taḥ suté sácā vásūnām ca vásunaśca dāváne ǀ
prá té sumnásya mánasā pathā́ bhuvanmáde sutásya somyásyā́ndhasaḥ ǁ

ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane |
pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ ||

Padapāṭha

ये । ते॒ । वि॒प्र॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । वसू॑नाम् । च॒ । वसु॑नः । च॒ । दा॒वने॑ ।
प्र । ते । सु॒म्नस्य॑ । मन॑सा । प॒था । भु॒व॒न् । मदे॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः ॥

ये । ते । विप्र । ब्रह्मऽकृतः । सुते । सचा । वसूनाम् । च । वसुनः । च । दावने ।
प्र । ते । सुम्नस्य । मनसा । पथा । भुवन् । मदे । सुतस्य । सोम्यस्य । अन्धसः ॥

yé ǀ te ǀ vipra ǀ brahma-kṛ́taḥ ǀ suté ǀ sácā ǀ vásūnām ǀ ca ǀ vásunaḥ ǀ ca ǀ dāváne ǀ
prá ǀ té ǀ sumnásya ǀ mánasā ǀ pathā́ ǀ bhuvan ǀ máde ǀ sutásya ǀ somyásya ǀ ándhasaḥ ǁ

ye ǀ te ǀ vipra ǀ brahma-kṛtaḥ ǀ sute ǀ sacā ǀ vasūnām ǀ ca ǀ vasunaḥ ǀ ca ǀ dāvane ǀ
pra ǀ te ǀ sumnasya ǀ manasā ǀ pathā ǀ bhuvan ǀ made ǀ sutasya ǀ somyasya ǀ andhasaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.050.07
Aṣṭaka · Adhyāya · Varga · Ṛk
8.1.09.07
Maṇḍala · Anuvāka · Ṛk
10.04.081
Devatā देवता
Indra
Ṛṣi ऋषि
Indra Vaikuṇṭha
Chandas छन्दस्
Jagatī, Abhisāriṇī, Triṣṭubh
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.50.7

Interpretations

Sāyaṇa

हे विप्र मेधाविन्निन्द्र ते तुभ्यं ये ब्रह्मकृतः स्तोत्रकृतो हविष्कर्तारो वा स्तोतारः सचा सङ्घीभूताः सुते सोमेऽभिषुते वसूनां बहूनां धनानां वसुनश्चैकस्य निवासयोग्यस्य धनस्य च दावने दानाय परिचरन्तीति शेशः। अत्र वसूनामिति बहुवचनेनैहिकभोगसाधनानि धनान्यभिप्रेतानि। एकवचनान्तेन च निवाअयोग्यं स्वर्गाख्यं धनमभिप्रेतमित्यवगन्तव्यम्। तेऽनुष्थातारः सुम्नस्य सुखस्य लाभाय मनसा पथा मनोमार्गेण। स्तोत्रवर्त्मनेत्यर्थः। प्र भुवन्। प्रभवन्तु। उक्तवसुदानाय योग्या भवन्त्वित्यर्थः। कदेति उच्यते। सुतस्याभिषुतस्य सोम्यस्य सोमसम्बन्धिनोऽन्धसोऽन्नस्य मदे सति॥७॥